摩诃婆罗多 · 章 8.32
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.32.1
प्रयत्नेन तदा कर्णो हर्षयन्वाहिनीं तव ।
एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत ॥ ८.३२.१ ॥
那时,迦尔纳奋力鼓舞你的军队,在战场上逐一看着般度诸子,询问道。
8.32.2
यो ममाद्य महात्मानं दर्शयेच्छ्वेतवाहनम् ।
तस्मै दद्यामभिप्रेतं धनं यन्मनसेच्छति ॥ ८.३२.२ ॥
谁今天能向我指出那位伟大的白马者阿周那,我就将他心中所愿的财富赠予他。
8.32.3
न चेत्तदभिमन्येत तस्मै दद्यामहं पुनः ।
शकटं रत्नसम्पूर्णं यो मे ब्रूयाद्वनञ्जयम् ॥ ८.३२.३ ॥
若他不接受,我将再次把装满宝石的车赠予那个告诉我“伐那阇耶”(阿周那)的人。
8.32.4
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
शतं दद्यां गवां तस्मै नैत्यकं कांस्यदोहनम् ॥ ८.३२.४ ॥
若那位见过阿周那的人不接受,我将赠予他一百头牛,每天把它们的奶挤入青铜器中。
8.32.5
शतं ग्रामवरांश्चैव दद्यामर्जुनदर्शिने ।
तथा तस्मै पुनर्दद्यां श्वेतमश्वतरीरथम्।
युक्तमञ्जनकेशीभिर्यो मे ब्रूयाद्वनञ्जयम् ॥ ८.३२.५ ॥
指给我看阿周那的人,我将赠予一百个上好的村庄;并且再赠给他一辆套着白色骡子、鬃毛乌黑的车,凡告诉我伐那阇耶的人。
8.32.6
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
अन्यं वाऽस्मै पुनर्दद्यां सौवर्णं हस्तिषङ्गवम् ॥ ८.३२.६ ॥
若那位见过阿周那的人不接受,我将另赠他一物:一头上好的金象。
8.32.7
तथाप्यस्मै पुनर्दद्यां स्त्रीणां शतमलङ्कृतम् ।
श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम् ॥ ८.३२.७ ॥
即便如此,我仍会再给他一百名盛装的女子——身材纤细,佩戴金币项链,精通歌唱与乐器。
8.32.8
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
तस्मै दद्यां शतं नागाञ्शतं ग्रामाञ्शतं रथान् ॥ ८.३२.८ ॥
若那个见过阿周那的人对此不满足,我便给他一百头象、一百个村落和一百辆战车。
8.32.9
सुवर्णस्य च मुख्यस्य हयाग्र्याणां शतं शतान् ।
ऋद्व्या गुणैः सुदान्तांश्च धुर्यवाहान्सुशिक्षितान् ॥ ८.३२.९ ॥
还有数百匹以金饰装点的上等骏马,光彩与品质俱佳,训练有素,以及善于拉车、受过良好训练的驾车马。
8.32.10
तथा सुवर्णशृङ्गीणां गोधेनूनां चतुःशतम् ।
दद्यां तस्मै सवत्सानां यो मे ब्रूयाद्वनञ्जयम् ॥ ८.३२.१० ॥
同样,我会把四百头带金角的乳牛连同小牛,给予那个能向我报告阿周那(Dhanañjaya)消息的人。
8.32.11
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
अन्यदस्मै वरं दद्यां श्वेतान्पञ्चशतान्हयान् ॥ ८.३२.११ ॥
若那个见过阿周那的人仍不满足,我便另外赐他一份厚礼:五百匹白马。
8.32.12
हेमभाण्डपरिच्छन्नान्सुमृष्टमणिभूषणान् ।
सुदान्तानपि चैवाहं दद्यामष्टादशापरान् ॥ ८.३२.१२ ॥
我自己还会再给十八匹训练有素的马,披着金饰的马具,并以打磨过的宝石装饰。
8.32.13
रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलङ्कृतम् ।
युक्तं परमकाम्भोजैर्यो मे ब्रूयाद्वनञ्जयम् ॥ ८.३२.१३ ॥
若有人告诉我关于持财者(阿周那)的消息,我将赠予他一辆闪耀的金色战车,装饰华美,驾以最优良的甘博阇良马。
8.32.14
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
अन्यदस्मै वरं दद्यां कुञ्जराणां शतानि षट् ॥ ८.३२.१४ ॥
若见过阿周那的人不信此言,我将另赐他一份礼物:六百头大象。
8.32.15
काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः ।
उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः ॥ ८.३२.१५ ॥
以各式金器覆盖,佩戴金色花环,生于西方边境之地,由驯象师良好训练。
8.32.16
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
अन्यदस्मै वरं दद्यां वैश्यग्रामांश्चतुर्दश ॥ ८.३२.१६ ॥
若见过阿周那的人不信此言,我将另赐他一份礼物:十四个商人村落。
8.32.17
सुस्फीतान्धनसंयुक्तान्प्रत्यासन्नवनोदकान् ।
अकुतोभयान्सुसम्पन्नान्राजभोज्यांश्चतुर्दश ॥ ८.३२.१७ ॥
极其富饶,拥有财富,近处有森林与水源,无所畏惧,十分完备,适合王者享用的十四个(村落)。
8.32.18
दासीनां निष्ककण्ठीनां मागधीनां शतं तथा ।
प्रत्यग्रवयसां दद्यां यो मे ब्रूयाद्धनञ्जयम् ॥ ८.३२.१८ ॥
百名佩戴金币项链的摩揭陀侍女,以及青春正盛的女子——我将把她们赠予告诉我阿周那消息的人。
8.32.19
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
अन्यं तस्मै वरं दद्यां यमसौ कामयेत्स्वयम् ॥ ८.३२.१९ ॥
若见过阿周那的人不接受此事,我便给他另一项他自己所愿的恩赐。
8.32.20
पुत्रदारान्विहायैव यदन्यद्वित्तमस्ति मे ।
तच्च तस्मै पुनर्दद्यां यद्यच्च मनसेच्छति ॥ ८.३२.२० ॥
除了我的儿子与妻子,我其余的财富,以及他心中所愿的一切,我都会再次交给他。
8.32.21
हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः ।
तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ ॥ ८.३२.२१ ॥
杀死两位黑天连同他们的全部财富之后,我会把它交给那位告诉我说“羯舍婆与阿周那已被杀”的人。
8.32.22
एता वाचः सुबहुशः कर्ण उच्चारयन्युधि ।
दध्मौ सागरसम्भूतं सुस्वरं शङ्खमुत्तमम् ॥ ८.३२.२२ ॥
在战场上,迦尔纳反复说着这些话,吹响了生于大海、声音悦耳的上好法螺。
8.32.23
ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु ।
दुर्योधनो महाराज संहृष्टः सानुजोऽभवत् ॥ ८.३२.२३ ॥
大王啊,御者之子迦尔纳说出这些恰当的话,难敌与诸弟听后,极为欢喜。
8.32.24
ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशा ।
सिंहनादः सवादित्रः कुञ्चराणां च निःस्वनः ॥ ८.३२.२४ ॥
于是四方响起了战鼓的轰鸣与鼓声,狮吼之声,以及伴随乐器的象鸣。
8.32.25
प्रादुरासीत्तदा राजंस्त्वत्सैन्ये पुरुषर्षभ ।
योधानां सम्प्रहृष्टानां तथा समभवत्स्वनः ॥ ८.३२.२५ ॥
大王,人中牛,那时你的军中升起一片喧声;欢欣的战士们的呼声也同样响起。
8.32.26
तथा प्रहृष्टे सैन्ये तं प्लुवमानं महारथम् ।
विकत्थमानं च तदा राधेयमरिकर्शनम्।
मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत ॥ ८.३२.२६ ॥
军队如此欢欣之时,摩德罗国王微笑着对那位蹦跳夸耀的大车战士、罗陀之子、敌人的折磨者迦尔纳说了这番话。