Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.47

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.47.1

क्षत्रियास्ते महाराज परस्परवधैषिणः ।
अन्योन्यं समरे जघ्नुः कृतवैरा महौजसः ॥ ८.४७.१ ॥

大王啊,那些刹帝利желая彼此杀戮,结下仇怨,以极大的勇力在战场上相互攻击。

8.47.2

रथौघाश्च हयौघाश्च नरौघाश्च समन्ततः ।
गजौघाश्च महाराज संसक्ताश्च परस्परम् ॥ ८.४७.२ ॥

大王啊,四面八方,战车的群、马的群、人的群和象的群彼此纠缠交战。

8.47.3

गदानां परिघाणां च शक्तीनां च परस्परम् ।
प्रासानां भिण्डिपालानां मुसुण्ठीनां च सर्वशः ॥ ८.४७.३ ॥

铁锤、铁棒、长矛、投枪、掷矛与铁棍,四面八方彼此相撞。

8.47.4

सम्पातं चानुपश्याम सङ्ग्रामे भृशदारुणे ।
शलभा इव सम्पेतुः शरवृष्ट्यः समन्ततः ॥ ८.४७.४ ॥

在那场极其惨烈的战斗中,我们看到箭雨从四面八方落下,如同蝗虫一般。

8.47.5

नागान्नागाः समासाद्य व्यधमन्त परस्परम् ।
हया हयांश्च समरे रथिनो रथिनस्तथा ॥ ८.४७.५ ॥

象群遇到象群便相互撞击;战场上马撞马,车士撞车士。

8.47.6

पत्तयः पत्तिसङ्घांश्च हयसङ्घांश्च पत्तयः ।
पत्तयो रथमातङ्गान्रथा हस्त्यश्वमेव च।
नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप ॥ ८.४७.६ ॥

步卒攻击步卒的队列,步卒攻击骑兵队列,步卒攻击战车与象群;大王啊,战场上迅疾的象群踩碎了四兵俱全的大军。

8.47.7

वध्यतां तत्र शूराणां क्रोशतां च परस्परम् ।
घोरमायोधनं जज्ञे पशूनां घातने यथा ॥ ८.४७.७ ॥

勇士们彼此呼喊着被杀害,那战场变得如同屠宰牲畜一般可怕。

8.47.8

रुधिरेण समास्तीर्णा बभौ भारत मेदिनी ।
शक्रगोपगणाकीर्णा प्रावृषीव वसुन्धरा ॥ ८.४७.८ ॥

婆罗多啊,被鲜血厚厚覆盖的大地,闪耀如雨季中布满雨虫的大地。

8.47.9

यथा वा वाससी शुक्ले महारजनरञ्जिते ।
बिभ्रती युवती श्यामा तद्वदासीद्वसुन्धरा ॥ ८.४७.९ ॥

又如两件白衣被深红色染料染过,由一位肤色黝黑的少女穿着,那大地便是如此。

8.47.10

बद्वचूडामणिधरैः शिरोभिश्चारुकुण्डलैः ।
उज्झितैर्वृषभाक्षाणां भ्राजते स्म वसुन्धरा ॥ ८.४७.१० ॥

那些牛眼勇士的头颅,戴着系好的冠饰宝石和精美耳环,被砍下之后,大地闪耀起来。

8.47.11

शशशोणितदिग्धेव शातकुम्भमयीव च ।
भूर्बभौ भरतश्रेष्ठ शान्तार्चिर्भिरिवानलैः ॥ ८.४७.११ ॥

婆罗多之最啊,大地仿佛涂满兔血又似金制成,闪耀如火焰已熄的火堆。

8.47.12

छिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह ।
कुण्डलानां पिनद्धानां भूषणानां च भारत ॥ ८.४७.१२ ॥

婆罗多啊,连同被砍断的头颅、手臂和大腿,以及系好的耳环和饰物,大地闪耀起来。

8.47.13

निष्काणां हेमसूत्राणां शरीराणां च धन्विनाम् ।
चर्मणां सपताकानां सङ्घास्तत्रापतन्भुवि। ॥ ८.४७.१३ ॥

金饰、金线饰物、尸体、弓手、盾牌与旌旗堆积如山,纷纷倒落在地上。

8.47.14

प्रावृट्काले महाराज मेघा इव सविद्युतः ॥ ८.४७.१४ ॥

大王啊,如雨季中伴随闪电的云朵。

8.47.15

स्यन्दमाना यथा भान्ति पर्वता धातुमण्डिताः ।
तथा रेजू रणे नागा रुधिरेण समाप्लुताः ॥ ८.४७.१५ ॥

如同被矿物色彩装饰、流淌着的山峦闪耀,血染的象群也在战场上熠熠生辉。

8.47.16

तोमरान्सादिभिर्मुक्तान्प्रतिमानस्थितान्बहून् ।
हस्तैरुद्धृत्य तान्नागा बभञ्जुश्चापरे रणे ॥ ८.४७.१६ ॥

骑手们投掷的众多标枪,站在象轿上,象群用鼻子卷起它们,其他的则在战场上将其折断。

8.47.17

नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः ।
हिमागमे यथा राजन्व्यभ्रा इव महीधराः ॥ ८.४७.१७ ॥

披甲被铁箭射穿的上等象群闪耀着,大王啊,如同寒季来临时无云的山峰。

8.47.18

शरैः कनकपुङ्खैश्च चिता रेर्जुर्गजोत्तमाः ।
उल्काभिः सम्प्रदीप्ताग्राः पर्वता इव भारत ॥ ८.४७.१८ ॥

以金羽箭矢标记的上等象群闪耀着,婆罗多的后裔啊,如同燃烧火把的山峰。

8.47.19

केचिदभ्याहता नागैर्नागा नगवरोपमाः ।
न चेलुः समरात्तस्माच्छिन्नपक्षा इवाद्रयः ॥ ८.४७.१९ ॥

有些象被其他象所击伤,如同最好的山岳,不曾离开那场战斗,恰如被斩断翅膀的山。

8.47.20

अपरे प्राद्रवन्नागाः शरार्ता व्रणपीडिताः ।
प्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे ॥ ८.४७.२० ॥

其他象被箭所伤,为伤口所苦,逃奔而去;在那场大战中,它们连同护甲与额头倒在地上。

8.47.21

निषेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान् ।
वेमुश्च बहवो राजंश्चुक्रुशुश्चापरे गजाः ॥ ८.४७.२१ ॥

有些象像狮子一样伏下,其他的则发出可怕的吼声;大王啊,许多象颤抖,另一些象哀号。

8.47.22

हयाश्च निहता बाणैर्हेमभाण्डविभूषिताः ।
निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश ॥ ८.४७.२२ ॥

装饰着金饰的马被箭射死;它们倒下,疲惫不堪,在十方乱窜。

8.47.23

अपरे क्लिश्यमानाश्च व्यवेष्टन्त महीतले ।
भावान्बहुविधांश्चक्रुस्ताडिताः शरतोमरैः ॥ ८.४७.२३ ॥

其他人痛苦不堪,在地上翻滚;被箭和矛所击中,他们做出了种种姿态。

8.47.24

नरास्तु निहता भूमौ कूजन्तस्तत्र मारिप ।
दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान् ॥ ८.४७.२४ ॥

人主啊,那里被杀的人在地上哭喊;有的看见了亲族,有的看见了父亲,有的看见了祖父。

8.47.25

धावमानान्परांश्चान्ये दृष्ट्वान्ये तत्र भारत ।
ख्यातानि गोत्रनामानि शशंसुरितरेतरम् ॥ ८.४७.२५ ॥

婆罗多啊,有人看见其他人奔逃,有人则互相报出各自著名的族姓与名字。

8.47.26

तेषां छिन्ना महाराज भुजाः कनकभूषणाः ।
उद्वेष्टन्ते विवेष्टन्ते भ्रमन्ति ह्युत्पतन्ति च ॥ ८.४७.२६ ॥

大王啊,他们被斩断的、饰有金饰的手臂,扭动、缠绕、翻转,又向上跳起。

8.47.27

निपतन्ति तथैवान्ये स्फुरन्ति च सहस्रशः ।
वेगांश्चान्ये रमे चक्रुः पञ्चास्या इव पन्नगाः ॥ ८.४७.२७ ॥

同样,又有其他人倒下,成千上万地抽搐;另有一些人像五头蛇一样迅速地扭动。

8.47.28

ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशाम्पते ।
लोहितार्द्रा भृशं रेजुस्तपनीयध्वजा इव ॥ ८.४७.२८ ॥

人民之主啊,那些手臂如同蛇的盘绕,涂着檀香,浸透鲜血,像金色的旗幡一样闪耀。

8.47.29

वर्तमाने तथा घोरे सङ्कुले सर्वतो दिशम् ।
अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम् ॥ ८.४७.२९ ॥

在如此可怕的混乱遍布四方之际,他们互相击杀,彼此不相识地战斗着。

8.47.30

भौमेन रजसाकीर्णे शस्त्रसम्पातसङ्कुले ।
नैव स्वे न परे राजन्व्यज्ञायन्त तमोवृताः ॥ ८.४७.३० ॥

大王啊,在那充满尘土、刀兵纷落的混乱之中,被黑暗笼罩的人们,既认不出自己人,也认不出他人。

8.47.31

तथा तदभवद्युद्धं घोररूपं भयानकम् ।
लोहितोदा महानद्यः प्रसस्रुस्तत्र चासकृत् ॥ ८.४७.३१ ॥

如此,那场战斗变成了可怖而骇人的模样。那里血水汇成的大河一次又一次奔流而出。

8.47.32

शीर्षपाषाणसञ्छन्नाः केशशैवलशाद्वलाः ।
अस्थिमीनसमाकीर्णा धनुःशरगदोडुपाः ॥ ८.४७.३२ ॥

那些河流被作为石头的头颅所覆盖;头发如同水藻和青草。骨头密密麻麻如鱼群,弓、箭与棍棒则如同船只。

8.47.33

मांसशोणितपङ्किन्यो घोररूपाः सुदारुणाः ।
नदीः प्रवर्तयामासुः सोणितौघविवर्धिनीः ॥ ८.४७.३३ ॥

他们使河流奔涌,河水被血肉泥浆浑浊,形状可怖,极为骇人,并因血流而暴涨。

8.47.34

भीरुवित्रासकारिण्यः शूराणां हर्षवर्धनाः ।
ता नद्यो घोररूपास्तु नयन्त्यो यमसादनम् ॥ ८.४७.३४ ॥

那些形状可怖的河流使怯懦者恐惧战栗,使英雄们愈加欢喜,并将人引向阎摩的居所。

8.47.35

अवगाढान्मज्जयन्त्यः क्षत्रस्याजनयन्भयम् ।
क्रव्यादानां नरव्याघ्र नर्दतां तत्रतत्र ह ॥ ८.४७.३५ ॥

这些河流吞没了沉入其中的人,在刹帝利中引起恐惧。人中之虎啊,那里到处还有咆哮的食肉者所带来的恐惧。

8.47.36

घोरमायोधनं जज्ञे प्रेतराजपुरोपमम् ।
उत्थितान्यगणेयानि कबन्धानि समन्ततः ॥ ८.४७.३६ ॥

那场战斗变得恐怖,如同死神之王的城邑。四面八方,无数无头的躯干站立起来。

8.47.37

नृत्यन्ति वै भूतगणाः सुतृप्ता मांसशोणितैः ।
पीत्वा च शोणितं तत्र वसां भुक्त्वा च भारत ॥ ८.४७.३७ ॥

鬼怪之众,饱食血肉,在那里起舞;饮血食脂,婆罗多啊。

8.47.38

मेदोमज्जावसामत्तास्तृप्ता मांसस्य चैव ह ।
धावमानाः स्म दृश्यन्ते काकगृघ्रबकास्तथा ॥ ८.४७.३८ ॥

沉醉于脂肪、骨髓与油脂,饱食血肉,只见乌鸦、秃鹫和白鹭奔跑。

8.47.39

शूरास्तु समरे राजन्भयं त्यक्त्वा सुदुस्त्यजम् ।
योधव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत् ॥ ८.४७.३९ ॥

然而,国王啊,战场上的英雄们舍弃了极难舍弃的恐惧,凭着战士之誓而闻名,像无畏者一样行事。

8.47.40

शरशक्तिसमाकीर्णे क्रव्यादगणसङ्कुले ।
व्यचरन्त रणे शूराः ख्यापयन्तः स्वपौरुषम् ॥ ८.४७.४० ॥

战场上布满箭矢与长矛,挤满食肉的群类,英雄们四处奔走,宣扬自己的勇武。

8.47.41

अन्योन्यं श्रावयन्ति स्म नामगोत्राणि भारत ।
पितृनामानि च रणे गोत्रनामानि वा विभो ॥ ८.४७.४१ ॥

婆罗多啊,他们在战场上彼此高声报出自己的名字与氏族,也报出父亲的名字和氏族之名,大能者啊。

8.47.42

श्रावयाणाश्च बहवस्तत्र योधा विशाम्पते ।
अन्योन्यमवमृद्रन्तः शक्तितोमरपट्टसैः ॥ ८.४७.४२ ॥

人主啊,那里许多战士高声呼喊,用长矛、投枪和剑相互砍杀碾压。

8.47.43

वर्तमाने तथा युद्धे घोररूपे सुदारुणे ।
व्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे ॥ ८.४७.४३ ॥

战斗如此进行,恐怖而极其惨烈,俱卢军陷入绝望,如同大海中破碎的船只。