Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.40

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.40.1

दुर्योधनस्ततः कर्णमुपेत्य भरतर्षभ ।
अब्रवीन्मद्रराजं च तथैवान्यान्महारथान् ॥ ८.४०.१ ॥

婆罗多族的雄牛啊,于是难敌走近迦尔纳,对摩德罗国王以及其他大战车武士说道。

8.40.2

यदृच्छयाऽयमव्यग्रो धर्मः परमकः सखा ।
सुखिनः क्षत्रियाः कर्ण लभन्ते युद्धमीदृशम् ॥ ८.४०.२ ॥

迦尔纳啊,这份责任自然来临,无所烦扰,如同至上的朋友;获得这样战斗的刹帝利是幸福的。

8.40.3

यादृशं क्षत्रियैः शूरैः शूराणां दीव्यतां युधि ।
इष्टं भवति राधेय तदिदं समुपस्थितम् ॥ ८.४०.३ ॥

罗陀之子啊,英勇的刹帝利在战场上在勇士之间所渴望的,如今已经降临眼前。

8.40.4

हत्वा तु पाण्डवान्युद्धे स्थिरामुर्वीं प्रशासथ ।
निहता वा परैर्युद्धे वीरलोकानवाप्स्यथ ॥ ८.४०.४ ॥

在战斗中杀死般度之子后,你将统治稳固的大地;或者在战斗中被敌人杀死,你将获得英雄的世界。

8.40.5

दुर्योधनस्य वचनं श्रुत्वा तत्क्षत्रियर्षभाः ।
सिंहनादानुदक्रोशन्वादित्राणि च जघ्निरे ॥ ८.४०.५ ॥

那些刹帝利中的雄牛听到难敌的话语,像狮子一样吼叫,并敲击乐器。

8.40.6

तस्मिन्प्रमुदिते सैन्ये त्वदीये भरतर्षभ ।
हर्षयंस्तावकान्योधान्द्रौणिर्विचनमब्रवीत् ॥ ८.४०.६ ॥

婆罗多族的雄牛啊,当你的军队欢欣之时,德罗纳之子使你的战士们欢喜,说出了这些话。

8.40.7

प्रत्यक्षं सर्वसैन्यानां भवतां चापि पश्यताम् ।
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥ ८.४०.७ ॥

在所有军队面前,在你们众人注视之下,放下武器的我父亲被德里沙陀由姆那杀死。

8.40.8

स तेनाहममर्षेण पित्रर्थे चापि भारत ।
धृष्टद्युम्नमहत्वाऽहं न विमोक्ष्यामि दंशनम् ॥ ८.४०.८ ॥

婆罗多的后裔啊,我怀着这份愤怒,为了父亲,不杀死德里沙陀由姆那,我不会解除铠甲。

8.40.9

कृत्वाऽनृतां प्रतिज्ञां वो नास्मि प्राप्ता महत्फलम् ।
अर्जुनं भीमसेनं च यश्च मां प्रतियोत्स्यति।
सर्वांस्तान्प्रमथिष्यामि इति मे निश्चिता मतिः ॥ ८.४०.९ ॥

我向你们立下了虚假的誓言,未能得到大的成果。阿周那、毗摩森那,以及任何与我作战的人,我都将把他们全部击溃,这是我坚定的决心。

8.40.10

एवमुक्ते ततः सर्वा हर्षिता भारती चमूः ।
अभ्यवर्तत कौन्तेयांस्तथा तां चापि पाण्डवाः ॥ ८.४०.१० ॥

这番话说完后,婆罗多的全军欢喜地向贡蒂之子进发;般度之子们也向它进发。

8.40.11

स सन्निपातो रथयूथपानां ।
महाहवे भारत लोभनीये।
जनक्षयः कालयुगान्तकल्पः ।
प्रावर्तताग्रे कुरुसृञ्जयानाम् ॥ ८.४०.११ ॥

婆罗多啊,在那场大战中,车队首领们相互碰撞——可怕而又令人神往;如同时代终结般的人众毁灭,始于库鲁与叔伽人的前线。

8.40.12

ततः प्रवृत्ते युधि सम्प्रहारे ।
भूतानि सर्वाणि सदैवतानि।
आसन्समेतानि सहाप्सरोभि… ।
निरीक्षतीभिर्युधि वीरसङ्घान् ॥ ८.४०.१२ ॥

当战斗中激烈的交锋开始时,一切众生与诸神一同聚集于此,同阿普萨拉斯们一起观望战场上的英雄群。

8.40.13

दिव्यैश्च गन्धैः परमैश्च पुष्पै… ।
रन्यैश्च रत्नैर्विविधैर्नराग्र्याः।
रणेषु कर्मोद्वहताः प्रहृष्टा-
ननन्दयन्नप्सरसः प्रहृष्टाः ॥ ८.४०.१३ ॥

以神圣的香气、上好的花朵和其他各种珠宝,欢喜的阿普萨拉斯们赞美战场上最优秀之人的功业,使他们欢喜。

8.40.14

समीरणस्तांस्तु निषेव्य गन्धा… ।
न्निषेवते तानपि योधमुख्यान्।
निषेव्यमाणास्त्वनिलेन योधाः ।
परस्परं चुक्रुशुराजिमध्ये ॥ ८.४०.१४ ॥

风携带着那些香气侍奉那些主要的战士;被风所侍奉的战士们在战阵中彼此呼喊。

8.40.15

तथा तु तस्मिंस्तुमुले प्रवृत्ते ।
दुर्योधनः क्रोधममृष्यमाणः।
अवेभ्य भीमं बलमध्यसंस्थः ।
समार्पयत्क्षुद्रकाणां शतेन ॥ ८.४०.१५ ॥

当那可怕的喧嚣如此开始时,难敌无法忍受愤怒,站在军队中央,下了象,与一百名卑微之人一起扑向毗摩。

8.40.16

दुःशासनश्चित्रसेनश्च वीर… ।
स्तथोलूकः कितवः सौबलश्च।
गजानीकैः सर्वतो भीमसेनं ।
तथाविषक्तं सहसैवाभ्यगच्छन् ॥ ८.४०.१६ ॥

难降、持军、英雄优卢迦,以及赌徒苏跋罗之子沙恭尼,率象军从四面包围了毗摩森,突然冲向那陷入这般境地的他。

8.40.17

तमापतन्तं सम्प्रेक्ष्य गजानीकं वृकोदरः ।
दुर्योधनं महाबाहुः शरवर्षैरवाकिरत् ॥ ८.४०.१७ ॥

vṛkodara 见象阵向他冲来,便以箭雨覆盖了难敌。

8.40.18

दुर्योधनं ततो भीमः सायकैर्वज्रसन्निभैः ।
पाण्डवो विमुखीकृत्य गजानभ्यद्रवद्बली ॥ ८.४०.१८ ॥

于是有力的般度子 Bhīma 以如雷电般的箭使难敌退却,随即冲向象群。

8.40.19

ततः पावकसङ्काशैर्भीमबाणैरवक्रगैः ।
शलभैरिव नागांस्तानर्दयामास पाण्डवः ॥ ८.४०.१९ ॥

于是般度子以 Bhīma 之箭折磨那些象,箭如火焰,笔直飞行,如蝗群一般。

8.40.20

ततः कुञ्जरयूथानि भीमसेनो महाबलः ।
व्यधमन्निशितैर्बाणैर्महावातो घनानिव ॥ ८.४०.२० ॥

于是大力的 Bhīmasena 以利箭驱散象群,如大风吹散云团。

8.40.21

नित्यमत्ताश्च मातङ्गाः शूरैर्मत्तैरधिष्ठिताः ।
आरोहकैर्महामात्रैस्तोमराङ्कुरापाणिभिः ॥ ८.४०.२१ ॥

常年发情的象,由勇士和狂怒的驭手骑乘,大象之主手持长矛与象钩。

8.40.22

सुवर्णजालैः प्रच्छन्ना मणिजालैश्च कुञ्जराः ।
रूप्यजाम्बूनदाभासः क्षुरमालाभ्यलङ्कृताः ॥ ८.४०.२२ ॥

象身覆盖着金网与宝珠网,闪耀如银与金,并饰以刀刃之环。

8.40.23

वध्यमानाः शरै राजन्भीमसेनेन ते गजाः ।
विभिन्नहृदयाः केचित्तत्रैवाभ्यपतन्भुवि ॥ ८.४०.२३ ॥

大王啊,那些被Bhīmasena的箭射中的象,有些心脏被刺穿,就在那里倒在地上。

8.40.24

निपतद्भिर्महावेगैर्हेमभाण्डविभूषितैः ।
अशोभत महाराज धातुचित्रैरिवाचलैः ॥ ८.४०.२४ ॥

大王啊,那些倒下的象,冲势猛烈,饰以金饰,闪耀如同以矿物颜料绘就的山峦。

8.40.25

दीप्ताभरणवद्भिश्च गजपृष्ठनिपातितैः ।
सङ्गरः शुशुभे राजन्क्षीणपुण्यैरिवामरैः ॥ ८.४०.२५ ॥

大王啊,战场上那些佩戴闪亮饰物、从象背上被击落的人,使战场如同功德已尽的诸天神一般闪耀。

8.40.26

महापरिघसङ्काशौ चन्दनागरुरूषितौ ।
अपश्यं भीमसेनस्य धनुर्विक्षिपतो भुजौ ॥ ८.४०.२६ ॥

我看见Bhīmasena的双臂,如同巨大的铁杵,涂抹着檀香与沉香,正在掷出弓。

8.40.27

तस्य ज्यातलनिर्घोषमस्यतः सव्यदक्षिणम् ।
तं श्रुत्वाऽभ्यद्रवन्नागा भीमसेनभयार्दिताः ॥ ८.४०.२७ ॥

听到他左右手射箭时弓弦的嗡鸣,被对Bhīmasena恐惧所折磨的象群便奔逃而去。

8.40.28

तस्य भीमस्य तत्कर्म राजन्नेकस्य धीमतः ।
अपश्याम महाराज तद्भूतमिवाभवत् ॥ ८.४०.२८ ॥

大王啊,我们目睹了那位智者Bhīma一人的那个功绩;大王啊,它竟如同奇迹一般。