摩诃婆罗多 · 章 8.37
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.37.1
ततः पुनर्महाराज मद्रराजमरिन्दमः ।
अभ्यभाषत राधेयः सन्निवार्योत्तरं वचः ॥ ८.३७.१ ॥
大王,于是克制自己,灭敌者刹帝之子迦尔纳再次对摩德罗国王作出回应。
8.37.2
निर्भर्त्सनार्थं शल्य त्वं यत्तु जल्पितवानसि ।
नाहं शक्यस्त्वया वाचा विभीषयितुमाहवे ॥ ८.३७.२ ॥
沙利耶啊,你用言语来恐吓我,我在战场上是无法被吓倒的。
8.37.3
यदि मां देवताः सर्वा योधयेयुः सवासवाः ।
तथापि मे भयं न स्यात्किमु पार्थात्सकेशवात् ॥ ८.३७.३ ॥
即使所有天神与因陀罗一同与我作战,我也不会感到恐惧;何况是普利塔之子(阿周那)与克沙瓦(黑天)同来呢!
8.37.4
नाहं भीषयितुं शक्यः शुद्धकर्णा महाहवे ।
अभिजानीहि शक्तस्त्वमन्यं भीषयितुं रणे ॥ ८.३७.४ ॥
清耳者啊,我在大战中不可被吓倒。你要知道,你只能在战场上吓唬别人。
8.37.5
नीचस्य बलमेतावत्पारुष्यं यतत्त्वमात्थ माम् ।
अशक्तो हि गुणान्वक्तुं वल्गसे बहु दुर्मते ॥ ८.३७.५ ॥
卑贱之人的力量不过如此——就是你对我说的这些粗暴言辞。你无法述说德行,恶意之人啊,只会大肆夸耀。
8.37.6
न हि कर्णः समुद्भूतो भयार्थमिह मद्रक ।
विक्रमार्थमहं जातो यशोर्थं च तथाऽऽत्मनः ॥ ८.३७.६ ॥
摩德罗迦啊,迦尔纳并非降生于此以制造恐惧。我生来是为了勇武,为了我自己的荣耀。
8.37.7
सखिभावेन सौहार्दान्मितत्रभावेन चैव हि ।
कारणैस्त्रिभिरेतैस्त्वं शल्य जीवसि साम्प्रतम् ॥ ८.३७.७ ॥
凭着友谊、真诚的善意与盟友之情——正因这三个缘故,沙利耶啊,你如今才得以活着。
8.37.8
राज्ञश्च धार्तराष्ट्रस्य कार्यं सुमहदुद्यतम् ।
मयि तच्चाहितं शल्य तेन जीवसि मे क्षणम् ॥ ८.३७.८ ॥
国王与持国之子的重大使命已经发动,并且托付在我身上。沙利耶啊,正因如此,你才得以借我而多活片刻。
8.37.9
कृतश्च समयः पूर्वं क्षन्तव्यं विप्रियं तव ।
समयः परिपाल्यो मे तेन जीवसि साम्प्रतम् ॥ ८.३७.९ ॥
先前已立下誓约,你的失礼之言应当宽恕。我必须遵守那誓约;因此你如今得以活着。
8.37.10
ऋते शल्यसहस्रेण विजयेयमहं परान् ।
मित्रद्रोहस्तु पापीयानिति जीवसि साम्प्रतम् ॥ ८.३७.१० ॥
即便没有一千个沙利耶,我也能战胜敌人;然而背叛朋友是更大的罪过——所以你如今得以活着。
8.37.11
आर्तप्रलापांस्त्वं कर्ण यान्ब्रवीषि परान्प्रति ।
न ते कर्णसहस्रेण शक्या जेतुं परे युधि ॥ ८.३७.११ ॥
啊,迦尔纳,你对敌人发出的那些痛苦哀叹——即便有一千个迦尔纳,也无法在战场上战胜敌人。
8.37.12
तथा ब्रुवन्तं परुषं कर्णो मद्राधिपं तदा ।
परुषं द्विगुणं भूयः प्रोवाचाप्रियदर्शनम् ॥ ८.३७.१२ ॥
摩德罗国王说出如此严厉的话时,迦尔纳便又说出比他更严厉一倍、令人不悦的话来。
8.37.13
इदं त्वमेकाग्रमनाः शृणु मद्रजनाधिप ।
सन्निधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम् ॥ ८.३७.१३ ॥
摩德罗国之主啊,请专心聆听:这是我在持国王面前听到的所说之言。
8.37.14
देशांश्च विविधांश्चित्रान्पूर्ववृत्तांश्च पार्थिवान् ।
ब्राह्मणाः कथयन्ति स्म धृतराष्ट्रनिवेशने ॥ ८.३७.१४ ॥
在持国王的府邸中,婆罗门讲述各种奇异的国家以及往昔诸王的事迹。
8.37.15
तत्र वृद्धः पुरावृत्ताः कथाः कश्चिद्द्विजोत्तमः ।
बाह्लीकदेशं मद्रांश्च कुत्सयन्वाक्यमब्रवीत् ॥ ८.३७.१५ ॥
那里,一位年长的婆罗门讲述古老的故事,斥责巴赫利卡之地和摩德罗人,并说了这些话。
8.37.16
बहिष्कृता हिमवतता गङ्गया च तिरस्कृताः ।
सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये ॥ ८.३७.१६ ॥
那些被喜马拉雅所驱逐、被恒河、萨拉斯瓦蒂河、亚穆纳河及俱卢之野所摒弃的人。
8.37.17
पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः ।
तान्धर्मबाह्यानशुचीन्बाह्लीकानपि वर्जयेत् ॥ ८.३७.१७ ॥
居于五河与第六条印度河之间的巴赫利卡人,他们背离法度、不净,应当连他们也远离。
8.37.18
गोवर्धनो नाम वटः सुभाण्डं नाम पत्तनम् ।
एतद्राजन्कलिद्वारमाकुमारात्स्मराम्यहम् ॥ ८.३७.१८ ॥
名为戈瓦尔达纳的榕树,以及名为苏般陀的城市——国王啊,这些便是羯利之门,我自幼便记得它们。
8.37.19
कार्येणात्यर्थगूढेन बाह्लीकेषूषितं मया ।
तत एषां समाचारः संवासाद्विदितो मया ॥ ८.३७.१९ ॥
为一件极其秘密的事务,我曾居于巴赫利克人之中;因共同生活,我得知了他们的行为。
8.37.20
शाकलं नाम नगरमापगानामनिम्नगा ।
चण्डाला नाम बाह्लीकास्तेषां वृत्तं सुनिन्दितम् ॥ ८.३७.२० ॥
名为舍迦罗的城市,那里没有河流;名为旃陀罗的巴赫利克人,其行为极为可鄙。
8.37.21
पानं गुडासवं पीत्वा गोमांसं लशुनैः सह ।
अपूपसक्तुमद्यानामाशिताः शीलवर्जिताः ॥ ८.३७.२१ ॥
饮用糖蜜酒,与大蒜同食牛肉,又食饼、炒麦粉与各种酒,他们毫无德行。
8.37.22
गायन्त्यथ च नृत्यन्ति स्त्रियो मत्ता विवाससः ।
नगरापणवेशेषु बहिर्माल्यानुलेपनाः ॥ ८.३७.२२ ॥
城外,在市集门口,醉酒的女子裸身,佩戴花环、涂抹香膏,唱歌跳舞。
8.37.23
मत्ताः प्रगीतविरुतैः खरोष्ट्रनिनदोपमैः ।
अनावृता मैथुने ताः कामचाराश्च सर्वशः ॥ ८.३७.२३ ॥
醉酒的她们高声唱喊,如驴驼嘶鸣;在交合时毫无遮掩,处处随心所欲。
8.37.24
आहुरन्योन्यसूक्तानि प्रब्रुवाणा मदोत्क…ः ।
हेहतेहेहतेत्येवं स्वामिभर्तृहतेति च ॥ ८.३७.२४ ॥
在醉狂之中相互以恶语相骂,她们喊道:“嘿,被杀者!嘿,被杀者!”又说:“被主人与丈夫所杀!”
8.37.25
आक्रोशन्त्यः प्रनृत्यन्ति व्रात्याः पर्वस्वसंयताः ।
तासां किलावलिप्तानां निवसन्कुरुजाङ्गले ॥ ८.३७.२५ ॥
节日里,不受约束的婆罗多贱民叫骂着起舞;我便住在俱卢阇安伽罗之地,与那些傲慢的女子为伴。
8.37.26
कश्चिद्बाह्लीकदुष्टानां नातिहृष्टमना जगौ ।
सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी ॥ ८.३७.२६ ॥
某个邪恶的巴赫利卡人唱了起来,心情不太愉快;她定是宽臀、白皙,身着细羊毛披巾。
8.37.27
मामनुस्मरती शेते बाह्लीकं कुरुवासिनम् ।
शतद्रुं नु कदा तीर्त्वा तां च रम्यामिरावतीम्।
गत्वा स्वदेशं द्रक्ष्यामि स्थूलजङ्घाः शुभाः स्त्रियः ॥ ८.३७.२७ ॥
她思念着我,躺下时想着那位住在俱卢人之地的巴赫利卡人。何时我才能渡过舍塔德鲁河和那美丽的伊罗婆底河,回到故土,见到粗腿的美丽女子呢?
8.37.28
मनःशिलोज्ज्वलापाङ्ग्यो गौर्यस्ताः काकुकूजिताः ।
कम्बलाजिनसंवीता रुदन्त्यः प्रियदर्शनाः ॥ ८.३७.२८ ॥
那些目光明亮如雄黄的白皙女子,以哀切之声呼喊哭泣,身披毛毯与兽皮,容颜可爱。
8.37.29
मृदङ्गानकशङ्खानां मर्दलानां च निःस्वनैः ।
खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम् ॥ ८.३७.२९ ॥
伴着鼓、阿那伽鼓、螺号与摩达罗鼓的声响,我们醉醺醺地骑着驴、骆驼、马与骡子,欢欣地前行。
8.37.30
शमीपीलुकरीराणां वनेषु सुखवर्त्मसु ।
अपूपान्सक्तुपिण्डांश्च प्राश्नन्तो मथितान्वितान् ॥ ८.३७.३० ॥
沿着林中的坦途,穿过满是沙弥、皮卢、卡里罗树的森林,吃着掺了凝乳的饼与炒面团。
8.37.31
पथिषु प्रबलो भूत्वा तथा सम्पततोऽध्वगान् ।
चेलापहारं कुर्वाणास्ताडयिष्याम भूयसः ॥ ८.३७.३१ ॥
在道路上变得强大,同样扑向过路之人,夺取他们的衣物,我们将一次又一次地殴打他们。
8.37.32
एवंशीलेषु व्रात्येषु बाह्लीकेषु दुरात्मसु ।
कश्चेतयानो निवसेन्मुहूर्तमपि मानवः ॥ ८.३७.३२ ॥
在如此品行的越利底、巴利迦及恶念之人中间,哪个有智慧的人会停留哪怕片刻?
8.37.33
ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः ।
येषां षड्भागहर्ता त्वमुभयोः पुण्यपापयोः ॥ ८.३७.३३ ॥
婆罗门所说的巴利迦人,行为虚妄,如此;你便是取走他们功德与罪业之六分之一的人。
8.37.34
इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान् ।
बाह्लीकेष्वविनीतेषु प्रोच्यमानं निबोध तत् ॥ ८.३७.३४ ॥
善良的婆罗门这样说完,又作了回答;请听他关于无礼的巴利迦人所说的话。
8.37.35
ततत्र स्म राक्षसी गाति कृष्णचतुर्दशीम् ।
नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम् ॥ ८.३७.३५ ॥
在繁荣的沙迦罗城,罗刹女于黑半月第十四夜敲响夜鼓,唱歌。
8.37.36
कथं वस्तादृशो गाथाः पुनर्गास्यामि शाकले ।
गव्यस्य तृप्ता मांसस्य पीत्वा गौडं सुरासवम् ॥ ८.३७.३६ ॥
在沙迦罗,我这样的人,饱食牛肉,饮过糖蜜制成的酒,又怎能再唱歌谣呢?
8.37.37
गौरीभिः सह नारीभिर्बृहतीभिः स्वलङ्कृता ।
पलाण्डुगण्डूषयुताः खादन्तश्चेशिकान्बहून् ॥ ८.३७.३७ ॥
与白皙丰满的女子同在,盛装打扮,口中含满大蒜,吃着许多 ceśika。
8.37.38
वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रकम् ।
धानाश्च ये न खादन्ति तेषां जन्म निरर्थकम् ॥ ८.३७.३८ ॥
猪肉、鸡肉、牛肉、驴肉和骆驼肉;而不吃炒谷物的人,他们的出生毫无意义。
8.37.39
एवं गायन्ति ये मत्ताः शीधुना पीलुकावने ।
सबालवृद्धाः क्रन्दन्ति तेषां धर्मः कथं भवेत् ॥ ८.३७.३९ ॥
如此,那些醉于烈酒、在皮卢林中歌唱,与儿童老人一同哭喊的人——他们的法怎能成立?
8.37.40
यत्र लोकेश्वरः कृष्णो देवदेवो जनार्दनः ।
विस्मृतः पुरुषैरुग्रैस्तेषां धर्मः कथं भवेत् ॥ ८.३७.४० ॥
在世界之主、诸神之神、Janārdana Kṛṣṇa 被凶暴之人遗忘的地方,他们的法怎能成立?
8.37.41
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।
यदन्योप्युक्तवानस्मान्ब्राह्मणः कुरुसंसदि ॥ ८.३७.४१ ॥
沙利耶,你要知道。唉,我再告诉你,这是另一位婆罗门在俱卢议会中对我们所说的。
8.37.42
पञ्चनद्यो वहन्त्येता यत्र पीलुवनान्युत ।
शतद्रुश्च विपाशा च तृतीयैरावती तथा ॥ ८.३७.४२ ॥
这五条河流淌之处,也有皮卢林:舍陀卢河、毗波沙河,第三条是伊罗婆提河。
8.37.43
चन्द्रभागा वितस्ता च सिन्धुषष्ठा महानदी ।
आरट्टा नाम बह्लीका एतेष्वार्यो हि नो वसेत् ॥ ८.३७.४३ ॥
旃陀罗跋伽河、毗多斯塔河、以信度河为第六的大河,以及名为阿罗吒的巴赫利卡人——在这些之中,雅利安人不应为我们而居住。
8.37.44
व्रात्यानां दासमीयानां विदेहानामयज्वनाम् ।
न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा ॥ ८.३७.४४ ॥
具足者、达萨弥耶人、毗提诃人,以及不祭祀者——从他们那里,诸神、祖先与婆罗门都不接受布施。
8.37.45
तेषां प्रनष्टधर्माणां बाह्लीकानामिति श्रुतिः ।
ब्राह्मणेन यथा प्रोक्तं विदुषा साधुसंसदि ॥ ८.३७.४५ ॥
关于那些失去法度的巴赫利卡人,有这样的传闻——正如一位博学的婆罗门在善人的集会上所说。
8.37.46
काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते ।
सक्तुमद्यावलिप्तेषु श्वावलीढेषु निर्घृणाः ॥ ८.३७.४६ ॥
巴赫利卡人毫无怜悯地在木碗和陶器中进食,在涂抹了炒麦粉与酒的器皿中进食,也在被狗舔过的器皿中进食。
8.37.47
आविकं चौष्ट्रिकं चैव क्षीरं गार्दभमेव च ।
तद्विकारांश्च बाह्लीकाः खादन्ति च पिबन्ति च ॥ ८.३७.४७ ॥
巴赫利卡人食用并饮用羊奶、骆驼奶和驴奶,以及由它们制成的食物。
8.37.48
पात्रसङ्करिणो जाल्माः सर्वान्नक्षीरभोजनाः ।
आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता ॥ ८.३७.४८ ॥
混杂器皿、卑劣愚钝、食用一切食物与乳品的人——名为阿罗吒的巴赫利卡人,智者应当远离。
8.37.49
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।
यदन्योऽप्युक्तवान्मह्यं ब्राह्मणः कुरुसंसदि ॥ ८.३७.४९ ॥
沙利耶啊,你要知道。唉,我再告诉你一次:另一位婆罗门曾在俱卢议会上对我所说的话。
8.37.50
युगन्धरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले ।
तद्वद्भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति ॥ ८.३७.५० ॥
在瑜伽达罗饮水,在阿求多斯陀逗留,同样在部提利耶沐浴,他如何能升天呢?
8.37.51
पञ्चनद्यो वहन्त्येता यत्र निःसृत्य पर्वतात् ।
आरट्टा नाम बाह्लीका न तेष्वार्यो द्व्यहं वसेत् ॥ ८.३७.५१ ॥
这五条河从山中流出之处,住着名为阿罗吒的巴赫利卡;雅利安人不应在那些地方停留哪怕两天。
8.37.52
बाह्लीका नाम हीकश्च विपाशायां पिशाचकौ ।
तयोरपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः ॥ ८.३७.५२ ॥
巴赫利卡和希卡,是毗波阇河畔的两位鬼怪;巴赫利卡人是他们的后代。这并非生主所造。
8.37.53
ते कथं विविधान्धर्माञ्ज्ञास्यन्ते हीनयोनयः ॥ ८.३७.५३ ॥
这些出身低贱的人,如何能知晓种种法度呢?
8.37.54
कारस्करान्माहिषकान्करम्भान्कटकालिकान् ।
कर्करान्वीरकान्वीरा उन्मत्तांश्च विवर्जयेत् ॥ ८.३७.५४ ॥
英雄们应当避开卡拉斯卡罗、摩希沙迦、羯罗婆、迦吒迦利迦、羯罗罗、毗罗迦以及狂乱之人。
8.37.55
इति तीर्थानुसञ्चारी राक्षसी काचिदब्रवीत् ।
एकरात्रमुषित्वेह महोलूखलमेखला ॥ ८.३७.५५ ॥
如此说道:某位四处巡游圣渡口的罗刹女,曾在此住了一夜,以大石臼为腰带。
8.37.56
आरट्टा नाम ते देशा बाह्लीकं नाम तद्वनम् ।
वसातिसिन्धुसौवीरा इति प्रायोऽतिकुत्सिताः ॥ ८.३७.५६ ॥
所谓阿罗吒之地、名为婆诃迦的那片林野、婆萨提人、信度与苏维罗——这些大多极为可鄙。