Mahābhārata · Adhyāya 8.49
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.49.1
कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष ।
उलूकः सौबलश्चैव राजा च सह सोदरैः ॥ ८.४९.१ ॥
Kṛtavarman, Kṛpa, Droṇa's son, the charioteer's son (Karṇa), O noble one, Ulūka, the son of Subala (Śakuni), and the king (Duryodhana) together with his brothers.
8.49.2
सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम् ।
समुज्जह्रुः स्म वेगेन भिन्नां नावमिवार्णवे ॥ ८.४९.२ ॥
Seeing the army sinking, afflicted by fear of the sons of Pāṇḍu, they lifted it up swiftly, as one lifts a broken boat in the ocean.
8.49.3
ततो युद्धमतीवासीन्मुहूर्तमिव भारत ।
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥ ८.४९.३ ॥
Then the battle became exceedingly fierce, as if it had paused for a moment, striking terror into the timid and increasing the joy of the heroes, O descendant of Bharata.
8.49.4
कृपेण शरवर्षाणि प्रतिमुक्तानि संयुगे ।
सृञ्जयांश्छादयामासुः शलभानां व्रजा इव ॥ ८.४९.४ ॥
In battle, the showers of arrows loosed by Kṛpa covered the Sṛñjayas, like swarms of locusts.
8.49.5
शिखण्डी च ततः क्रुद्धो गौतमं त्वरितो ययौ ।
ववर्ष शरवर्षाणि समन्ताद्द्विजपुङ्गवम् ॥ ८.४९.५ ॥
Then the enraged Śikhaṇḍin hastily went to Gautama (Kṛpa) and rained down showers of arrows on all sides upon that best of the twice-born.
8.49.6
कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित् ।
शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः ॥ ८.४९.६ ॥
But Kṛpa, knower of great weapons, destroyed that shower of arrows, and in battle, enraged, pierced Śikhaṇḍin with ten arrows.
8.49.7
ततः शिखण्डी कुपितः शरैः सप्तभिराहवे ।
कृपं विव्याध कुपितं कङ्कपत्रैरजिह्मगैः ॥ ८.४९.७ ॥
Then Śikhaṇḍin, enraged, struck Kṛpa in battle with seven arrows, feathered with heron plumes and flying straight, Kṛpa being himself enraged.
8.49.8
ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः ।
ततः सुनिशितैस्तीक्ष्णैः क्षुरप्रैर्हेमभूषितैः।
व्यश्वसूतरथं चक्रे शिखण्डिनमथो द्विजः ॥ ८.४९.८ ॥
Then Kṛpa, the great charioteer grievously pierced, with sharp arrows, and then with very keen razor-headed arrows adorned with gold, left Śikhaṇḍin's chariot without horses and charioteer; he was a Brahmin.
8.49.9
हताश्वात्तु ततो यानादवप्लुत्य महारथः ।
खङ्गं चर्म तथा गृह्य सत्वरं ब्राह्मणं ययौ ॥ ८.४९.९ ॥
Then the great charioteer, his horses slain, leapt down from his vehicle, took up sword and shield, and swiftly advanced upon the Brahmin.
8.49.10
तमापतन्तं सहसा शरैः सन्नतपर्वभिः ।
वारयामास समरे तदद्भुतमिवाभवत् ॥ ८.४९.१० ॥
Kṛpa suddenly checked him as he rushed upon him in battle, with arrows of bent joints; that seemed wondrous.
8.49.11
तत्राद्भुतमपश्याम शिलानां प्लवनं यथा ।
निश्चेष्टो यद्रणे राजञ्छिखण्डी समतिष्ठत ॥ ८.४९.११ ॥
There we saw a wonder, like stones floating; O king, Śikhaṇḍin stood motionless in battle.
8.49.12
कृपेण वारितं दृष्ट्वा शिखण्डिनमथो नृप ।
प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः ॥ ८.४९.१२ ॥
Seeing Śikhaṇḍin checked by Kṛpa, O king, the great charioteer Dhṛṣṭadyumna quickly advanced against Kṛpa.
8.49.13
धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति ।
प्रतिजग्राह वेगेन कृतवर्मा महारथः ॥ ८.४९.१३ ॥
Then Kṛtavarman, the great charioteer, swiftly met Dhṛṣṭadyumna as he advanced toward the chariot of Kṛpa, the son of Śaradvat.
8.49.14
युधिष्ठिरमथायान्तं शारद्वतरथं प्रति ।
सपुत्रं सहसैन्यं च द्रोणपुत्रो न्यवारयत् ॥ ८.४९.१४ ॥
Then Droṇa's son held back Yudhiṣṭhira as he advanced toward the chariot of Kṛpa, together with his sons and his army.
8.49.15
नकुलं सहदेवं च त्वरमाणौ महारथौ ।
प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन् ॥ ८.४९.१५ ॥
Nakula and Sahadeva, the two great charioteers, were hastening forward; your son met them and held them back with a shower of arrows.
8.49.16
भीमसेनं करूशांश्च केकयान्सह सृञ्जयैः ।
कर्णो वैकर्तनो युद्धे वारयामास भारत ॥ ८.४९.१६ ॥
O Bhārata, in battle Karṇa, the son of Vikartana, held back Bhīmasena, the Kurus, and the Kekayas together with the Sṛñjayas.
8.49.17
शिखण्डिने ततो बाणान्कृपः शारद्वतो युधि ।
प्राहिणोत्तवरया युक्तो बीभत्सोरथ सन्निधौ ॥ ८.४९.१७ ॥
Then Kṛpa, the son of Śaradvat, in haste discharged arrows at Śikhaṇḍin in battle, right near Arjuna.
8.49.18
ताञ्छरान्प्रेषितांस्तेन समन्तात्स्वर्णभूषितान् ।
चिच्छेद खङ्गमाविध्य भ्रामयंश्च पुनः पुनः ॥ ८.४९.१८ ॥
He cut through those gold-adorned arrows shot by Kṛpa from every side, repeatedly whirling and brandishing his sword.
8.49.19
शतचन्द्रं च तच्चर्म गौतमस्तस्य भारत ।
व्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः ॥ ८.४९.१९ ॥
O Bhārata, Gautama swiftly shattered his hundred-moon shield with arrows, and the people cried out aloud.
8.49.20
स विचर्मा महाराज खङ्गपाणिरुपाद्रवत् ।
कृपस्तं शरसङ्घातैराद्रवन्तमपीडयत् ॥ ८.४९.२० ॥
O great king, he rushed forward without his shield, sword in hand; but Kṛpa pressed him hard with volleys of arrows as he came running.
8.49.21
शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महाबलः ।
चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो ययौ ॥ ८.४९.२१ ॥
O king, the son of Citraketu, Suketu, swiftly went to that mighty one, overwhelmed and afflicted by Śāradvata's arrows.
8.49.22
विकिरन्ब्राह्मणं युद्धे बहुभिर्निशितैः शरैः ।
अभ्यापतदमेयात्मा गौतमस्य रथं प्रति ॥ ८.४९.२२ ॥
Scattering many sharp arrows in battle, he of immeasurable spirit rushed toward the chariot of Gautama (Kṛpa).
8.49.23
दृष्ट्वा विषक्तं तं चैव ब्राह्मणं च निवारितम् ।
अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम ॥ ८.४९.२३ ॥
Seeing him entangled and the brahmin (Kṛpa) held back, O best of kings, Śikhaṇḍin swiftly withdrew.
8.49.24
सुकेतुस्तु ततो राजन्गौतमं नवभिः शरैः ।
विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः ॥ ८.४९.२४ ॥
Then, O king, Suketu pierced Gautama with nine arrows and struck him with seventy, and again pierced him with three arrows.
8.49.25
अथास्य सशरं चापं पुनश्चिच्छेद मारिष ।
सारथिं च शरेणास्य मृशं मर्मस्वताडयत् ॥ ८.४९.२५ ॥
Then, O sire, he cut his bow, with its arrow, once more, and with an arrow struck his charioteer hard on the vital spots.
8.49.26
गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम् ।
सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत् ॥ ८.४९.२६ ॥
Then Gautama, enraged, took up a new, strong bow and struck Sukētu on all his vital spots with thirty arrows.
8.49.27
स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे ।
भूमिकम्पे यथा वृक्षश्चचालाकम्पितो भृशम् ॥ ८.४९.२७ ॥
His whole body reeling, he swayed on the excellent chariot, like a tree shaken violently in an earthquake.
8.49.28
चलतस्तस्य कायात्तुं शिरो ज्वलितकुण्डलम् ।
सोष्णीषं सशिरस्त्राणं क्षुरप्रेण त्वपातयत् ॥ ८.४९.२८ ॥
From his swaying body he cut off the head, with its blazing earrings, turban and helmet, with a razor-headed arrow.
8.49.29
तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम् ।
ततोऽस्य कायो वसुधां पश्चात्प्रापतदच्युत ॥ ८.४९.२९ ॥
That head fell to the ground like a piece of flesh snatched by a hawk; then his body fell to the earth behind it, O Acyuta.
8.49.30
तस्मिन्हते महाराज पुत्रास्तस्य पदानुगाः ।
गौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश ॥ ८.४९.३० ॥
When he was slain, O great king, his sons and followers abandoned Gautama in battle and fled in all ten directions.
8.49.31
धृष्टद्युम्नं तु समरे सन्निवार्य महारथः ।
कृतवर्माऽब्रवीद्वृष्टस्तिष्ठतिष्ठेति भारत ॥ ८.४९.३१ ॥
O Bhārata, the mighty warrior Kṛtavarman, checking Dhṛṣṭadyumna in battle and struck by arrows, said: "Stop! Stop!"
8.49.32
तदभूत्तुमुलं युद्वं वृष्णिपार्षतयो रणे ।
आमिषार्थे यथा युद्धं श्येनयोः क्रुद्धयोर्नृप ॥ ८.४९.३२ ॥
That battle between the Vṛṣṇis and the Pārṣatas in the fight became fierce, O king, like the combat of two enraged hawks striving for flesh.
8.49.33
धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिः शरैः ।
आजघानोरसि क्रुद्वः पीडयन्हृदिकात्मजम् ॥ ८.४९.३३ ॥
But Dhṛṣṭadyumna, enraged, struck Hārdikya, the son of Hṛdika, on the chest in battle with nine arrows, afflicting him.
8.49.34
कृतवर्मा तु समरे पार्षतेन दृढाहतः ।
पार्षतं सरथं साश्वं छादयामास सायकैः ॥ ८.४९.३४ ॥
But Kṛtavarman, firmly struck in battle by the Pārṣata, covered the Pārṣata with arrows, along with his chariot and horses.
8.49.35
सरथश्छादितो राजन्धृष्टद्युम्नो न दृश्यते ।
मेघैरिव परिच्छन्नो भास्करो जलधारिभिः ॥ ८.४९.३५ ॥
O king, Dhṛṣṭadyumna, covered with his chariot, is not seen, like the sun hidden by water-bearing clouds.
8.49.36
विधूय तं बाणगणं शरैः कनकभूषणैः ।
व्यरोचत रणे राजन्धृष्टद्युम्नः कृतव्रणः ॥ ८.४९.३६ ॥
Having shaken off that host of arrows, O king, Dhṛṣṭadyumna, wounded in battle, shone forth with his gold-ornamented arrows.
8.49.37
ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम् ।
कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः ॥ ८.४९.३७ ॥
Then Pārṣata, enraged, the commander of the army, approached Kṛtavarman and unleashed a very terrible rain of weapons.
8.49.38
तामापतन्तीं सहसा शस्त्रवृष्टिं सुदारुणाम् ।
शरैरनेकसाहस्रैर्हार्दिक्योऽवारयद्युधि ॥ ८.४९.३८ ॥
That terrible shower of weapons, suddenly falling, Hārdikya warded off in battle with many thousands of arrows.
8.49.39
दृष्ट्वा तु वारितां युद्धे शस्त्रवृष्टिं दुरासदाम् ।
कृतवर्माणमासाद्य वारयामास पार्षतः ॥ ८.४९.३९ ॥
Seeing that shower of weapons, hard to withstand, checked in battle, Pārṣata approached Kṛtavarman and checked him.
8.49.40
यथा युग्मरथेनाजौ वाहान्वाहेरमिश्रयत् ।
गृहीत्वा चर्म खङ्गं च रथं तस्यावपुप्लुवे ॥ ८.४९.४० ॥
As in battle, with a paired chariot, he had mixed horses with horses, so, taking shield and sword, he leaped upon his chariot.
8.49.41
मिलितेष्वथ वाहेषु प्रत्यासन्ने च पार्षते ।
दृष्ट्वाऽपदानं तस्याशु गदां जग्राह सात्वतः ॥ ८.४९.४१ ॥
When the horses had become entangled and Pārṣata was near, seeing his leap, the Sātvata quickly took up his mace.
8.49.42
गदापाणिस्ततो राजन्रथात्तूर्णमवप्लुतः ।
तमदृष्ट्वा रथोपस्थे सारथिं समताडयत् ॥ ८.४९.४२ ॥
Then, O king, mace in hand, he swiftly leaped down from the chariot; not seeing him on the chariot-floor, he struck the charioteer instead.
8.49.43
खङ्गेन शितधारेण स हतः प्रापतद्रथात् ।
कृतवर्मा ततो हृष्टस्तलशब्दं चकार ह ॥ ८.४९.४३ ॥
Struck by a keen-edged sword, he fell from the chariot. Then Kṛtavarman, delighted, made the sound of clapping arms.
8.49.44
पार्षतं चाब्रवीद्राजन्नेह्येहीति पुनःपुनः ।
स तं न ममृषे युद्वे तलशब्दं समीरितम् ॥ ८.४९.४४ ॥
O king, he kept calling out to the son of Pṛṣata, "Come, come!" But in battle he could not endure the sound of clapping that had been raised.
8.49.45
अवप्लुत्य रथात्तस्मात्स्वरथं पुनरास्थितः ।
अभ्ययात्स तु तत्तूर्णं तिष्ठतिष्ठेति चाब्रवीत् ॥ ८.४९.४५ ॥
Leaping down from that chariot, he mounted his own chariot again. Swiftly he advanced toward him, crying, "Stop, stop!"
8.49.46
ततो राजन्महेष्वासं कृतवर्माणमाशु वै ।
गदां गृह्य पुनर्वेगात्कृतवर्माणमाहनत् ॥ ८.४९.४६ ॥
Then, O king, he swiftly seized his mace and struck again with speed at Kṛtavarman, the great archer.
8.49.47
सोऽतिविद्वो बलवता न्यपतन्मूर्च्छया हतः ।
श्रुतर्वा रथमारोप्य अपोवाह रणाजिरात् ॥ ८.४९.४७ ॥
Sorely wounded by the mighty one, he fell down in a swoon. Śrutarvan placed him upon his chariot and carried him away from the battlefield.
8.49.48
धृष्टद्युम्नस्तु समरे दृष्ट्वा शत्रुं महारथः ।
कौरवान्समरे तूर्णं वारयामास सायकैः ॥ ८.४९.४८ ॥
But Dhṛṣṭadyumna, the great chariot-warrior, seeing the enemy in battle, swiftly held back the Kauravas with his arrows.
8.49.49
ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन् ।
सिंहनादरवांश्चक्रुस्ततो युद्धमवर्तत ॥ ८.४९.४९ ॥
Then your warriors rushed upon Dhṛṣṭadyumna, roaring like lions, and the battle began.