Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.2.1

तच्छ्रुत्वा कर्णहननं पुत्रांश्चैव पलायितान् ।
धृतराष्ट्रो नृपश्चैव द्विजश्रेष्ठ किमब्रवीत् ॥ ८.२.१ ॥

婆罗门中最优秀的人啊,听闻迦尔纳被杀、诸子逃散之后,国王持国说了什么?

8.2.2

प्राप्तवान्व्यसनं घोरं पुत्रव्यसनजं महत् ।
काले यदुक्तवांस्तस्मिंस्तन्ममाचक्ष्व तत्त्वतः ॥ ८.२.२ ॥

请如实告诉我,当他遭遇那由诸子覆灭而生的可怕大灾难时,他当时说了什么。

8.2.3

एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः ।
अब्रवीत्सञ्जयं सूतं शोकसंविग्नमानसः ॥ ८.२.३ ॥

大王啊,持国——安婆利迦之子——听闻此事,心中为悲痛所扰,对御者桑闍耶说道。

8.2.4

दुष्प्रणीतेन मे तात पुत्रस्यादीर्घजीविनः ।
हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति ॥ ८.२.४ ॥

亲爱的,因我的恶谋和短命之子,听闻毗迦尔摩那(迦尔纳)已被杀,悲痛割裂着我的要害。

8.2.5

तस्य मे संशयं छिन्धि दुःखपारं तितीर्षतः ।
कुरूणां सृञ्जयानां च के जीवन्ति के मृताः ॥ ८.२.५ ॥

请断除我的疑惑,因我想渡过苦难的彼岸:在俱卢与斯楞闍耶之中,谁活着,谁已死去?

8.2.6

हतः शान्तनवो राजन्दुराधर्षः प्रतापवान् ।
हत्वा पाण्डवयोधानामर्बुदं दशभिर्दिनैः ॥ ८.२.६ ॥

大王啊,珊塔努之子毗湿摩,不可战胜而威力强大,已被杀害。他在十日之内曾杀死般达瓦战士一阿布达(一亿)之众。

8.2.7

तथा द्रोणो महेष्वासः पाञ्चालानां रथव्रजान् ।
निहत्य युधि दुर्धर्षः पञ्चाद्रुक्मरथो हतः ॥ ८.२.७ ॥

同样,大弓手德罗纳在战斗中杀尽了般遮罗人的战车群,那位在战场上不可战胜的金车勇士最终也被杀死了。

8.2.8

हतशेषस्य भीष्मेण द्रोणेन च महात्मना ।
अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः ॥ ८.२.८ ॥

在毗湿摩与大度的德罗纳杀尽残余军队的一半之后,毗迦尔塔那之子迦尔纳也被杀死了。

8.2.9

विविंशतिर्महाराज राजपुत्रो महाबलः ।
आनर्तयोधाञ्शतशो निहत्य निहतो रणे ॥ ८.२.९ ॥

大王啊,王子、大力的毗吠深提在战场上杀死数百名阿那尔多武士后,自己也被杀死了。

8.2.10

तथा पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन् ।
क्षीणबाणो हतः शूरः स्थितो ह्यभिमुखः परैः ॥ ८.२.१० ॥

同样,您的儿子毗迦尔纳牢记刹帝利的誓愿,箭矢已尽,仍面对敌人挺立,英勇战死。

8.2.11

धोररूपान्परिक्लेशान्दुर्योधनकृतान्बहून् ।
प्रतिज्ञां स्मरता तेन भीमसेनेन पातितः ॥ ८.२.११ ॥

毗摩森那记得难敌所造成的种种可怕苦难,并牢记自己的誓言,将他击倒。

8.2.12

विन्दानुविन्दावावन्त्यौ राजपुत्रौ महारथौ ।
कृत्वा स्वसुकरं कर्म गतौ वैवस्वतक्षयम् ॥ ८.२.१२ ॥

阿槃提的两位王子、大车战士频陀与阿努频陀,为妹妹完成了应做之事,前往毗婆娑多(阎摩)的住处。

8.2.13

सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यानिह ।
यस्य तिष्ठन्ति वचने यः स्थितस्तव शासने ॥ ८.२.१३ ॥

信度国等此地十国,皆听从他的话;他站在你的号令之下。

8.2.14

अक्षौहिणीर्दशैकां च विनिर्जित्य शितैः शरैः ।
सोऽर्जुनेन हतो राजन्महावीर्यो जयद्रथः ॥ ८.२.१४ ॥

大力的胜车,以利箭征服了十一支军队,大王啊,却被阿周那杀死了。

8.2.15

तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः ।
वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः ॥ ८.२.१५ ॥

同样,难敌之子勇猛而沉醉于战斗,遵从父亲的命令,却被善贤(阿毗曼尤)击倒。

8.2.16

तथा दौःशासनिः सूरो बाहुशाली रणोत्कटः ।
द्रौपदेयेन सङ्गम्य गमितो यमसादनम् ॥ ८.२.१६ ॥

同样,难降之子,英勇有力、在战场上凶猛,遇上德罗波蒂之子后,被送往阎摩之处。

8.2.17

किरातानामधिपतिः सागरानूपवासिनाम् ।
देवराजस्य धर्मात्मा प्रियो बहुमतः सखा ॥ ८.२.१७ ॥

他是俱罗(吉罗多)人的首领,海边沼泽地的主人,心地正直,是天王(因陀罗)所爱重、深受尊敬的朋友。

8.2.18

भगदत्तो महीपालः क्षत्रधर्मरतः सदा ।
धनञ्जयेन विक्रम्य गमितो यमसादनम् ॥ ८.२.१८ ॥

婆伽陀(薄伽陀)是大地的守护者,始终专心于刹帝利之法;他与财主(阿周那)勇敢交战,被送往阎摩之处。

8.2.19

तथा कौरवदायादो न्यस्तशस्त्रो महायशाः ।
हतो भूरिश्रवा राजञ्शूरः सात्यकिना युधि ॥ ८.२.१९ ॥

同样,俱卢的继承者、大名鼎鼎的毗利输罗斯放下了武器,大王,却在战斗中被英雄萨提亚奇所杀。

8.2.20

श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धुरन्धरः ।
चरन्नभीतवत्सङ्ख्ये निहतः सव्यसाचिना ॥ ८.२.२० ॥

勇士中的领袖室鲁多由,在战场上行走仿佛无所畏惧,却被左开弓(阿周那)所杀。

8.2.21

तव पुत्रः सदामर्षी कृतास्त्रो युद्धदुर्मदः ।
दुःशासनो महाराज भीमसेनेन पातितः ॥ ८.२.२१ ॥

你的儿子难降,常怀愤恨,精通武艺,在战斗中狂妄,大王,被毗摩森那打倒。

8.2.22

यस्य राजन्गजानीकं बहुसाहस्रमद्भुतम् ।
सुदक्षिणः स सङ्ग्रामे निहतः सव्यसाचिना ॥ ८.२.२२ ॥

大王,拥有数千头奇妙象军的善右,在战斗中被左开弓(阿周那)所杀。

8.2.23

कोसलानामधिपतिर्हत्वा बहुमतान्परान् ।
सौभद्रेणेह विक्रम्य गमितो यमसादनम् ॥ ८.२.२३ ॥

憍萨罗的统治者,杀死了许多受尊敬的敌人,在此被萨鲍跋陀罗以勇武送往阎摩之居。

8.2.24

बहुशो योधयित्वा तु भीमसेनं महारथम् ।
चित्रसेनस्तव सुतो भीमसेनेन पातितः ॥ ८.२.२४ ॥

你的儿子奇舍那与大车将毗摩森那多次交战之后,也被毗摩森那打倒。

8.2.25

मद्रराजात्मजः शूरः परेषां भयवर्धनः ।
असिचर्मधरः श्रीमान्सौभद्रेण निपातितः ॥ ८.२.२५ ॥

摩德罗王之子,英勇之人,令敌人心生恐惧,手持剑与盾的光荣者,被苏跋德罗之子击倒。

8.2.26

समः कर्णस्य समरे यः स कर्णस्य पश्यतः ।
वृषसेनो महातेजाः शीघ्रास्त्रो दृढविक्रमः ॥ ८.२.२६ ॥

在战场上与迦尔纳相当的瓦湿塞那,光辉伟大、善用箭、勇猛坚定,在迦尔纳眼前被杀。

8.2.27

अभिमन्योर्वधं स्मृत्वा प्रतिज्ञामपि चात्मनः ।
धनञ्जयेन विक्रम्य गमितो यमसादनम् ॥ ८.२.२७ ॥

迦尔纳忆起阿毗曼纽之死与自己的誓言,财主(阿周那)勇猛地将他送往阎摩之居。

8.2.28

नित्यं प्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः ।
विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः ॥ ८.२.२८ ॥

常与般度诸子为敌的地上之主室鲁塔尤斯,在阿周那宣告仇恨之后被击倒。

8.2.29

शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष ।
हतो रुक्मरथो राजञ्श्यालो मातुलजो युधि ॥ ८.२.२९ ॥

沙利耶的英勇之子,尊者啊,被偕提婆所杀。王啊,鲁克玛罗陀在战斗中被杀,他是你的内兄弟和母系表兄。

8.2.30

राजा भागीरथो वृद्धो बृहत्क्षत्रश्च केकयः ।
पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ ॥ ८.२.३० ॥

老王婆吉罗陀与甘伽亚人布利哈特克沙特拉,二人皆展现勇力,极为英勇,被杀。

8.2.31

भगदत्तसुतो राजन्कृतप्रज्ञो मंहाबलः ।
श्येनवच्चरता सङ्ख्ये नकुलेन निपातितः ॥ ८.२.३१ ॥

大王啊,婆伽陀之子,强大而聪慧,在战场上被像鹰一样飞翔的那拉库拉击倒。

8.2.32

पितामहस्तव तथा बाह्लीकः सह बाह्लिकैः ।
निहतो भीमसेनेन महाबालपराक्रमः ॥ ८.२.३२ ॥

你的祖父巴利迦也与巴利迦人一同被毗摩森那杀死;他拥有强大的力量与勇武。

8.2.33

जयत्सेनस्तथा राजञ्जारासन्धिर्महाबलः ।
मागधो निहतः सङ्ख्ये सौभद्रेण महात्मना ॥ ८.२.३३ ॥

大王啊,摩揭陀王迦罗桑陀的强大之子阁耶森那,也在战场上被苏跋陀罗的伟大之子杀死。

8.2.34

पुत्रस्ते दुर्मुखो राजन्दुःसहश्च महारथः ।
गदया भीमसेनेन निहतौ शूरमानिनौ ॥ ८.२.३४ ॥

大王啊,你的儿子杜尔穆卡和大车战士杜沙诃,自以为是英雄,二人都被毗摩森那用大棒杀死。

8.2.35

दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः ।
कृत्वा त्वसुकरं कर्म गता वैवस्वतक्षयम् ॥ ८.२.३५ ॥

大车战士杜尔马尔沙那、杜尔维沙诃和杜尔阇耶,也在建立了艰难的功业之后,前往毗婆娑外多的居所。

8.2.36

उभौ कलिङ्गवृषकौ भ्रातरौ युद्धदुर्मदौ ।
कृत्वा चासुकरं कर्म गतौ वैवस्वतक्षयम् ॥ ८.२.३६ ॥

羯陵伽的两位兄弟伐梨沙迦,两人都沉醉于战斗,建立了艰难的功业之后,前往毗婆娑外多的居所。

8.2.37

सचिवो वृषपर्वा ते शूरः परमवीर्यवान् ।
भीमसेनेन विक्रम्य गमितो यमसादनम् ॥ ८.२.३७ ॥

你的盟友伐娑帕尔万,英勇无比的英雄,被毗摩勇猛地冲击,送往阎摩的住所。

8.2.38

तथैव पौरवो राजा नागायुतबलो महान् ।
समरे पाण्डुपुत्रेण निहतः सव्यसाचिना ॥ ८.२.३८ ॥

同样,拥有万头象之力的伟大波卢瓦王,在战场上被班度之子萨维亚萨钦杀死。

8.2.39

वसातयो महाराज द्विसाहस्राः प्रहारिणः ।
शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः ॥ ८.२.३९ ॥

大王啊,两千名出击的伐萨提人和勇猛的首罗色那人,全都在战场上被击倒。

8.2.40

अभीषाहाः कवचिनः प्रहरन्तो रणोत्कटाः ।
शिबयश्च रथोदाराः कालिङ्गसहिता हताः ॥ ८.२.४० ॥

持盾者、披甲者、在战场上猛烈攻击的勇士、尸毗人和高贵的车战武士,与羯陵伽人一同被杀。

8.2.41

गोकुले नित्यसंवृद्धा युद्धे परमकोपनाः ।
गोपालाः कृतवीरास्ते निहताः सव्यसाचिना ॥ ८.२.४१ ॥

在戈库拉长大、战场上极其愤怒的勇敢牧牛人,被萨维亚萨钦杀死。

8.2.42

श्रेणयो बहुसाहस्राः संशप्तकगणाश्च ये ।
ते सर्वे पार्थमासाद्य गदा वैवस्वतक्षयम् ॥ ८.२.४२ ॥

成千上万的战士队列和三誓军诸队,全都迎战般度之子,前往毗婆娑多的住所。

8.2.43

श्यालौ तव महाराज राजानौ वृषकाचलौ ।
त्वदर्थमतिविक्रान्तौ निहतौ सव्यसाचिना ॥ ८.२.४३ ॥

大王啊,您的两位内兄,国王伏粟迦与阿恰罗,为您奋勇作战,被左手善射者(阿周那)杀死。

8.2.44

उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा ।
साल्वराजो महाबाहुर्भीमसेनेन पातितः ॥ ८.२.४४ ॥

萨尔瓦国王,行事凶猛,大弓手,以名声与事迹著称,臂力强大,被毗摩婆那所击倒。

8.2.45

ओघवांश्च महाराज बृहन्तः सहितौ रणे ।
पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम् ॥ ८.२.४५ ॥

大王啊,奥伽瓦与布利哈塔二人并肩在战场上为朋友奋勇作战,前往毗婆娑多(阎摩)之处。

8.2.46

तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशाम्पते ।
निहतो गदया राजन्भीमसेनेन संयुगे ॥ ८.२.४६ ॥

同样,人主啊,车战之中最杰出的克谢玛德尔提,大王,在战斗中被毗摩婆那的铁杵击杀。

8.2.47

तथा राजन्महेष्वासो जलसन्धौ महाबलः ।
सुमहत्कदनं कृत्वा हतः सात्यकिना रणे ॥ ८.२.४७ ॥

同样,大王啊,伟大的弓手、力量强大的遮罗桑陀,大肆杀戮之后,在战场上被萨提亚基杀死。

8.2.48

अलम्बुसो राक्षसेन्द्रः खरबन्धुरयानवान् ।
घटोत्कचेन विक्रम्य गमितो यमसादनम् ॥ ८.२.४८ ॥

罗刹王阿兰布萨,乘驴车,被迦陀迦恰以勇力送往阎摩之处。

8.2.49

राधेयः सूतपुत्रश्च भ्रातरश्च महारथाः ।
केकयाः सर्वशश्चापि निहताः स्व्यसाचिना ॥ ८.२.४९ ॥

迦尔纳(罗陀之子、御者之子)及其兄弟、大战车武士,以及所有的家族,皆被能用双手射箭的阿周那所杀。

8.2.50

मालवा मद्रकाश्चैव द्राविडाश्चोग्रकर्मिणः ।
यौधेयाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः ॥ ८.२.५० ॥

摩罗婆人、摩德罗人、行事凶猛的德罗毗荼人、耶陀吠耶人、罗利多人、刹那迦人,以及乌尸那罗人。

8.2.51

मावेल्लकास्तुण्डिकेराः सावित्रीपुत्रकाश्च ये ।
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष ॥ ८.२.५१ ॥

摩维拉迦人、顿迪刻罗人、萨维特丽之子们,以及东、北、西、南方的诸族,啊,尊者。

8.2.52

पत्तीनां निहताः सङ्घा हयानां प्रयुतानि च ।
रथव्रजाश्च निहता हताश्च वरवारणाः ॥ ८.२.५२ ॥

步兵的群队被杀,数以十万计的战马被杀,战车的队列被毁,而优良的象群也被杀尽。

8.2.53

सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः ।
कालेन महताऽऽयस्ताः कुशलैर्ये च वर्धिताः ॥ ८.२.५३ ॥

那些持旗、持械、身披铠甲、衣饰庄严的勇士,曾由能人长期培育,如今被大时所毁灭。

8.2.54

ते हताः समरे राजन्पार्थेनाक्लिष्टकर्मणा ।
अन्ये तथाऽमितबलाः परस्परवधैषिणः ॥ ८.२.५४ ॥

啊,大王,他们在战场上被行事轻而易举的普利塔之子阿周那所杀;其他具有无量力量、相互寻求杀害对方的人,也是如此。

8.2.55

एते चान्ये च बहवो राजानः सगणा रणे ।
हताः सहस्रशो राजन्यन्मां त्वं परिपृच्छसि ॥ ८.२.५५ ॥

这些人以及其他许多国王连同他们的随从,在战场上成千上万地被杀,大王,您正是在问此事。

8.2.56

एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे ।
महेन्द्रेण यथा वृत्रो यथा रामेण रावणः ॥ ८.२.५६ ॥

卡尔纳与阿周那相遇时便发生了这样的毁灭,正如摩诃因陀罗杀死弗栗多、罗摩杀死罗波那一般。

8.2.57

यथा कृष्णेन नरको मुरुश्च निहतो रणे ।
कार्तवीर्यश्च रामेण भार्गवेण यथा हतः ॥ ८.२.५७ ॥

正如黑天在战场上杀死那罗迦与穆罗,婆利古后裔罗摩杀死迦尔塔毗利耶一般。

8.2.58

सज्ञातिबान्धवः शूरः समरे युद्धदुर्मदः ।
रणे कृत्वा महद्युद्धं घोरं त्रैलोक्यमोहनम् ॥ ८.२.५८ ॥

英雄连同亲族与宗亲,因战争的狂热而沉醉,在战场上进行了一场宏大可怕的战斗,使三界为之迷惑。

8.2.59

यथा स्कन्देन महिषो यथा रुद्रेण चान्धकः ।
तथाऽर्जुनेन स हतो द्वैरथे युद्धदुर्मदः ॥ ८.२.५९ ॥

正如摩醯娑被塞建陀所杀,安陀迦被鲁陀罗所杀,他因战争的狂热,在单车决斗中被阿周那所杀。

8.2.60

सामात्यबान्धवो राजन्कर्णः प्रहरतां वरः ।
जयाशा धार्तराष्ट्राणां वैरस्य च मुखं नृपः ॥ ८.२.६० ॥

大王,勇士中的最杰出者迦尔纳,连同大臣与亲族,他曾是持国子们胜利的希望,也是敌意的根源。

8.2.61

तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे ।
उच्यमानो महाराज बन्धुभिर्हितकाङ्क्षिभिः ॥ ८.२.६१ ॥

国王啊,你先前未能领悟的,般度之子已经度过了。大王啊,尽管希望你好的亲族们曾一再告诉你。

8.2.62

न कृतं च त्वया पूर्वं दैवेन विधिना बलात् ।
तदिदं समनुप्राप्तं व्यसनं सुमहात्ययम् ॥ ८.२.६२ ॥

你先前未做之事,凭借天命与定数的力量,如今这场极大而可怖的灾祸已降临到你身上。

8.2.63

गाणां राज्यकामानां त्वया राजन्हितैषिणा ।
अहितान्येव चीर्णानि तेषां ते फलमागतम् ॥ ८.२.६३ ॥

国王啊,你为了自身的福祉而对那些渴望王国的人所做的,只是有害之事;如今其果报已经降临到你身上。