Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.23

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.23.1

एवमुक्तो महाराज तव पुत्रः प्रतापवान् ।
मद्रेश्वरं प्रति रणे सुरसैन्यभयङ्करम्।
सर्वं तथाऽकरोत्तूर्णं राधेयस्तद्यथाऽब्रवीत् ॥ ८.२३.१ ॥

大王,你的勇猛之子、罗陀之子迦尔纳被如此吩咐后,迅速按他所说的一切去做,对象是在战场上连天神军队也为之恐惧的摩德罗之主。

8.23.2

मद्राजं च समरे प्रणम्य च महारथम् ।
विनयेनोपसङ्गम्य प्रणयाद्वाक्यमब्रवीत् ॥ ८.२३.२ ॥

在战场上向摩德罗王和那位大车战士致敬后,他谦恭地走近,出于亲切之情说出了这些话。

8.23.3

सत्यव्रत महाभाग द्विषतां तापवर्धन ।
मद्रेश्वर रणेशूर परसैन्यभयङ्कर ॥ ८.२३.३ ॥

守真者啊,大吉祥者,增益敌人苦恼者,摩德罗之主,战场英雄,令敌军恐惧者!

8.23.4

मत्प्रियार्थं हितार्थं च तथा पार्थवधाय च ।
श्रुतवानसि कर्णस्य ब्रुवतो वदतां वर।
यथा नृपतिसिंहानां मध्ये त्वां वरये स्वयम् ॥ ८.२३.४ ॥

为了我的喜悦与利益,也为了杀死般度之子,你已经听到了迦尔纳所说的话,言辞最优秀者啊;在众王雄狮之中,我亲自选你。

8.23.5

तत्त्वामप्रतिवीर्याद्य शत्रुपक्षक्षयावह ।
मद्रेश्वर प्रयाचेऽहं शिरसा विनयेन च ॥ ८.२३.५ ॥

你啊,无与伦比的勇力者,摧毁敌方的人,摩德罗之主,我低头谦卑地恳求你。

8.23.6

तस्मात्पार्थविनाशार्थं हितार्थं मम चैव हि ।
त्वं पाहि सर्वतः कर्णं भवं ब्रह्मेव सुव्रत ॥ ८.२३.६ ॥

因此,为了毁灭般度之子,也为了我的利益,持善愿者啊,请你从四面八方护卫迦尔纳,如同梵天守护一切。

8.23.7

सारथ्यं रथिनां श्रेष्ठ प्रणयात्कर्तुमर्हसि ।
त्वयि यन्तरि राधेयो विद्विषो मे विजेष्यते ॥ ८.२३.७ ॥

诸车战士中最优秀者啊,你应出于情谊担任御者。你为御者,罗陀之子迦尔纳将战胜我的敌人。

8.23.8

अभीषूणां हि कर्णस्य ग्रहीतान्यो न विद्यते ।
ऋते हि त्वां महाभाग वासुदेवसमं युधि ॥ ८.२३.८ ॥

大福之人啊,迦尔纳的马在战场上除你之外再无他人可以驾驭,你与婆薮提婆相等。

8.23.9

स पाहि सर्वथा कर्णं यथा ब्रह्मा महेश्वरम् ।
यथा च सर्वथाऽऽपत्सु वार्ष्णेयः पाति पाण्डवम्।
तथा मद्रेश्वराद्य त्वं राधेयं प्रतिपालय ॥ ८.२३.९ ॥

你应当全力护卫迦尔纳,如梵天护卫大自在天,如婆利什尼之裔在一切灾难中护卫般度之子。摩德罗王啊,今日请你护佑罗陀之子。

8.23.10

भीष्मो द्रोणः कृपः कर्णो भवान्भोजश्च वीर्यवान् ।
शकुनिः सौबलो द्रौणिरहमेव च नो बलम् ॥ ८.२३.१० ॥

毗湿摩、德罗纳、克里巴、迦尔纳、你、勇猛的婆阇、苏波罗之子沙古尼、德罗纳之子马嘶,以及我自己,便是我们的力量。

8.23.11

एवमेष कृतो भागो नवधा पृथिवीपते ।
न च भागोऽत्र भीष्मस्य द्रोणस्य च महात्मनः ॥ ८.२३.११ ॥

大地之主啊,这样的分配已分成九份,其中并无伟大的毗湿摩与德罗纳的份额。

8.23.12

ताभ्यामतीत्य तौ भागौ निहता मम शत्रवः ।
वृद्वौ हि तौ महेष्वासौ छलेन निहतौ युधि ॥ ८.२३.१२ ॥

越过那两份,我的敌人被杀害了。那两位年迈的大弓箭手在战斗中被诡计所杀。

8.23.13

कृत्वा चासुकरं कर्म गतौ स्वर्गमितोऽनघ ।
तथान्ये पुरुषव्याघ्राः परैर्विनिहता युधि ॥ ८.२३.१३ ॥

无罪者啊,他们二人完成了艰难的功业,已从此处升往天界;同样,其他人中的虎杰也在战场上被敌人杀死。

8.23.14

अस्मदीयाश्च बहवः स्वर्गाय गमिताः परैः ।
त्यक्त्वा प्राणानय्थाशक्ति चेष्टां कृत्वा च पुष्कलाम्। ॥ ८.२३.१४ ॥

我方的许多人也被敌人送往天界,他们舍弃性命,尽其所能全力以赴。

8.23.15

तदिदं हतभूयिष्ठं बलं मम नराधिप ।
पूर्वमप्यल्पकैः पार्थैर्हतं किमुत साम्प्रतम् ॥ ८.२३.१५ ॥

人主啊,我的这支军队大半已被杀死。从前即便被少数般度之子所杀,何况现在呢。

8.23.16

बलवन्तो महात्मानः कौन्तेयाः सत्यविक्रमाः ।
बलं शेषं न हन्युर्मे यथा तत्कुरु पार्थिव ॥ ८.२३.१६ ॥

国王啊,请设法使有大力、大德、真勇的贡蒂之子不要杀尽我剩余的军队。

8.23.17

हतवीरमिदं सैन्यं पाण्डवैः समरे विभो ।
कर्णो ह्येको महाबाहुरस्मत्प्रियहिते रतः ॥ ८.२३.१७ ॥

主公啊,这支军队的英雄们已在战场上被般度之子杀死。唯有大臂的迦尔纳仍一心为我们的利益与喜乐而努力。

8.23.18

भवांश्च पुरुषव्याघ्र सर्वलोकमहारथः ।
शल्य कर्णोऽर्जुनेनाद्य योद्वुमिच्छति संयुगे ॥ ८.२३.१८ ॥

你也是,人中的虎杰,遍世间的大车将,沙利耶啊;今日迦尔纳想要与阿周那在战斗中交锋。

8.23.19

तस्मिञ्जयाशा विपुला मद्रराज नराधिप ।
तस्याभीषुग्रहवरो नान्योऽस्ति भुवि कश्चन ॥ ८.२३.१९ ॥

摩德罗国王啊,人主!他心中有着巨大的胜利希望。对他而言,大地上没有比你更好的御者。

8.23.20

पार्थस्य समरे कृष्णो यथाऽभीषुग्रहो वरः ।
तथा त्वमपि कर्णस्य रथेऽभीषुग्रहो भव ॥ ८.२३.२० ॥

正如克里希那是般度之子在战场上最好的御者,你也应当成为迦尔纳战车上的御者。

8.23.21

तेन युक्तो रणे पार्थो रक्ष्यमाणश्च पार्थिव ।
यानि कर्माणि कुरुते प्रत्यक्षाणि तथैव तत् ॥ ८.२३.२१ ॥

国王啊,与他相合、受他保护的阿周那在战斗中所作的事迹,皆是显然可见的。

8.23.22

पूर्वं नः समरे ह्येवमधीदर्जुनो रिपून् ।
इदानीं विक्रमो ह्यस्य कृष्णेन सहितस्य च ॥ ८.२३.२२ ॥

从前在与我们的战斗中,阿周那就是这样战胜敌人的;如今与克里希那相合,他的勇力更加增长。

8.23.23

कृष्णेन सहितः पार्थो धार्तराष्ट्रीं महाचमूम् ।
अहन्यहनि मद्रेश द्रावयन्दृश्यते युधि ॥ ८.२३.२३ ॥

摩德罗之主啊,与克里希那同行的阿周那,每日在战场上驱散持国之子的庞大军队,人们都看得见。

8.23.24

भागोऽवशिष्टः कर्णस्य तव चैव महाद्युते ।
तं भागं सह कर्णेन युगपन्नाशयाद्य हि ॥ ८.२३.२४ ॥

光辉者啊,迦尔纳与你所剩的那份命运,今日就与迦尔纳一起,一并毁灭吧。

8.23.25

अरुणेन यथा सार्धं तमः सूर्यो व्यपोहति ।
तथा कर्णेन सहितो जहि पार्थं महाहवे ॥ ८.२३.२५ ॥

如同太阳与阿鲁那一起驱散黑暗,你与迦尔纳联手,在大战中击杀般度之子(阿周那)。

8.23.26

उद्यन्तौ च यथा सूर्यौ बालसूर्यसमप्रभौ ।
कर्णशल्यौ रणे दृष्ट्वा विद्रवन्तु महारथाः ॥ ८.२३.२६ ॥

如同两颗升起的太阳,光辉如初升的朝阳,大车武士们在战场上见到迦尔纳与沙利耶时,都应逃散。

8.23.27

सूर्यारुषौ यथा दृष्ट्वा तमो नश्यति मारिष ।
तथा नश्यन्तु कौन्तेयाः सपाञ्चालाः ससृञ्जयाः ॥ ८.२३.२७ ॥

如同见到太阳与阿鲁那,黑暗便消失,同样,尊者啊,愿贡蒂之子连同般遮罗与斯琳遮耶人一同灭亡。

8.23.28

रथिनां प्रवरः कर्णो यन्तॄणां प्रवरो भवान् ।
संयोगो युवयोर्लोके नाभून्न च भविष्यति ॥ ८.२३.२८ ॥

迦尔纳是战车武士中最优秀者,而你是御者中最优秀者;你们二人这样的结合,世上从未有过,也不会再有。

8.23.29

यथा सर्वास्ववस्थासु वार्ष्मेयः पाति पाण्डवम् ।
तथा भवान्परित्रातु कर्णं वैकर्तनं रणे।
सारथ्यं क्रियतां तस्य युध्यमानस्य संयुगे ॥ ८.२३.२९ ॥

正如瓦尔什涅耶(克里希纳)在一切境况中保护般度之子,你也应在战斗中妥善保护毗迦尔摊那之子迦尔纳;愿为正在交战的他驾车。

8.23.30

यथा च समरे कृष्णो रक्षते सर्वतोऽर्जुनम् ।
तथा त्वमपि राधेयं रक्षस्व च महारणे ॥ ८.२३.३० ॥

正如克里希纳在战斗中从四面八方保护阿周那,你也应在大战中保护拉陀之子迦尔纳。

8.23.31

त्वया सारथिना ह्येष अप्रधृष्यो भविष्यति ।
देवतानामपि रणे सशक्राणां महीपते।
किं पुनः पाण्डवेयानां मा विशङ्कीर्वचो मम ॥ ८.२३.३१ ॥

大王啊,你若为他御车,他在战场上即使对因陀罗及诸天也不可战胜,何况般度之子们呢!不要怀疑我的话。

8.23.32

दुर्योधनवचः श्रुत्वा शल्यः क्रोधसमन्वितः ।
धार्तराष्ट्रमथोवाच सृक्विणी परिलेलिहन् ॥ ८.२३.३२ ॥

沙利耶听了难敌的话,满怀愤怒,舔着嘴角,对持国之子说道。

8.23.33

त्रिशिखां भ्रुकुटिं कृत्वा धुन्वन्हस्तौ पुनःपुनः ।
क्रोधरक्ते महानेत्रे परिवृत्य महाभुजः।
कुलैश्वर्यश्रुतबलैर्दृप्तः शल्योऽब्रवीदिदम् ॥ ८.२३.३३ ॥

皺起三道眉纹,反复挥动双手,转动因愤怒而赤红的大眼,以家世、权势、学识和力量自豪的大臂沙利耶说道:

8.23.34

न मामर्हसि राजेद्र नियोक्तुं कर्मणीदृशे ।
न हि पापीयसः श्रेयान्प्रेष्यत्वं कर्तुमर्हति ॥ ८.२३.३४ ॥

诸王之王啊,你不该派我去做这样的事。高贵之人不该做卑劣之人的仆役。

8.23.35

यो ह्यभ्युपगतं मित्रं गरीयांसं विशेषतः ।
वशे पापीयसो धत्ते तत्कार्यमधरोत्तरम् ॥ ८.२३.३५ ॥

若把已被接纳、尤其受尊敬的朋友置于卑劣之人的掌控之下,此人之事便会颠倒败坏。

8.23.36

ब्रह्मणा ब्राह्मणाः सृष्टा मुखात्क्षत्रं च बाहुतः ।
ऊरुभ्यामथ वैश्या वै शूद्राः पद्भ्यामिति श्रुतिः ॥ ८.२३.३६ ॥

梵天从口中造出婆罗门,从臂中造出刹帝利,又从大腿造出吠舍,从足造出首陀罗,吠陀如是说。

8.23.37

तेभ्यो वर्णविशेषाश्च प्रतिलोमानुलोमजाः ।
अथान्योन्यस्य संयोगाच्चातुर्वर्ण्यस्य भारत ॥ ८.२३.३७ ॥

由他们产生了各种特殊的种姓,即由逆向与顺向婚配所生之人,还有四种姓相互结合所生之人,婆罗多的后裔啊。

8.23.38

गोप्तारः सङ्गृहीतारो दातारः क्षत्रियाः स्मृताः ॥ ८.२३.३८ ॥

刹帝利被称为保护者、聚集者和施主。

8.23.39

याजनाध्यापनैर्विप्रा विशुद्वैश्च प्रतिग्रहैः ।
लोकस्यानुग्रहार्थाय स्थापिता ब्राह्मणा भुवि ॥ ८.२३.३९ ॥

婆罗门被安置在大地上,以惠益世界:为他人主持祭祀、传授教法,并接受清净的布施。

8.23.40

कृषिश्च पाशुपाल्यं च विशां दानं च धर्मतः ।
ब्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः ॥ ८.२३.४० ॥

农耕、牧畜以及依法布施,是吠舍的职责;首陀罗被规定为婆罗门、刹帝利和吠舍的仆役。

8.23.41

ब्रह्मक्षत्रस्य विहिताः सूता वै परिचारकाः ।
न क्षत्रियो वै सूतानां शृणुयाच्च कथञ्चन ॥ ८.२३.४१ ॥

御者(sūta)被规定为婆罗门和刹帝利的侍从。刹帝利绝不应以任何方式聆听御者的言说。

8.23.42

अहं मूर्धाभिषिक्तो हि राजर्षिकुलजो नृपः ।
महारथसमाख्यातः सेव्यः स्तुत्यश्च वन्दिनां ॥ ८.२३.४२ ॥

我是头顶受灌顶的国王,生于王仙之家,以大车战士闻名,值得侍奉与赞颂,为吟游诗人所颂扬。

8.23.43

सोऽमहेतादृशो भूत्वा नेहारिबलसूदनः ।
सूतपुत्रस्य सङ्ग्रामे सारथ्यं कर्तुमुत्सहे ॥ ८.२३.४३ ॥

我并非如此之人,我在此摧毁敌军之力,愿在战场上为御者之子驾车。

8.23.44

अवमन्यसे मां गान्धारे ध्रुवं चाप्यतिशङ्कसे ।
यस्माद्ब्रवीषि विस्रब्धः सारथ्यं क्रियतामिति ॥ ८.२३.४४ ॥

甘达罗啊,你轻视我,必定也极为怀疑,因为你自信地说:“就让御车之事去做吧。”

8.23.45

अस्मत्तोऽभ्यधिकं कर्णं मन्वानस्तं प्रशंससि ।
न चाहं युधि राधेयं गणये तुल्यमात्मनः ॥ ८.२३.४५ ॥

你认为迦尔纳比我优秀,因而赞美他;但在战场上,我甚至不把罗陀之子视为与自己相等。

8.23.46

आदिश्यतामभ्यधिको ममांशः पृथिवीपते ।
तमहं समरे हत्वा गमिष्यामि यथागतम् ॥ ८.२३.४६ ॥

地上之主啊,若有比我更强者,请下令指派他;我在战场上杀死他之后,将如来时一样离去。

8.23.47

अथवाप्येक एवाहं योत्स्यामि तव शत्रुभिः ।
पश्य वीर्यं ममाद्य त्वं सङ्ग्रामे दहतो रिपून् ॥ ८.२३.४७ ॥

或者,我一人便与你的敌人作战。今日请你看我在战场上焚烧敌人的勇力。

8.23.48

न चापि कामान्कौरव्य निधाय हृदये पुमान् ।
अस्मद्विधः प्रवर्तेत मा मा त्वमतिशङ्किथाः ॥ ८.२३.४८ ॥

库鲁之后啊,像我这样的人不会心怀私欲而行事。你不要过分怀疑我。

8.23.49

अपि चाप्यवमानो मे न कर्तव्यः कथञ्चन ।
पश्य भीमौ मम भुजौ वज्रसंहननौ दृढौ ॥ ८.२३.४९ ॥

而且无论如何都不可轻慢我。请看我这两条可怖的手臂,坚硬如金刚。

8.23.50

धनुः पश्य च मे चित्रं शरांश्चाशीविषपमान् ।
रथं च पश्य मे चित्रं सदश्वैर्वातवेगिभिः ॥ ८.२३.५० ॥

请看我那神奇的弓,还有如毒蛇般的箭。请看我那神奇的战车,套着疾如风的良马。

8.23.51

गदां च पश्य गान्धारे हेमपट्टविभूषिताम् ।
दारयेयं महीं क्रुद्धो विकिरेयं च पर्वतान्।
शोषयेयं समुद्रांश्च पातयेयं च भास्करम् ॥ ८.२३.५१ ॥

乔荼罗啊,请看我那饰有金箍的钺棒。若我愤怒,便能裂开大地,散落群山,使海洋干涸,甚至让太阳坠落。

8.23.52

तं मामेवंविधं राजन्समर्थमरिनिग्रहे ।
कस्माद्युनङ्क्षि सारथ्ये सूतस्याधिरथेस्तु माम् ॥ ८.२३.५२ ॥

大王啊,我如此善于制服敌人,你为何却让我担任御者之职?我乃御者阿迪拉陀之子啊。

8.23.53

न चापि मम राधेयः कलामर्हति षोडशीम् ॥ ८.२३.५३ ॥

我这位罗陀之子(Rādheya)的十六分之一,你也配不上。

8.23.54

सकर्णा ये त्रयो लोकाः सार्जुनाः सजनार्दनाः ।
निबद्वांस्तन्त्रणे राजन्न गणेयं कथञ्चन ॥ ८.२३.५४ ॥

大王啊,即便三界,连同迦尔纳、阿周那与克里希那,在战斗中被束缚,我也绝不会把他们放在眼里。

8.23.55

न चाहं प्राकृतः कश्चिन्न चास्म्यधिगतः स्वयम् ।
अयं चाप्यवमानो मे न कर्तव्यः कथञ्चन ॥ ८.२३.५५ ॥

我非凡庸之人,也非自甘卑下之人。此等侮辱,绝不可加于我身。

8.23.56

आपृच्छे त्वाद्य गान्धारे यास्यामि विषयं प्रति ।
न चाहं सूतपुत्रस्य सारथ्यमुपजग्मिवान् ॥ ८.२३.५६ ॥

哦,乾陀罗王,我今日向你告辞,将返回本国。我并非为了给御者之子驾车而来。

8.23.57

अवमानमहं प्राप्य न योत्स्यामि कथञ्चन ।
आपृच्छे त्वाऽद्य गान्धारे गमिष्यामि गृहाय वै ॥ ८.२३.५७ ॥

我既受此侮辱,断不会再作战。哦,乾陀罗王,今日向你告辞,我必将回家。

8.23.58

एवमुक्त्वा महाराज शल्यः समितिशोभनः ।
उत्थाय प्रययौ तूर्णं राजमध्यादमर्षितः ॥ ८.२३.५८ ॥

大王,说完此话,会中之光的沙利耶愤然起身,迅速从诸王之中离去。

8.23.59

प्रणयाद्बहुमानाच्च तं निगृह्य सुतस्तव ।
अब्रवीन्मधुरं वाक्यं साम्ना सर्वार्थसाधकम् ॥ ८.२३.५९ ॥

你的儿子出于爱慕与深切敬重而挽留他,以温和的语言说出了能成就一切目的的甜美之言。

8.23.60

यथा शल्य त्वमात्थेदमेवमेतदसंशयम् ।
अभिप्रायस्तु मे कश्चित्तं निबोध जनेश्वर ॥ ८.२३.६० ॥

沙利耶,你所说的确然无疑。但是,人主啊,我有一个想法,请你明白。

8.23.61

न कर्णोऽभ्यधिकस्त्वत्तो न चान्ये चैव पार्थिवाः ।
न च मद्रेश्वर त्वां वै कृष्णः सोढुं च शक्ष्यति ॥ ८.२३.६१ ॥

迦尔纳不胜于你,其他诸王也不胜于你;摩德罗之主啊,黑天也确实无法抵挡你。

8.23.62

ऋतमेव हि पूर्वास्ते वदन्ति पुरुषोत्तमाः ।
तस्मादार्तायनिः प्रोक्तो भवानिति मतिर्मम ॥ ८.२३.६२ ॥

古之至上之人确实如此说;因此在我看来,你被称为阿尔塔亚那之子。

8.23.63

शल्यबूतस्तु शत्रूणां यस्मात्त्वं युधि मानद ।
तस्माच्छल्येति ते नाम कथ्यते पृथिवीतले ॥ ८.२३.६३ ॥

因为你在战场上是敌人的刺,尊贵的赐予者啊,所以在大地上你的名字被称为沙利耶。

8.23.64

यदेतद्व्याहृतं पूर्वं भवता भूरिदक्षिण ।
तदेव कुरु धर्मज्ञ मदर्थं यद्यदुच्यते ॥ ८.२३.६४ ॥

你先前所说的,大施主啊,知法者啊,请为我而做,凡有所言,皆当如是。

8.23.65

न च त्वत्तो हि राधेयो न चाहमपि वीर्यवान् ।
वृणेऽहं त्वां हयाग्र्याणां यन्तारमिह संयुगे ॥ ८.२३.६५ ॥

罗陀之子迦尔纳不胜于你,我也并非强大;在此战中,我选你作为最优良骏马的御者。

8.23.66

मन्ये चाभ्यधिकं शल्य गुणैः कर्णं धनञ्जयात् ।
भवन्तं वासुदेवाच्च लोकोऽयमतिमन्यते ॥ ८.२३.६६ ॥

沙利耶啊,论德行,我认为迦尔纳胜过持财者(阿周那),而你胜过婆薮提婆(黑天);这个世界也如此推崇。

8.23.67

कर्णो ह्यभ्यधिकः पार्थादस्त्रैरेव नरर्षभ ।
भवानभ्यधिकः कृष्णादश्वज्ञाने बले तथा ॥ ८.२३.६७ ॥

人中之牛啊,迦尔纳在武器上确实胜过帕尔塔(阿周那),而你在马术知识和力量上胜过克里希纳。

8.23.68

यथाऽश्वहृदयं वेद वासुदेवो महामनाः ।
द्विगुणं त्वं तथा वेत्सि मद्रराजेश्वरात्मज ॥ ८.२३.६८ ॥

如同大心的瓦苏提婆知晓马的心性,你,摩德罗王之子啊,知晓得加倍。

8.23.69

यन्मां ब्रवीषि गान्धारे मध्ये सैन्यस्य कौरव ।
विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि ॥ ८.२३.६९ ॥

哦,俱卢,哦,犍陀罗,你在军中对我说的话——我胜过提婆吉之子(克里希那)——因此我对你心生欢喜。

8.23.70

एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः ।
युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे ॥ ८.२३.७० ॥

勇士啊,正如你所想,我为名声显赫的罗陀之子(迦尔纳)执掌战车,他与般度诸子中的首席(阿周那)作战之时。

8.23.71

समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति ।
उत्सृजेयं यथाश्रद्वमहं वाचोऽस्य सन्निधौ ॥ ८.२३.७१ ॥

勇士啊,关于伟凯尔塔那(迦尔纳),我有一个条件:在他面前,我应能依自己的意愿说话。

8.23.72

तथेति राजन्पुत्रस्ते सह कर्णेन भारत ।
अब्रवीन्मद्रराजस्य मतं भरतस… ॥ ८.२३.७२ ॥

国王啊,婆罗多之后裔啊,你的儿子与迦尔纳一同说:“就这样吧。”摩德罗王之意,婆罗多……(原文缺失)