摩诃婆罗多 · 章 8.34
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.34.1
अधिक्षिप्तस्तु राधेयः शल्येनामिततेजसा ।
शल्यमाह सुसङ्क्रुद्धो वाक्शल्यमवधारयन् ॥ ८.३४.१ ॥
被无限光辉的沙利耶辱骂后,罗陀之子迦尔纳极为愤怒,心中怀着那言语之箭,对沙利耶说道。
8.34.2
गुणान्गुणवतां शल्य गुणवान्वेत्ति नागुणः ।
त्वं तु नित्यं गुणैर्हीनः किं ज्ञास्यसि गुणागुणान् ॥ ८.३४.२ ॥
沙利耶啊,有德者知晓有德者的德行,无德者则不知。而你始终缺乏德行,又怎能分辨德与非德?
8.34.3
अर्जुनस्य महास्त्राणि क्रोधं वीर्यं धनुः शरान् ।
अहं शल्याभिजानामि न त्वं जानासि तत्तथा ॥ ८.३४.३ ॥
阿周那的大神兵、他的愤怒、勇力、弓与箭——沙利耶啊,我对此十分清楚;你却不是这样知道的。
8.34.4
तथा कृष्णस्य माहात्म्यमृषभस्य महीक्षिताम् ।
यथाहं शल्य जानामि न त्वं जानासि तत्तथा ॥ ८.३४.४ ॥
同样,大地诸王中的雄牛克里希那的伟大——沙利耶啊,我如此知晓;你却不是这样知道的。
8.34.5
एवमेवात्मनो वीर्यमहं वीर्यं च पाण्डवे ।
जानंस्तावाह्वये युद्धे शल्य नाग्निं पतङ्गवत् ॥ ८.३४.५ ॥
同样,我知道自己的力量与般度之子的力量,沙利耶啊,我在战场上向他挑战——并非如飞蛾扑火。
8.34.6
अस्ति चाऽयमिषुः शल्य सुपुङ्खो रक्तभोजनः ।
एकस्तूणीशयः पत्री सुधौतः समलङ्कृतः ॥ ८.३४.६ ॥
沙利耶啊,这里还有一支箭——羽毛美好,以血为食,独自躺在箭囊中,带羽,洗得干净,装饰精美。
8.34.7
शेते चन्दनचूर्णेन पूजितो बहुलाः समाः ।
आहेयो विषवानुग्रो नराश्वद्विपसङ्घहा ॥ ८.३४.७ ॥
以檀香粉供奉,它已躺卧多年;它生于毒蛇,有毒而凶猛,能杀戮成群的人、马和象。
8.34.8
घोररूपो महारौद्रस्तनुत्रास्थिविदारणः ।
निर्भिन्द्यां येन रुष्टोऽहमपि मेरुं महागिरिम् ॥ ८.३४.८ ॥
形状可怖,极其凶猛,能穿透铠甲、血肉与骨头;我若因此而愤怒,便能刺穿大山须弥。
8.34.9
तमहं जातु नास्येयमन्यस्मिन्फल्गुनादृते ।
कृष्णाद्वा देवकीपुत्रात्सत्यं चापि शृणुष्व मे ॥ ८.३४.९ ॥
此箭我绝不会向除Phalguna之外的任何人发射,或除德瓦基之子Kṛṣṇa之外;此为真实,请从我这里听清。
8.34.10
तेनाहमिषुणा शल्य वासुदेवधनञ्जयौ ।
योत्स्ये परमसंरब्धौ तत्कर्म सदृशं मम ॥ ८.३४.१० ॥
ı Śalya啊,我将用这支箭与极度愤怒的Vāsudeva和Dhanañjaya交战;这才是与我相称的行为。
8.34.11
सर्वेषां वृष्णिवीराणां कृष्णे लक्ष्मीः प्रतिष्ठिता ।
सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः।
उभयं तु समासाद्य को निवर्तितुमर्हति ॥ ८.३४.११ ॥
所有Vṛṣṇi英雄的福运都系于Kṛṣṇa,所有般度之子的胜利都系于Pārtha;面对此二人,谁能够退却?
8.34.12
तावेतौ पुरुषव्याघ्रौ समेतौ स्यन्दने स्थितौ ।
मामेकमभिसंयुद्धौ सुजातं पश्य शल्य मे ॥ ८.३४.१२ ॥
这两位人中之虎同立于一辆战车上,准备与我一人交战;Śalya啊,请看我高贵的勇武。
8.34.13
पितृष्वसामातुलजौ भ्रातरावपराजितौ ।
मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मया ॥ ८.३४.१३ ॥
两位不可战胜的兄弟,是姑母与舅父之子,如同串在线上的两颗宝珠——你将看到他们被我杀死。
8.34.14
अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्यकपिध्वजौ ।
भीरूणां त्रासजननं शल्य हर्षकरं मम ॥ ८.३४.१४ ॥
阿周那的弓甘狄拔与克里希那的轮盘,其旗帜上绘有迦楼罗与哈努曼——哦,沙利耶,它们使怯懦者恐惧,却使我欢喜。
8.34.15
त्वं तु दुष्प्रकृतिर्मूढो महायुद्वेष्वकोविदः ।
भयावदीर्णः सन्त्रासादबद्धं बहुः भाषसे ॥ ८.३४.१५ ॥
你品性恶劣,愚蠢,在大战中毫无经验;被恐惧撕裂,因惊骇而胡言乱语,说了许多不着边际的话。
8.34.16
संस्तौषि तौ तु केनापि हेतुना त्वं कुदेशज ।
तौ हत्वा समरे हन्ता त्वामद्य सह बान्धवम् ॥ ८.३४.१६ ॥
你因某种缘故赞美那两人,出生于恶劣之地的人啊!我在战场上杀死他们之后,今天将成为杀死你和你亲族的人。
8.34.17
पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन ।
सुहृद्रूपो रिपुः किं मां कृष्णाभ्यां भीषयिष्यसि ॥ ८.३४.१७ ॥
你这出生于罪恶之地、心怀恶念、卑劣、为刹帝利之耻辱的人!以朋友之形的敌人啊,你要用两位克里希那来吓唬我吗?
8.34.18
तौ वा मामद्य हन्तारौ हनिष्ये वाऽपि तावहम् ।
नाहं बिभेमि कृष्णाभ्यां विजानन्नात्मनो बलम् ॥ ८.३४.१८ ॥
那两人今天或会杀我,或我会杀他们。深知自己的力量,我不惧怕那两位克里希那。
8.34.19
वासुदेवसहस्रं वा फल्गुनानां शतानि वा ।
अहमेको हनिष्यामि जोषमास्स्व कुदेशज ॥ ८.३४.१९ ॥
即便有千个瓦苏提瓦或百个法尔古那,我一人也能将他们杀死。闭嘴吧,生于恶地之人。
8.34.20
स्त्रियो बालाश्च वृद्वाश्च प्रायः क्रीडागता जनाः ॥ ८.३४.२० ॥
妇女、孩童与老人,大多是去嬉戏的人们。
8.34.21
या गाथाः सम्प्रगायन्ति कुर्वतोऽध्ययनं यथा ।
ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु ॥ ८.३४.२१ ॥
沙利亚啊,请听我说那些如诵读功课般吟唱的诗句,它们讲的是心怀恶意的摩德罗人。
8.34.22
ब्राह्मणैः कथिताः पूर्वं यथावद्राजसन्निधौ ।
श्रुत्वा चैकमना मूढ मम वा ब्रूहि चोत्तरम् ॥ ८.३४.२२ ॥
往昔婆罗门在国王面前如实所述。你专心听后,愚人啊,请给我一个回答。
8.34.23
मित्रध्रुङ्मद्रको नित्यं यो नो द्वेष्टि स मद्रकः ।
मद्रके सङ्गतं नास्ति क्षुद्रवाक्ये नराधमे ॥ ८.३४.२३ ॥
摩德罗人总是背叛朋友;憎恨我们的人便是摩德罗人。摩德罗人之间没有结盟;他们言语卑劣,是人中最下等的。
8.34.24
दुरात्मा मद्रको नित्यं नित्यमानृतिकोऽनृजुः ।
यच्चान्यदपि दौरात्म्यं मद्रकेष्विति नः श्रुतम् ॥ ८.३४.२४ ॥
心怀恶意的摩德罗人总是、永远是欺诈而不正直的。摩德罗人中其他的恶行,我们也都听说过。
8.34.25
पिता पुत्रश्च माता च श्वश्रूश्वशुरमातुलाः ।
भगिनी दुहिता भ्राता नप्ताऽन्ये ते च बान्धवाः ॥ ८.३४.२५ ॥
父亲、儿子、母亲、岳母、岳父、舅舅、姐妹、女儿、兄弟、孙子,以及其他亲属——
8.34.26
वयस्याभ्यागताश्चान्ये दासीदासाश्च सङ्गताः ।
पुम्भिर्विमिश्रा नार्यश्च ज्ञाताज्ञाताः स्वयेच्छया ॥ ८.३४.२६ ॥
朋友、来访的客人及其他人,男女仆役,与男子混杂的女子,相识与不相识者——众人都出于自愿聚集。
8.34.27
येषां गृहेष्वशिष्टानां सक्तुमद्याशिनां सदा ।
पीत्वा शीधु सगोमांसं क्रन्दन्ति च हसन्ति च ॥ ८.३४.२७ ॥
在那些家中,总吃炒面的粗鄙之人,饮烈酒并佐以牛肉,时而哭泣,时而大笑。
8.34.28
गायन्ति चाप्यबद्धानि प्रवर्तन्ते च कामतः ।
कामप्रलापिनोऽन्योन्यं तेषु धर्मःकथं भवेत् ॥ ८.३४.२८ ॥
他们唱着放纵的歌,随欲妄为,彼此絮语情欲之言——他们之中怎能有法?
8.34.29
मद्रकेष्ववलिप्तेषु प्रख्याताशुभकर्मसु ।
नापि वैरं न सौहार्दं मद्रकेण समाचरेत् ॥ ८.३४.२९ ॥
在傲慢、以恶行著称的摩德罗人之中,对任何一位摩德罗人既不应结仇,也不应结交。
8.34.30
मद्रके सङ्गतं नास्ति मद्रको हि सदा मलः ।
मद्रकेषु च संसृष्टं शौचं गान्धारकेषु च ॥ ८.३४.३० ॥
不应与摩德罗人交往,因为摩德罗人永远是污秽。与摩德罗人混杂,同样与犍陀罗人混杂,都会毁坏清净。
8.34.31
राजयाजकयाज्ये हि यथा दत्तं हविर्नशेत् ।
शूद्रसंस्कारको विप्रो यथा याति पराभवम् ॥ ८.३४.३१ ॥
如同与国王、祭司和施主一同供奉的祭品会被污损,又如为首陀罗行礼的婆罗门堕入败落。
8.34.32
यथा ब्रह्मद्विषो नित्यं गच्छन्तीह पराभवम् ।
यथैव संगतं कृत्वा नरः पतति मद्रकैः ॥ ८.३४.३२ ॥
如同憎恨婆罗门者在此世总是败落,人与摩德罗人为伍也会堕落。
8.34.33
बालेष्वपि सदा न स्म धनं वृश्चिक ते विषम् ।
आथर्वणेन मन्त्रेण सर्वशान्तिः कृता मया ॥ ८.३४.३३ ॥
即使在孩童之中,财富也不常在;你的毒液亦是如此,蝎子啊。我以阿闼婆咒完成了全部安抚。
8.34.34
इति वृश्चिकदष्टस्य विषवेगहतस्य च ।
कुर्वन्ति भेषजं प्राज्ञाः सत्यं तच्चापि दृश्यते ॥ ८.३४.३४ ॥
如此,对于被蝎子咬伤、被毒力所击的人,智者配制药物,而这也可见是真实的。
8.34.35
एवं विद्वञ्जोषमास्स्व ब्रूहि चात्रोत्तरं वचः ।
वासांस्युत्सृज्य नृत्यन्ति स्त्रियो मद्यविमोहिताः ॥ ८.३४.३५ ॥
智者啊,如此便请沉默,并在此说出回应之语。被酒迷惑的女子脱去衣裳而跳舞。
8.34.36
मैथुनेऽसङ्गताश्चापि यथाकामवराश्च ताः ।
तासां पुत्र कथं धर्मं मद्रको वक्तुमर्हति ॥ ८.३४.३६ ॥
那些女子即便在交合中也不受约束,并依自己意愿选择丈夫。孩儿啊,摩德罗人怎配谈论她们的法?
8.34.37
यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रदशेरकाः ।
तासां विभ्रष्टधर्माणां निर्लज्जानां ततस्ततः।
त्वं पुत्रस्तादृशीनां हि धर्मं वक्तुमिहेच्छसि ॥ ८.३४.३७ ॥
你是那些站着小便、如同骆驼和蚊虫、背离法且无耻的女人的儿子,却想在这里谈论法。
8.34.38
सौवीरकं याच्यमाना मद्रिका कर्षति स्फिचौ ।
अदातुकामा वचनमिदं वदति दारुणम् ॥ ८.३४.३८ ॥
当有人请求索取sauvīraka时,摩陀女拖着臀部,不愿给予,便说出这些严厉的话。
8.34.39
मा मां सौवीरकं कश्चिद्याचतां दयितं मम ।
पुत्रं दद्यां पतिं दद्यां न तु दद्यां सुवीरकम् ॥ ८.३४.३९ ॥
愿无人向我索取我所珍爱的sauvīraka。我可以给予儿子,可以给予丈夫,但不会给予suvīraka。
8.34.40
गौर्यो बृहत्यो निर्हीका मद्रिकाः कम्पलावृताः ।
घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुम ॥ ८.३४.४० ॥
我们一般听说,摩陀女子白皙、身材高大、无耻,裹着毛毯,贪吃且不洁。
8.34.41
पमेहित्वा स्फिचौ भूमौ घर्षन्त्यो हीनशोधनाः ।
शुद्धा नाद्भिर्न मृद्भिश्च नित्योच्छिष्टा भवन्ति हि ॥ ८.३४.४१ ॥
她们在地上小便,揉搓臀部,又不好好清洗,既不能以水也不能以土得到净化,因而永远处于不净之中。
8.34.42
एवमादि मयाऽन्यैर्वा शक्यं वक्तुं भवेद्बहु ।
आकेशान्तान्नखाग्राच्च वक्तव्येषु कुकर्मसु ॥ ८.३४.४२ ॥
类似之事以及更多,我或他人都可以说出,从发梢到指甲尖,关于那些值得言说的恶行。
8.34.43
मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं त्विह ।
पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः ॥ ८.३४.४३ ॥
摩德罗人、信度人与索维罗人在此怎能知晓法?生于罪恶之地的蛮夷,不通法则。
8.34.44
एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम् ।
यदाजौ निहतः शेते सद्भिः समभिपूजितः ॥ ८.३४.४४ ॥
我们听说这是刹帝利最高的职责:在战斗中被杀而倒下的人,会受到善人的极大尊敬。
8.34.45
आयुधानां साम्पराये यन्मुञ्चेयमहं ततः ।
ममैष प्रथमः कल्पो निधने स्वर्गमिच्छतः ॥ ८.३४.४५ ॥
在战斗中我放下武器之前,这是我的第一个决心:对于在临终时渴望天界的人而言。
8.34.46
सोयं प्रियसखा चास्मि धार्तराष्ट्रस्य धीमतः ।
तदर्थे हि मम प्राणा यच्च मे विद्यते वसु ॥ ८.३४.४६ ॥
我是智慧的持国之子的亲密朋友;我的生命,以及我所拥有的财富,都为了他。
8.34.47
व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज ।
यथा चामित्रवत्सर्वं त्वमस्मासु प्रवर्तसे ॥ ८.३४.४७ ॥
显然,生于罪恶之地的你,也已被般度子们收买,因为你对待我们凡事都像敌人一样。
8.34.48
कामं न खलु शक्योऽहं त्वद्विधानां शतैरपि ।
सङ्ग्रामाद्विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः ॥ ८.३४.४८ ॥
的确,即便有上百个像你这样的人,也无法使我从战斗中退缩,正如无神论者无法使通晓法者退缩一样。
8.34.49
सारङ्ग इव घर्मार्तः कामं विलप शुष्य च ।
नाहं भीषयितुं शक्यः क्षत्रधर्मे व्यवस्थितः ॥ ८.३४.४९ ॥
如同被酷热折磨的鹿,你尽管悲叹、枯萎吧;我安立于刹帝利之法,无法被吓倒。
8.34.50
तनुत्यजां नृसिंहानामाहवेष्वनिवर्तिनाम् ।
या गतिर्गुरुणा प्रोक्ता प्रेम्णा रामेण तां स्मरे ॥ ८.३४.५० ॥
我记得老师罗摩怀着慈爱所宣告的、为那些舍身而不在战场上退缩的人中雄狮所定的归宿。
8.34.51
स्वेषां त्राणार्थमुद्यन्तं वधार्थं द्विषतामपि ।
विद्धि मामास्थितं वृत्तं पौरूरवसमुत्तमम् ॥ ८.३४.५१ ॥
你应知道,我准备保护自己人,也准备诛杀敌人,安住于月亮后裔(补卢)一族的最高品行之中。
8.34.52
न तद्भूतं प्रपश्यामि त्रिषु लोकेषु मद्रप ।
यो मामस्मादभिप्रायाद्वारयेदिति मे मतिः ॥ ८.३४.५२ ॥
摩德罗国之主啊,我看不到三界之中有谁能使我放弃这一意图——这是我的看法。
8.34.53
एवं विद्वञ्जोषमास्स्व त्रासात्किं बहु भाषसे ।
न त्वां हत्वा प्रदास्यामि क्रव्याद्भ्यो मद्रकाधम् ॥ ८.३४.५३ ॥
知道了这些,就安静坐下吧;你为何因恐惧而说这么多?摩德罗人中的卑劣者啊,我要杀了你,把你喂给食肉之兽。
8.34.54
मित्रप्रतीक्षया शल्य धृतराष्ट्रस्य चोभयोः ।
अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि ॥ ८.३४.५४ ॥
啊,沙利耶,正是因为这三件事——期待德立多罗湿特罗与双方的友谊,以及忍受非议——你才得以活着。
8.34.55
पुनश्चेदीदृशं वाक्यं मद्रराज वदिष्यसि ।
शिरस्ते पातयिष्यासि गदया वज्रकल्पया ॥ ८.३४.५५ ॥
马德拉王啊,若你再说这样的话,我将用如雷电般的铁锤打落你的头颅。
8.34.56
श्रोतारस्त्विदमद्येह द्रष्टारो व्रा कुदेशज ।
कर्णं वा जघ्नतुः कृष्णौ कर्णो वा निजघान तौ ॥ ८.३४.५६ ॥
出生于卑劣之地的懦夫啊!今日在此的听者与观者都在:或是二位黑天杀了迦尔纳,或是迦尔纳杀了那二人。
8.34.57
एवमुक्त्वा तु राधेयः पुनरेव विशाम्पते ।
अब्रवीन्मद्रराजानं याहियाहीत्यसम्भ्रमम् ॥ ८.३४.५७ ॥
人主啊,迦尔纳如此说罢,又毫不慌张地对摩德罗王说:「去吧,去吧!」