摩诃婆罗多 · 章 7.97
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.97.1
तथा तस्मिन्प्रवृत्ते तु सङ्ग्रमे रोमहर्षणे ।
कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन् ॥ ७.९७.१ ॥
当这场令人毛骨悚然的战斗如此开始时,般度之子攻击了分成三股的俱卢族人。
7.97.2
जलसन्धं महाबाहुं भीमसेनोऽभ्यवर्तत ।
युधिष्ठिरः सहानीकः कृतवर्माणमाहवे ॥ ७.९७.२ ॥
毗摩先那向大臂的胜车发起进攻;坚战率军在战场上向胜铠进发。
7.97.3
किरंस्तु शरवर्षाणि रोचमान इवांशुमान् ।
धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे ॥ ७.९७.३ ॥
大王啊,持明如太阳般闪耀,倾泻箭雨,在战场上冲向德罗纳。
7.97.4
ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम् ।
कुरूणां पाण्डवानां च सङ्क्रुद्धानां परस्परम् ॥ ७.९७.४ ॥
于是俱卢与般度两族之间的战斗开始了,所有弓箭手急速冲杀,彼此怒火中烧。
7.97.5
सङ्क्षये तु तथाभूते वर्तमाने महाभये ।
द्वन्दवीभूतेषु सैन्येषु युध्यमानेष्वभीतवत् ॥ ७.९७.५ ॥
在如此可怕的杀戮持续进行时,两军成对厮杀,仿佛毫无畏惧。
7.97.6
द्रोणः पाञ्चालपुत्रेण बली बलवता सह ।
यदक्षिपत्पृषत्कौघांस्तदद्भुतमिवाभवत् ॥ ७.९७.६ ॥
勇猛的德罗纳向勇猛的般遮罗之子射出的箭流,令人惊叹不已。
7.97.7
पुण्डरीकवनानीव विध्वस्तानि समन्ततः ।
चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः ॥ ७.९७.७ ॥
如同四面被踏毁的莲花林,德罗纳与般遮罗王子斩下了无数人的头颅。
7.97.8
विनिकीर्णानि वीराणामनीकेषु समन्ततः ।
वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च ॥ ७.९७.८ ॥
在英雄们的军队中,四面散落着衣物、饰物、兵器、旗帜、铠甲与武器。
7.97.9
तपनीयतनुत्राणाः संसिक्ता रुधिरेण च ।
कोविदारा इवाभान्ति पुष्पितास्तत्र भारत।
तावकाः समरे योधाः पाण्डवेयाश्च विक्षताः ॥ ७.९७.९ ॥
身披金甲、浴血的他们在那里如盛开的科维达罗树般闪耀。婆罗多啊,战场上你的战士与般度之子都已受伤。
7.97.10
कुञ्जराश्वनरान्ये पातयन्ति स्म पत्रिभिः ।
तालमात्राणि चापानि विकर्षन्तो महारथाः ॥ ७.९७.१० ॥
拉开如棕榈般高大的弓,大车将军们以箭射倒象、马与人。
7.97.11
असिचर्माणि चापानि शिरांशि कवचानि च ।
विप्रकीर्यन्त शूराणां सम्प्रहारे महात्मनाम् ॥ ७.९७.११ ॥
在那些大丈夫英雄的激战中,刀剑、盾牌、弓、头颅与铠甲四散飞落。
7.97.12
उत्थितान्यगणेयानि कबन्धानि समन्ततः ।
अदृश्यन्त महाराज तस्मिन्परमसङ्कुले ॥ ७.९७.१२ ॥
大王啊,在那最为拥挤的战场上,四面可见无数无头的躯干挺立。
7.97.13
गृध्राः कङ्का बकाः श्येना वायसा जम्बुकास्तथा ।
बहुशः पिशिताशाश्च तत्रादृश्यन्त मारिष ॥ ७.९७.१३ ॥
秃鹫、羯迦鸟、鹭、鹰、乌鸦和豺狼,许多食肉者在那里可见,哦尊者。
7.97.14
भक्षयन्तश्च मांसानि पिबन्तश्चापि शोणितम् ।
विलुम्पमानाः केशांश्च मज्जाश्च बहुधा नृप ॥ ७.९७.१४ ॥
吞食血肉,也饮着鲜血,并以多种方式撕扯毛发与骨髓,哦国王。
7.97.15
आकर्षन्तः शरीराणि शरीरावयवांस्तथा ।
नराश्वगजसङ्घानां शिरांशि च ततस्ततः ॥ ७.९७.१५ ॥
拖拽尸体与肢体,也到处拖拽成群的人、马与象的头颅。
7.97.16
कृतास्त्रा रणशिक्षाभिर्दीक्षिता रणशालिनः ।
रणे जयं प्रार्थयाना भृशं युयुधिरे तदा ॥ ७.९७.१६ ॥
精通武艺,受过战阵训练的洗礼,以战斗为荣,在战场上渴望胜利,他们当时激烈地战斗。
7.97.17
असिमार्गान्बहुविधान्विचेरुः सैनिका रणे ।
ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टसैः ॥ ७.९७.१७ ॥
战场上,士兵们以多种剑法往来奔走,手持矛、枪、投枪、三叉戟、铁镖与阔剑。
7.97.18
गदाभिः परिघैश्चान्यैरायुधैश्च भुजैरपि ।
अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गता नराः ॥ ७.९७.१८ ॥
他们以棍棒、铁杵和其他兵器,甚至以双臂,相互击打;这些进入战场的愤怒之人。
7.97.19
रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः ।
मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः ॥ ७.९७.१९ ॥
战车兵与战车兵相斗,骑兵与骑兵相斗,象兵与良象相斗,步兵与步兵相斗。
7.97.20
क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च वारणाः ।
उच्चुक्रुशुरथान्योन्यं जघ्नुरन्योन्यमेव च ॥ ७.९७.२० ॥
其他象如醉如狂,仿佛在角斗场中,嘶吼并相互撞击。
7.97.21
वर्तमाने तथा युद्धे निर्मर्यादे विशाम्पते ।
धृष्टद्युम्नो हयानश्चैर्द्रोणस्य व्यत्यमिश्रयत् ॥ ७.९७.२१ ॥
人主啊,在这样毫无界限的战斗中,德里什塔迪尤姆纳把德罗纳的马混入了其他马群之中。
7.97.22
ते हयाः साध्वशोभन्त मिश्रिता वातरंहसः ।
पारावतसवर्णाश्च रक्तशोणाश्च संयुगे ॥ ७.९७.२२ ॥
那些疾如风的马,鸽灰色与赤红色相杂,在战场上混杂一起,光彩夺目。
7.97.23
पारावतसवर्णास्ते रक्तशोणविमिश्रिताः ।
हयाः शुशुभिरे राजन्मेघा इव सविद्युतः ॥ ७.९७.२३ ॥
国王啊,那些鸽灰色的马混杂着赤红,闪耀如同闪电交织的云朵。
7.97.24
धृष्टद्युम्नस्तु सम्प्रेक्ष्य द्रोणमभ्याशमागतम् ।
असिचर्माददे वीरो धनुरुत्सृज्य भारत ॥ ७.९७.२४ ॥
但德里什塔迪尤姆纳见德罗纳走近,婆罗多啊,英雄便放下弓,拿起刀与盾。
7.97.25
चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा ।
ईषायाः समतिक्रम्य द्रोणस्य रथमाविशत् ॥ ७.९७.२५ ॥
欲行艰难之事的般遮罗之子、杀敌英雄者,越过车辕,登上了德罗纳的战车。
7.97.26
अतिष्ठद्युगमध्ये स युगसन्नहनेषु च ।
जघनार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन् ॥ ७.९७.२६ ॥
他站在轭的中央、轭的系带上,以及马的臀部上;军队都向他致敬。
7.97.27
खङ्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः ।
न ददार्शान्तरं द्रोणस्तदद्भुतमिवाभवत् ॥ ७.९७.२७ ॥
他手持宝剑来回移动,立于赤马之上,德罗纳在他身上找不到任何空隙;那情景仿佛奇迹。
7.97.28
यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः ।
तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः ॥ ७.९७.२८ ॥
如同林中贪求肉食的鹰隼俯冲而下,他冲向德罗纳,欲将其杀死。
7.97.29
ततः शरशतेनास्य शतचन्द्रं समाक्षिपत् ।
द्रोणो द्रुपद पुत्रस्य खङ्गं च दशभिः शरैः ॥ ७.९७.२९ ॥
于是德罗纳以百箭击落他的“百月”盾,又以十箭击落般遮罗王子的剑。
7.97.30
हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली ।
ध्वजं छत्रं च भल्लाभ्यां तथा तौ पार्ष्णिसारथी ॥ ७.९७.३० ॥
强大的德罗纳以六十四支箭射中马匹,以两支钹形箭射中旗幡与华盖;同样也射中了那两人,即后方的护卫与御者。
7.97.31
अथास्मै त्वरितो बाणमपरं जीवितान्तकम् ।
धृष्टद्युम्नाय चिक्षेप वज्रं वज्रधरो यथा ॥ ७.९७.३१ ॥
于是他迅速向他射出另一支致命的箭,如持金刚者投掷金刚杵击向德里斯塔德尤姆纳一般。
7.97.32
तं चतुर्दशभिस्तीक्ष्णैर्बाणैश्चिच्छेद सात्यकिः ।
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नं व्यमोचयत् ॥ ७.९७.३२ ॥
萨提亚基以十四支利箭射断那支箭,并解救了被最杰出的师长(德罗纳)擒住的德里斯塔德尤姆纳。
7.97.33
सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष ।
द्रोणाद्वै मोचयामास पाञ्चाल्यं शिनिपुङ्गवः ॥ ७.९७.३३ ॥
尊者啊,犹如被狮子捉住的鹿被救出,那人中之狮、Śini族的雄牛,从德罗纳手中救出了般遮罗王子。
7.97.34
सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यं च महाहवे ।
शराणां त्वरितो द्रोणः षड्विंशत्या समार्पयत् ॥ ७.९७.३४ ॥
德罗纳在大战中看见萨提亚基与般遮罗王子的护卫者,便迅速射出二十六支箭。
7.97.35
ततो द्रोणं शिनेः पौत्रो ग्रसन्तमपि सृञ्जयान् ।
प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे ॥ ७.९७.३५ ॥
于是希尼之孙(萨提亚基)反击正在吞噬苏尼耶人的德罗纳,以二十六支利箭射中他的胸膛。
7.97.36
ततः सर्वे रथास्तूर्णं पाञ्चाल्या जयगृद्धिनः ।
सात्वताभिसृते द्रोणे धृष्टद्युम्नमवाक्षिपन् ॥ ७.९७.३६ ॥
于是渴望胜利的般遮罗人所有战车迅速冲向德里斯塔德尤姆纳,此时萨特瓦塔(萨提亚基)正逼近德罗纳。