摩诃婆罗多 · 章 8.101
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.101.1
हते वैकर्तने कर्णे कुरवो भयपीडिताः ।
वीक्षमाणा दिशः सर्वाः पलायन्त सहस्रशः ॥ ८.१०१.१ ॥
当维卡尔塔纳之子迦尔纳被杀后,惊恐的俱卢人望着四面八方,成千上万地逃散了。
8.101.2
रावणं निहतं दृष्ट्वा राक्षसा राघवेण वा ।
दिशो भीता द्रवन्नेव तावका भयपीडिताः ॥ ८.१०१.२ ॥
如同罗刹见罗婆那被罗怙之子(罗摩)所杀,惊恐地向四方逃去,你的部众也因恐惧而逃散。
8.101.3
ततो महारवं चक्रुर्योधा राजन्समन्ततः ।
वार्यमाणा भृशोद्विग्नास्तव पुत्रेण भारत ॥ ८.१०१.३ ॥
于是,国王啊,战士们从四面八方发出巨大的喧嚣,被你的儿子阻拦,极度惶恐,婆罗多的后裔啊。
8.101.4
तेषां तु मतमाज्ञाय पुत्रस्ते भरतर्षभ ।
अवहारं ततश्चक्रे शल्यस्यानुमतेन च ॥ ८.१०१.४ ॥
了解了他们的意图后,婆罗多中的雄牛啊,你的儿子在沙利耶的同意下,决定撤退。
8.101.5
कृतवर्मा रणे तूर्णं वृतो भारत तावकैः ।
नारायणावशिष्टैश्च शिबिरायैव दुद्रुवे ॥ ८.१०१.५ ॥
婆罗多的后裔啊,迦尔曼在战斗中迅速被你的部众和那罗延军的幸存者包围,径直向营地奔去。
8.101.6
अश्वत्थामा ततः शूरो विनिश्वस्य मुहुर्मुहुः ।
पाण्डवानां जयं दृष्ट्वा शिबिरायैव दुद्रुवे ॥ ८.१०१.६ ॥
于是英勇的马嘶之子阿湿婆陀摩反复叹息,见到般度五子的胜利,便向营地奔去。
8.101.7
कृपः शारद्वतो राजन्नागानीकेन भारत ।
महता मेघकल्पेन शिबिरायैव दुद्रुवे ॥ ८.१०१.७ ॥
啊,国王,婆罗多的后裔啊,沙罗檀婆之子克利巴率领着如乌云般庞大的象军,奔向营地。
8.101.8
गान्धाराणां सहस्रेण शकुनिः परिवारितः ।
सुशर्मा च ययौ राजन्वीक्षमाणो भयार्दितः ॥ ८.१०१.८ ॥
啊,国王,被一千名犍陀罗战士包围的沙古尼与苏沙尔曼,在恐惧的折磨中四处张望着离去了。
8.101.9
दुर्योधनोऽपि स ययौ ह्वतसर्वस्व आतुरः ।
ज्ञातिशोकसमापन्नश्चिन्तयित्वा मुहुर्मुहुः ॥ ८.१०१.९ ॥
难敌也离去了,失去了一切,痛苦不堪,沉浸在亲族的悲痛之中,一再地陷入沉思。
8.101.10
छिन्नध्वजेन शल्यस्तु रथेन रथिनां वरः ।
प्रययौ शिबिरायैव वीक्षमाणो दिशो दश ॥ ८.१०१.१० ॥
沙利耶是战车武士中的翘楚,乘坐一辆旗杆折断的战车,望着十方奔向营地。
8.101.11
ततोऽपरे सुबहुशो भारतानां महारथाः ।
व्यद्रवन्त दिशो भीता भयविह्वलचेतसः ॥ ८.१०१.११ ॥
此后,婆罗多族的许多其他大战车武士,惊恐万分,心神因恐惧而慌乱,四散奔逃。
8.101.12
अश्रूपूर्णा भयोद्विग्ना वेपमाना भयातुराः ।
कुरवः प्राद्रवन्सर्वे दृष्ट्वा कर्णं निपातितम् ॥ ८.१०१.१२ ॥
众库卢人泪流满面,因恐惧而惶惑,浑身颤抖,满怀恐惧,见到迦尔纳被击倒,全都逃走了。
8.101.13
प्रशंसन्तोऽर्जुनं केचित्केचित्कर्णं महारथाः ।
प्राद्रवन्त रणे भीताः कुरवः कुरुसत्तम ॥ ८.१०१.१३ ॥
有人赞美阿周那,有人赞美迦尔纳,大车战士们在战场上惊恐地逃散了,俱卢之最。
8.101.14
तेषां योधसहस्राणां तावकानां महामृधे ।
नासीत्तत्र पुमान्कश्चिद्यस्तु युद्धे मनो दधे ॥ ८.१०१.१४ ॥
在那次大战中,你方的数千勇士之中,已无一人还在专心作战。
8.101.15
कर्णे हते महाराज निराशाः कुरवोऽभवन् ।
जीवनेषु च राज्येषु दारेषु च धनेषु च ॥ ८.१०१.१५ ॥
大王啊,迦尔纳被杀之后,俱卢人对生命、王国、妻子和财富都感到绝望。
8.101.16
तान्समानीय पुत्रस्ते यत्नेन महता विभो ।
निवेशाय मनो दध्रे दुःखशोकसमन्वितः ॥ ८.१०१.१६ ॥
主上啊,你的儿子费尽大力把他们聚集起来,满怀悲痛与忧愁,决定扎营。
8.101.17
तस्याज्ञां शिरसा दीनाः प्रतिगृह्य विशाम्पते ।
विषण्णमनसो भीत्या न्यविशन्त महारथाः ॥ ८.१०१.१७ ॥
人主啊,他们低首领受他的命令,那些可怜的大车战士心情沮丧,因恐惧而进入了那里。
8.101.18
चिन्तयन्तो वधं घोरं सूतपुत्रस्य संयुगे ।
अर्जुनस्य जयं युद्धे चिन्तयानाः पुनःपुनः ॥ ८.१०१.१८ ॥
反复思虑御者之子(迦尔纳)在战中惨死之事,也一再思量阿周那在战斗中的胜利。
8.101.19
पाण्डवाश्च महेष्वासा न्यविशन्त परन्तपाः ।
प्रहृष्टमनसः सर्वे जित्वा शत्रुं महारथाः ॥ ८.१०१.१९ ॥
般度之子、大弓手与敌人的克星,以及所有大车战士,心中因战胜敌人而欢喜,便在那里坐下。
8.101.20
ततो युधिष्ठिरं तत्र निविष्टं वै मुदान्वितम् ।
समेत्य सर्वे पाञ्चाला वर्धयन्तो यथाविधि ॥ ८.१०१.२० ॥
随后,所有般遮罗人走近坐在那里满心喜悦的坚战,依礼为他庆贺。
8.101.21
अर्जुनस्तु रथात्तूर्णमवरुह्य महायशाः ।
धर्मराजस्य चरणौ पीडयामास हृष्टवत् ॥ ८.१०१.२१ ॥
而大名鼎鼎的阿周那迅速下车,欢喜地为法王按摩双足。
8.101.22
तमुत्थाप्य महाराज धर्मपुत्रः प्रतापवान् ।
सस्वजे भरतश्रेष्ठमुपजिघ्रन्नुपस्पृशन् ॥ ८.१०१.२२ ॥
大王啊,威严的法之子将他扶起,拥抱这位婆罗多族的至尊,嗅其头顶并抚摸他。
8.101.23
नकुलः सहदेवश्च पाण्डवश्च वृकोदरः ।
अभिवाद्य महाराजमस्वजन्त स्म फल्गुनम् ॥ ८.१०१.२३ ॥
那拉与萨诃提婆、般度之子狼腹,向大王致敬后,拥抱了法尔古那(阿周那)。
8.101.24
धृष्टद्युम्नः शिखण्डी च पाण्डवानां च ये रथाः ।
वर्धयन्ते स्म राजानं निहते सूतनन्दने ॥ ८.१०१.२४ ॥
猛光、施甘丁以及般度之子的车战士们,在御者之子被杀之后,纷纷为国王庆贺。
8.101.25
ततः कृष्णो महाराज सात्यकिश्चापि सात्वतः ।
वर्धयन्ते स्म राजानं निहते सूतनन्दने ॥ ८.१०१.२५ ॥
大王啊,当御者之子被杀后,黑天与萨谛婆多族的萨谛耶基也赞扬了国王。
8.101.26
वासुदेवश्च कौन्तेयं प्रणयादिदमब्रवीत् ।
अद्य राजन्हताः सर्वे धार्तराष्ट्राः सराजकाः।
हते वैकर्तने कर्णे रथानां प्रवरे रथे ॥ ८.१०१.२६ ॥
婆苏提婆怀着爱意对贡蒂之子说:“大王啊,今日车战中最杰出的维迦尔坦之子迦尔纳已被杀,因此持国王的所有儿子连同他们的国王都已被杀。”
8.101.27
यदि लोकास्त्रयः सर्वे योधयेयुः सवासवाः ।
तथापि दुर्जयः सूतस्तव कोपात्तु सूदितः ॥ ८.१०१.२७ ॥
即便三界与因陀罗一同作战,不可战胜的御者(迦尔纳)仍会因你的愤怒而被杀。
8.101.28
एवमुक्तः प्रत्युवाच धर्मराजो जनार्दनम् ॥ ८.१०१.२८ ॥
被如此说后,法王(坚战)回答了遮那陀那(黑天)。
8.101.29
तव प्रसादाद्ग्रोविन्द हतः कर्णो महायशाः ।
पाण्डवाश्च जयं प्राप्या नाशिताश्चापि शत्रवः ॥ ८.१०१.२९ ॥
哥文达啊,蒙你恩赐,大名鼎鼎的迦尔纳已被杀;般度五子赢得胜利,也消灭了敌人。
8.101.30
त्वं हि शक्तो भयात्त्रातुं यस्य कस्यचिदाहवे ।
त्वमस्य जगतो गोप्ता पाण्डवानां च सर्वदा ॥ ८.१०१.३० ॥
在战场上能使任何人免于恐惧的,唯有你;你是这个世界的守护者,也始终是般度之子的守护者。
8.101.31
त्वां समासाद्य शक्रोऽपि मोदते दिवि नित्यशः ।
त्वं पाता पाण्डुपुत्राणां यथैव जगतस्तथा ॥ ८.१०१.३१ ॥
得到你之后,因陀罗也常在天上欢喜。你既是世界的守护者,也是般度之子的守护者。
8.101.32
अनाश्चर्यो जयस्तेषां भक्तिर्येषां त्वयि प्रभो ॥ ८.१०१.३२ ॥
主啊,对你怀有虔敬之人,他们的胜利并不令人惊异。
8.101.33
त्वया नाथेन गोविन्द नाथवन्तो वयं युधि ।
यथेन्द्रेण पुरा देवास्त्वया चापि जनार्दन ॥ ८.१०१.३३ ॥
哥文达啊,有你作我们的主,我们在战中便有了依靠;正如往昔诸天有因陀罗,你也如此,啊,遮那陀那。
8.101.34
स्वप्स्याम्यद्य सुखं कृष्णनिद्रां लप्स्ये त्वहं क्षपाम् ।
विगतं हि भयं मेऽद्य त्वत्प्रसादान्न संशयः ॥ ८.१०१.३४ ॥
克里希那啊,今日我将安然入睡,夜间得以安眠。今日我的恐惧已消失;蒙你的恩典,此事毫无疑问。
8.101.35
एवमुक्तस्तु पार्थेन केशवः प्राह पाण्डवम् ।
निमित्तमात्रं हि वयं तवाप्यस्मिन्मुदागमे ॥ ८.१०१.३५ ॥
普利塔之子如此说罢,柯沙婆对般度之子说:“在此喜悦的到来中,我们不过是工具而已。”
8.101.36
यस्य ते भ्रातरः शूरा भीमसेनादयो नृप ।
सम्बन्धिनश्चेन्द्रवीर्याः पार्षतप्रमुखास्तथा ॥ ८.१०१.३६ ॥
大王啊,你有以毗摩森那为首的勇猛兄弟,有如因陀罗般勇武的亲族,还有以般沙塔为首的主要勇士。
8.101.37
अर्हते च भवान्नित्यं प्रियं नित्यं च मद्वितम् ।
प्रियो हि मे त्वमेतेन वचनेन नरोत्तम ॥ ८.१०१.३७ ॥
你总是值得敬重,总是做我所喜爱的事。人中之最,你因这些话而让我珍视。
8.101.38
इत्युक्तो धर्मराजस्तु स्वरथं हेमभूपितम् ।
दन्तवर्णैर्हयैर्युक्तं कालवालैर्महीपतिः ॥ ८.१०१.३८ ॥
被如此称呼之后,法王,大地之主,登上了他那饰有黄金、套着象牙色、黑尾巴马匹的战车。
8.101.39
आस्थाय पुरुषव्याघ्रः स्वबलेनापि संवृतः ।
प्रययौ बहुवृत्तान्तं द्रष्टुमायोधनं प्रति ॥ ८.१०१.३९ ॥
这位人中之虎,登上战车,被自己的军队环绕,前往战场去看那里的许多情况。
8.101.40
सम्भाषमाणौ तौ वीर उभौ माधवपाण्डवौ ॥ ८.१०१.४० ॥
那两位英雄,摩陀婆与般度之子,正在交谈。
8.101.41
स ददर्श रणे कर्णं शयानं पुरुषर्षभम् ।
गाण्डीवमुक्तैर्विशिखैः सर्वतः सन्निपीडितम् ॥ ८.१०१.४१ ॥
他在战场上看见迦尔纳躺卧着,那人中的公牛,被从甘狄拔弓射出的箭矢从四面穿透。
8.101.42
सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः ।
प्रशशंस नरव्याघ्रावुभौ माधवपाण्डवौ ॥ ८.१०१.४२ ॥
国王坚战见迦尔纳与其子一同被杀,便赞美那两位人中之虎,摩陀婆与般度之子。
8.101.43
अद्य राजाऽस्मि सर्वस्यां पृथिव्यां मधुसूदन ।
दिष्ट्या जयसि गोविन्द दिष्ट्याशत्रुर्निपातितः ॥ ८.१०१.४३ ॥
今日我成为全大地之王,哦,摩图苏陀那。幸运的是你获胜了,哦,戈温达;幸运的是敌人被击倒了。
8.101.44
एवं सुबहुशो राजन्प्रशशंस जनार्दनम् ।
अर्जुनं च कुरुश्रेष्ठो धर्मराजो युधिष्ठिरः ॥ ८.१०१.४४ ॥
如此,哦,大王,正法之王、俱卢最优者坚战多次赞美了生主和阿周那。
8.101.45
दृष्ट्वा च निहतं कर्णं स पुत्रं पार्थसायकैः ।
पुनर्जातमिवात्मानं मेने कुरुकुलोद्वहः ॥ ८.१०१.४५ ॥
见迦尔纳与其诸子被阿周那的箭射杀,担负俱卢家族重任者以为自己如同重生。
8.101.46
समेत्य च कुरुश्रेष्ठं कुन्तीपुत्रं युधिष्ठिरम् ।
वर्धयन्ति स्म राजानो हर्षयुक्ता महारथाः ॥ ८.१०१.४६ ॥
俱卢最优者、贡蒂之子坚战身边,充满喜悦的大车勇士诸王前来向他致敬增益。
8.101.47
एवमेष क्षयो वृत्तः सुमहान्रोमहर्षणः ।
तव दुर्मन्त्रिते राजन्दिष्ट्या त्वमनुशोचसि ॥ ८.१०१.४७ ॥
如此,这场令人毛骨悚然的大灭亡,哦,大王,因你的恶谋而发生了;如今你幸而在悲叹。
8.101.48
श्रुत्वैतदप्रियं राजा धृतराष्ट्रो महीपतिः ।
पपात भूमौ निश्चेष्टः कौरव्यः परमासनात्।
तथा सत्यव्रता देवी गान्धारी दिव्यदर्शना ॥ ८.१०१.४८ ॥
闻此不快之讯,地上之主、俱卢族的持国王从高座上失去知觉跌倒在地;同样,守持真谛、具有神眼的天后甘陀利也跌倒了。
8.101.49
ततस्तूर्णं तु विदुरस्तं नृपं सञ्जयस्तथा ।
पर्याश्वासयतां चैतावुभावेव तु भूमिपम् ॥ ८.१०१.४९ ॥
随即维杜罗与参遮耶迅速安慰了那位大地之主国王;二人都安慰了他。
8.101.50
तथैवाश्वासयामासुर्गान्धारीं कुरुयोषितः ॥ ८.१०१.५० ॥
同样,俱卢族的妇女们安慰了甘陀利。
8.101.51
स दैवं परमं मेने भवितव्यं च भारत ।
ताभ्यामाश्वासितो राजा तूष्णीमास्ते विशाम्पते ॥ ८.१०१.५१ ॥
他认为天命至高,且事已注定;婆罗多啊,在二人的安慰下,国王默然而坐,人民之主啊。
8.101.52
एवमाख्याय राज्ञे च सञ्जयो राजसत्तम ।
जगाम शिबिरं भूयो हते कर्णे महात्मनि ॥ ८.१०१.५२ ॥
如此,王中之最,参遮耶告知国王后,在伟大的迦尔纳被杀之后,又回到了营地。
8.101.53
स दृष्ट्वा निहतं शल्यं राजानं च सुयोधनम् ।
शकुनिं सुबहून्राजन्सैनिकांश्च सहस्रशः ॥ ८.१०१.५३ ॥
他看见被杀的沙利耶、国王苏尤陀那、沙恭尼,还有,国王啊,成千上万的士兵。
8.101.54
तथैव पाण्डवीं सेनां निहतां प्रेक्ष्य सञ्जयः ।
सौप्तिके द्रौणिना राजन्हतवाजिनरद्विपाम् ॥ ८.१०१.५४ ॥
同样,参遮耶看见般度族军队被杀;国王啊,在苏普提卡的夜袭中,德罗纳之子杀死了马匹、士兵与象群。
8.101.55
स हि दृष्ट्वा हतान्सर्वान्समन्ताद्युधि सञ्जयः ।
प्रयातो हास्तिनपुरं शोकार्तो भयविह्वलः ॥ ८.१०१.५५ ॥
桑闍耶见战场上四处皆是被杀之人,悲痛惶恐,遂返回象城(Hāstinapura)。
8.101.56
हतेषु पुनरेतेषु प्रभूतगजवाजिषु ।
योधैश्च तैर्महाराज नानादेशसमुद्भवैः ॥ ८.१०१.५६ ॥
大王啊,当这些众多的象与马再次被杀,那些出生于各地的战士也被杀之时。
8.101.57
कुरुक्षेत्रं तु तत्सर्वं शून्यमासीद्विशाम्पते ।
निहतैः पाण्डवेयैश्च धार्तराष्ट्रैश्च संयुगे ॥ ८.१०१.५७ ॥
人主啊,那整个俱卢之野因战中被杀的般度之子与持国之子而变得空无一人。
8.101.58
यथाहि विषयं वृत्तं धार्तराष्ट्रस्य संञ्जयः ।
निवेदयति तत्सर्वं यथावृत्तं यथाविधि ॥ ८.१०१.५८ ॥
桑闍耶依次将此事以及所发生的一切,照实际经过,依礼向持国之子详细禀报。
8.101.59
एवं महायुद्धमिदं महात्मनो ।
धनञ्जयस्याधिरथेश्च यः पठेत्।
स सम्यगिष्टस्य मखस्य यत्फलं ।
तदाप्नुयाद्यः शृणुयाच्च नित्यशः ॥ ८.१०१.५९ ॥
凡诵读此大战——大度的财主(阿周那)与御者之子之战——者,便能完全获得善行祭祀之果;日日聆听者亦然。
8.101.60
मखो हि विष्णुर्भगवान्सनातनो ।
वहन्ति यं चाप्यनिलेन्दुभानवः।
अतोऽनसूयुः शृणुयात्पठेच्च यः ।
स सर्वलोकांश्च जयेत्सुखी भवेत् ॥ ८.१०१.६० ॥
祭祀即是永恒的世尊毗湿奴,风、月、日亦承载他;因此,无嫉妒地聆听并诵读者,能征服一切世界,并得安乐。