摩诃婆罗多 · 章 8.60
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.60.1
हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः ।
धृष्टद्युम्नं घ्नतेत्याशु क्रुद्धाः पार्षतमभ्ययुः ॥ ८.६०.१ ॥
在你的儿子的催促下,愤怒的象夫高呼“杀死德律斯塔德尤姆纳!”,急速驱象向波利沙塔之子冲去。
8.60.2
प्राच्याश्च दाक्षिणात्याश्च प्रवरा गजयोधिनः ।
अङ्गा वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः ॥ ८.६०.२ ॥
东方与南方最优秀的象兵:盎迦人、望伽人、本德罗人、摩揭陀人以及多摩梨底人。
8.60.3
मेकलाः कोशला मद्रा दशार्णा निषधास्तथा ।
गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत ॥ ८.६०.३ ॥
摩柯罗人、憍萨罗人、摩德罗人、达舍尔纳人与尼沙陀人,皆精于象战,并与羯陵伽人同来,婆罗多啊。
8.60.4
शरतोमरनाराचैर्वृष्टिमन्त इवाम्बुदाः ।
सिषिचुस्ते ततः सर्वे पाञ्चालबलमाहवे ॥ ८.६०.४ ॥
他们如同降雨的云,一齐以箭、标枪和铁箭向战场上的般遮罗军倾泻而下。
8.60.5
तानभिद्रवतो नागान्मदवेगसमुद्धतान् ।
विपाठक्षुरनाराचैर्धृष्टद्युम्नो ह्यवीवृषत् ॥ ८.६०.५ ॥
那些因发情而狂奔、向他冲来的象群,德律斯塔德尤姆纳以锋利如刀的箭与铁箭倾泻而下。
8.60.6
एकैकं दशभिः ष़ड्भिरष्टाभिरपि पार्षतः ।
द्विरदानभिविव्याध क्षिप्रं गिरिनिभाञ्शरैः ॥ ८.६०.६ ॥
波利沙塔之子迅速以十支、六支或八支箭射穿了每一头如山般的大象。
8.60.7
प्रच्छाद्यमानं द्विरदैर्मेघैरिव दिवाकरम् ।
पर्ययुः पाण्डुपाञ्चाला नदन्तो ह्यात्तकार्मुकाः ॥ ८.६०.७ ॥
他被象群遮蔽,如日被云遮,般遮的潘度族与般遮罗人吼叫着,张弓将他包围。
8.60.8
तान्नागानभिवर्षन्तो ज्यातलत्रविनादिनः ।
वीरनृत्यं प्रनृत्यन्तः शूरतालप्रचोदितैः।
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः ॥ ८.६०.८ ॥
向那些象群倾泻箭雨,发出弓弦与护臂的响声,在勇士的鼓点驱动下跳起战舞:那古罗、萨诃提婆、德罗波蒂之子与普罗跋陀罗人。
8.60.9
सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान् ।
समन्तात्सिषिचुर्वीरा मेघास्तोयैरिवाचलान् ॥ ८.६०.९ ॥
萨提亚基、湿骨底和勇猛的车吉檀那,这些勇士从四面八方洒向他们,如同云朵向山岳洒水。
8.60.10
ते म्लेच्छैः प्रेषिता नागा नरानश्वान्रथानपि ।
हस्तैराक्षिप्य ममृदुः पद्भिश्चाप्यतिमन्यवः ॥ ८.६०.१० ॥
那些由蛮族驱使的象群,极度愤怒,用象鼻卷起人、马与战车,并以脚将其踩碎。
8.60.11
बिभिदुश्च विषाणाग्रैः समाक्षिप्य च चिक्षिपुः ।
विषाणलग्नाश्चाप्यन्ये परिपेतुर्विभीषणाः ॥ ८.६०.११ ॥
它们用象牙尖刺穿,整个卷起抛掷;挂在象牙上的其他人则惨烈地跌落。
8.60.12
प्रमुखे वर्तमानं तु द्विपमङ्गस्य सात्यकिः ।
नाराचेनोग्रवेगेन भित्त्वा मर्माण्यताडयत् ॥ ८.६०.१२ ॥
然而萨提亚基以猛烈飞速的铁箭,刺穿了站在盎伽前面的象的要害,将其击中。
8.60.13
तस्यावर्जितकायस्य द्विरदादुत्पतिष्यतः ।
नाराचेनाहनद्वक्षः सात्यकिः सोऽपतद्भुवि ॥ ८.६०.१३ ॥
当他身体弯曲正要从象背跃起时,萨提亚基以铁箭射中他的胸膛,他便倒在地上。
8.60.14
पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम् ।
सहदेवः प्रसन्नाग्रैर्नाराचैरहनत्त्रिभिः ॥ ८.६०.१४ ॥
当普达国王的象如移动的山岳般逼近时,偏德瓦以三支锐利闪亮的铁箭射中了它。
8.60.15
विपताकं वियन्तारं विवर्मध्वजजीवितम् ।
तं कृत्वा द्विरदं भूयः सहदेवोऽङ्गमभ्ययात् ॥ ८.६०.१५ ॥
使那头象失去了旗帜、驭者、铠甲和旗帜之命后,偏德瓦再次冲向盎伽王。
8.60.16
सहदेवं तु नकुलो वारयित्वाङ्गमार्दयत् ।
नाराचैर्यमदण्डाभैस्त्रिभिर्नागं शतेन तम् ॥ ८.६०.१६ ॥
那古拉阻住偏德瓦,以如阎摩之杖的铁箭折磨盎伽王,并以三箭与百箭射击那头象。
8.60.17
दिवाकरकप्रख्यानङ्गश्चिक्षेप तोमरान् ।
नकुलाय शतान्यष्टौ त्रिधैकैकं तु सोऽच्छिनत् ॥ ८.६०.१७ ॥
盎伽王向那古拉投掷如太阳般闪耀的长矛;然而他将八百支长矛每一支都劈成三段。
8.60.18
तथाऽर्धचन्द्रेण शिरस्तस्य चिच्छेद पाण्डवः ।
स पपात हतो म्लेच्छस्तेनैव सह दन्तिना ॥ ८.६०.१८ ॥
同样,般度之子以半月箭斩下了他的头颅;那名蛮夷被杀,与那头象一同倒下。
8.60.19
अथाङ्गपुत्रे निहते हस्तिशिक्षाविशारदे ।
अङ्गाः क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः ॥ ८.६०.१९ ॥
于是,精通驯象之术的盎迦之子被杀,愤怒的盎迦象师们驱象冲向那库拉。
8.60.20
चलत्पताकैः सुमुखैर्हेमकक्ष्यातनुच्छदैः ।
मिमर्दिषन्तस्त्वरिताः प्रदीप्तैरिव पर्वतैः ॥ ८.६०.२० ॥
旗幡飘扬,面饰华美,金色的腹带与身披覆盖,疾速践踏,宛如燃烧的山岳。
8.60.21
मेकलोत्कलकालिङ्गा निषधास्ताम्रलिप्तकाः ।
शरतोमरवर्षाणि विमुञ्चन्तो जिघांसवः ॥ ८.६०.२१ ॥
梅迦罗、乌特迦罗、羯陵伽、尼沙陀与多摩梨底迦人,倾泻箭与矛如雨,欲将其杀死。
8.60.22
तैश्छाद्यमानं नकुलं निशाकरमिवाम्बुदैः ।
परिपेतुः सुसंरब्धाः पाण्डुपाञ्चालसात्यकाः ॥ ८.६०.२२ ॥
那库拉被他们遮蔽,犹如云掩明月,极其愤怒的般遮人、般遮人与萨谛奇将他团团围住。
8.60.23
ततस्तदभवद्युद्धं रथिनां हस्तिभिः सह ।
सृजतां शरवर्षाणि तोमरांश्च सहस्रशः ॥ ८.६०.२३ ॥
于是车兵与象军之间展开了那场战斗,他们射出如雨的箭,成千上万的投矛纷飞。
8.60.24
नागानां प्रास्फुटन्कुम्भा मर्माणि च नखानि च ।
दन्ताश्चैवातिविद्धानां नाराचैर्हेमभूषणैः ॥ ८.६०.२४ ॥
象的额头、要害、爪与牙,被饰以黄金的铁箭深深射穿,纷纷崩裂。
8.60.25
तेषामष्टौ महानागांश्चतुःषष्ट्या सुतेजनैः ।
नाराचैः सहदेवस्तान्पातयामास सादिभिः ॥ ८.६०.२५ ॥
萨诃提瓦以六十四支锐利的那罗阇箭,连同骑手一起射倒了他们的八头大象。
8.60.26
अञ्जोगतिभिरायम्य प्रयत्नाद्धनुरुत्तमम् ।
नाराचैरहनन्नागान्नकुलः कुलनन्दनः ॥ ८.६०.२६ ॥
族中之喜的那库拉费力拉开他的良弓,以笔直飞行的那罗阇箭射杀了象群。
8.60.27
ततः पाञ्चालशैनेयौ द्रौपदेयाः प्रभद्रकाः ।
शिखण्डी च महानागान्सिषिचुः शरवृष्टिभिः ॥ ८.६०.२७ ॥
随后,般遮罗人、奢尼耶、德罗波蒂之子、普罗跋陀罗人与尸根提以箭雨浇灌了大象。
8.60.28
ते पाण्डुयोधाम्बुधरैः शत्रुद्विरदपर्वताः ।
बाणवर्षैर्हताः पेतुर्वज्रवर्षैरिवाचलाः ॥ ८.६०.२८ ॥
被如云般的般度战士的箭雨射中,敌人那如山的象群倒下了,如同山岳在雷霆暴雨下崩塌。
8.60.29
एवं हत्वा तव गजांस्ते पाण्डुरथकुञ्जराः ।
द्रुतं सेनां च वर्षन्तो भिन्नकूलामिवापगाम् ॥ ८.६०.२९ ॥
般度的战车武士与象群如此歼灭了你的象群,便迅速地冲向你的军队,如同冲破堤岸的河流。
8.60.30
तां ते सेनां समालोड्य पाण्डुपुत्रस्य सैनिकाः ।
विक्षोभयित्वा च पुनः कर्णं समभिदुद्रुवुः ॥ ८.६०.३० ॥
般度之子的士兵搅乱了你的军队,使其陷入混乱,然后再次冲向迦尔纳。