Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.54

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.54.1

अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितः ।
रथनागाश्वपत्तीनां दण्डधारेण वध्यताम् ॥ ८.५४.१ ॥

此时北方的般度军中升起一片喧嚣,战车、象、马与步兵正被持杖者所杀。

8.54.2

निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत् ।
वाहयन्नेव तुरगान्गरुडानिलरंहसः ॥ ८.५४.२ ॥

Keśava 调转战车,对 Arjuna 说话,同时驾驭着如迦鲁达或风般迅疾的骏马。

8.54.3

मागधोऽसावतिक्रान्तो द्विरदेन प्रमाथिना ।
भगदत्तादनवमः शिक्षया च बलेन च ॥ ८.५४.३ ॥

那位摩揭陀王骑着摧毁性的大象,在技艺和力量上都不逊于婆伽达多。

8.54.4

एनं हत्वा निहन्ताऽसि पुनः संशप्तकानिति ।
वाक्यान्ते प्रापयत्पार्थं दण्डधारगजं प्रति ॥ ८.५४.४ ॥

“杀了他,你还会再杀死三誓者。”说完这些话,他将般度之子引向持杖者的象。

8.54.5

स मागधानां प्रवरो महाबलोऽ… ।
शुभग्रहो योधगणैः समन्वितः।
सपत्नसेनां प्रममाथ दारुणो ।
भीमं समग्रां बलवानिव ग्रहम् ॥ ८.५४.५ ॥

他是摩揭陀人中的翘楚,大力者……与众多武士相伴,如吉星一般,凶猛地碾碎了敌军,如同强大的行星搅动整个可怖的世界。

8.54.6

सुकल्पितं दानवनागसन्निभं ।
महाभ्रनिर्हादसमस्वनं रणे।
समास्थितो नागवरं नरेश्वरो ।
रथाश्वमातङ्गनरप्रमाथिनम् ॥ ८.५४.६ ॥

装饰精美,如阿修罗的象,发出如巨云般的吼声,人主在战场上骑上最好的象,那是摧毁战车、马、象与人的猛象。

8.54.7

स नागयन्तॄन्समरे महारथा… ।
न्सपत्तिसङ्घांस्तुरगान्ससादिनः।
द्विपांश्च बाणैर्निजघान वीर्यवा… ।
न्समन्ततो घ्नन्निव कालचक्रवत् ॥ ८.५४.७ ॥

他在战场上以箭射杀大车战士、象夫、步兵队伍、马匹及其骑手,以及大象,四面冲击,如同时间之轮。

8.54.8

नरांस्तु कांस्यायसवर्मभूषणा… ।
न्निपात्य साश्वानपि पत्तिभिः सह।
व्यपोथयद्दन्तिवरेण शुष्मिणा ।
सशब्दवत्स्थूलनलं यथा तथा ॥ ८.५४.८ ॥

那头强壮的名象击倒身披铜铁甲胄、饰有装饰的战士,连同马匹与步兵一并踏碎,如同发出巨响压碎粗大的芦苇。

8.54.9

अथार्जुनो ज्यातलनेमिनिःस्वने ।
मृदङ्गभेरीबहुशङ्खनादिते।
रथाश्वमातङ्गसहस्रनादिते ।
रथोत्तमेनाभ्यपतद्द्विपोत्तमम् ॥ ८.५४.९ ॥

于是阿周那在弓弦的嗡鸣与车轮的轰隆声中,在鼓、鼓与众多螺号齐鸣,成千上万战车、战马与象群的吼声充满战场之际,乘着他的良车,向那头最上等的象冲去。

8.54.10

ततोऽर्जुनं द्वादशभिः शरोत्तमै… ।
र्जनार्दनं षोडशभिः समार्पयत्।
स दण्डधारस्तुरगांस्त्रिभिस्त्रिभि… ।
स्ततो ननाद प्रजहास चासकृत् ॥ ८.५४.१० ॥

于是那持杖者以十二支上等箭射中阿周那,以十六支箭射中阿周那与生主(黑天);又以每匹三箭射马,随后大声咆哮,并一再狂笑。

8.54.11

ततोऽस्य पार्थः सगुणेषुकार्मुकं ।
चकर्त भल्लैर्ध्वजमप्यलङ्कृतम्।
पुनर्नियन्तॄन्सहपादगोप्तृभि… ।
स्ततः स चुक्रोध गिरिव्रजेश्वरः ॥ ८.५४.११ ॥

于是般度之子将他带弦箭的弓和华丽的旗帜以月牙箭斩断,又将御者与护足者一并斩杀。于是山城之主大怒。

8.54.12

ततोऽर्जुनं भिन्नकटेन दन्तिना ।
घनाघनेनानिलतुल्यरंहसा।
अतीव चुक्रोधयिषुर्जनार्दनं ।
घनञ्जयं चाभिजघान तोमरैः ॥ ८.५४.१२ ॥

于是他以一头额角流出黄汁、黑如雷云、疾如风的大象攻击阿周那。他想激怒黑天,也用投枪击中了财富者。

8.54.13

अथास्य बाहू द्विपहस्तसन्निभौ ।
शिरश्च पूर्णेन्दुनिभाननं त्रिभिः।
क्षुरैः प्रचिच्छेद सहैव पाण्डव… ।
स्ततो द्विपं बाणशतैः समर्पयत् ॥ ८.५४.१३ ॥

于是般度之子以三支利如剃刀的箭,一齐斩断他象鼻般的双臂和脸如满月的头颅。随后他以百箭射穿了那头象。

8.54.14

स पार्थबाणैस्तपनीयभूषणैः ।
समावृतः काञ्चनवर्मभृद्द्विपः।
भृशं चकाशे निशि पर्वतो यथा ।
दावाग्निना प्रज्वलितौषधिद्रुमः ॥ ८.५४.१४ ॥

那头被般度之子的金饰箭所覆盖、身披金甲的大象,在夜中异常耀眼,犹如山上的草药与树木被野火点燃。

8.54.15

स वेदनार्तोऽम्बुदनिस्वनो नदं… ।
श्चरन्भ्रमन्प्रस्स्वलितान्तरोऽद्रवत्।
पपात रुग्णः सनियन्तृकस्तथा ।
यथा गिरिर्वज्रविदारितस्तथा ॥ ८.५४.१५ ॥

他痛苦不堪,如雷云般咆哮……奔跑不定,旋转蹒跚。负伤的他与御者一同倒下,犹如被金刚雷劈开的山峰崩塌。

8.54.16

हिमावदानेन सुवर्णमालिना ।
हिमाद्रिकूटप्रतिमेन दन्तिना।
हते रणे भ्रातरि दण्ड आव्रज… ।
ज्जिघांसुरिन्द्रावरजं धनञ्जयम् ॥ ८.५४.१६ ॥

檀陀身如白雪,佩戴金鬘,骑在如雪山峰顶般的象上,见兄长战死,便欲杀殺因陀罗之幼弟阿周那(Dhanañjaya),奋勇向前。

8.54.17

सतोमरैरर्करप्रभैस्त्रिभि… ।
र्जनार्दनं पञ्चभिरर्जुनं शितैः।
समर्पयित्वा विननाद चार्दयं… ।
स्ततोऽस्य बाहू निचकर्त पाण्डवः ॥ ८.५४.१७ ॥

他以三支如日光般耀眼的标枪射中黑天(Janārdana),又以五支利箭射中阿周那,咆哮并使之痛苦,于是般度之子斩断了他的双臂。

8.54.18

क्षुरप्रकृत्तौ विपुलौ सतोमरौ ।
शुभाङ्गदौ चन्दनरूषितौ भुजौ।
गजात्पतन्तौ युगपद्विरेजतु… ।
र्यथोरगौ पर्वतशृङ्गवन्महीम् ॥ ८.५४.१८ ॥

他那粗壮的双臂被月牙形箭斩断,连同标枪,戴着精美臂钏,涂着檀香,同时从象上坠落,闪耀如两条从山峰坠向大地的蛇。

8.54.19

अथाऽर्धचन्द्रेण हतं किरीटिना ।
पपात दण्डस्य शिरः क्षितिं द्विपात्।
स शोणितार्द्रो निपतन्विरेजे ।
दिवाकरोऽस्तादिव पश्चिमां दिशम् ॥ ८.५४.१९ ॥

于是,檀陀之首被冠者(阿周那)以半月箭射中,从象上坠落于地。他浑身浴血坠落,闪耀如西方日落之时的太阳。

8.54.20

अथ द्विपं श्वेतनगाग्रसन्निभं ।
दिवाकरांशुप्रतिमैः शरोत्तमैः।
बिभेद पार्थः स पपात नादयन् ।
हिमाद्रिकूटं कुलिशाहतं यथा ॥ ८.५४.२० ॥

于是,般度之子(阿周那)以如日光般的上等箭射穿了那头如白山峰顶般的象。它咆哮着倒下,如同被金刚杵击中的雪山峰顶。

8.54.21

ततोऽपरं तत्प्रतिमा गजोत्तमा ।
जिगीषवः संयति सव्यसाचिना।
तथा कृतास्तेऽपि यथैव तौ द्विपौ ।
ततः प्रभग्नं सुमहद्रिपोर्बलम् ॥ ८.५४.२१ ॥

随后,与那两头相似的其他良象,也被渴望在战斗中获胜的左手神射手(Savyasācin)同样击倒。于是敌人庞大的军队溃散了。

8.54.22

गजा रथाश्वाः पुरुषाश्च सङ्घशः ।
परस्परघ्नाः परिपेतुराहवे।
परस्परं प्रस्खलिताः समाहता ।
भृशं च तत्तद्बहुभाषिणो हताः ॥ ८.५४.२२ ॥

象、车、马和人成群地在战斗中倒下,彼此相杀。互相碰撞、踉跄,被击伤,发出各种呼喊,纷纷丧命。

8.54.23

अथार्जुनं स्वे परिवार्य सैनिकाः ।
पुरन्दरं देवगणा इवाब्रुवन्।
अभैष्म यस्मान्मरणादिव प्रजाः ।
स वीर दिष्ट्या निहतस्त्वया रिपुः ॥ ८.५४.२३ ॥

于是我军将士围绕阿周那,像诸神对因陀罗说话那样说道:“英雄啊,我们像众生惧怕死亡一样惧怕着;幸运的是你杀死了这个敌人。”

8.54.24

न चेत्परित्रास्यदिमाञ्जनान्भया… ।
द्द्विषद्भिरेवं बलिभिः प्रपीडितान्।
तथाऽभविष्यद्द्विषतां प्रमोदनं ।
यथा हतेष्वेष्विह नोऽरिसूदन ॥ ८.५४.२४ ॥

如果你没有从恐惧中保护这些人……,他们就会这样被敌人中的强者重重压迫,敌人也会像我们这里的人被杀时那样欢喜,啊,灭敌者!

8.54.25

इतीव भूयश्च सुहृद्भिरीडिता ।
निशम्य वाचः सुमनास्तदाऽर्जुनः।
यथाऽनुरूपं प्रतिपूज्य तं जनं ।
जगाम संशप्तकसङ्घहा पुनः ॥ ८.५४.२५ ॥

阿周那再次受到朋友们的赞扬,听了这些话心中欢喜,便依礼回敬那些人,然后作为歼灭三摩车多迦军的人,又继续前行。