摩诃婆罗多 · 章 8.56
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.56.1
प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः ।
न त्वस्य कर्म सङ्ग्रामे त्वया सञ्जय कीर्तितम् ॥ ८.५६.१ ॥
持国王说:全视啊,你先前已提到那位闻名于世的英雄,但你并未讲述他在战场上的功业。
8.56.2
तस्य विस्तरशो ब्रूहि प्रवीरस्याद्य विक्रमम् ।
शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पमेव च ॥ ८.५६.२ ॥
现在请详细说说那位英雄的勇力、学识、威势、膂力、地位与傲气。
8.56.3
भीष्मद्रोणकृपद्रौणिकर्णार्जुनजनार्दनान् ।
समाप्तविद्यान्धनुषि श्रेष्ठान्यान्सप्त मन्यसे ॥ ८.५६.३ ॥
你认为最优秀的是这七位已完成弓术修习者:毗湿摩、德罗纳、克里帕、德罗纳之子、迦尔纳、阿周那与阇那陀那。
8.56.4
यो ह्याक्षिपति वीर्येण सर्वानेतान्महारथान् ।
न मेने चात्मना तुल्यं कञ्चिदेव नरेश्वरम् ॥ ८.५६.४ ॥
他以勇力轻视所有这些大车将,也不认为任何国王与自己对等。
8.56.5
तुल्यतांद्रोणभीष्माभ्यामात्मनो यो न मृष्यते ।
वासुदेवार्जुनाभ्यां च न्यूनतां नैच्छतात्मनि ॥ ८.५६.५ ॥
他甚至不能忍受与德罗纳、毗湿摩同等,也不愿自认在婆苏提婆与阿周那之下。
8.56.6
स पाण्ड्योऽर्थपतिश्रेष्ठः सर्वशस्त्रभृतां वरः ।
कर्णस्यानीकमहनत्पाशहस्त इवान्तकः ॥ ८.५६.६ ॥
那位般荼王,财富之主中最优者,持械者中之首,犹如手持绳索的死神,击溃了迦尔纳的军队。
8.56.7
तदुदीर्णरथाश्वेभं पत्तिप्रवरसङ्कुलम् ।
कुलालचक्रवद्धान्तं पाण्ड्येनाभ्याहतं बलात् ॥ ८.५६.७ ॥
那支军队中战车、战马和战象散乱,充满了最优秀的步兵,像陶匠的轮子一样旋转,被潘底耶猛烈击溃。
8.56.8
व्यश्वसूतध्वजरथान्विप्रयुक्तयुगान्रथान् ।
सम्यगस्तैः शरैः पाण्ड्यो वायुर्मेघानिवाक्षिपत् ॥ ८.५६.८ ॥
马匹、御者和旗帜尽失、轭已脱开的战车,潘底耶以他的兵器和箭矢将其彻底驱散,如同风吹散云朵。
8.56.9
द्विरदान्प्रवरारोहान्विपताकायुधध्वजान् ।
स पादरक्षानहनद्वज्रेणाद्रीनिवाद्रिहा ॥ ८.५६.९ ॥
他击杀了那些失去了旗帜、兵器和标志、骑手又都是精锐的象群,以及它们的步卫,正如破山者因陀罗以金刚杵击碎群山。
8.56.10
स शक्तिप्रासतूणीरानश्वारोहान्हयानपि ।
पुलिन्दखसबाह्लीकनिषादान्ध्रककुन्तलान् ॥ ८.५६.१० ॥
他击杀了持枪矛、投枪和箭袋的骑兵和战马,还有补利大、库萨、巴赫利迦、尼沙陀、安陀罗和坤塔罗等部族的战士。
8.56.11
दाक्षिणात्यांश्च भोजांश्च शूरान्सङ्ग्रामकर्कशान् ।
विशस्त्रकवचान्बाणैः कृत्वा पाण्ड्योऽकरोद्व्यसून् ॥ ८.५६.११ ॥
南方人与婆闍族的勇士,在战斗中刚猛,却被夺去武器与铠甲,潘底耶以箭矢使他们尽数丧命。
8.56.12
चतुरङ्गं बलं बाणैर्निघ्नन्तं पाण्डयमाहवे ।
दृष्ट्वा द्रौणिरसम्भ्रान्तमसम्भ्रान्तस्ततोऽभ्ययात् ॥ ८.५६.१२ ॥
德罗纳之子见潘底耶在战中以箭矢击杀四军,便毫不慌乱,径直向他冲去。
8.56.13
आभाष्य चैनं मधुरमभीतं तमभीतवत् ।
प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयत् ॥ ८.५६.१३ ॥
他温和地对这位无畏者说话,自己也像无所畏惧一样,这位勇士中的最优者面带微笑先开口,向他挑战。
8.56.14
राजन्कमलपत्राक्ष प्रधानायुधवाहन ।
वज्रसंहननप्रख्य प्रख्यातबलपौरुष ॥ ८.५६.१४ ॥
大王啊!你有如莲花瓣的眼睛,手持主要兵器,身形如金刚,以力量与勇武闻名!
8.56.15
मुष्टिक्लिष्टाङ्गुलिभ्यां च व्यायताभ्यां महद्धनुः ।
दोर्भ्यां विस्फारयन्भासि महाजलदवद्भृशम् ॥ ८.५६.१५ ॥
你以拳握磨损的手指,以两臂伸展,大力拉开大弓,犹如大雨云般极其光耀。
8.56.16
शरवर्षैर्महावेगैरमित्रानभिवर्षतः ।
मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे ॥ ८.५६.१६ ॥
你以迅猛的箭雨倾泻于敌人之上,在战斗中我看不到能与你匹敌的英雄,除了我自己。
8.56.17
रथद्विरदपत्त्यश्वानेकः प्रमथसे बहून् ।
मृगसङ्घानिवारण्ये विभीर्भीमबलो हरिः ॥ ८.५६.१७ ॥
你独自摧毁许多战车、象兵、步兵和马队,就像无畏的、力量可怕的狮子在森林中冲散鹿群一样。
8.56.18
महता रथघोषेण दिवं भूमिं च नादयन् ।
वर्षान्ते सस्यां सूर्यो भाभिरादीपयन्निव ॥ ८.५६.१८ ॥
以战车的巨大轰鸣震动天地,如同雨季末尾,太阳以光线点燃庄稼。
8.56.19
संस्पृशानः शरैः पूर्णौ तूणी चाशीविषोपमैः ।
मयैवैकेन युध्यस्व त्र्यम्बकेनान्धको यथा ॥ ८.५६.१९ ॥
触摸着盛满箭矢、如毒蛇般的两只箭囊,只与我一人作战,正如安陀迦与三眼神作战一般。
8.56.20
एवमुक्तस्तथेत्युक्त्वा प्रमथ्यैनं स पार्थिवः ।
कर्णिना द्रोणतनयं विव्याध मलयध्वजः ॥ ८.५६.२० ॥
被如此说后,他答道:“就这样吧。”那持摩罗耶旗的国王冲上前去,以带倒钩的箭射穿了德罗纳之子。
8.56.21
मर्मभेदिभिरत्युग्रैर्बाणैरग्निशिखोपमैः ।
मर्मस्वभ्यहनद्द्रौणिः पाण्ड्यमाचार्यनन्दनः ॥ ८.५६.२१ ॥
以穿透要害、极为凶猛、如火焰般的箭,老师之子德罗尼之子打中了般荼王的要害。
8.56.22
ततोऽपरान्नवांस्तूर्णं नाराचान्कङ्कवाससः ।
गत्या दशम्या संयुक्तानश्वत्थामाऽप्यवासृजत् ॥ ८.५६.२२ ॥
随即,阿什瓦塔曼迅速射出了其他新的铁箭,箭羽为鹤羽,并与第十种轨迹相合。
8.56.23
तानच्छिनत्तदा पाण्ड्यश्चतुर्भिरपरैः शरैः ।
चतुरोऽभ्याहनच्चाश्वानाशु ते व्यसवोऽभवन् ॥ ८.५६.२३ ॥
于是般荼王以另外四支箭斩断了它们,并射中四匹马,马匹很快便丧失了生命。
8.56.24
अथ द्रोणसुतस्येषूंस्ताञ्छित्त्वा निशितैः शरैः ।
धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यतेजसः ॥ ८.५६.२४ ॥
随后,般荼王以锋利的箭斩断德罗纳之子的箭,以如太阳般的光辉,斩断了他拉满的弓弦。
8.56.25
दिव्यं धनुरथाधिज्यं कृत्वा द्रौणिरमित्रहा ।
प्रेक्ष्य चाशु रथे युक्तान्नरैरन्यान्हयोत्तमान् ॥ ८.५६.२५ ॥
于是德罗纳之子、敌人的杀手装好神弓的弦,迅速看了看车上由人牵引的其他良马。
8.56.26
ततः शरसहस्राणि प्रेषयामास वै द्विजः ।
इषुसम्बाधमाकाशमकरोद्दिश एव च ॥ ८.५६.२६ ॥
于是那位再生者发出数千支箭,用箭充满了天空和各个方向。
8.56.27
ततस्तानस्यतः सर्वान्द्रौणेर्बाणान्महात्मनः ।
जानानोप्यक्षयान्पाण्ड्यो शातयत्पुरुषर्षभः ॥ ८.५६.२७ ॥
于是这位人中雄牛般的般度之子,斩断了德罗纳那位伟大之子射出的所有箭,尽管他知道那些箭是不朽的。
8.56.28
प्रयुक्तांस्तान्प्रयत्नेन छित्त्वा द्रौणेरिषूनरिः ।
चक्ररक्षौ रणे तस्य प्राणुदन्निशितैः शरैः ॥ ८.५६.२८ ॥
敌人费力地斩断了德罗纳之子射出的箭,并在战斗中用利箭射伤了他的车轮护卫。
8.56.29
अथ तल्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः ।
प्रास्यद्द्रोणसुतो बाणान्वृष्टिं पूषानुजो यथा ॥ ८.५६.२९ ॥
德罗纳之子看到他的这种技艺,便将弓拉成圆形,像普沙的幼弟(因陀罗)那样倾泻箭雨。
8.56.30
अष्टावष्टगवान्यूहुः शकटानि यदायुधम् ।
अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष ॥ ८.५६.३० ॥
武器多到可以装满八辆车,每车由八头牛拉着;尊贵者啊,德罗纳之子在一天的八分之一时间里就把它们全部投掷出去了。
8.56.31
तमन्तकमिव क्रुद्धमन्तकालान्तकोपमम् ।
ये ये ददृशिरे रूपं विसंज्ञाः प्रायशोऽभवन् ॥ ८.५६.३१ ॥
他如同愤怒的死神,如同劫末的毁灭者,凡见其形者,大多失去知觉。
8.56.32
आचार्यपुत्रस्तां सेनां बाणवृष्ट्या व्यवीवृषत् ।
पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महिम् ॥ ८.५६.३२ ॥
师之子以箭雨倾注于那支军队,如同暑末的云以雨水浇灌连同山岳树木的大地。
8.56.33
द्रौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम् ।
वायव्यास्त्रेण स क्षिप्रं विद्ध्वा पाण्ड्यातिलोऽनदत् ॥ ८.५६.३३ ॥
他迅速以风神之箭射穿德罗纳之子如云降下的那无法忍受的箭雨,潘底亚王遂大吼一声。
8.56.34
तस्य नानदतः केतुं चन्दनागुरुरूषितम् ।
मलयप्रतिमं द्रौणिश्छित्त्वाश्वांश्चतुरोऽहनत् ॥ ८.५६.३४ ॥
德罗纳之子斩断那怒吼者的旗帜——旗帜以檀香和沉香熏染,如同马拉亚山——并击倒了他的四匹马。
8.56.35
सूतमेकेषुणा हत्वा महाजलदनिःस्वनम् ।
धनुश्छित्त्वाऽर्धचन्द्रेण तिलशो व्यधमद्रथम् ॥ ८.५६.३५ ॥
他一箭射倒那声如巨云的御者,以半月箭斩断弓,将战车粉碎成芝麻粒般的碎片。
8.56.36
अस्त्रैरस्त्राणि संवार्य छित्त्वा सर्वायुधानि च ।
प्राप्तमप्यहितं द्रौणिर्नाहनद्युद्धतृष्णया ॥ ८.५६.३६ ॥
德罗纳之子以箭挡箭,斩断一切兵器,即便敌人已逼近,他出于战斗的渴望也未曾击打。
8.56.37
हतेश्वरो दन्तिवरः सुकल्पित… ।
सत्वराभिसृष्टः प्रतिशब्दगो बली।
तमाद्रवद्द्रौणिशराहतस्त्वरन् ।
जवेन कृत्वा प्रतिहस्तिगर्जितम् ॥ ८.५६.३७ ॥
那头失去主人的上等象……被迅速放出,回应着回声,雄健的它被德罗纳之子的箭射中,急速向他奔去,以疾速回应敌象的吼声。
8.56.38
तं वारणं वारणयुद्धकोविदो ।
द्विपोत्तमं पर्वतसानुसन्निभम्।
सम्भ्यतिष्ठन्मलयध्वजस्त्वर… ।
न्यथाऽद्रिशृङ्गं हरिरुन्नदंस्तथा ॥ ८.५६.३८ ॥
面对那头象,精通象战的摩罗耶旗之王迅速挺立,面对那如山脊般的上等象……如同狮子在山峰上吼叫,他也如此。
8.56.39
स तोमरं भास्कररश्मिवर्चसं ।
बलास्त्रसर्गोत्तमयत्नमन्युभिः।
ससर्ज शीघ्रं परिपीडयन्गजं ।
गुरोः सुताय द्रविडेश्वरो नदन् ॥ ८.५६.३९ ॥
他以如同日光般耀眼的长矛,凭借力量、施放武器、极大的努力与愤怒,迅速掷出,逼迫大象冲向师尊之子,德罗维达之主怒吼着。
8.56.40
मणिप्रवेकोत्तमवज्रहाटकै… ।
रलङ्कृतं चांशुकमाल्यमौक्तिकैः।
हतो मयासीत्यसकृन्मुदा नद… ।
न्पराभिनद्द्रौणिवराङ्गभूषणम् ॥ ८.५६.४० ॥
以最上等的宝石、珊瑚、钻石与金子装饰……以丝绸、花环、珍珠装饰,一次又一次欢喜地吼叫:「我杀了他」……德罗纳之子身上华美的饰物。
8.56.41
तदर्कचन्द्रग्रहपावकत्विषं ।
भृशाभिघातात्पतितं विघूर्णितम्।
महेन्द्रवज्राभिहतं महास्वनं ।
यथाऽद्रिशृङ्गं भरणीतले तथा ॥ ८.५६.४१ ॥
那光辉如同日、月、星辰与火焰的他,因猛烈的打击而倒下,摇晃不稳,被因陀罗的大金刚杵击中,发出巨响,如同山峰倒落大地一般。
8.56.42
ततः प्रजज्वाल परेण मन्युना ।
पादाहतो नागपतिर्यथा तथा।
समाददे चान्तकदण्डसन्निभा… ।
निषूनमित्रान्तकरांश्चतुर्दश ॥ ८.५६.४२ ॥
于是他怒火万丈,如被脚踢的象王。他握起如阎摩杖般的……(原文缺失),取出十四支能灭敌的箭。
8.56.43
द्विपस्य पादाग्रकरान्स पञ्चभि… ।
र्नृपस्य बाहू च शिरोऽथ च त्रिभिः।
जघान पड्भिः पडृतूपमत्विषः ।
स पाण्ड्यराजानुचरान्महारथान् ॥ ८.५६.४३ ॥
他以五箭射中象的脚与鼻端……(原文缺失);以三箭斩断国王的双臂与头颅;又以六箭——明亮如六季——击杀了潘底亚王的随从大车战士。
8.56.44
सुदीर्घवृत्तौ वरचन्दनोक्षितौ ।
सुवर्णमुक्तामणिवज्रभूषणौ।
भुजौ धरायां पतितौ नृपस्य तौ ।
विचेष्टतुस्तार्क्ष्यहताविवोरगौ ॥ ८.५६.४४ ॥
国王那长而圆润的双臂,涂着上好檀香,饰以金、珍珠、宝石与金刚石,落在地上,扭动如被金翅鸟击中的蛇。
8.56.45
शिरश्च तत्पूर्णशशिप्रभाननं ।
सरोषताम्रायतनेत्रमुन्नसम्।
क्षितावपि भ्राजति तत्सकुण्डलं ।
विशाखयोर्मध्यगतः शशी यथा ॥ ८.५६.४५ ॥
那颗头颅,面如满月,怒目赤红而宽大,鼻梁高挺,耳带珠环,即便落在地上,依然光彩如位于毗舍佉二星之间的明月。
8.56.46
स तु द्विपः पञ्चभिरुत्तमेषुभिः ।
कृतः षडंशश्चतुरो नृपस्त्रिभिः।
कृतो दशांशः कुशलेन युध्यता ।
यथा हविस्तद्दश दैवतं तथा ॥ ८.५६.४६ ॥
那头象被五支上等箭分成六段;国王(连同其坐骑)被四箭分为四段;他本人被三箭分为十段——善战的勇士如此作战,恰如祭品分给十位神明。
8.56.47
स पादशो राक्षसभोजनान्बहून् ।
प्रदाय पाण्ड्योऽश्वमनुष्यकुञ्जरान्।
स्वधामिवाप्य ज्वलनः पितृप्रिय… ।
स्ततः प्रशान्तः सलिलप्रवाहतः ॥ ८.५६.४७ ॥
他将许多食物、马匹、人和象一块块献给罗刹,如同已回归其居所、为祖先所喜爱的火……随后被水流所平息。
8.56.48
समाप्तविद्यं तु गुरोः सुतं नृपः ।
समाप्तकर्माणमुपेत्य ते सुतः।
सुहृद्वृतोऽत्यर्थमपूजयन्मुदा ।
जिते बलौ विष्णुमिवामरेश्वरः ॥ ८.५६.४८ ॥
导师之子已完成学业与职责。您的儿子国王在朋友环绕下走近他,满心欢喜地极力尊敬他,正如因鉢利被征服,天神之主敬重毗湿奴一般。