Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.57

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.57.1

पाण्ड्ये हते किमकरोदर्जुनो जयतांवरः ।
एकवीरेण कर्णेन द्राविते च युधिष्ठिरे ॥ ८.५७.१ ॥

当般茶王被杀后,诸胜者中最优秀的阿周那做了什么?而当独勇士迦尔纳驱散坚战时,他又做了什么?

8.57.2

समाप्तविद्यो बलवान्युक्तो वीरश्च पाण्डवः ।
सर्वभूतेष्वनुज्ञातः शङ्करेण महात्मना ॥ ८.५७.२ ॥

这位般度之子精通武艺,强大、自制而英勇,已从大德的湿婆处获得允许,可对一切众生施用(神兵)。

8.57.3

तस्मान्महद्भयं तीव्रममित्रघ्नाद्धनञ्जयात् ।
स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व सञ्जय ॥ ८.५७.३ ॥

因此,我对灭敌者财富征服者(阿周那)感到极大而强烈的恐惧。桑贾耶,请告诉我,普利塔之子在那里做了什么。

8.57.4

हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम् ।
हतं पश्य स्वराजानमपयातांश्च पाण्डवान् ॥ ८.५७.४ ॥

般茶王被杀后,克里希那急忙对阿周那说了有益的话:看哪,你自己的国王已被杀,般度五子已经逃走。

8.57.5

कर्णं पश्य महारङ्गे ज्वलन्तमिव पावकम् ।
असौ भीमो महेष्वासः प्रतिवृत्तो रणं प्रति ॥ ८.५७.५ ॥

看那迦尔纳在大战场上如火燃烧。那位大弓箭手毗摩已转身返回战场。

8.57.6

त इमे नानुवर्तन्ते धृष्टद्युम्नपुरोगमाः ।
पाञ्चालाः सृञ्जयाश्चैव पाण्डवानां चमूमुखम् ॥ ८.५७.६ ॥

以德里什塔德尤姆那为首的这些般遮罗与悉兰阳人,并不跟随般度军的前锋。

8.57.7

निवृत्तैश्च पुनः पार्थैर्भग्नं शत्रुबलं महत् ।
कौरवान्द्रवतो ह्येष कर्णो वारयते भृशम् ॥ ८.५७.७ ॥

普利塔之子们折返,再次击溃了敌方庞大的军队。正在逃跑的俱卢人,正由迦尔纳猛烈地拦阻着。

8.57.8

अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः ।
असौ गच्छति कौन्तेय द्रौणिः शस्त्रभृतां वरः ॥ ८.५७.८ ॥

他速度如同阎摩,勇武堪比因陀罗,那德罗纳之子,持械者中的翘楚,哦,昆蒂之子,正向前行去。

8.57.9

तमेष प्रद्रुतः सङ्ख्ये धृष्टद्युम्नो महारथः ।
अश्वत्थाम्ना हताः सङ्ख्ये सर्वे कौन्तेय सृञ्जयाः ॥ ८.५७.९ ॥

如今大车勇士德里什塔德尤姆那正向他冲去。哦,昆蒂之子,所有的苏林阇耶人都在战斗中被马嘶摩所杀。

8.57.10

रथाश्वनरनागानां कृतं च कदनं महत् ।
इत्येतत्सर्वमाचष्ट वासुदेवः किरीटिने ॥ ८.५७.१० ॥

车、马、人、象遭受了巨大的杀戮。婆苏提婆将这一切都告诉了戴冠者。

8.57.11

एतच्छ्रुत्वा च दृष्ट्वा च भ्रातृणां व्यसनं महत् ।
वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः ॥ ८.५७.११ ॥

听闻此事,又见兄弟们遭受巨大灾难,般度之子说道:“哦,主宰感官者,快驱策马匹吧。”

8.57.12

ततः प्रायाद्धृषीकेशो रथेनाप्रतिमो युधि ।
ततो रेणुः समभवत्पुनस्तत्र महारणे ॥ ८.५७.१२ ॥

于是无与伦比的主宰感官者在战斗中驾车前进。于是在那场大战中,尘土又一次扬起。

8.57.13

ततो राजन्महानासीत्सङ्गामो रोमहर्षणः ।
सिंहनादरवाश्चात्र प्रादुरासन्समागमे।
उभयोः सेनयो राजन्मृत्युं कृत्वा निवर्तनम् ॥ ८.५७.१३ ॥

大王啊,那时那里爆发了一场令人毛骨悚然的大战,相遇之处也响起了狮子的吼声。大王啊,两军都已置生死于度外,不再后退。

8.57.14

ततः हुनः समाजग्मुरभीताः कुरुसृञ्जयाः ।
युधिषरमुखाः पार्था वैकर्तनमुखा वयम् ॥ ८.५७.१४ ॥

随后,无惧的俱卢与斯林遮人再次聚集:以坚战为首的般度之子,以及以迦尔纳为首的我方。

8.57.15

ततः प्रववृते यूद्धं घोररूपं विशाम्पते ।
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनम् ॥ ८.५७.१५ ॥

随后,人主啊,迦尔纳与般度五子之间爆发了可怖的大战,使阎摩的国土不断扩大。

8.57.16

तस्मिन्प्रवृत्ते सङ्ग्रामे तुमुले रोमहर्षणे ।
संशप्तकेषु वीरेषु किञ्चिच्छेषेषु भारत ॥ ८.५७.१६ ॥

婆罗多的后裔啊,在那场喧嚣而令人毛骨悚然的大战中,三界誓死者的勇士只剩下寥寥数人。

8.57.17

धृष्टद्युम्नो महाराज सहितः सर्वराजभिः ।
कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः ॥ ८.५७.१७ ॥

大王啊,猛光与诸王一同直奔迦尔纳而去,般度的大车战士也同样如此。

8.57.18

आगच्छमानांस्तान्दृष्ट्वा सङ्ग्रमे विजयैषिणः ।
दधारैको रणे कार्णो जलौघानिव पर्वतः ॥ ८.५७.१८ ॥

看到他们前进,渴望在战斗中获胜,迦尔纳独自在战场上拦住了他们,如同山岳挡住洪流的冲击。

8.57.19

समासाद्य तु ते कर्णं व्यशीर्यन्त महारथाः ।
यथाऽचलं समासाद्य वार्योधाः सर्वतोदिशम् ॥ ८.५७.१९ ॥

诸大车将抵达迦尔纳时便四散溃败,如同水流撞上山岳,向四面八方溅散。

8.57.20

तयोरासीन्महाराज सङ्ग्रामो घोरदर्शनः ।
प्रवृद्धयोर्महारङ्गे बलिनोर्विजिगीषतोः ॥ ८.५७.२० ॥

大王啊,在那两位渴望胜利的勇士之间,于那广阔的战场上爆发了可怖的战斗。

8.57.21

धृष्टद्युम्नस्तु राधेयं शरेणानतपर्वणा ।
छादयामास सङ्क्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत् ॥ ८.५७.२१ ॥

然而愤怒的德里什塔仲以弯曲节头的箭遮蔽了罗陀之子,并喊道:“站住,站住!”

8.57.22

विजयं तु धनुः श्रेष्ठं विधृन्वानो महारथः ।
पार्षतस्य धनुश्छित्त्वा शरांश्चाशीविषोपमान् ॥ ८.५७.२२ ॥

于是大车将迦尔纳挥动他那最好的“胜利”弓,斩断了毕尔沙塔之子的弓,以及那些如毒蛇般的箭。

8.57.23

ववर्ष शरवर्षाणि तोयवर्षानिवाम्बुदः ।
छादयामास सङ्क्रुद्धः पार्षतं नवभिः शरैः ॥ ८.५७.२३ ॥

如乌云降雨,愤怒的迦尔纳倾泻箭雨,以九支箭遮蔽了德里什塔仲。

8.57.24

ते हेमविकृतं वर्म भित्त्वा तस्य महात्मनः ।
शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ ॥ ८.५७.२४ ॥

无罪者啊,那些刺穿了那位大德者金饰铠甲的箭,沾满鲜血,闪耀如同因陀罗虫。

8.57.25

तदपास्य धनुश्छिन्नं धृष्टद्युम्नः प्रतापवान् ।
ततोऽन्यद्धनुरादाय सारवद्भारसाधनम्।
कर्णं विव्याध सप्तत्या शरैः सन्नतपर्वभिः ॥ ८.५७.२५ ॥

于是威勇的德里什塔德尤姆纳丢弃断弓,取来另一把能承受拉力的坚固良弓,用七十支节部弯曲的箭射中了迦尔纳。

8.57.26

तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम् ।
द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः ॥ ८.५७.२६ ॥

大王,同样,大弓手迦尔纳也用利箭射中了让敌人痛苦的、德罗纳之敌般的般遮陀之子。

8.57.27

पुनरन्यं महाराज शरं कनकभूषणम् ।
प्रेषयामास समरे मृत्युदण्डमिवापरम् ॥ ८.५७.२७ ॥

大王,迦尔纳在战斗中又射出一支饰以黄金的箭,仿佛另一根死神之杖。

8.57.28

तमापतन्तं सहसा घोररूपं विशाम्पते ।
चिच्छेद शतधा राजन्पार्षतः कृतहस्तवत् ॥ ८.५७.२८ ॥

人主啊,那支忽然向他飞来、形状可怖的箭,被般遮陀之子以娴熟的手段斩成了百段。

8.57.29

दृष्टवान्पतितं भूमौ शरं कर्णो विशाम्पते ॥ ८.५७.२९ ॥

人主啊,迦尔纳看见那支落在地上的箭。

8.57.30

पार्षतः शरवर्षेण समन्तात्पर्यवारयत् ।
विव्याध चैनं त्वरितो नाराचैः सप्तभिस्तदा ॥ ८.५७.३० ॥

般遮陀之子以箭雨从四面将他包围,随即迅速用七支铁箭射中了他。

8.57.31

तं प्रत्यविध्यद्दशभिः शरैर्हेमविभूषितैः ।
तयोर्युद्धं समभवद्दृष्टिश्रोत्रमनोहरम् ॥ ८.५७.३१ ॥

他以十支饰金之箭射中了对方。两人之间的战斗,看上去听上去都令人心醉。

8.57.32

आसीद्धोरं च चित्रं च प्रेक्षणीयं च सर्वशः ॥ ८.५७.३२ ॥

那场战斗在各方面都可怕、奇异而值得一观。

8.57.33

सर्वेषां तत्र भूतानां रोमहर्षो व्यजायत ।
दृष्ट्वा तत्समरे कर्म कर्णपार्षतयोर्नृप ॥ ८.५७.३३ ॥

君王啊,在场的一切众生看到卡尔纳与帕尔沙塔在战斗中的那一壮举,都汗毛竖立。

8.57.34

एतस्मिन्नन्तरे द्रौणिरभ्ययात्तं महारथम् ।
पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम् ॥ ८.५७.३४ ॥

与此同时,德罗纳之子阿湿婆塔曼向那位大车将帕尔沙塔进攻。他是制服敌人、迅速摧毁敌人勇力的人。

8.57.35

स दृष्ट्वा समरे यान्तमभीतं च महारथम् ।
अभ्यभाषत सङ्क्रुद्धः पार्षतं शत्रुतापनम् ॥ ८.५७.३५ ॥

看到那位在战场上前进的无畏大车将,他怒不可遏,对令敌人痛苦的帕尔沙塔说道。

8.57.36

रथं रथेन सम्पीड्य पार्षतस्य तु ब्राह्मणः ॥ ८.५७.३६ ॥

婆罗门阿湿婆塔曼用自己的战车猛力逼压帕尔沙塔的战车。

8.57.37

तिष्ठतिष्ठेति ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे ।
इत्युक्त्वा सुभृशं वीरः शीघ्रकृन्निशितैः शरैः।
छादयामास समरे यतमानो महारथः ॥ ८.५७.३७ ॥

“站住,站住,杀害婆罗门者!只要我活着,你就不会脱身。”这位英雄大车将如此厉声说罢,在战斗中奋力以锐利的箭迅速将他覆盖。

8.57.38

यत्नतः परया शक्त्या धृष्टद्युम्नं महारथम् ।
योधयामास समरे क्रुद्धरूपो विशाम्पते ॥ ८.५७.३८ ॥

人民之主啊,他怒容满面,以极大的力量与努力,在战斗中与大车将持力王子交战。

8.57.39

तयोस्तु सन्निपाते हि घोररूपो विशाम्पते ॥ ८.५७.३९ ॥

人民之主啊,二人的交锋确实极为可怕。

8.57.40

यथा हि समरे द्रौणिः पार्षतं दृश्यत मारिष ।
नातिहृष्टमना ह्यासीन्मन्वानो मृत्युमात्मनः ॥ ८.५७.४० ॥

尊者啊,德罗尼之子在战斗中与普利沙塔之子相见时,心中并不欢喜,因为他想到了自己的死亡。

8.57.41

स ज्ञात्वा पितुरत्यन्तरैरिणं तु महाहवे ।
आत्मानं समरे ज्ञात्वाऽशस्त्रवध्यं महाबलः।
जवेनाभिययौ द्रौणिं कालः कालक्षये यथा ॥ ८.५७.४१ ॥

他知道父亲的广阔战场,也知道自己在战斗中不会因兵器而死,便以大力迅猛地冲向德罗尼之子,如同末劫之时的死神(迦罗)降临。

8.57.42

द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नमवस्थितम् ।
क्रोधेन निःश्वसन्वीरः पार्षदं समभिद्रवत् ॥ ८.५७.४२ ॥

王中之王啊,德罗尼之子见持力王子屹立不动,怒气中长叹一声,便冲向普利沙塔之子。

8.57.43

तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम् ।
प्रगृह्य महती चापे शरासनसमन्विते ॥ ८.५७.४३ ॥

二人一见对方,便怒火冲天,各自举起大弓与配有箭矢的弓。

8.57.44

अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान् ।
धृष्टद्युम्नं समीपस्थं त्वरमाणो विशाम्पते ॥ ८.५७.४४ ॥

于是,大王!勇猛的德罗纳之子急忙对身旁的德里什塔延那说道——人主啊!

8.57.45

पाञ्चालापशदाद्य त्वां प्रेषयामि यमक्षयम् ।
पापं हि यत्त्वया कर्म कृतं तातं घ्नता रणे ॥ ८.५७.४५ ॥

般遮罗的耻辱!今日我要将你送往阎摩之境,因为你在战场上杀害了我的父亲,犯下了罪行。

8.57.46

अद्य त्वं प्राप्स्यसे तद्वै यथा ह्यकुशलस्तथा ।
अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे।
नापक्रामसि वा मोहात्सत्यमेतद्ब्रवीमि ते ॥ ८.५७.४६ ॥

今日你将得到不幸者应得的结局——若你在无普利塔之子保护下留在战场,或者不因迷惑而逃跑。这是我对你说的真实之言。