Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.10.1

ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम् ।
जघान समरे शूरः सन्नतपर्वभिः ॥ ८.१०.१ ॥

于是大弓箭手迦尔纳在战场上击杀了般度之子的军队,那位勇士以笔直的箭杆之箭如此行事。

8.10.2

तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम् ।
कर्णस्य प्रमुखे क्रुद्धा निजघ्नुस्ते महारथाः ॥ ८.१०.२ ॥

大王啊,同样地,般度的大战车勇士们愤怒地在迦尔纳面前击杀了你儿子的军队。

8.10.3

कर्णोऽपि राजन्समरे व्यहनत्पाण्डवीं चमूम् ।
नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः ॥ ८.१०.३ ॥

大王啊,迦尔纳也在战场上冲散了般度的军队,以如阳光般闪耀、由工匠磨亮的铁箭。

8.10.4

तत्र भारत कर्णेन नाराचैस्ताडिता गजाः ।
नेदुः सेदुश्च मम्लुश्च बभ्रुमुश्च दिशो दश ॥ ८.१०.४ ॥

婆罗多的后裔啊,那里被迦尔纳的铁箭射中的大象发出吼叫,倒下,疲惫,在十方四处踉跄。

8.10.5

वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष ।
नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे ॥ ८.१०.५ ॥

尊者啊,当那支军队被御者之子击杀时,无种在大战中迅速冲向御者之子。

8.10.6

भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम् ।
विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत् ॥ ८.१०.६ ॥

同样,毗摩森那拦住了正在完成艰难功业的德罗纳之子;萨迪亚奇拦住了迦迦耶王子文达与阿努文达。

8.10.7

श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः ।
प्रतिविन्ध्यस्तथा चित्रं चित्रकेतनकार्मुकम् ॥ ८.१०.७ ॥

当室卢多羯摩前来时,国王持军与同样的普罗提文底耶阻挡了那持彩旗之弓的旃陀罗。

8.10.8

दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम् ।
संशप्तकगणा हृष्टा ह्यभ्यधावन्धनञ्जयम् ॥ ८.१०.८ ॥

难敌则奔向法之子国王坚战,而三十人众的队伍欢喜地冲向持财者阿周那。

8.10.9

धृष्टद्युम्नः कृपं चापि तस्मिन्वीरवरक्षये ।
शिखण्डी कृतवर्माणं समासादयदच्युतम् ॥ ८.१०.९ ॥

在那群英雄覆灭的战场上,猛光迎战慈悲,尸替迎战不坏的功成甲。

8.10.10

श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव ।
दुःशासनं महाराज सहदेवः प्रतापवान् ॥ ८.१०.१० ॥

室卢多羯提迎战沙利耶;摩德罗之子、勇武的萨诃提婆,大王啊,迎战你的儿子难降。

8.10.11

कैकेयौ सात्यकिं युद्धे शरवर्षेण भास्वता ।
सात्यकिः केकयौ चापि च्छादयामास भारत ॥ ८.१०.११ ॥

两位迦叶王子在战斗中以明亮的箭雨遮蔽了萨提亚吉;婆罗多啊,萨提亚吉也遮蔽了迦叶人。

8.10.12

तावेनं भ्रातरौ वीरौ जघ्नतुर्हृदये भृशम् ।
विषाणाभ्यां यथा नागौ प्रतिनागं महावने ॥ ८.१०.१२ ॥

那两位英勇的兄弟猛烈地击中他的胸膛,恰如两头大象在大森林中以象牙刺向对方的象。

8.10.13

शरसम्बिन्नवर्माणौ तावुभौ भ्रातरौ रणे ।
सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः ॥ ८.१०.१३ ॥

那两位兄弟铠甲被箭射穿,在战场上,大王啊,用箭射向行事真实的萨提亚基。

8.10.14

तौ सात्यकिर्महाराज प्रहसन्सर्वतोदिशः ।
छादयञ्छरवर्षेण वारयामास भारत ॥ ८.१०.१४ ॥

萨提亚基笑着,以箭雨从四面八方遮蔽他们,阻挡了二人,大王啊,婆罗多啊。

8.10.15

वार्यमाणौ ततस्तौ हि शैनेयशरवृष्टिभिः ।
शैनेयस्य रथं तूर्णं छादयामासतुः शरैः ॥ ८.१०.१५ ॥

虽被萨提亚基的箭雨所阻,二人迅速用箭遮蔽了萨提亚基的战车。

8.10.16

तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महायशाः ।
अथ तौ सायकैस्तीक्ष्णैर्वारयामास सात्यकिः ॥ ८.१०.१६ ॥

大名鼎鼎的舍利(克里希纳)斩断了二人的华美弓;随后萨提亚基以锐利的箭阻挡了二人。

8.10.17

अथान्ये धनुषी चित्रे प्रगृह्य च महाशरान् ।
सात्यकिं छादयन्तौ तौ चेरतुर्लघु सुष्ठु च ॥ ८.१०.१७ ॥

随后,二人拿起另外的华美弓和大箭,遮蔽萨提亚基,动作极为轻快敏捷。

8.10.18

ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः ।
द्योतयन्तो दिशः सर्वाः सम्पेतुः स्वर्णभूषणाः ॥ ८.१०.१८ ॥

二人射出的大箭,饰以鹭鸶与孔雀羽毛,镶以金饰,照亮四面八方,一齐飞去。

8.10.19

बाणान्धकारमभवत्तयो राजन्महामृधे ।
अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः ॥ ८.१०.१९ ॥

大王啊,在那场大战中,两人的箭雨遮天蔽日,那些大战车武士也彼此斩断了对方的弓。

8.10.20

ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः ।
धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे ॥ ८.१०.२० ॥

大王啊,那沉醉于战斗的萨特瓦塔(萨提亚基)愤怒起来,他取过另一把弓,拉好弦……

8.10.21

क्षुरप्रेण सुतीक्ष्णेन ह्यनुविन्दशिरोऽहरत् ।
अपतत्तच्छिरो राजन्कुण्डलोपचितं महत् ॥ ८.१०.२१ ॥

他以极锐利的刃形箭,斩下了阿努文达的头颅;大王啊,那颗饰有耳环的大头颅坠落了。

8.10.22

शम्बरस्य शिरो यद्वन्निहतस्य महारणे ।
शोचयन्केकयान्सर्वाञ्जगामाशु वसुन्धराम् ॥ ८.१०.२२ ॥

正如在大战中被杀的商跋罗之头落地一般,那颗头颅使所有的迦伽雅人悲痛,迅速坠落于大地。

8.10.23

तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः ।
सज्यमन्यद्धनुः कृत्वा शैनेयं पर्यवारयत् ॥ ८.१०.२३ ॥

看到那位英雄被杀,他的兄弟大战车武士取过另一把弓,拉好弦,将席尼之后(萨提亚基)包围起来。

8.10.24

स षष्ट्या सात्यकिं विद्व्वा स्वर्णपुङ्खैः शिलाशितैः ।
ननाद बलवन्नादं तिष्ठतिष्ठेति चाब्रवीत् ॥ ८.१०.२४ ॥

他以六十支在石上磨利、饰有金羽的箭射中萨提亚基,并发出雷鸣般的吼声,喊道:“站住,站住!”

8.10.25

सात्यकिं च ततस्तूर्णं केकयानां महारथः ।
शरैरनेकसाहस्रैर्बाह्वोरुरसि चार्पयत् ॥ ८.१०.२५ ॥

于是,克迦耶人的大车将迅速以成千上万支箭射向萨提亚基,射中他的臂膀与胸膛。

8.10.26

स शरैः क्षतसर्वाङ्गः सात्यकिः सत्यविक्रमः ।
रराज समरे राजन्सपुष्प इव किंशुकः ॥ ८.१०.२६ ॥

大王啊,萨提亚基虽然全身被箭所伤,却以真正的勇力在战场上闪耀,如同盛开的金雀花树。

8.10.27

सात्यकिः समरे विद्वः कैकेयेन महात्मना ।
कैकेयं पञ्चविंशत्या विव्याध प्रहसन्निव ॥ ८.१०.२७ ॥

战场上,萨提亚基射中了那位大度的凯克耶,仿佛在笑着一般,以二十五支箭射中了凯克耶。

8.10.28

तावन्योन्यस्य समरे सञ्छिद्य धनुषी शुभे ।
हत्वा च सारथी तूर्णं हयांश्च रथिनां वरौ ॥ ८.१०.२८ ॥

二人在战场上相互斩断了对方精美的弓,迅速杀死了御者与马匹,这两位车战中的佼佼者便都失去了战车。

8.10.29

विरथावसियुद्धाय समाजग्मतुराहवे ।
शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तथा ॥ ८.१०.२९ ॥

二人失去战车,在战场上面对面进行剑斗;他们手持饰有百轮明月的盾牌,那两位臂膀强壮的勇士也同样如此。

8.10.30

विरोचेतां महारङ्गे निस्त्रिंशबरधारिणौ ।
यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ ॥ ८.१०.३० ॥

在伟大的战场上,二人手持精良的利剑而闪耀,正如在天神与阿修罗之战中,大力的占婆与帝释天闪耀一般。

8.10.31

मण्डलानि ततस्तौ तु विचन्तौ महारणे ।
अन्योन्यमभितस्तूर्णं समाजग्मतुराहवे ॥ ८.१०.३१ ॥

于是二人在大战中盘旋绕圈,迅速从四面相互包抄,在战场上面对面相遇。

8.10.32

अन्योन्यस्य वधे चैव चक्रतुर्यत्नमुत्तमम् ।
कैकेयस्य द्विधा चर्म ततश्चिच्छेद सात्वतः ॥ ८.१०.३२ ॥

二人都竭尽全力想要杀死对方。于是萨特瓦塔(萨提亚基)将凯开耶的盾牌一劈两半。

8.10.33

सात्यकेस्तु तथैवासौ चर्म चिच्छेद पार्थिवः ।
चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम्।
चचार मण्डलान्येव गतप्रत्यागतानि च ॥ ८.१०.३३ ॥

那位国王同样砍断了萨提亚基的盾牌。随后,凯开耶持着布满数百个星状饰物的盾牌,往来进退,盘旋绕圈。

8.10.34

तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम् ।
अपहस्तेन चिच्छेद शैनेयस्त्वरयाऽन्वितः ॥ ८.१०.३४ ॥

当他在大战场上来回穿梭、手持精良宝剑时,希尼之裔(萨提亚基)急忙将手略向一侧挥出,将他斩杀。

8.10.35

सवर्मा केकयो राजन्द्विधा च्छिन्नो महारणे ।
निपपात महेष्वासो वज्राहत इवात्वलः ॥ ८.१०.३५ ॥

大王啊,凯开耶连同铠甲在大战中被劈成两半,倒下如同被雷击中的阿特瓦拉山。

8.10.36

तं निहत्य रणे शूरः शैनेयो रथसत्तमः ।
युधामन्युरथं तूर्णमारुरोह परन्तपः ॥ ८.१०.३६ ॥

在战场上杀死他之后,英雄萨提亚基,即最优秀的车战勇士、焚烧敌人者,迅速登上了犹达曼尤的战车。

8.10.37

ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः ।
केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः ॥ ८.१०.३७ ॥

随后,Sātyaki 登上另一辆按规制备好的战车,再次用箭矢摧毁了 Kekaya 的大军。

8.10.38

सा वध्यमाना समरे केकयानां महाचमूः ।
तमुत्सृज्य रणे शत्रुं प्रदुद्राव दिशो दश ॥ ८.१०.३८ ॥

Kekaya 的那支大军在战场上被不断斩杀,于是舍弃了那名敌人,向十方溃逃。