摩诃婆罗多 · 章 7.96
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.96.1
राजन्सङ्ग्राममाश्चर्यं शृणु कीर्तयतो मम ।
कुरूणां पाण्डवानां च यथा युद्धमवर्तत ॥ ७.९६.१ ॥
大王啊,请听我叙述库鲁族与般度之子之间那场奇异的战争,它是如何进行的。
7.96.2
भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम् ।
अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः ॥ ७.९६.२ ॥
般度之子们来到站在阵前的婆罗堕遮(德罗纳)面前,想要冲破德罗纳的军队,在战场上与之作战。
7.96.3
रक्षमाणः स्वथं व्यूहं द्रोणोऽपि सह सैनिकैः ।
अयोधयद्रणे पार्थान्प्रार्थयानो महद्यशः ॥ ७.९६.३ ॥
德罗纳也守护着阵形,渴望伟大的名声,与他的士兵一起在战场上与般度之子们作战。
7.96.4
विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः ।
अयोधयद्रणे पार्थान्प्रार्थयानो महद्यशः ॥ ७.९६.४ ॥
阿万提的两位王子毗湿陀与阿努毗湿陀以十支箭射向毗罗吒,渴望伟大的名声,在战场上与般度之子们作战。
7.96.5
विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः ।
पराक्रान्तौ पराक्रम्य योधयामास सानुगौ ॥ ७.९६.५ ॥
阿万提的两位王子毗湿陀与阿努毗湿陀以十支箭勇猛进击,施展威力,与他们的部众一起与毗罗吒作战。
7.96.6
तेषां युद्धं समभवद्दारुणं शोणितोदकम् ।
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ॥ ७.९६.६ ॥
他们的战斗变得异常惨烈,鲜血如水流淌,犹如狮子在森林中与两头发情的雄象搏斗。
7.96.7
बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः ।
आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः ॥ ७.९६.७ ॥
强大的药祭之子在战斗中猛烈射击跋离迦,以锐利可怖的箭矢刺穿要害与骨骼。
7.96.8
बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः ।
आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः ॥ ७.९६.८ ॥
然而跋离迦愤怒地用九支带金羽、在石上磨砺、节部弯曲的箭猛烈射击药祭之子。
7.96.9
तद्युद्धमभवद्धोरं शरशक्तिसमाकुलम् ।
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥ ७.९६.९ ॥
那场战斗充满箭矢与投枪,变得可怖;它使怯懦者恐惧,使勇士更加欢喜。
7.96.10
ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा ।
अभवत्संवृतं सर्वं न प्राज्ञायत किञ्चन ॥ ७.९६.१० ॥
他们在那里射出的箭矢遮蔽了天空与四方,一切都被掩盖,无法辨认任何事物。
7.96.11
शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम् ।
ससैन्यो योधयामास गजः प्रतिगजं यथा ॥ ७.९६.११ ॥
在战斗中,诗婆耶·郭婆桑与其军队,像一头象对另一头象那样,与迦叶波之子、大车将交战。
7.96.12
बाह्लीकराजः सङ्क्रुद्धो द्रौपदेयान्महारथान् ।
मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे ॥ ७.९६.१२ ॥
跋离迦王极为愤怒,在战场上与德罗波底之子诸大车将交战,光彩犹如意识在五根之中照耀。
7.96.13
अयोधयंस्ते सुभृशं तं शरौघैः समन्ततः ।
इन्द्रियाणि यथा देहं शश्वद्देहवतां वर ॥ ७.९६.१३ ॥
他们用箭雨从四面八方猛烈地攻击他,正如感官始终环绕着有形体众生的身体,啊,最好的人。
7.96.14
वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव ।
आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ॥ ७.९६.१४ ॥
你的儿子难降在战斗中以九支锋利、带弯曲箭头的箭射中了毗湿尼族的萨谛奇。
7.96.15
सोऽतिविद्धो बलवता महेष्वासेन धन्विना ।
ईषन्मूर्च्छां जगामाशु सात्यकिः सत्यविक्रमः ॥ ७.९६.१५ ॥
被那位强大的大弓箭手的箭重重射中,真勇的萨谛奇很快便有些昏厥。
7.96.16
समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम् ।
विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः ॥ ७.९६.१६ ॥
萨谛奇恢复精神后,迅速用十支饰有鹤羽的箭射中了你的大车战士之子。
7.96.17
तावन्योन्यं दृढं विद्धावन्योन्यशरपीडितौ ।
रजेतुः समरे राजन्पुष्पिताविव किंशुकौ ॥ ७.९६.१७ ॥
二人被对方的箭紧紧射中、彼此折磨,在战场上闪耀,啊,国王,如同两棵开花的金舍树。
7.96.18
अलम्बुसस्तु सङ्क्रुद्धः कृन्तिभोजशरार्दितः ।
अशोभत भृशं लक्ष्म्या पुष्पाढ्य इव किंशुकः ॥ ७.९६.१८ ॥
然而,愤怒的阿兰布沙被克利提菩阇的箭所伤,以光彩大放光芒,如同满树繁花的金舍树。
7.96.19
कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः ।
अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव ॥ ७.९६.१९ ॥
于是罗刹以众多铁箭射中贡提菩阇,在你军的前阵发出可怖的吼声。
7.96.20
ततस्तौ समरे शूरौ योधयन्तौ परस्परम् ।
ददृशुः सर्वसैन्यानि शक्रजम्भौ यथा पुरा ॥ ७.९६.२० ॥
于是一切军队看见那两位英雄在战斗中相互搏杀,正如往昔人们所见的因陀罗与阇婆。
7.96.21
शकुनिं रभसं युद्धे कृतवैरं च भारत ।
माद्रीपुत्रौ च संरब्धौ शरैश्चार्दयतां भृशम् ॥ ७.९६.२१ ॥
婆罗多啊!摩德利的两个儿子愤怒地以箭猛烈攻击心怀敌意的沙恭尼。
7.96.22
तुमुलः स महान्राजन्प्रावर्तत जनक्षयः ।
त्वया सञ्जनितोऽत्यर्थं कर्णेन च विवर्धितः ॥ ७.९६.२२ ॥
大王啊,那场由你极力挑起、又经迦尔纳扩大的惨烈大规模杀戮爆发了。
7.96.23
रक्षितस्तव पुत्रैश्च क्रोधमूलो हुताशनः ।
य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः ॥ ७.९६.२३ ॥
大王啊,那以愤怒为根、受你儿子们护佑的火,已准备焚烧整个大地。
7.96.24
शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः ।
न स्म जानाति कर्तव्यं युद्धे किञ्चित्पराक्रमम् ॥ ७.९६.२४ ॥
般度之子以箭使沙恭尼转身败退;他在战斗中甚至不知道该展现怎样的勇武。
7.96.25
विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ ।
ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम् ॥ ७.९६.२५ ॥
二位摩德利之子的大车武士见他转身败退,便再次向他射出箭雨,如同两朵乌云倾洒在大山之上。
7.96.26
स वध्यमानो बहुभिः शरैः सन्नतपर्वभिः ।
सम्प्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः ॥ ७.९६.२६ ॥
这位苏巴拉之子沙古尼被众多弯曲节杆的箭射中,驾着疾驰的马匹朝德罗纳的军队驰去。
7.96.27
घटोत्कचस्तथा शूरं राक्षसं तमलामुधम् ।
अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम् ॥ ७.९६.२७ ॥
同样,迦陀迦查在战斗中猛烈地冲向那位英勇的罗刹阿拉尤陀,采取了中等的速度。
7.96.28
तयोर्युद्धं महाराज चित्ररूपमिवाभवत् ।
यादृशं हि पुरावृत्तं रामरावणयोर्मृधे ॥ ७.९६.२८ ॥
大王啊,他们二人的战斗变得形态奇异,正如往昔罗摩与罗波那之间的那场战斗。
7.96.29
ततो युधिष्ठिरो राजा मद्रराजानमाहवे ।
विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः ॥ ७.९६.२९ ॥
接着,国王坚战在战场上以五十支箭射中摩德罗王,随后又以七支箭再次射中他。
7.96.30
ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप ।
यथा पूर्वं महद्युद्धं शम्बरामरराजयोः ॥ ७.९६.३० ॥
于是,大王啊,两人之间展开了极为奇妙的战斗,正如往昔商跋罗与众神之王之间的那场大战。
7.96.31
विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः ।
अयोधयन्भीमसेनं महत्या सेनया वृताः ॥ ७.९६.३१ ॥
毗温舍提、citrasena 和你的儿子毗迦尔纳,被大军包围,与毗摩森那交战。