摩诃婆罗多 · 章 8.43
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.43.1
युक्तं प्रविश्य पार्थानां सैन्यं कुर्वञ्जनक्षयम् ।
कर्णो राजानमभ्येत्य तन्ममाचक्ष्व स़ञ्जय ॥ ८.४३.१ ॥
迦尔纳恰当地冲入般度之子的军队,造成众人死亡,然后来到国王面前——桑阇耶啊,把这些告诉我。
8.43.2
के च प्रवीराः पार्थानां युधि कर्णमवारयन् ।
कांश्च प्रमथ्याधिरथिर्युधिष्ठिरमपीडयत् ॥ ८.४३.२ ॥
般度之子中哪些英雄在战斗中阻挡了迦尔纳?阿提罗陀之子又杀了哪些人,然后也折磨了坚战?
8.43.3
धृष्टद्युम्नमुखान्पार्थान्दृष्ट्वा कर्णो व्यवस्थितान् ।
समभ्यधावत्त्वरितः पाञ्चालाञ्छत्रुकर्शनः ॥ ८.४३.३ ॥
迦尔纳看见以持国无敌(德黎师陀牟那)为首列阵的般度之子,这摧敌者便迅速冲向般遮罗人。
8.43.4
तं तूर्णमभिधावन्तं पाञ्चाला जितकाशिनः ।
प्रत्युद्ययुर्महात्मानं हंसाः सर इवोष्णगे ॥ ८.४३.४ ॥
自以为已经获胜的般遮罗人迎上前去,迎战那迅速冲来的大德英雄,好比夏日里天鹅飞向湖泊。
8.43.5
ततः शङ्खसहस्राणां निःस्वनो हृदयङ्गमः ।
प्रादुरासीदुभयतो भेरीशब्दश्च दारुणः ॥ ८.४३.५ ॥
此时两边升起了数千海螺令人心弦震动的号声,以及战鼓可怕的轰鸣。
8.43.6
नानाबाणनिनादश्च द्विपाश्वरथनिःस्वनः ।
सिंहनादश्च वीराणामभवद्दारुणस्तदा ॥ ८.४३.६ ॥
各种箭矢的弦声,象马车的喧嚣,以及英雄们的狮子吼——那时这一切都变得可怕起来。
8.43.7
साद्रिद्रुमार्णवा भूमिः सवाताम्बुदमम्बरम् ।
सार्केन्दुग्रहनक्षत्रा द्यौश्च व्यक्तं विघूर्णिता ॥ ८.४३.७ ॥
大地连同山岳、树木与海洋,天空连同风与云,以及天界的日、月、行星与星宿,都清晰地旋转起来。
8.43.8
इति भूतानि तं शब्दं मेनिरे ते च विव्यथुः ।
यानि चाप्यल्पसत्वानि प्रायस्तानि मृतानि वै ॥ ८.४३.८ ॥
众生以为那声音是劫末之声,皆痛苦不堪;其中怯弱者大多死去。
8.43.9
अथ कर्णो भृशं क्रुद्धः शीघ्रमस्त्रमुदीरयन् ।
जघान पाण्डवीं सेनामासुरीं मघवानिव ॥ ८.४३.९ ॥
于是,大为愤怒的迦尔纳迅速放出兵器,击杀般度之军,如因陀罗击杀阿修罗之军。
8.43.10
स पाण्डवबलं कर्णः प्रविश्य विसृजञ्छरान् ।
प्रभद्रकाणां प्रवरानहनत्सप्तसप्ततिम् ॥ ८.४३.१० ॥
迦尔纳冲入般度之军,纷纷放箭,击杀了普罗跋陀迦中最优秀的七十七人。
8.43.11
ततः सुपुङ्खैर्निशितैरथ श्रष्ठो रथेषुभिः ।
अवधीत्पञ्चविंशत्या पाञ्चालान्पञ्चविंशतिम् ॥ ८.४३.११ ॥
随后,最杰出的勇士以锋利、羽翎美好的战车箭,击杀了二十五名般遮罗人。
8.43.12
सुवर्णपुङ्खैर्नाराचैः परकायविदारणैः ।
चेदिकानवधीद्वीरः शतशोऽथ सहस्रशः ॥ ८.४३.१२ ॥
这位英雄以金羽铁箭,穿透敌人身体,将车底人成百成千地击杀。
8.43.13
तं तथा समरे कर्म कुर्वाणमतिमानुषम् ।
परिवव्रुर्महाराज पाञ्चालानां रथव्रजाः ॥ ८.४३.१३ ॥
大王啊,他在战场上施展如此超凡的功业时,般遮罗的战车军团将他包围了。
8.43.14
ततः सन्धाय विशिखान्पञ्च भारत दुःसहान् ।
पाञ्चालानवधीत्पञ्च कर्णो वैकर्तनो वृषः ॥ ८.४३.१४ ॥
婆罗多啊,then他搭上五支难以承受的箭,毗迦尔塔那之子迦尔纳这头公牛射杀了五名般遮罗人。
8.43.15
भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत ।
तपनं शूरसेनं च पाञ्चालानहनद्रणे ॥ ८.४३.१५ ॥
婆罗多啊,他在战斗中杀死了般遮罗人婆努提婆、支多罗塞那、塞那平度、答波那和舒罗塞那。
8.43.16
पाञ्चालेषु च शूरेषु वध्यमानेषु सायकैः ।
हाहाकारो महानासीत्पाञ्चालानां महाहवे ॥ ८.४३.१६ ॥
当般遮罗的勇士被箭矢射杀时,在那场大战中,般遮罗人中发出了巨大的哀号。
8.43.17
तेषां सह्क्रीडमानानां हाहाकारं प्रकुर्वताम् ।
पुनरेव च तान्कर्णो जघानाशु पतत्त्रिभिः ॥ ८.४३.१७ ॥
当他们一起发出哀号,仿佛在嬉戏时,迦尔纳又迅速以箭矢将他们射杀。
8.43.18
चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ ।
सुषेणः सत्यसेनश्च त्यक्त्वा प्राणानयुध्यताम् ॥ ८.४३.१८ ॥
先生啊,迦尔纳守护车轮的两个儿子苏舍那与萨提耶塞那不可战胜;他们舍弃性命而战。
8.43.19
पृष्ठगोप्ता तु कर्णस्य ज्येष्ठः पुत्रो महारथः ।
वृषसेनोऽन्वयात्कर्णं पृष्ठतः परिपालयन् ॥ ८.४३.१९ ॥
迦尔纳的长子、大车战士伐鲁舍那在后面充当后卫,从身后跟随迦尔纳并保护他。
8.43.20
धृष्टद्युम्नः सात्यकिश्च द्रौपदेया वृकोदरः ।
जनमेजयः शिखण्डी च प्रवीराश्च प्रभद्रकाः ॥ ८.४३.२० ॥
猛光、萨蒂亚奇、德劳帕蒂的诸子、狼腹(毗摩)、遮那美阁耶、尸犍底,以及勇猛的普罗跋陀罗迦诸将。
8.43.21
चेदिकेकयपाञ्चाला यमौ मात्स्याश्च दंशिताः ।
समभ्यधावन्राधेयं जिघांसन्तः प्रहारिणम् ॥ ८.४३.२१ ॥
遮提人、迦伽伊人、般遮罗人、双生子,以及披甲的摩private人,一起冲向进攻的罗陀之子(迦尔纳),想要杀死他。
8.43.22
त एनं विविधैः शस्त्रैः शरधाराभिरेव च ।
अभ्यवर्षन्विमर्दन्तं प्रावृषीवाम्बुदा गिरिम् ॥ ८.४३.२२ ॥
他们用各种武器和箭雨倾泻在他身上,如雨季的云层倾注于山岳,覆盖了那位摧毁敌人的英雄。
8.43.23
पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः ।
त्वदीयाश्चापरे राजन्वीरा वीरानवारयन् ॥ ८.४३.२३ ॥
大王啊,迦尔纳的诸子奋力攻击,想要保护父亲;而您这一方的其他英雄则阻挡了敌方的英雄。
8.43.24
सुषेणो भीमसेनस्य च्छित्त्वा भल्लेन कार्मुकम् ।
नाराचैः सप्तबिर्विद्ध्वा हृदि भीमं ननाद ह ॥ ८.४३.२४ ॥
苏谢那以新月箭斩断了毗摩森那的弓,用七支铁箭刺穿他的胸膛,并对毗摩怒吼。
8.43.25
अथान्यद्वनुरादाय सुदृढं भीमविक्रमः ।
सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद्वनुः ॥ ८.४३.२५ ॥
于是勇猛如威的毗摩取另一张极坚的弓,安上弦,斩断了苏舍那的弓。
8.43.26
विव्याध चैनं दशभिः क्रुद्धो नृत्यन्निवेषुभिः ।
कर्णं च तूर्णं विव्याध त्रिसप्तत्या शितैः शरैः ॥ ८.४३.२६ ॥
他盛怒之中,仿佛舞动一般,以十支箭射中此人,又迅速以七十三支利箭射中迦尔纳。
8.43.27
सत्यसेनं च दशभिः साश्वसूतायुधध्वजम् ।
पश्यतां सुहृदां मध्ये कर्णपुत्रमपातयत् ॥ ८.४३.२७ ॥
他以十支箭,连同马匹、御者、武器与旗帜,在众友人注视之下,射倒了迦尔纳之子萨蒂雅塞那。
8.43.28
क्षुरप्रणुन्नं तत्तस्य शिरश्चन्द्रनिभाननम् ।
शुभदर्शनमेवासीन्नालभ्रष्टमिवाम्बुजम् ॥ ८.४३.२८ ॥
他那被剃刀箭击落的头颅,面如明月,容貌吉祥,宛如从茎上落下的莲花。
8.43.29
हत्वा कर्णसुतं भीमस्तावकान्पुनरार्दयत् ।
कृपहार्दिक्ययोश्छित्त्वा चापौ तावप्यथार्दयत् ॥ ८.४३.२९ ॥
毗摩杀了迦尔纳之子,又攻击你的部众;他斩断了克里帕与哈尔迪基亚的两张弓,也伤了他们。
8.43.30
दुःशासनं त्रिभिर्विद्ध्वा शकुनिं षड्भिरायसैः ।
उलूकं च पतत्रिं च चकार विरथावुभौ ॥ ८.४३.३० ॥
他以三箭射中难降,以六支铁箭射中沙恭尼,使乌卢迦与帕塔特里二人都失去了战车。
8.43.31
हे सुषेण हतोऽसीति ब्रुवन्नादत्त सायकम् ।
तमस्य कर्णश्चिच्छेद त्रिभिश्चैनमताडयत् ॥ ८.४३.३१ ॥
“苏舍那啊,你已经死了!”他一边说着,一边拿起一支箭。迦尔纳将它斩断,并以三支箭射中了他。
8.43.32
अथान्यं परिजग्राह सुपर्वाणं सुतेजनम् ।
सुषेणायासृजद्भीमस्तमप्यस्याच्छिनद्वृषः ॥ ८.४३.३२ ॥
于是他又取了一支箭,箭杆接合良好、锋利无比。怖军将它射向苏舍那,然而那如公牛般的英雄也将它斩断。
8.43.33
पुनः कर्णस्त्रिसप्तत्या भीमसेनमथेषुभिः ।
पुत्रं परीप्सन्विव्याध क्रुद्धः शत्रुजिघांसया ॥ ८.४३.३३ ॥
迦尔纳又一次,想要保护他的儿子,愤怒地,欲杀死敌人,用七十三支箭射穿了怖军。
8.43.34
सुषेणस्तु धनुर्गृह्य भारसाधनमुत्तमम् ।
नकुलंपञ्चभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ ८.४३.३४ ॥
然而苏舍那拿起一把优良、能承受重力的弓,用五支箭射中了那古拉的双臂和胸膛。
8.43.35
नकुलस्तं तु विंशत्या विद्व्वा भारसहैर्दृढैः ।
ननाद बलवन्नादं कर्णस्य भयमादधत् ॥ ८.४३.३५ ॥
然而那古拉用二十支坚固、能承重的箭射穿了他,并发出猛烈的吼声,使迦尔纳心生恐惧。
8.43.36
तं सुषेणो महाराज विद्ध्वा दशभिराशुगैः ।
चिच्छेद च धनुः शीघ्रं क्षुरप्रेण महारथः ॥ ८.४३.३६ ॥
大王啊,苏舍那以十支快箭射穿了他,随即用一支剃刀头的箭迅速斩断了他的弓——那位大车将。
8.43.37
अथान्यद्वनुरादाय नकुलः क्रोधमूर्च्छितः ।
सुषेणं नवभिर्बाणैर्वारयामास संयुगे ॥ ८.४३.३७ ॥
于是,那济罗拿起另一张弓,因愤怒而昏乱,在战斗中以九支箭阻挡了苏舍那。
8.43.38
स तु बाणैर्दिशो राजन्नाच्छाद्य परवीरहा ।
आजघ्ने सारथिं चास्य सुषेणं च ततस्त्रिभिः।
चिच्छेद चास्य सुदृढं धनुर्भल्लैस्त्रिभिस्त्रिधा ॥ ८.४३.३८ ॥
大王,这位杀敌英雄以箭遮蔽四方,击伤了他的御者和苏舍那;随后以三支钹箭将他坚固的弓截成三段。
8.43.39
अथान्यद्वनुरादाय सुषेणः क्रोधमूर्च्छितः ।
आविध्यन्नकुलं षष्ट्या सहदेवं च सप्तभिः ॥ ८.४३.३९ ॥
于是苏舍那拿起另一张弓,因愤怒而昏乱,以六十支箭射伤那济罗,以七支箭射伤萨哈德瓦。
8.43.40
तद्युद्धं सुमहद्धोरमासीद्देवासुरोपमम् ।
निघ्नतां सायकैस्तूर्णमन्योन्यस्य वधं प्रति ॥ ८.४३.४० ॥
那场战斗极其浩大而可怖,如同天神与阿修罗之战;他们迅速以箭相击,都想置对方于死地。
8.43.41
सात्यकिर्वृषसेनं तु विद्ध्वा सप्तभिरायसैः ।
पुनर्विव्याध सप्तत्या सारथिं च त्रिभिः शितैः ॥ ८.४३.४१ ॥
萨提亚基先以七支铁箭射中筏利舍那,又以七十支箭再射他,并以三支利箭射中其御者。
8.43.42
वृषसेनस्तु शैनेयं शरेणानतपर्वणा ।
आजघान महाराज शङ्खदेशे महारथम् ॥ ८.४३.४२ ॥
然而,大王啊,筏利舍那以一支弯曲接羽的箭射中了那位大车将——希尼之孙萨提亚基,射在他的太阳穴处。
8.43.43
शैनेयो वृषसेनेन पत्रिणा परिपीडितः ।
कोपं चक्रे महाराज क्रुद्धो वेगं च दारुणम् ॥ ८.४३.४३ ॥
被跋利沙塞那的羽箭重创的沙伊涅耶(萨提亚基),大王啊,勃然大怒,以可怕的速度猛然冲上前去。
8.43.44
जग्राहेषुवरान्वीरः शीघ्रं वै दश पञ्च च ।
सात्यकिर्वृषसेनस्य सूतं हत्वा त्रिभिः शरैः ॥ ८.४३.४४ ॥
英雄萨提亚基迅速取过十五支良箭,以其中三支射倒了跋利沙塞那的御者。
8.43.45
धनुश्चिच्छेद भल्लेन जघानाश्वांश्च सप्तभिः ।
ध्वजमेकेषुणोन्मथ्य त्रिभिश्तं हृद्यताडयत् ॥ ८.४३.४५ ॥
他以一支月牙箭斩断了对方的弓,用七支箭射倒了马匹,用一支箭折断了旗帜,又用三支箭射中了他的胸膛。
8.43.46
अथावसन्नः स्वरथे मुहूर्तात्पुनरुत्थितः ।
स रणे युयुधानेन विसूताश्वरथध्वजः।
कृतो जिघांसुः शैनेयं खङ्गचर्मधृगभ्ययात् ॥ ८.४३.४६ ॥
随后,他在自己的战车上昏沉片刻,又重新站起。其马匹、战车与旗帜已被尤尤丹那摧毁,他手持剑与盾,欲杀沙伊涅耶,向他冲去。
8.43.47
तस्य चापततः शीघ्रं वृषसेनस्य सात्यकिः ।
वाराहकर्णैर्दशभिरविध्यदसिचर्मणी ॥ ८.४३.४७ ॥
当跋利沙塞那迅速冲来时,萨提亚基以十支野猪耳箭射穿了他的剑与盾。
8.43.48
दुःशासनस्तु तं दृष्ट्वा विरथं व्यायुधं कृतम् ।
आरोप्य स्वरथं तूर्णमपोवाह रथान्तरम् ॥ ८.४३.४८ ॥
然而难降见他失去战车、又无兵器,迅速将他扶上自己的战车,把他带往另一辆战车。
8.43.49
अथान्यं रथमास्थाय वृषसेनो महारथः ।
द्रौपदेयांस्त्रिसप्तत्या युयुधानं च पञ्चभिः ॥ ८.४३.४९ ॥
随后,大车将vṛṣasena登上另一辆战车,用七十三支箭射中德罗波蒂的儿子们,又用五支箭射中尤尤丹那。
8.43.50
भीमसेनं चतुःषष्ट्या सहदेवं च पञ्चभिः ।
नकुलं त्रिंशता बाणैः शतानीकं च सप्तभिः ॥ ८.४३.५० ॥
他用六十四支箭射中怖军,用五支射中偕天,用三十支射中无种,用七支射中百军。
8.43.51
शिखण्डिनं च दशभिर्धर्मराजं शतेन च ।
एतांश्चान्यांश्च राजेन्द्र प्रवीराञ्चयगृद्धिनः ॥ ८.४३.५१ ॥
他用十支箭射中尸利犍陀,用一百支射中法王。大王啊,他又射中了这些渴望胜利的英雄以及其他人。
8.43.52
अभ्यर्दयन्महेष्वासः कर्णपुत्रो विशाम्पते ।
कर्णस्य युधि दुर्धर्षस्ततः पृष्ठमपालयत् ॥ ८.४३.५२ ॥
人民之主啊,大弓手迦尔纳之子一边逼迫敌人,一边守护着在战场上不可战胜的迦尔纳的后方。
8.43.53
युयुधानं च राधेयो नवैर्नवभिरायसैः ।
विसूताश्वरथं कृत्वा ललाटे त्रिभिरार्पयत् ॥ ८.४३.५३ ॥
罗陀之子迦尔纳用九支新铁箭围住尤尤丹那,射倒他的御者与马匹,使战车失去作用,随后又用三支箭射穿了他的额头。
8.43.54
स त्वन्यं रथमास्थाय विधिवत्कल्पितं पुनः ।
युयुधे पाण्डुभिः सार्धं कर्णस्य व्यधमद्बलम् ॥ ८.४३.५४ ॥
他又登上另一辆按规制装备好的战车,与般度诸子再次交战,粉碎了迦尔纳的军队。
8.43.55
धृष्टद्युम्नस्ततः कर्णमविध्यद्दशभिः शरैः ।
द्रौपदेयास्त्रिसप्तत्या युयुधानस्तु सप्तभिः ॥ ८.४३.५५ ॥
随后,达利什塔duṃna以十箭射中迦尔纳;德罗波蒂之子以七十三箭,尤尤丹以七箭。
8.43.56
भीमसेनश्चतुःषष्ट्या सहदेवश्च सप्तिभिः ।
नकुलस्त्रिंशता बाणैः शतानीकस्तु सप्तभिः ॥ ८.४३.५६ ॥
毗摩先那以六十四箭,偕提婆以矛,那古拉以三十箭,舍塔尼迦以七箭。
8.43.57
शिखण्डी दशभिर्वीरो धर्मराजः शतेन तु ।
एते चान्ये च राजेन्द्र प्रवीरा जयगृद्विनः।
अभ्यर्दयन्महेष्वासं सूतपुत्रं महामृधे ॥ ८.४३.५७ ॥
尸犍底以十箭,英雄法王以百箭。王中之王啊,他们及其他勇士,渴望胜利,在那场大战中逼迫那位大弓手、御者之子。
8.43.58
तान्सूतपुत्रो विशिखैर्दशभिर्दशभिः शरैः ।
रथेनानुचरन्वीरः प्रत्यविध्यदरिन्दमः। ॥ ८.४३.५८ ॥
御者之子,那位在车上驰骋的英雄,降伏敌人的人,以各十箭反击他们所有人。
8.43.59
सात्यकिं भीमसेनं च धृष्टद्युम्नं शिखण्डिनम् ।
द्रौपदेयांश्च संरब्धान्यतमानान्महारथान् ॥ ८.४३.५९ ॥
萨提亚基、毗摩先那、达利什塔duṃna、尸犍底、愤怒的德罗波蒂之子,以及其他大车战士。
8.43.60
विरथान्रथिनः श्रेष्ठान्निमेषार्धाच्चकार ह ॥ ८.४३.६० ॥
在半瞬之间,他使最好的车战士失去了战车。
8.43.61
अमोघत्वाच्च बाणानां भूतसङ्घा विसिप्मयुः ॥ ८.४३.६१ ॥
因为箭从不落空,众生之群都感到惊异。
8.43.62
तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः ।
अपश्याम महाभाग तदद्भुतमिवाभवत् ॥ ८.४३.६२ ॥
在那里,我们看到了迦尔纳的兵器威力和那位大德的敏捷;那景象仿佛奇迹,啊,有福之人。
8.43.63
न ह्याददानं ददृशुः सन्दधानं च सायकान् ।
विमुञ्चन्तं च संरम्भाद पश्यन्नैव तं जनाः ॥ ८.४३.६३ ॥
人们看不到他取箭、搭箭,或在愤怒中射出;人们甚至看不到他本人。
8.43.64
प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात् ।
न च पश्याम राजेन्द्र क्व नु कर्णो व्यतिष्ठत ॥ ८.४३.६४ ॥
我们在西方看到他,却因他的敏捷又转向东方;啊,诸王之主,迦尔纳究竟站在哪里,我们看不见。
8.43.65
इषूनेवास्य पश्यामो विनिकीर्णाऽन्समन्ततः ।
छादयानान्दिशो राजञ्शलभानामिव व्रजान् ॥ ८.४३.६५ ॥
我们只看到他的箭四面散落,遮蔽了各方,啊,国王,如同蝗虫的群飞。
8.43.66
तस्य तैरिषुभिस्त्रीक्ष्णैः सम्पतद्भिः सहस्रशः ।
मरीचिभिरिवोष्णांशोः शरैः सन्नतपर्वभिः ॥ ८.४३.६६ ॥
他那锐利的箭,成千上万地落下,如同太阳的光线,箭杆的节处弯曲。
8.43.67
व्याप्ताः सर्वा दिशो राजन्योधाश्च ददृशुस्तदा ।
शरैः संवृतमाकाशं तत्राभ्रैरिव चाभवत् ॥ ८.४३.६७ ॥
大王,那时四面八方都被充满,战士们看见天空被箭矢遮蔽,仿佛云层聚集于彼处。
8.43.68
द्यौर्वियद्भूर्दिशश्चैव प्रच्छन्ना निशितैः शरैः ।
अरुणाभ्रावृताकारं तस्मिन्देशे बभौ वियत् ॥ ८.४३.६८ ॥
天空、虚空、大地和四方都被锐利的箭矢遮蔽;在那个地方,天空如被赤色云彩笼罩的形体般闪耀。
8.43.69
ततः पुनरमेयात्मा कर्णो राजा महारथः ।
न्यहनत्समरे योधान्योधवृत्तमनुष्ठितः ॥ ८.४३.६९ ॥
然后,心量无限的国王、大车战士迦尔纳,又在战场上杀戮了战士,履行着武士的职责。
8.43.70
नृत्यन्निव हि राधेयश्चापहस्तो रणाजिरे ।
यैर्विद्वः प्रत्यविद्व्यत्तानेकैकं त्रिगुणैः शरैः ॥ ८.४३.७० ॥
罗陀之子迦尔纳手持弓,在战场上仿佛在跳舞;凡伤害他的人,他都以三倍的箭矢一一还击。
8.43.71
शतैश्च दशभिश्चैतान्पुनर्विद्ध्वा ननाद च ।
साश्वसूतध्वजच्छत्रास्ततस्ते विवरं ददुः ॥ ८.४३.७१ ॥
他又以数百、数十支箭射穿他们,并发出吼声;于是他们连同马匹、御者、旗帜和华盖一起让出了缺口。
8.43.72
ते हन्यमानाः कर्णेन पलायन्त दिशो दश ।
नादयन्तो दिशः सर्वाः कर्मत्रस्ता विचेतसः ॥ ८.४३.७२ ॥
被迦尔纳击杀的他们,向十方奔逃,以喊叫充满各方,因他的行为而恐惧、神志昏乱。
8.43.73
तान्प्रमथ्य महेष्वासान्राधेयः शरवृष्टिभिः ।
राजानीकमसम्बाधं प्राविशच्छत्रुकर्शनः ॥ ८.४३.७३ ॥
羅陀之子迦尔纳以箭雨摧毁了那些大弓箭手,这位制伏敌人者毫无阻碍地冲入了国王的军队。
8.43.74
स रथांस्त्रिशतं हत्वा चेदीनामनिवर्तिनाम् ।
राधेयो निशितैर्बाणैस्ततोऽभ्यागाद्युधिष्ठिरम् ॥ ८.४३.७४ ॥
羅陀之子迦尔纳击毁了不退却的遮提人三百辆战车,随后以利箭向坚战进逼。
8.43.75
ततस्ते विरथाः शूरा रथानन्यान्समास्थिताः ।
परिवव्रुर्महाराज धर्मपुत्रं युधिष्ठिरम् ॥ ८.४३.७५ ॥
于是那些失去战车的勇士登上其他战车,大王啊,将法之子坚战团团围住。
8.43.76
ततस्ते तु परे राजञ्छिखण्डी च ससात्यकिः ।
राधेयात्परिरक्षन्तो राजानं पर्यवारयन्।
मुञ्चन्तो विविधान्बाणान्स्वर्णपुङ्खाञ्शिलाशितान् ॥ ८.४३.७६ ॥
大王啊,于是其他人与施坎迪、萨谛亚基一同,为保护国王免受迦尔纳之害,将他团团围住,并射出各种以金羽装饰、在石上磨利的箭。
8.43.77
तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे ।
यत्ताः शूरा महेष्वासाः पर्यरक्षन्त सर्वशः ॥ ८.४३.७७ ॥
同样,您的所有勇士、大弓箭手们,一心要保护在战场上无可抵挡的迦尔纳,从四面八方守护着他。
8.43.78
नानावादित्रघोषाश्च प्रादुरासन्विशाम्पते ।
सिंहनादश्च सञ्जज्ञे शूराणामभिगर्जताम् ॥ ८.४३.७८ ॥
人主啊,各种乐器的响声随之响起,英雄们彼此咆哮的狮吼之声也随之而起。
8.43.79
ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः ।
युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम् ॥ ८.४३.७९ ॥
于是无畏的俱卢族与般度族再次集结:普利塔之子以坚战为首,我们则以御者之子为首。