摩诃婆罗多 · 章 8.59
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.59.1
ततः प्रववृते भूयः सङ्ग्रामो राजसत्तम ।
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ॥ ८.५९.१ ॥
诸王之最!于是卡尔纳与般度之子之间的战斗再次开始,使阎摩的国度日益扩大。
8.59.2
धनूंषि बाणान्परिघानसिपट्टसतोमरान् ।
मुसलानि भुशुण्डीश्च शक्तिरिष्टिपरश्वथान् ॥ ८.५९.२ ॥
弓、箭、铁棒、剑与刀、枪、棍棒、呼尸嚢(bhuśuṇḍī)、长矛、伊什提棍和斧钺。
8.59.3
गदाः प्रासाञ्शितान्कुन्तान्भिंडिपालान्महाङ्कुशान् ।
प्रगृह्य क्षिप्रमापेतुः परस्परजिघांसया ॥ ८.५९.३ ॥
他们手持鎚棒、利矛、长枪、丁迪帕拉投枪和大铁钩,急速冲向敌人,渴望彼此杀戮。
8.59.4
बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत् ।
पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान् ॥ ८.५९.४ ॥
以弓弦之声与车轮之轰鸣震动天空、四方、四隅、虚空与大地,他们向敌人冲去。
8.59.5
तेन शब्देन महता संहृष्टाश्चक्रुराहवम् ।
वीरा वीरैर्महाप्तोरकलहान्तं तितीर्षवः ॥ ८.५९.५ ॥
众英雄为那巨大的声响所振奋,渴望渡过这场伟大勇士之间争斗的终点,遂与英雄们交战。
8.59.6
ज्यातलत्रधनुःशब्दाञ्शस्त्राणां च निपात्यताम् ।
ताडितानां च पतता निनादांश्च पदातिनाम् ॥ ८.५९.६ ॥
弓弦与护臂之声,兵器坠落之声,被击中者倒地之声,以及步兵的呼号。
8.59.7
बाणशब्दांश्च विविधाञ्शूराणां चाभिगर्जताम् ।
श्रुत्वा गजा भृशं त्रेसुः पेतुर्मम्लुश्च सैनिकाः ॥ ८.५९.७ ॥
听到英雄们怒吼时射出的种种箭声,象群极度惊恐,士兵倒地被践踏。
8.59.8
तेषां निनदतां चैव शस्त्रवर्षं च मुञ्चताम् ।
बहूनाधिरथिर्वीरः प्रममाथेषुभिः परान् ॥ ८.५९.८ ॥
对那些咆哮并倾泻武器如雨的敌人,英雄阿提罗陀之子以箭射碎了许多。
8.59.9
पञ्च पाञ्चालवीराणां रथान्दश च पञ्च च ।
साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम् ॥ ८.५९.९ ॥
迦尔纳以箭将般遮罗英雄的十五辆战车,连同马匹、御者与旗帜,送往阎摩之境。
8.59.10
योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे ।
शिक्षितास्तमभिद्रुत्य परिवव्रुः समन्ततः ॥ ८.५९.१० ॥
般度之子的主要战将,勇力非凡,善于作战,冲向迦尔纳,从四面八方将他包围。
8.59.11
ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडयन् ।
विजगाहाण्डजाकीर्णां पद्मिनीमिव यूथपः ॥ ८.५९.११ ॥
于是迦尔纳以箭雨搅乱敌军,闯入其中,如同象王踏入遍布水禽的莲池。
8.59.12
द्विषत्सैन्यमवस्कन्द्य राधेयो धनुरुत्तमम् ।
विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत् ॥ ८.५९.१२ ॥
迦尔纳冲击敌军,挥动他那张上好的弓,以利箭击碎敌人的头颅,使其纷纷倒下。
8.59.13
हस्तिनः समहामात्रान्साश्वारोहान्हयानपि ।
रथिनोऽप्येकबाणेन भ्रमतश्चावपातयत् ॥ ८.५९.१३ ॥
他以一支箭同时射倒象群及其象夫、马匹及其骑手,以及四处奔驰的车士。
8.59.14
वर्म वा चर्म वाऽश्रित्य निपातमपि देहिनः ।
विषेहुर्नास्य संस्पर्शं द्वितीयस्य पतत्त्रिणः ॥ ८.५९.१४ ॥
即便依靠甲胄或盾牌,有身之人也承受不住倒下,也承受不住那支有羽之箭的第二次触碰。
8.59.15
वर्मयुक्तेषु देहेषु धनुषोऽस्यञ्शिताञ्शरान् ।
मौर्व्या तलत्रे न्यहनत्कशया वाजिनो यथा ॥ ८.५९.१५ ॥
他以弓箭射向披甲的身体,又以弓弦和护手击打,如同用鞭子驱赶马匹一般将他们击倒。
8.59.16
पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमागतान् ।
ममर्द तरसा कर्णः सिंहो मृगगणानिव ॥ ८.५९.१६ ॥
迦尔纳迅猛地碾压了进入其箭程之内的般度子、斯林遮耶人与潘遮罗人,如同狮子碾压鹿群。
8.59.17
ततः पाञ्चालपुत्रश्च द्रौपदेयाश्च मारिष ।
यमौ च युयुधानश्च त्वरिताः कर्णमभ्ययुः ॥ ८.५९.१७ ॥
于是,尊者啊,潘遮罗之子、德罗波蒂之子、双生子与尤尤丹那急速向迦尔纳扑去。
8.59.18
तेषु व्यायच्छमानेषु कुरुपाञ्चालपाण्डुषु ।
प्रियानसून्रणे त्यक्त्वा योधा जघ्नुः परस्परम् ॥ ८.५९.१८ ॥
当俱卢、般遮罗与般度人相互交战之时,战士们在战场上舍弃了珍爱的生命,彼此相击。
8.59.19
सुसन्नद्धाः कवचिनः सशिरस्त्राणभूषणाः ।
गदाभिर्मुसलैश्चान्ये परिघैश्च महाबालाः ॥ ८.५९.१९ ॥
装备精良,身披铠甲,饰以头盔与装饰;其他大力者则执锤、杵与铁棒。
8.59.20
समभ्यधावन्त भृशं कालदण्डैरिवोद्यतैः ।
नर्दन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष ॥ ८.५९.२० ॥
他们猛然冲上前去,仿佛高举死神之杖,怒吼、叫阵、跳跃,啊,高贵者。
8.59.21
ततो निजघ्नुरन्योन्यं पेतुश्चान्योन्यताडिताः ।
वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षमायुधाः ॥ ८.५९.२१ ॥
于是他们相互击打,互相被击中而倒下,身体中呕出鲜血,脑髓与眼珠散落,手中仍持着兵器。
8.59.22
दन्तपूर्णैः सरुधिरैर्वक्रैर्दाडिमसन्निभैः ।
जीवन्त इव चाप्येके तस्थुः शस्त्रौघबृंहिताः ॥ ८.५९.२२ ॥
口中满是牙齿,染满鲜血,嘴如石榴;有些人仿佛仍活着般站立,被兵器的洪流所伤。
8.59.23
परश्वथैश्चाप्यपरे पट्टसैरसिभिस्तथा ।
शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः ॥ ८.५९.२३ ॥
其他人则用战斧、宝剑与利刃,同样也用长枪、投枪、指爪钩、刺矛与铁枪。
8.59.24
ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा ।
सञ्चकर्तुश्च जघ्नुश्च राजन्योधा महारणे ॥ ८.५९.२४ ॥
有人砍,有人断,有人刺而掷,同样也有人撕裂击打——大战中的刹帝利战士们。
8.59.25
पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः ।
क्षरन्तः स्वरसं रक्तं प्रकृत्ताश्चन्दना इव ॥ ८.५९.२५ ॥
彼此相杀,失去生命,浑身浴血,倒下如同被砍倒的檀香树,流淌着自己的鲜血。
8.59.26
रथै रथा विनिहता हस्तिभिश्चापि हस्तिनः ।
नरैर्नरा हताः पेतुरश्वाश्चाश्वैः सहस्रशः ॥ ८.५९.२६ ॥
战车被战车摧毁,大象被大象杀死;人被人杀害,马被马击倒,成千上万。
8.59.27
ध्वजाः शिरांसि च्छिन्नाः पेतुर्महीतले ।
वध्यतां दारुणाः शब्दाः पततां स्तनतामपि। ॥ ८.५९.२७ ॥
旗帜与头颅被斩断,落于大地之上;被击者、倒下者、哀号者发出的可怕声音也随之而起。
8.59.28
क्षुरैर्भल्लार्धचन्द्रैश्च च्छिन्नाः पेतुर्महीतले ।
नराश्वेभरथानां हिनराश्वेभरथैस्तथा ॥ ८.५९.२८ ॥
被剃刀头箭和半月头箭砍断的人、马、象与战车倒在地上;确实,人、马、象与战车也同样如此。
8.59.29
नरांश्च नागांश्च रथान्हयान्ममृदुराहवे ॥ ८.५९.२९ ॥
在战斗中,他们践踏了人、象、战车与马。
8.59.30
अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः ।
सपताकाध्वजाः पेतुर्विशीर्णा इव पर्वताः ॥ ८.५९.३० ॥
被骑兵杀死的勇士,断了鼻子的大象,以及带着旗帜与幡的战车,粉碎倒下,如同山岳崩塌。
8.59.31
पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा ।
हताश्च हन्यमानाश्च पतिताश्चैव सर्वशः ॥ ८.५९.३१ ॥
步兵跃身上前,同样杀害了象与战车;有的已被杀,有的正被杀,四处纷纷倒下。
8.59.32
अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः ।
सादिभिः पत्तिसङ्घाश्च निहता युधि शेरते ॥ ८.५९.३२ ॥
骑兵急速冲来,却被步兵所杀;步兵队伍又被骑兵所杀,倒卧于战场之上。
8.59.33
मृदितानीव पद्मानि प्रम्लाना इव च स्रजः ।
हतानां वदनान्यासन्गात्राणि च महाहवे ॥ ८.५९.३३ ॥
在这场大战中,被杀者的面容与肢体如被踩碎的莲花与枯萎的花环。
8.59.34
रूपाण्यत्यर्थकान्तानि द्विरदाश्वनृणां नृप ।
समुन्नानीव वस्त्राणि ययुर्दुर्दुर्शतां पराम् ॥ ८.५९.३४ ॥
大王啊,象、马与人那极其美丽的形体,如同被吹扬的衣裳,陷入了极其可怖的境地。