Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.11

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.11.1

श्रुतकर्मा ततो राजंश्चित्रसेनं महीपतिम् ।
आजघ्ने समरे क्रुद्धः पञ्चाशद्भिः शिलीमुखैः ॥ ८.११.१ ॥

于是,室rutakarman 愤怒地在战斗中以五十支箭射中了国王 Citrasena。

8.11.2

चित्रसेनस्तु तं राजन्नवभिर्नतपर्वभिः ।
श्रुतकर्माणमाहत्य सूतं विव्याध पञ्चभिः ॥ ८.११.२ ॥

然而,大王啊,Citrasena 以九支弯节箭射中 Śrutakarman,并以五支箭射穿了他的御者。

8.11.3

श्रुतकर्मा ततः क्रुद्धश्चित्रसेनं चमूमुखे ।
नाराचेन सुतीक्ष्णेन मर्मदेशे समार्पयत् ॥ ८.११.३ ॥

于是愤怒的 Śrutakarman 在军队前列,以极锋利的 nārāca 箭深深射入 Citrasena 的要害。

8.11.4

सोऽतिविद्धो महाराज नाराचेन महात्मना ।
मूर्च्छामभिययौ वीरः कश्मलं चाविवेश ह ॥ ८.११.४ ॥

大王啊,被那位高尚者的 nārāca 箭重创,英雄昏厥倒地,陷入了迷乱。

8.11.5

एतस्मिन्नन्तरे चैनं श्रुतकीर्तिर्महायशाः ।
नवत्या जगतीपालं छादयामास पत्रिभिः ॥ ८.११.५ ॥

与此同时,大名鼎鼎的 Śrutakīrti 以九十支箭遮蔽了那位大地的守护者。

8.11.6

प्रतिलभ्य ततः संज्ञां चित्रसेनो महारथः ।
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः ॥ ८.११.६ ॥

于是大车士 Citrasena 恢复知觉,以 bhalla 箭斩断他的弓,并以七支箭射穿了他。

8.11.7

सोऽन्यत्कार्मुकमादाय वेगघ्नं रुक्मभूषितम् ।
चित्ररूपधरं चक्रे चित्रसेनं शरोर्मिभिः ॥ ८.११.७ ॥

他取了另一张饰以黄金、能阻挡速度的弓,以箭的波浪使citrasena变成了色彩斑斓的模样。

8.11.8

स शरैश्चित्रितो राजा चित्रमाल्यधरो युवा ।
अशोभत महारङ्गे श्वाविच्छललो यथा ॥ ८.११.८ ॥

那位年轻的国王被箭所覆盖,戴着五彩花环,在大战场上闪耀如豪猪。

8.11.9

श्रुतकर्माणमथ वै नाराचेन स्तनान्तरे ।
बिभेद तरसा शूरस्तिष्ठतिष्ठेति चाब्रवीत् ॥ ८.११.९ ॥

于是那位勇士以铁箭猛烈射中श्रुतकर्मन的胸口,说道:“站住,站住!”

8.11.10

श्रुतकर्माणि समरे नाराचेन समर्पितः ।
सुस्राव रुधिरं तत्र गैरिकाम्बु यथाऽचलः ॥ ८.११.१० ॥

श्रुतकर्मन在战斗中被铁箭射中,便如山间流下的赭红水一般流出鲜血。

8.11.11

ततः स रुधिराक्ताङ्गो रुधिरेण कृतच्छविः ।
रराज समरे वीरः सपुष्प इव किंशुकः ॥ ८.११.११ ॥

那时,四肢沾满鲜血、肤色被血染红的那位英雄,在战斗中闪耀如盛开的金苏木树。

8.11.12

श्रुतकर्मा ततो राजञ्शत्रुणा समभिद्रुतः ।
शत्रुसंवारणं क्रुद्धो द्विधा चिच्छेद कार्मुकम् ॥ ८.११.१२ ॥

于是,大王,श्रुतकर्मन被敌人攻击,愤怒地将敌人作为护卫的弓一分为二。

8.11.13

अथैनं छिन्नधन्वानं नाराचानां शतैस्त्रिभिः ।
छादयन्समरे राजन्विव्याध च सुपत्रिभिः ॥ ८.११.१३ ॥

然后,大王,他以三百支铁箭遮蔽了弓断的那人,并用羽毛精美的箭射穿了他。

8.11.14

ततोऽपरेण भल्लेन तीक्ष्णेन निशितेन च ।
जहार सशिरस्त्राणं शिरस्तस्य महात्मनः ॥ ८.११.१४ ॥

接着他以另一支锋利磨快的钵罗箭,连同头盔砍下了那位大德者的头颅。

8.11.15

तच्छिरो न्यपतद्भूमौ चित्रसेनस्य दीप्तिमत् ।
यदृच्छया यथा चन्द्रश्च्युतः स्वर्गान्महीतलम् ॥ ८.११.१५ ॥

citrasena那颗光彩的头颅落到地上,如同月亮偶然从天上坠落到大地。

8.11.16

राजानं निहतं दृष्ट्वा तेऽभिसारं तु मारिष ।
अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः ॥ ८.११.१६ ॥

摩利沙啊,见国王被杀,citrasena的士兵迅猛地冲向他们发起进攻。

8.11.17

ततः क्रुद्धो महेष्वासस्तत्सैन्यं प्राद्रवच्छरैः ।
अन्तकाले यथा क्रुद्धः सर्वभूतानि प्रेतराट् ॥ ८.११.१७ ॥

那位愤怒的大弓箭手以箭驱散了那支军队,如同死神阎摩在死亡之时震怒地驱赶一切众生。

8.11.18

ते वध्यमानाः समरे तव पौत्रेण धन्विना ।
व्यद्रवन्त दिशस्तूर्णं दावदग्धा इव द्विपाः ॥ ८.११.१८ ॥

在战斗中被你的孙子那位弓箭手击打,他们迅速向四方逃散,如同被森林大火烧伤的象群。

8.11.19

तांस्तु विद्रवतो दृष्ट्वा निरुत्साहान्द्विषज्जये ।
द्रावयन्निषुभिस्तीक्ष्णैः श्रुतकर्मा व्यरोचत ॥ ८.११.१९ ॥

见他们逃散,失去了战胜敌人的斗志,室鲁塔羯摩以利箭further驱散他们,光彩照人。

8.11.20

प्रतिविन्ध्यस्ततश्चित्रं भित्त्वा पञ्चभिराशुगैः ।
सारथिं च त्रिभिर्विद्व्वा ध्वजमेकेषुणापि च ॥ ८.११.२० ॥

随后,波罗提文底耶以五支快箭射穿质多罗,以三支射中御者,又以一箭射中旗幡。

8.11.21

तं चित्रो नवभिर्भल्लैर्बाह्वोरुरसि चार्पयत् ।
स्वर्णपुङ्खैः प्रसन्नाग्नैः कङ्कबर्हिणवाजितैः ॥ ८.११.२१ ॥

质多罗以九支阔头箭射中他的双臂与胸膛,箭羽镶金,箭头明亮,饰以白鹭与孔雀之羽。

8.11.22

प्रतिविन्ध्यो धनुश्छित्त्वा तस्य बारत सायकेः ।
पञ्चभिर्निशितैर्बाणैरथैनं स हि जघ्निवान् ॥ ८.११.२२ ॥

婆罗多之子啊,波罗提文底耶斩断了他的弓,随即以五支利箭射中他。

8.11.23

ततः शक्तिं महाराज स्वर्णघण्टां दुरासदाम् ।
प्राहिणोत्प्रतिविन्ध्याय विचिन्वन्तीमसूनिव ॥ ८.११.२३ ॥

随后,大王啊,他向波罗提文底耶掷出一支名为“力”的长矛,矛上饰有金铃,无可抵挡,仿佛在搜寻性命。

8.11.24

तामापतन्ती सहसा शक्तिमुल्कामिवाम्बरे ।
द्विधा चिच्छेद समरे प्रतिविन्ध्यो हसन्निव ॥ ८.११.२४ ॥

那长矛突然如天空中的流星般疾飞而来,波罗提文底耶微笑着,在战斗中将它一斩为二。

8.11.25

सा पपात द्विधा छिन्ना प्रतिविन्ध्यशरैः शितैः ।
युगान्ते सर्वभूतानि त्रासयन्ती यथाऽशनिः ॥ ८.११.२५ ॥

被补罗提文底耶锋利的箭射成两段,她坠落,如同在劫末惊骇一切众生的雷electric。

8.11.26

शक्तिं तां प्रहतां दृष्ट्वा चित्रो गृह्य महागदाम् ।
प्रतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम् ॥ ८.११.२६ ॥

见那长矛被击倒,citra取一把镶有金网的大铁锤,掷向补罗提文底耶。

8.11.27

सा जघान हयांस्तस्य सारथिं च महारणे ।
रथं प्रमृद्य वेगेन धरमीमन्वपद्यत ॥ ८.११.२७ ॥

在大战中,它击中了他的马和御者;以猛力粉碎战车后,它落到了地上。

8.11.28

एतस्मिन्नेव काले तु रथादाप्लुत्य भारत ।
शक्तिं चिक्षेप चित्राय स्वर्णदण्डामलङ्कृताम् ॥ ८.११.२८ ॥

就在此时,婆罗多啊,他跃下战车,向citra投出一支饰有金柄的长矛。

8.11.29

तामापतन्तीं जग्राह चित्रो राजन्महामनाः ।
ततस्तामेव चिक्षेप प्रतिविन्ध्याय पार्थिवः ॥ ८.११.२९ ॥

大王啊,大度的citra接住了朝他飞来的它;随后那位国王又将它掷向补罗提文底耶。

8.11.30

समासाद्य रणे शूरं प्रतिविन्ध्यं महाप्रभा ।
निर्भिद्य दक्षिणं बाहुं निपपात महीतले।
पतिताऽभासयश्चैव तं देशमशनिर्यथा ॥ ८.११.३० ॥

在战场上追到英雄补罗提文底耶身边,那道光芒耀眼的武器刺穿了他的右臂落到地上;落地时,它照亮那一带如同闪电。

8.11.31

प्रतिविन्ध्यस्ततो राजंस्तोमरं हेमभूषितम् ।
प्रेषयामास सङ्क्रुद्धश्चित्रस्य वधकाङ्क्षया ॥ ८.११.३१ ॥

大王啊,于是愤怒的普罗提宾底耶欲杀奇特罗,投掷了一支饰以黄金的长矛。

8.11.32

स तस्य गात्रावरणं भित्त्वा हृदयमेव च ।
जगाम धरणीं तूर्णं महोरग इवाशयम् ॥ ८.११.३२ ॥

它穿透他的护甲和心脏,迅速刺入大地,如同大蛇钻入洞穴。

8.11.33

स पपात तदा राजा तोमरेण समाहतः ।
प्रसार्य विपुलौ बाहू पीनौ पिघसन्निभौ ॥ ८.११.३३ ॥

那时,国王被长矛击中倒地,伸展开宽厚粗壮的双臂,如同铁杵一般。

8.11.34

चित्रं सम्प्रेक्ष्य निहतं तावका रणशोभिनः ।
अभ्यद्रवन्त वेगेन प्रतिविन्ध्यं समन्ततः ॥ ८.११.३४ ॥

看见奇特罗被杀,你那些战场上的勇士迅速从四面八方冲向普罗提宾底耶。

8.11.35

सृजन्तो विविधान्बाणाञ्शतघ्नीश्च सकिङ्किणीः ।
तमवच्छादयामासुः सूर्यमभ्रगणा इव ॥ ८.११.३५ ॥

他们射出各式箭矢和带铃的百杀器,将他遮蔽,如同云团遮住太阳。

8.11.36

तान्विधम्य महाबाहुः शरजालेन संयुगे ।
व्यद्रावयत्तव चमूं वज्रहस्त इवासुरीम् ॥ ८.११.३६ ॥

他以箭网击溃了他们,这位大臂者在战场上驱散了你的军队,如同执金刚的因陀罗驱散阿修罗军。

8.11.37

ते वध्यमानाः समरे तावकाः पाण्डवैर्नृप ।
विप्रकीर्यन्त सहसा वातनुन्ना घना इव ॥ ८.११.३७ ॥

大王啊,你的军队在战场上被般度之子击杀,忽然像被风吹散的云朵一样四散而逃。

8.11.38

विप्रद्रुते बले तस्मिन्वध्यमाने समन्ततः ।
द्रौणिरेकोऽभ्ययात्तूर्णं भीमसेनं महाबलम् ॥ ८.११.३८ ॥

当那支军队溃散并从四面被击杀时,德罗纳之子独自迅速冲向大力的毗摩娑那。

8.11.39

तः समागमो घोरो बभूव सहसा तयोः ।
यथा दैवासुरे युद्धे वृत्रवासवयोरिव ॥ ८.११.३९ ॥

于是二人突然发生了一场可怕的遭遇,正如诸神与阿修罗之战中弗栗多与因陀罗相遇一般。