Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.14

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.14.1

सहदेवं तथा क्रुद्धं निघ्नन्तं तव वाहिनीम् ।
दुःशासनो महाराज भ्राता भ्रातरमभ्ययात् ॥ ८.१४.१ ॥

大王啊,杜萨萨那(Duḥśāsana)之兄弟,前去迎战同样愤怒、正在歼灭你军的萨哈德瓦(Sahadeva)。

8.14.2

तौ समेतौ महाराज दृष्ट्वा तत्र महारथाः ।
सिंहनादरवांश्चक्रुर्वासांस्यादुधुवुश्च ह ॥ ८.१४.२ ॥

大王啊,众大车武士见那二人在彼处相遇,便发出狮子般的吼声,并挥动衣袍。

8.14.3

ततो भारत रुष्टेन तव पुत्रेण धन्विना ।
पाण्डुपुत्रस्त्रिभिर्बाणैर्वक्षस्यभिहतो बली ॥ ८.१४.३ ॥

婆罗多啊,那时你愤怒的射手之子以三支箭射中了般杜之子的胸膛,那勇猛的英雄受伤了。

8.14.4

सहदेवस्ततो राजन्नाराचेन तवात्मजम् ।
विद्व्वा विव्याध सप्तत्या सारथिं च त्रिभिः शरैः ॥ ८.१४.४ ॥

大王啊,萨哈德瓦随后以铁箭射穿你的儿子,又以七十支箭击之,并以三支箭射伤其御者。

8.14.5

दुःशासनस्ततश्चापं छित्त्वा राजन्महाहवे ।
सहदेवं त्रिसप्तत्या बाहोरुरसि चार्पयत् ॥ ८.१४.५ ॥

大王啊,杜萨萨那在大战中斩断了萨哈德瓦的弓,并以七十三支箭射中他的臂膀与胸膛。

8.14.6

सहदेवस्तु सङ्क्रुद्धः खङ्गं गृह्य महाहवे ।
आविध्य प्रासृजत्तूर्णं तव पुत्रथं प्रति ॥ ८.१४.६ ॥

然而萨哈德瓦大怒,在大战中执剑旋转,迅速向你的儿子掷去。

8.14.7

समार्गणगुणं चापं छित्त्वा तस्य महानसिः ।
निपपात ततो भूमौ च्युतः सर्प इवाम्बरात् ॥ ८.१४.७ ॥

砍断他连同箭和弦的弓之后,他的大剑像从天空坠落的蛇一样落到地上。

8.14.8

अथान्यद्धनुरादाय सहदेवः प्रतापवान् ।
दुःशासनाय चिक्षेप बाणमन्तकरं ततः ॥ ८.१४.८ ॥

于是威武的偕天取过另一张弓,向难敌之弟难降射出一支致人死命的箭。

8.14.9

तमापतन्तं विशिखं यमदण्डोपमत्विषम् ।
खङ्गेन शितधारेण द्विधा चिच्छेद कौरवः ॥ ८.१४.९ ॥

那支闪耀如阎摩之杖的箭飞来时,这位俱卢子以利刃之剑将其劈为两段。

8.14.10

ततस्तं निशितं खङ्गमाविध्य युधि सत्वरः ।
धनुश्चान्यत्समादाय शरं जग्राह वीर्यवान् ॥ ८.१४.१० ॥

随即在战场上迅速挥动那把利剑,勇猛者又取过另一张弓,拿起一支箭。

8.14.11

तमापतन्तं सहसा निस्त्रिंशं निशितैः शरैः ।
पातयामास समरे सहदेवो हसन्निव ॥ ८.१४.११ ॥

偕天仿佛微笑着,用利箭射倒了那个在战场上突然冲来的剑士。

8.14.12

ततो बाणांश्चतुः षष्टिं तव पुत्रो महारणे ।
सहदेवरथं तूर्णं प्रेषयामास भारत ॥ ८.१४.१२ ॥

婆罗多之子啊,于是你的儿子在那场大战中迅速向偕天的战车射出六十四支箭。

8.14.13

ताच्छरान्समरे राजन्वेगेनापपतो बहून् ।
एकैकं पञ्चभिर्बाणैः सहदेवो न्यकृतन्तत ॥ ८.१४.१३ ॥

大王啊,在战斗中,偕天以每支五箭,将那些疾速飞来的众多箭矢一一射断。

8.14.14

सन्निवार्य महाबाणान्सहदेवः प्रतापवान् ।
अथास्मै सुबहून्बाणान्प्रेषयामास संयुगे ॥ ८.१४.१४ ॥

勇猛的偕天挡开了大箭,随后在战斗中向他射出了极多的箭矢。

8.14.15

तान्वाणांस्तव पुत्रोऽपि छित्त्वैकैकं त्रिभिः शरैः ।
ननाद सुमहानादं नादयानो वसुंधराम् ॥ ८.१४.१५ ॥

你的儿子也用三支箭将每一支箭斩断,并发出巨大的吼声,使大地回响。

8.14.16

ततो दुःशासनो राजन्द्वाभ्यां पाण्डुसुतं रणे ।
सारथिं नवभिर्बाणैर्माद्रोयस्य समाचिनोत् ॥ ८.१४.१६ ॥

大王啊,于是难降在战斗中以两箭射中般度之子,又以九箭射中摩德罗之子的御者。

8.14.17

ततः क्रुद्धो महाराज सदहेवः प्रतापवान् ।
समाधत्त शरं घोरं मृत्युकालान्तकोपमम् ॥ ८.१४.१७ ॥

大王啊,于是愤怒的勇猛偕天搭上一支可怕的箭,它如同死神、时间与终结者。

8.14.18

विकृष्य बलवच्चापं तव पुत्राय सोऽसृजत् ।
स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत् ॥ ८.१४.१८ ॥

他用力拉开强弓,向你的儿子射出一箭;箭迅猛地穿透了他,又劈开了他的大甲胄。

8.14.19

प्राविशद्वरणीं राजन्वल्मीकमिव पन्नगः ।
ततः सम्मुमुहे राजंस्तव पुत्रो महारथः ॥ ८.१४.१९ ॥

大王啊,如蛇入蚁穴,他进入了瓦兰尼。于是,大王啊,你的大车将之子昏厥了。

8.14.20

मूढं चैनं समालोक्य सारथिस्त्वरितो रथम् ।
अपोवाह भृशं त्रस्तो वध्यमानं शितैः शरैः ॥ ८.१४.२० ॥

车夫见他昏迷不醒,惊恐万分,急忙驾车逃走;他被利箭射中,极为恐惧。

8.14.21

पराजित्य रणे तं तु कौरव्यं पाण्डुनन्दनः ।
दुर्योधनबलं दृष्ट्वा प्रममाथ समन्ततः ॥ ८.१४.२१ ॥

般度之子在战场上击败那位俱卢族战士后,见到难敌的军队,便从四面将其摧毁。

8.14.22

पिपीलिकपुटं राजन्यथा मृद्गन्नरो रुषा ।
तथा सा कौरवी सेना मृदिता तेन भारत ॥ ८.१४.२२ ॥

大王啊,如同一个人愤怒地用土块碾碎蚁穴,婆罗多啊,那支俱卢军队便被他这样碾碎了。