Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.13

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.13.1

श्रुतकीर्तिमथायान्तं किरन्तं निशिताञ्शरान् ।
मद्रराजो महाराज वारयामास हृष्टवत् ॥ ८.१३.१ ॥

桑闍耶说:大王啊,摩德罗王欣然阻拦了正在射出利箭而来的室鲁陀吉提。

8.13.2

मद्रराजं समासाद्य श्रुतकीर्तिर्महारथः ।
विव्याध भल्लैर्विशत्या कार्तस्वरविभूषितैः ॥ ८.१३.२ ॥

大车士室鲁陀吉提走近摩德罗王,以二十支饰金的阔头箭射中了他。

8.13.3

प्रतिविव्याध तं शल्यं त्रिभिस्तूर्णमजिह्मगैः ।
सारथिं चास्य भल्लेन भृशं विव्याध भारत ॥ ८.१३.३ ॥

他也迅速以三支直飞之箭还击沙利亚,哦,婆罗多子孙,又以一支阔头箭猛烈射中了他的御者。

8.13.4

स शल्यं शरवर्षेण च्छादयामास संयुगे ।
मुमोच निशितान्बाणान्मद्रराजरथं प्रति ॥ ८.१३.४ ॥

他在战斗中以箭雨遮蔽了沙利亚,并朝摩德罗王的战车射出锐利的箭。

8.13.5

ततः शल्यो महाराज श्रुतकीर्तिभुजच्युतान् ।
चिच्छेद समरे बाणासन्बणैः सन्नतपर्वभिः ॥ ८.१३.५ ॥

大王啊,于是沙利亚在战斗中用节部弯曲的箭,斩断了从室鲁陀吉提臂中射出的箭。

8.13.6

श्रुतकीर्तिस्ततः श्ल्यं भित्त्वा नवभिरायसैः ।
सारथिं त्रिभिरानर्च्छत्पुनः शल्यं च प़ञ्चभिः ॥ ८.१३.६ ॥

随后室鲁陀吉提以九支铁箭射中沙利亚,又以三箭击中其御者,再以五箭击中沙利亚。

8.13.7

तस्य शल्यो धनुश्छित्त्वा हस्तावापं निकृत्य च ।
विव्याध समरे तूर्णं सप्तभिस्तं शरोत्तमैः ॥ ८.१३.७ ॥

沙利耶斩断他的弓,又砍断他手上的护具,并在战场上迅速以七支上好的箭射穿了他。

8.13.8

अथान्यद्धनुरादाय श्रुतकीर्तिर्महारथः ।
भद्रेश्वरं चतुःषष्ट्या बाह्वोरुरसि चार्पयत् ॥ ८.१३.८ ॥

随后,大车战士室鲁多吉提拿起另一张弓,以六十四支箭射向摩德罗王的双臂与胸膛。

8.13.9

ततस्तु समरे राजंस्तेन विद्वः शिलीमुखैः ।
…विव्याध तं चापि नवत्या निशितैः शरैः ॥ ८.१३.९ ॥

于是,大王啊,他在战斗中被对方的箭所伤,……他也以九十支锐利的箭射穿了他。

8.13.10

तस्य मद्रेश्वरश्चापं पुनश्चिच्छेद मारिष ।
स च्छिन्नधन्वा समरे गदां चिक्षेप सत्वरः ॥ ८.१३.१० ॥

尊贵者啊,摩德罗王又一次斩断了他的弓;弓被斩断后,他在战场上迅速投出了铁棍。

8.13.11

पट्टैर्जाम्बूनदैर्बद्धां रुप्यपट्टैश्च भारत ।
भ्राजमानां यथा नारीं दिव्यवस्त्रविभूषिताम् ॥ ८.१३.११ ॥

婆罗多啊,它以金箍与银箍缠绕,光辉灿烂,宛如身着天衣的女子。

8.13.12

तामापतन्तीं सहसा दीप्यमानाशनिप्रभाम् ।
शरैरनेकसाहस्रैर्व्यष्टम्भयत मद्रराट् ॥ ८.१३.१२ ॥

那铁棍突然飞来,闪耀着炽热雷电的光辉,摩德罗王以数千支箭将它阻住。

8.13.13

विष्टभ्य च गदां वीरः पातयित्वा च भूतले ।
श्रुकीर्तिमथायत्तो राजन्विव्याध पञ्चभिः ॥ ८.१३.१३ ॥

英雄沙利耶握住铁杵并将其击落于地,然后,大王,他瞄准并以五支箭射穿了室鲁多吉提。

8.13.14

तस्य शक्तिं रमे भूयश्चिक्षेप भुजोपमाम् ।
तां द्विधा चाछिनच्छल्यो मेदिन्यां सा त्वशीर्यत ॥ ८.१३.१४ ॥

他又掷出了他那如同手臂般的长矛;但沙利耶将其斩为两段,它便在地上碎裂了。

8.13.15

तस्य शल्यः क्षुरप्रेण यन्तुः कायाच्छिरोऽहरत् ।
बालहस्ताद्यथा श्येन आमिषं वै नरोत्तम ॥ ८.१३.१५ ॥

沙利耶以剃刀头箭斩下了他御者的头颅,哦,人中之最,正如鹰从孩童手中夺走肉食。

8.13.16

स पपात रथोपस्थात्सारथिस्तस्य भारत ।
ततस्ते प्राद्रवन्सङ्ख्ये हय्नास्तस्य महात्मनः ॥ ८.१३.१६ ॥

那御者从车座上跌落,哦,婆罗多;于是那位大德者的马在战场上逃走了。

8.13.17

पलायमानैस्तैरश्वैः सोपनीतो रमाजिरात् ।
श्रुतकीर्तिर्महाराज पश्यतां सर्वयोधिनाम् ॥ ८.१३.१७ ॥

大王啊,那些奔逃的马在所有战士的注视下,把室鲁多吉提带离了那片战场。

8.13.18

ततो मद्रेश्वरो राजा पाण्डवानामनीकिनीम् ।
व्यगाहत मुदा युक्तो नलिनीं द्विरदो यथा ॥ ८.१३.१८ ॥

于是摩德罗国之王欢喜地闯入般度子孙的军队,正如大象踏入莲花池。

8.13.19

लोलयामास स बलं सिंहः पशुगणानिव ।
शल्यस्तत्र महारङ्गे पाण्डवानां महात्मनाम् ॥ ८.१३.१९ ॥

如同狮子惊扰牛群,沙利耶在那大战场上使伟大的般遮瓦军队陷入慌乱。

8.13.20

निपात्य पाण्डुपाञ्चालान्पृतनासु व्यवस्थितः ।
अशोभत रणे शल्यो विधूमोऽग्निरिव ज्वलन् ॥ ८.१३.२० ॥

沙利耶在军阵中击倒般遮瓦与潘查拉人后屹立战场,光辉如无烟的熊熊烈火。

8.13.21

सेनाकक्षं महद्दग्ध्वा कक्षमग्निरिवोत्थितः ।
स्थितो रराज समरे पुरं दग्ध्वेव शङ्करः ॥ ८.१३.२१ ॥

他焚烧了军队这片大林,如烈火般升起,在战场上光耀如焚城的湿婆。