摩诃婆罗多 · 章 8.58
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.58.1
एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान् ।
आशिषं तां प्रवक्तव्यां मामको दास्यते तव ॥ ८.५८.१ ॥
被如此说后,勇武的德里什塔迪优姆那回答道:应当说出的那份祝福,我的(兵器)将会赐予你。
8.58.2
येनैव ते पितुर्दत्ता यतमानस्य संयुगे ।
एष ते प्रतिवाक्यं वै असिर्दास्यति मामकः।
येन कृत्तं तव पितुर्यतमानस्य तच्छिरः ॥ ८.५८.२ ॥
你父亲在战斗中奋力抵抗时,正是用这把剑被赐予了他;现在我的这把剑将作为回应赐予你——正是用它,你父亲在奋战时的那颗头颅被砍下。
8.58.3
यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः ।
त्वामिदानीं कथं युद्धे न हनिष्यामि किल्बिषम् ॥ ८.५८.३ ॥
既然我已杀了自称婆罗门的德罗纳,那么此刻在战斗中,罪人啊,我怎能不杀你?
8.58.4
एवमुक्त्वा महातेजाः सेनापतिररिन्दमः ।
सुतीक्ष्णेनाथ भल्लेन द्रौणिं विव्याध पार्षतः ॥ ८.५८.४ ॥
说完这话,光辉伟大的统帅、征服敌人的般沙塔之子,用极其锋利的薄刃箭射中了德劳尼(阿湿婆陀摩)。
8.58.5
ततो द्रौणिः सुसङ्क्रुद्धः शरैः सन्नतपर्वभिः ।
आच्छादयद्दिशो राजन्धृष्टद्युम्नस्य संयुगे ॥ ८.५८.५ ॥
于是,德劳尼大怒,王啊,在战斗中用节部弯曲的箭矢遮蔽了德里什塔迪优姆那的所有方向。
8.58.6
नैवान्तरिक्षं न दिशो नापि योधाः सहस्रशः ।
दृश्यन्ते वै महाराज शरैश्छन्नाः समन्ततः।
एकः सन्वारयामास प्रेक्षणीयः समन्ततः ॥ ८.५८.६ ॥
天空不见了,方向也不见了,成千上万的战士也不见了,大王啊,四面都被箭矢遮蔽。他独自站立,四面都可见,抵挡着敌军。
8.58.7
तथैव पार्षतो राजन्द्रौणिमाहवशोभिनम् ।
शरैः सञ्छादयामास सूतपुत्रस्य पश्यतः ॥ ८.५८.७ ॥
大王,同样,般沙塔之子当着御者之子的面,用箭遮蔽了在战斗中光彩照人的德罗纳之子。
8.58.8
राधेयोऽपि महाराज पाञ्चालान्सह पाण्डवैः ।
द्रौपदेया युधामन्युमुत्तमौजसमेव च ॥ ८.५८.८ ॥
大王,罗陀之子迦尔纳也攻击了般遮罗人与般度之子们,以及德罗波蒂的儿子们、优陀摩尼和优多摩乔阇。
8.58.9
सात्यकिश्च महाराज योधांश्चान्यान्सहस्रशः ।
एकस्तान्वारयामास प्रेक्षणीयः समन्ततः ॥ ८.५८.९ ॥
大王,萨提奇独自从四面八方阻挡了成千上万的其他战士,他令人赞叹。
8.58.10
धृष्टद्युम्नस्तु समरे द्रौणेश्चिच्छेद कार्मुकम् ।
क्षुरप्रेण सुतीक्ष्णेन पश्यतां सर्वयोधिनाम् ॥ ८.५८.१० ॥
然而,在战斗中,德史塔铎润那以极其锋利的刀刃箭斩断了德罗纳之子的弓,所有战士都在旁观看。
8.58.11
तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम् ।
वेगवत्समरे घोरं शरांश्चाशीविषोपमान् ॥ ८.५८.११ ॥
随后,他扔掉断弓,拿起另一张弓,并在战斗中取出迅捷可怖、如毒蛇般的箭矢。
8.58.12
स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम् ।
हयान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः ॥ ८.५८.१२ ॥
王中之王,他瞬间以箭摧毁了般沙塔之子的弓、矛、锤、旗、马匹、御者与战车。
8.58.13
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
खङ्गमादत्त विपुलं शतचन्द्रं च भानुमत् ॥ ८.५८.१३ ॥
他的弓已断,战车已失,马匹与御者皆被杀死,于是他拿起一把宽大、闪亮、饰有百个月牙的剑。
8.58.14
द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः ।
चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः ॥ ८.५८.१४ ॥
王中之王啊!德罗纳之子那位大车手也用月牙箭迅速在战斗中将其斩断,那位手法敏捷、武器坚固的英雄。
8.58.15
रथादनवरूढस्य धन्विनो बाहुशालिनः ।
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ॥ ८.५८.१५ ॥
他不下战车,那位臂力强大的弓手,在所有观看的军队眼中仿佛一件奇迹。
8.58.16
धृष्टद्युम्नं तु विरथं हताश्वरथसारथिम् ।
शस्त्रैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम्।
नातरद्भरतश्रेष्ठ यदमानो महारथः ॥ ८.५८.१६ ॥
婆罗多之最啊!丧失战车、马匹、车与御者皆被杀的德里斯塔德尤姆纳,被兵器多处刺穿,被箭矢打成碎片,那位大车手虽竭力,却无法将他带出。
8.58.17
तस्यान्तमिषुभी राजन्यदा द्रौणिर्न गच्छति ।
अथ त्यक्त्वा रथं वीरः पार्षतं त्वरितोऽन्वगात्।
प्रगृह्य विपुलं खह्गं जातरूपपरिष्कृतम् ॥ ८.५८.१७ ॥
国王啊!德罗纳之子用箭无法触及其终点时,那位英雄便弃车,急速追赶般若多,手持饰有黄金的宽剑。
8.58.18
तस्य सम्पततो राजन्वपुरासीन्महात्मनः ।
गरुडस्येव ततो जिघृक्षोः पन्नगोत्तमम् ॥ ८.५८.१८ ॥
国王啊!那位大德之人冲上前去的身躯,就像迦楼罗俯冲,想要抓住最好的蛇一样。
8.58.19
एतस्मिन्नेव काले तु केशवः परवीरहा ।
अब्रवीद्भरतश्रेष्ठमर्जुनं जयतां वरम् ॥ ८.५८.१९ ॥
就在此时,斩杀敌方英雄的克舍婆对婆罗多族之最、胜利者中的第一人阿周那说道。
8.58.20
पश्य द्रौणिं पार्षतस्य यतमानं वधं प्रति ।
यत्नं करोति विपुलं हन्याच्चैनं न संशयः ॥ ८.५८.२० ॥
看那德罗纳之子正竭力要杀死般多的儿子;毫无疑问,他会杀死他。
8.58.21
त्रायस्वैनं महाबाहो पार्षतं युद्धदुर्मदम् ।
द्रौणेरास्यगतं वीर मृत्योरास्यगतं यथा ॥ ८.५८.२१ ॥
啊,大臂者,请保护那在战斗中骄傲的般多之子;啊,英雄,他已落入德罗纳之子之口,如同落入死亡之口。
8.58.22
एवमुक्त्वा महाराज वासुदेवः प्रतापवान् ।
प्रैषयत्तुरगान्यत्र द्रौणिर्वीरो व्यवस्थितः ॥ ८.५८.२२ ॥
大王,说完这番话,威猛的婆苏提婆驱马驶向站立着的英雄德罗纳之子所在之处。
8.58.23
ते हयाश्चन्द्रसङ्काशाः केशवेन प्रचोदिताः ।
पिबन्त इव चाकाशं जग्मुद्रौणेर्महारथम् ॥ ८.५८.२३ ॥
那些如月光般明亮、受克舍婆驱策的骏马,仿佛要吞饮天空,奔向德罗纳之子的大战车。
8.58.24
दृष्ट्वा द्रौणिर्महाराज वासुदेवधनंजयौ ।
धृष्टद्युम्नवधे राजंश्चक्रे यत्नं महाबलः ॥ ८.५८.२४ ॥
大王,般多之子见到婆苏提婆与财富征服者,遂为杀死德里斯塔迪郁摩而竭力,啊,国王。
8.58.25
विकृष्यमाणं दृष्ट्वै धृष्टद्युम्नं जनेश्वर ।
शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महारथः ॥ ८.५८.२५ ॥
人主啊!见到猛光被拖走,大车战士阿周那向德罗尼之子射出箭矢。
8.58.26
ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम् ।
द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः ॥ ८.५८.२६ ॥
那些饰以黄金、从甘狄拔弓射出的箭矢,猛烈地射中德罗尼之子,像蛇钻入蚁穴一样钻入了他的身体。
8.58.27
विद्धस्तु तैः शरैर्घोरैद्रोणपुत्रः प्रतापवान् ।
उत्सृज्य समरे राजन्पाञ्चालममितौजसम् ॥ ८.५८.२७ ॥
国王啊!德罗尼之子被那些可怕的箭射中,便在战斗中放开了力量无量的般遮罗王子。
8.58.28
आरुरोह रथं वीरो धनञ्जयशरार्दितः ।
प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः ॥ ८.५८.२८ ॥
这位英雄被財主的箭所伤,登上战车,拿起良弓,用箭射中了阿周那。
8.58.29
एतस्मिन्नन्तरे शूरः सहदेवो जनाधिप ।
अपोवाह रथेनाजौ पार्षतं शत्रुतापनम् ॥ ८.५८.२९ ॥
与此同时,人主啊,勇敢的偕天乘车将折磨敌人的般遮罗之子从战场上带走了。
8.58.30
अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः ।
तं द्रोणपुत्रः संरब्धो बाह्वोरुरसि चार्पयत् ॥ ८.५८.३० ॥
大王啊,阿周那也用带羽的箭射中了德罗尼之子。德罗尼之子大怒,便将箭射入他的双臂和胸膛。
8.58.31
क्रोधितस्तु रणे पार्थो नाराचं कालसन्निभम् ।
द्रोणपुत्राय चिक्षेप यमदण्डमिवापरम् ॥ ८.५८.३१ ॥
Pārtha 在战场上震怒,向德罗纳之子射出一支如同时间般的铁箭,犹如阎摩的另一根刑杖。
8.58.32
स ब्राह्मणस्यांसदेशे निपपात महाद्युतेः ।
स विह्वलो महाराज शरवेगेन संयुगे।
निषसाद रथोपस्थे वैक्लव्यं परमं ययौ ॥ ८.५८.३२ ॥
它落在那位光辉的婆罗门(德罗纳之子)的肩上。大王啊,他在战斗中被箭的力量震得昏乱,坐在战车的底板上,陷入极度的痛苦。
8.58.33
तं तु मत्वा हतं वीरं सारथिः शत्रुकर्शनम् ।
अपोवाह रणेनाजौ त्वरमाणो रणाजिरात् ॥ ८.५८.३३ ॥
车夫认为那位击溃敌人的英雄已经阵亡,便急忙把他从战斗中、从战场上驾车带走。
8.58.34
अथोद्धृष्टं महाराज पाञ्चालैर्जितकाशिभिः ।
मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम् ॥ ८.५८.३४ ॥
大王啊,于是般遮罗人和获胜的迦屍人见到般沙塔之子(德里斯塔德由姆那)获救,德罗纳之子受困,便欢呼雀跃。
8.58.35
वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः ।
सिंहनादश्च सञ्जज्ञे दृष्ट्वा युद्धं तदद्भुतम् ॥ ८.५८.३५ ॥
成千上万的神圣乐器齐鸣,见到那场奇异的战斗,狮子般的吼声响起。
8.58.36
ततः कर्णो महाराज व्याक्षिपद्विजयं धनुः ।
दृष्ट्वार्जुनं रणे क्रुद्धः प्रेक्षते च मुहुर्मुहुः।
द्वैरथं चापि पार्थेन गन्तुकामो महाद्युतिः ॥ ८.५८.३६ ॥
大王啊,于是迦尔纳拉开他的胜利之弓。在战斗中见到阿周那,他愤怒起来,一次又一次地望着他;这位光辉的人想与般度之子进行单打独斗。
8.58.37
एवं कृत्वाऽब्रवीत्पार्थो वासुदेवं धनञ्जयः ।
याहि संशप्तकान्कृष्ण कार्यमेतत्परं मम ॥ ८.५८.३७ ॥
于是般度之子阿周那(财富征服者)对婆苏提婆之子说:克里希那,前往三摩钵多迦;这是我最重要的任务。
8.58.38
ततः प्रयातो गोविन्दः श्रुत्वा पाण्डवभाषितम् ।
रथेनातिपताकेन मनोमारुतरंहसा ॥ ८.५८.३८ ॥
于是高宾达听了般度之子的话,乘坐旗帜众多、速如意念与风的战车出发了。
8.58.39
एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते ।
तावकानां परेषां च राजन्दुर्मन्त्रिते तव ॥ ८.५८.३९ ॥
大地之主啊,如此,大地上发生了这场毁灭,大王啊,你的人与敌人的人,皆因你的恶谋而致。