摩诃婆罗多 · 章 8.62
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.62.1
आतुरो मे मतो राजा अविपह्यश्च भारत ।
यथैनमनुवर्तन्ते पञ्चालाः सह पाण्डवैः ॥ ८.६२.१ ॥
婆罗多之子啊,我认为国王(迦尔纳)虽受困扰却不可战胜,般遮罗人与般度之子们一同追逐着他。
8.62.2
त्वरमाणास्त्वराकाले सर्वशस्त्रभृतां वराः ।
मज्जन्तमिव पाताले बलिनो ह्युज्जिहीर्षवः ॥ ८.६२.२ ॥
诸持兵器者中的勇士们在危急之时急切奔走,强者们仿佛要拯救正沉入地底的人。
8.62.3
न केतुर्दृश्यते राज्ञः कर्णस्य पिहितः शरैः ।
पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः ॥ ८.६२.३ ॥
般度之子啊,国王迦尔纳的旗帜被箭矢遮蔽而不见,双生子(那腊拘罗与萨诃提婆)、萨谛奇与尸犍底正在旁观。
8.62.4
धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो ।
पाञ्चालानां च सर्वेषां चेदीनां चैव भारत ॥ ८.६२.४ ॥
威猛者啊,不见般遮罗之子(达利斯塔笃姆那)、怖军或舍塔尼迦的旗帜,也不见一切般遮罗人和车底人的旗帜,婆罗多之子啊。
8.62.5
एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम् ।
शरैर्विध्वंसयामास नलिनीमिव कुञ्जरः ॥ ८.६२.५ ॥
般度之子啊,这迦尔纳在战场上以箭矢摧毁般度之子的军队,如象群践踏莲池。
8.62.6
एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन ।
पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः ॥ ८.६२.६ ॥
般度之子啊,你的车战勇士正在逃奔;看哪,看哪,般度之子,这些大车战士是如何离去的。
8.62.7
एते भारत मातङ्गाः कर्णेनाभिहताः शरैः ।
आर्तनादान्विकुर्वाणा विद्रवन्ति दिशो दश ॥ ८.६२.७ ॥
婆罗多之子啊,这些被迦尔纳的箭射伤的象群,哀嚎着向十方奔逃。
8.62.8
रथानां द्रवते वृन्दमेतच्चैव समन्ततः ।
द्राव्यमाणं रणे पार्थ कर्णेनामिततेजसा ॥ ८.६२.८ ॥
普利塔之子啊,这支战车军队正四面溃逃,在战场上被无限光辉的迦尔纳击溃。
8.62.9
हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्रतत्र ह ।
रथस्थं सूतपुत्रस्य केतुं केतुमतां वर ॥ ८.६२.९ ॥
看那在战场上四处游走、如象侧般的阵形吧,最优秀的持旗者啊;看那立于御者之子战车上的旗帜,它是旗帜中的上品。
8.62.10
असौ धावति राधेयो भीमसेनरथं प्रति ।
किरञ्शरशतान्येव विनिघ्नंस्तव वाहिनीम् ॥ ८.६२.१० ॥
那罗陀之子迦尔纳正冲向毗摩色那的战车,射出数百支箭,击杀你的军队。
8.62.11
एते नश्यन्ति पाञ्चाला द्राव्यमाणा महात्मना ।
शक्रेणेव यथा दैत्या द्राव्यमाणा महात्मना ॥ ८.६२.११ ॥
这些般遮罗人被那位大者击溃,正在毁灭,如同阿修罗被因陀罗击溃而灭亡一样。
8.62.12
एष कर्णो रणे जित्वा पाञ्चालान्पाण्डुसृञ्जयान् ।
दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः ॥ ८.६२.१२ ॥
这位迦尔纳在战场上击败了般遮罗人和般度-苏兰遮耶人,正环顾四方;依我之见,他这样做是为了你。
8.62.13
एष कर्णो धनुःश्रेष्ठं विधून्वन्बहुशोभते ।
शत्रुं जित्वा यथा शक्रो देवसङ्खैः समावृतः ॥ ८.६२.१३ ॥
迦尔纳屡次挥动最好的弓,光彩耀眼,犹如因战胜敌人而被众神之群环绕的因陀罗。
8.62.14
एते नर्दन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम् ।
त्रासयन्तो रणे पाण्डून्सृंजयांश्च समन्ततः ॥ ८.६२.१४ ॥
看到迦尔纳的勇武,这些俱卢族人大声呼喊,在战场上从四面惊吓般度之子与娑罗耶人。
8.62.15
एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे ।
अभिभाषति राधेयः सर्वसैन्यानि मानद ॥ ८.६२.१५ ॥
迦尔纳在大战中以全力惊吓了般度之子之后,现在向全军讲话,哦,赐予尊荣者!
8.62.16
अभिद्रवत भद्रं वो द्रुतं द्रवत कौरवाः ।
यथा न जीववान्कश्चिन्मुच्येत युधि सृञ्जयः ॥ ८.६२.१६ ॥
愿你们吉祥!向前冲锋,快速奔跑吧,俱卢族人们,使战场上没有一个娑罗耶人能活着逃脱。
8.62.17
तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः ।
एवमुक्त्वा गतो ह्येष पृष्ठतो विकिरञ्छरान् ॥ ८.६२.१७ ॥
你们也应如此做好准备;我们将从后方前进。说完这话,他一边撒出箭矢,一边向后退去。
8.62.18
पश्य कर्णं रणे पार्थ श्वेतच्छत्रविराजितम् ।
उदयं पर्वतं यद्वच्छशाङ्केनाभिशोभितम् ॥ ८.६२.१८ ॥
哦,普利塔之子,请看战场上以白伞装饰的迦尔纳,犹如升起的山岳被月亮照耀生辉。
8.62.19
पूर्णचन्द्रनिकाशेन मूर्ध्नि च्छत्रेण भारत ।
ध्रियमाणेन समरे श्रीमच्छतशलाकिना ॥ ८.६२.१९ ॥
婆罗多啊,战场上,头顶撑着那把如满月般的华丽伞盖,有一百根伞骨。
8.62.20
एष त्वां प्रेक्षते कर्णः सकटाक्षं धनञ्जय ।
उत्तमं यत्नमास्थाय ध्रुवमेष्यति संयुगे ॥ ८.६२.२० ॥
德汉贾亚啊,迦尔纳斜眼看着你;他竭尽全力,必定会来到战场。
8.62.21
पश्य ह्येनं महाबाहो विधुन्वानं महद्धनुः ।
शरांश्चाशीविषाकारान्विसृजन्तं महारणे ॥ ८.६२.२१ ॥
看他吧,大臂者!他挥动大弓,在大战中射出如毒蛇般的箭。
8.62.22
असौ निवृत्तो राधेयो दृष्ट्वा ते वानरध्वजम् ।
प्रार्थयन्समरं पार्थ त्वया सह परन्तप।
वधाय ह्यात्मनोऽभ्येति पावकं शलभो यथा ॥ ८.६२.२२ ॥
普利塔之子啊,敌人的焚烧者!御者之子迦尔纳见到你的猴旗后曾退走,如今他渴望与你交战,正如飞蛾扑火,走向自己的毁灭而来。
8.62.23
कर्णमेकाकिनं दृष्ट्वा धार्तराष्ट्रो रणाजिरे ।
त्वां च पार्थाभिसंरब्धं कर्णं प्रति महारथम् ॥ ८.६२.२३ ॥
在战场上,见迦尔纳孤身一人,德里多罗湿特罗之子(难敌)见到,你,普利塔之子,对迦尔纳怒火中烧,这位大车手。
8.62.24
कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे ।
अत्मानं च कृतार्थं च समीक्ष्य भरतर्षभ ॥ ८.६२.२४ ॥
婆罗多族的雄牛啊,请看那位得罪了正法之心的坚战的御者之子迦尔纳,再看看自己,你已经达成了目的。
8.62.25
असौ दुर्योधनः क्रुद्धो रथानीकेन भारत ।
रिरक्षिषुः सुसंवृत्तो धार्तराष्ट्रो निवर्तते ॥ ८.६२.२५ ॥
婆罗多的后裔啊!那位愤怒的难敌被战车阵紧紧环绕,想要保护它,持国之子正调转回去。
8.62.26
सर्वैः सहैभिर्दुष्टात्मा बध्यतां च प्रयत्नतः ।
त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता ॥ ८.६२.२६ ॥
连同所有这些人,也应尽力把那个心怀恶念的人捆绑起来——如果你渴望名声、王国与至上的幸福。
8.62.27
अदीनयोर्विश्रुतयोर्युवयोर्योत्स्यमानयोः ।
देवासुरे पार्थ मृधे देवदानवयोरिव।
पश्यन्तु कौरवाः सर्वे तव पार्थ पराक्रमम् ॥ ८.६२.२७ ॥
如同诸神与阿修罗之战中的天神与檀那婆,你们二位无所畏惧、声名远扬,即将交战。普利塔之子啊,愿所有俱卢人都看到你的勇力。
8.62.28
त्वां च दृष्ट्वातिसंरब्धं कर्णं च भरतर्षम् ।
असौ दुर्योधनः क्रुद्धो नोत्तरं प्रतिपद्यते ॥ ८.६२.२८ ॥
婆罗多雄牛啊!看到你和迦尔纳极度愤怒,那位愤怒的难敌无法回应。
8.62.29
आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ ।
कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे ॥ ८.६२.२९ ॥
婆罗多雄牛啊!自觉已经克制自己,而罗陀之子(迦尔纳)已对正法之魂的坚战犯下过错。
8.62.30
प्रतिपद्यस्व कौन्तेय प्राप्तकालमनन्तरम् ।
आर्यां युद्धे मतिं कृत्वा प्रत्येहि रथयूथपम् ॥ ८.६२.३० ॥
贡蒂之子啊,时机已到——立即行动。在战斗中下定高尚的决心,回去面对战车阵的统帅。
8.62.31
पञ्च ह्येतानि मुख्यानि रथानां रथसत्तम ।
शतान्य…जलिनां तिन्मतेजसाम् ॥ ८.६२.३१ ॥
这是五种主要的战车阵列,车手中的最优者;数百…那些大威光者的,如水般列开。
8.62.32
पञ्च नाघ… द्विगुणा वाजिनस्तथा ।
अभिसंहत्य कौन्तेय पदाताः प्रयुतानि च ॥ ८.६२.३२ ॥
五…马匹加倍,亦然。贡蒂之子啊,步兵汇聚,以万计。
8.62.33
… वीर बलं तामभिवर्तते ।
द्रोमपुत्रं पुरस्कृत्य तच्छीघ्रं सन्निषूदय ॥ ८.६२.३३ ॥
…英雄啊,那支军队正在推进。将德罗纳之子置于前方,迅速将其彻底歼灭。
8.62.34
निकृत्त्यैतद्रथानीकं बलिनं लोकविश्रुतम् ।
सूतपुत्रे महेष्वासे दर्शयात्मानमात्मना ॥ ८.६२.३४ ॥
冲破这战车阵,凭自己的力量向那强大、闻名于世的大弓手,御者之子,显示你自己。
8.62.35
…भरतर्षभ ।
… पाञ्चालानभिघावति। ॥ ८.६२.३५ ॥
…婆罗多之牛啊…冲向般遮罗人。
8.62.36
… हि पश्यामि धृष्टद्युम्नरर्थ प्रति ।
… पाञ्चालानिति मन्ये परन्तप ॥ ८.६२.३६ ॥
…我确实看到德里什塔迅那朝着战车……我想那是般遮罗人,啊,焚敌者。
8.62.37
आचचक्षे प्रियं पार्थ तवेदं भरतर्षभ ।
राजासौ कुशली श्रीमान्धर्मपुत्रो युधिष्ठिरः ॥ ८.६२.३७ ॥
般度之子啊,婆罗多族中的雄牛,他向你报告了这个喜讯:法之子、光荣的国王坚战安好。
8.62.38
असौ भीमो महाबाहुः सन्निवृत्तश्चमूयुखे ।
वृतः सृञ्जय सैन्येन शैनेयेन च भप्तत ॥ ८.६२.३८ ॥
那位大臂的毗摩已在军阵前列转身返回,被斯林遮耶的军队和希尼之子萨谛奇所围绕。
8.62.39
वध्यन्त एते समरे कौरवा निशितैः शरैः ।
भीमसेनेन कौन्तेय पाञ्चालैश्च महात्मभिः ॥ ८.६२.३९ ॥
贡蒂之子啊,这些俱卢人正在战场上被锐利的箭矢射杀——被毗摩先那和高尚的般遮罗人所杀。
8.62.40
सेना हि धार्तराष्ट्रस्य विमुखा व्यद्रवद्रणात् ।
वेगेन भीमसेनस्य विहता विविधैः शरैः ॥ ८.६२.४० ॥
德拉斯特拉之子的军队果然背离战场,逃走了——被毗摩先那的猛攻和各种箭矢所击溃。
8.62.41
विपन्नसस्येव मही रुधिरेण समुक्षिता ।
भारती भरतश्रेष्ठ सेना कृपणदर्शना ॥ ८.६२.४१ ॥
婆罗多族中最优秀者啊,犹如庄稼毁灭的大地被鲜血洒满,婆罗多的军队显得凄惨可怜。
8.62.42
निवृत्तं पश्य कौन्तेय भीमसेनं युधाम्पतिम् ।
आशीविषमिव क्रुद्धं तस्माद्द्रवति भारति ॥ ८.६२.४२ ॥
贡蒂之子啊,你看:战士之主毗摩先那已经转身回来了,如同愤怒的毒蛇;所以他正朝这里奔来,婆罗多啊。
8.62.43
पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः ।
पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन ॥ ८.६२.४३ ॥
阿周那啊,这些黄、红、黑、白色、饰有星辰、月亮和太阳的旗帜与华盖,四散飘落。
8.62.44
सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः ।
केतवोऽभिनिपात्यन्ते हस्त्यश्वं च प्रकीर्यते ॥ ८.६२.४४ ॥
金、银及各种金属所制的旗帜纷纷被打落,象与马四散奔逃。
8.62.45
रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः ।
नानावर्णैर्हता बाणैः पाञ्चालैरपलायिभिः ॥ ८.६२.४५ ॥
这些车士从战车上纷纷倒下,已无生气,被不逃避的般遮罗人以各色箭射杀。
8.62.46
निर्मनुष्यान्गजानश्वान्रथांश्चैव धनञ्जय ।
समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस्तरस्विनः ॥ ८.६२.४६ ॥
达那闍耶啊,般遮罗人一同冲向敏捷的持国之子,冲向没有人驾驭的象、马与战车。
8.62.47
विमृद्रन्ति नरव्याघ्रा भीमसेनबलाश्रयात् ।
बलं परेषां दुर्धर्षं त्यक्त्वा प्राणानरिन्दम् ॥ ८.६२.४७ ॥
降敌者啊,依仗毗摩森那的力量,人中猛虎舍弃性命,碾碎敌人难以抵挡的军队。
8.62.48
एते नर्दिन्ति पाञ्चाला ध्मापयन्ति च वारिजान् ।
अभिद्रवन्ति च रणे मृद्रन्तः सायकैः परान् ॥ ८.६२.४८ ॥
这些般遮罗人呼啸吹响海螺,冲入战场,以箭摧毁敌人。
8.62.49
पश्य स्वर्गस्य माहात्म्यं पाञ्चाला हि पराक्रमात् ।
धार्तराष्ट्रान्विनिघ्नन्तो विशन्त्येते रथोत्तमान् ॥ ८.६२.४९ ॥
看那天界的威严!般遮罗人凭借勇力,击杀持国之子,进入这些上等战车。
8.62.50
शस्त्रमाच्छिद्य शत्रूणां सायुधानां निरायुधाः ।
तेनैवैतानमोघास्त्रा निघ्नन्ति च नदन्ति च ॥ ८.६२.५० ॥
夺取敌人的兵器,自身虽无兵器,却以不失的神箭用那兵器击杀他们,并且呐喊。
8.62.51
शिरांस्येतानि पात्यन्ते शत्रूणां बाहवोऽपि च ।
रथनागहया वीरा यशस्याः सर्व एव च ॥ ८.६२.५१ ॥
敌人的这些头颅与手臂也被斩落,战车、象与马亦然;这些英雄个个都是名声显赫的。
8.62.52
सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः ।
त्यक्त्वा प्राणान्महेष्वासैः पाञ्चालैः परिपात्यते ॥ ८.६२.५२ ॥
持国之子的这支大军四面受围,正舍弃性命,被般遮罗的大弓箭手们击倒。
8.62.53
सुहृदश्च पराक्रान्ताः कृपकर्णादयो विभो ।
निवारणे महेष्वासाः पाञ्चालानां परन्तप ॥ ८.६२.५३ ॥
啊,大能者!克里帕、迦尔纳等盟友皆是勇猛之士,那些大弓箭手正忙于阻挡般遮罗人,啊,焚敌者。
8.62.54
अनिवृत्तांश्च भीतांस्तान्धार्तराष्ट्रान्परन्तप ।
धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून्सहस्रशः ॥ ८.६२.५४ ॥
啊,焚敌者!以德里什塔刚那为首的英雄们,正成千上万地杀戮那些不退却却已惊恐的持国之子。
8.62.55
रथाश्च विविधाः सर्वे निवृत्ते भरतर्षभे ।
विवर्णमुखभूयिष्ठा धार्तराष्ट्री महाचमूः ॥ ८.६२.५५ ॥
婆罗多族的雄牛转身之时,各式战车与持国之子的大军,大多面色苍白,(纷纷后退)。
8.62.56
पश्य भीमेन नाराचैर्भिन्ना नागाः पतन्त्यमी ।
वज्रिवज्रहतानीव शिखराणि धराभृताम् ॥ ८.६२.५६ ॥
看哪,这些被怖军的铁箭射穿的大象正在倒下,如同被持雷者的金刚杵击中的山峰。
8.62.57
भीमसेनस्य निर्विद्धा बाणैः सन्नतपर्वभिः ।
स्वान्यनीकानि मृद्गन्तो द्रवन्त्येते महागजाः ॥ ८.६२.५७ ॥
这些被怖军之箭以弯曲箭羽射穿的大象,正践踏自己与他人的军队而逃。
8.62.58
एते द्रवन्ति कुरवो भीमसेनभयार्दिताः ।
त्यक्त्वा रथान्गजांश्चैव हयांश्चैव सहस्रशः ॥ ८.६२.५८ ॥
这些被怖军之恐惧所折磨的俱卢人,抛下成千上万的战车、大象与战马而逃。
8.62.59
हस्त्यश्वरथपत्तीनां द्रवतां निःस्वनं शृणु ।
भीमसेनस्य निनदं द्रावयानस्य कौरवान् ॥ ८.६२.५९ ॥
请听那些奔逃的象、马、战车与步兵的喧嚣,也听听驱赶俱卢人的怖军的吼声。
8.62.60
अभिजानामि भीमस्य सिंहनादं पुनःपुनः ।
नदतः पाण्डवेयस्य सङ्ग्रामे जितकाशिनः ॥ ८.६२.६० ॥
我一次又一次地认出那怖军的狮吼——般度之子在战场上吼叫,欲求胜利。
8.62.61
विसृजंस्तोमरान्क्रुद्धो दण्डपाणिरिवान्तकः ॥ ८.६२.६१ ॥
愤怒地投掷长矛,他如手持杖棒的死神阎摩。
8.62.62
तस्य चैव भुजौ छिन्नौ भीमसेनेन गर्जतः ।
नागश्च क्रकरप्रख्यैर्नाराचैर्दशभिर्हतः ॥ ८.६२.६२ ॥
怖军斩断了那吼叫者的双臂,又以十支如锯的那罗遮箭射杀了大象。
8.62.63
हन्तैते पुनरायान्ति नागा ह्यन्ये प्रहारिणः ।
नीलाञ्जनचयप्रख्या महामात्रैरधिष्ठिताः ॥ ८.६२.६३ ॥
唉,那些冲击的其他大象,如蓝色黛粉堆,由大驭者骑乘,又来了。
8.62.64
शक्तितोमरसङ्घतैर्विनिघ्नन्तो वृकोदरम् ।
सप्तसप्त च नागस्था वैजयन्त्यश्च सध्वजाः।
नवत्या निशितैर्बाणैश्छिन्नाः पार्थाग्रजेन ते ॥ ८.६२.६४ ॥
这些以枪矛和投枪猛击狼腹的,象背上站立的七七之数的战士,以及带旗的胜利幡幢——这些都被阿周那的长兄以九十支利箭斩断了。
8.62.65
दशभिर्दशभिश्चैको नाराचैर्निहतो गजः ॥ ८.६२.६५ ॥
他独自以一对十的那罗遮箭,射杀了一头大象。
8.62.66
न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा ।
पुरन्दरसमे क्रुद्धे निवृत्ते भरतर्षभे ॥ ८.६२.६६ ॥
自从与因陀罗同样愤怒的婆罗多之牛转身返回,持国诸子那吼叫之声便也不再听闻。
8.62.67
अक्षौहिण्यस्तथा तिस्रो धार्तराष्ट्रस्य सङ्गताः ।
क्रुद्धेन भीमसेनेन नरसिंहेन वारिताः ॥ ८.६२.६७ ॥
持国之子的三个阿刹洹尼军集结,却被愤怒的怖军——那人中狮子——所阻挡。
8.62.68
न शक्नुवन्ति वै पार्थं पार्थिवाः समुदीक्षितुम् ।
मध्यन्दिनगतं सूर्यं यथा दुर्बलचक्षुषः ॥ ८.६२.६८ ॥
诸王不能正视pārtha(阿周那),正如视力虚弱者无法直视正午的太阳。
8.62.69
एते भीमस्य सन्त्रस्ताः सिंहस्येवेतरे मृगाः ।
शरैः सन्त्रासिताः सह्ख्ये न लभन्ते सुखं क्वचित् ॥ ८.६२.६९ ॥
这些人被怖军吓得惊慌,如同其他鹿遇见狮子一样,被箭矢所困,在战斗中从未得到片刻安宁。
8.62.70
राधेयो बहुभिः सार्धमसौ गच्छति वेगितः ।
वर्धयित्वा तु भीरुं तं पार्श्वतो ह्यानयद्धनुः।
तं पालयन्महाराजं धार्तराष्ट्रं बलान्वितः ॥ ८.६२.७० ॥
罗陀之子迦尔纳与众人疾速前行。他鼓励了那个怯懦者,从旁给他取来弓箭,并以力量护卫那位大王、持国之子。
8.62.71
एतच्छ्रुत्वा महाबाहुर्वासुदेवाद्धनञ्जयः ।
भीमसेनेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम्।
अर्जुनो व्यधमच्छिष्टान्संशप्तकगणान्बहून् ॥ ८.६२.७१ ॥
大臂的财富征服者(阿周那)听闻此事,又从婆苏提婆(克里希那)处得知怖军所作的极其艰难之事,便将剩余的众多三誓军队冲散。
8.62.72
ते वध्यमानाः पार्थेन संशप्तकगणाः प्रभो ।
शक्रस्यातिथितां गत्वा विशोका ह्यभवंस्तदा ॥ ८.६२.७२ ॥
主上啊,那些被阿周那所杀的三誓军队,成为因陀罗的客人,从而那时便脱离了忧愁。
8.62.73
नारायणांस्तु गोपालान्व्यधमत्पाण्डुनन्दनः ।
उत्तमं वे…प्तास्थाय चण्डवायुर्धनानिव ॥ ८.६२.७३ ॥
般度之子击倒了那罗延军与牧人,如猛烈的狂风吹散云朵……
8.62.74
अन्वकीर्यन्त भीतास्ते तत्रतत्रैव भारत ।
लुलितांश्च ततः शूरानहनत्पुरुषोत्तमः ॥ ८.६२.७४ ॥
他们惊恐万分,四散奔逃,婆罗多啊;然后人中之最杀死了陷入混乱的勇士们。
8.62.75
पुनश्च पुरुषव्याघ्रः शरैः सन्नतपर्वभिः ।
जघान धार्तराष्ट्रस्य चतुर्विधबलां चमूम् ॥ ८.६२.७५ ॥
那人中之虎又以弯曲节杆的箭射倒了持国之子的四军。