Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.65

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.65.1

ततः श्वेताश्वसंयुक्ते नारायणसमाहिते ।
तिष्ठन्रथवरे श्रीमानर्जुनः समपद्यत ॥ ८.६५.१ ॥

此时,光辉的阿周那出现了,他站在最好的战车上,车驾白马,由那罗延(黑天)驾驭。

8.65.2

तद्बलं नृपतिश्रेष्ठ तावकं विजयो रणे ।
व्यक्षोभयदुदीर्णाश्वं महोदधिमिवानिलः ॥ ८.६५.२ ॥

诸王之中最优秀者啊!正如风搅动大海,胜利者(阿周那)在战场上搅乱了您的军队,其马匹跃起奔腾。

8.65.3

दुर्योधनस्तव सुतः प्रमत्ते श्वेतवाहने ।
अभ्येत्य सहसा क्रुद्धः सैन्यार्धेनाभिसंवृतः ॥ ८.६५.३ ॥

您的儿子难敌因对白马者(阿周那)疏忽,愤怒地突然冲上前去,被半数军队所包围。

8.65.4

पर्यवारयदायान्तं युधिष्ठिरममर्षणम् ।
क्षुरप्राणां त्रिसप्तत्या ततोऽविध्यत पाण्डवम् ॥ ८.६५.४ ॥

他们包围了正在靠近的愤怒的坚战,随后以七十三支剃刀般锋利的箭射穿了般度之子。

8.65.5

अक्रुध्यत भृशं तत्र कुन्तीपुत्रो युधिष्ठिरः ।
स भल्लांस्त्रिंशतस्तूर्णं तव पुत्रे न्यवेशयत् ॥ ८.६५.५ ॥

那里,贡蒂之子坚战大为愤怒;他迅速将三十支倒钩箭射入您的儿子体内。

8.65.6

ततो धावन्त कौरव्या जिघृक्षन्तो युधिष्ठिरम् ॥ ८.६५.६ ॥

于是俱卢族人奔跑而来,渴望擒获坚战。

8.65.7

दुष्टभावान्पराञ्ज्ञात्वा समवेता महारथाः ।
आजग्मुस्तं परीप्सन्तः कुन्तीपुत्रं युधिष्ठिरम् ॥ ८.६५.७ ॥

众大车战士得知敌人怀有恶意,便聚集起来前往,想要保护贡提之子坚战。

8.65.8

युधिष्ठिरश्चित्रसेनं शरवर्षैरवाकिरत् ।
चित्रसेनस्तु कौन्तेयं सङ्क्रुद्धः समवारयत् ॥ ८.६५.८ ॥

坚战以箭雨覆盖了质多罗森;质多罗森则愤怒地阻挡了贡提之子。

8.65.9

मुहूर्ताद्विमुखीकृत्य चित्रसेनं स धर्मराट् ।
तावकं सैन्यमभ्यघ्नत्समन्तान्निशितैः शरैः ॥ ८.६५.९ ॥

顷刻之间使质多罗森退却后,那位法王以利箭从四面击打你的军队。

8.65.10

तावका हि माबाहो दुर्योधनपुरोगमाः ।
युधिष्ठिरं जिघृक्षन्तः सर्वसैन्यं समाक्षिपन् ॥ ८.६५.१० ॥

啊,大臂者!以难敌为首的你的部众,想要擒获坚战,便冲击了全军。

8.65.11

दृष्टप्रभावांस्तान्मत्वा समवेतान्महारथान् ।
आजग्मुः सम्परीप्सन्तः पाण्डवेयं युधिष्ठिरम् ॥ ८.६५.११ ॥

众大车战士见其威势,便聚集前来,想要保护般度之子坚战。

8.65.12

नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ।
अक्षौहिण्या परिवृतास्तेऽभ्यधावन्युधिष्टिरम् ॥ ८.६५.१२ ॥

那昆拉、萨诃提婆与般遮之子持国护,被一个阿刹诃尼军所围,冲向坚战。

8.65.13

भीमसेनश्च नाराचैर्मृद्रंस्तव महारथान् ।
अभ्यधावदभिप्रेप्सू राजानं शत्रुभिर्वृतम् ॥ ८.६५.१३ ॥

毗摩娑那以铁箭摧毁你的大车战士,渴望抵达被敌人包围的国王,冲杀上前。

8.65.14

तांस्तु सर्वान्महेष्वासान्कर्णो वैकर्तनो वृषा ।
शरवर्षेण महता प्रत्यवारयदागतान् ॥ ८.६५.१४ ॥

然而,维卡尔塔纳之子、勇者迦尔纳以猛烈的箭雨阻挡了所有前来的大弓手。

8.65.15

शरौघान्विसृजन्तस्ते प्रेयन्तश्च कुञ्जरान् ।
न शेकुर्यत्नवन्तोऽपि राधेयं प्रतिवीक्षितुम् ॥ ८.६५.१५ ॥

尽管他们射出箭流、驱赶象群,竭尽全力,却无法直视罗陀之子迦尔纳。

8.65.16

तांश्च सर्वान्महेष्वासान्सर्वशस्त्रविशारदान् ।
महता शरवर्षेण राधेयः प्रत्यवारयत् ॥ ८.६५.१६ ॥

罗陀之子以大箭雨阻挡了所有精通各种兵器的大弓手。

8.65.17

दुर्योधनं च विंशत्या नाराचानां कृती बली ।
अविध्यत्तूर्णमभ्येत्य सहदेवो महीपतिम् ॥ ८.६५.१७ ॥

机敏而强健的偕天迅速逼近,以二十支铁箭射穿了大地之主难敌。

8.65.18

स विद्धः सहदेवेन रराज बलसन्निधौ ।
प्रभिन्न इव मातङ्गो रुधिरेण परिप्लुतः ॥ ८.६५.१८ ॥

被偕天所伤,他在军中闪耀,如同发情的象被鲜血浸透。

8.65.19

दृष्ट्वा तव सुतं तत्र गाढविद्धं सुतेजनैः ।
अभ्यधावद्दृढं क्रुद्धो राधेयो रथिनां वरः ॥ ८.६५.१९ ॥

看到你的儿子在那里被锋利的箭深深射中,车战勇士中最优秀的罗陀之子迦尔纳怒火中烧,坚定地向他冲去。

8.65.20

दुर्योधनं तथा दृष्ट्वा शीघ्रमस्त्रमुदीर्य सः ।
अवधीत्पाण्डवानीकं पाञ्चालांश्चैव मारिष ॥ ८.६५.२० ॥

看到杜尔约达纳如此,他迅速发出兵器,击杀了般度军和般遮罗人,哦,尊者。

8.65.21

ततो यौधिष्ठिरं सैन्यं वध्यमानं महात्मना ।
सहसा प्राद्रावद्राजन्मूतपुत्रशरार्दितम् ॥ ८.६५.२१ ॥

于是,被这位大心者杀戮、被御者之子的箭所折磨的坚战军队,忽然逃散了,哦,国王。

8.65.22

विविधा विशिखास्तत्र सम्पतन्ति परस्परम् ।
भल्लाः पुङ्खसमाश्लिष्टाः सूतपुत्रधनुश्च्युताः ॥ ८.६५.२२ ॥

各种箭矢彼此相向飞来,其中有装着羽毛箭杆的薄刃箭,都是从御者之子的弓中射出的。

8.65.23

अन्तरिक्षे शरौघाणां पततां च परस्परम् ।
सङ्घर्पेण महाराज पावकः समजायत ॥ ८.६५.२३ ॥

在天空中,当成群的箭相互碰撞坠落时,哦大王,因摩擦而生出了火。

8.65.24

तकतो दशदिशः कर्णः शलभैरिव यायिभिः ।
अभ्यघ्नंस्तरसा राजञ्शरैः परशरीरगैः ॥ ८.६५.२४ ॥

迦尔纳迅疾地射击,用箭充满了十方,如同飞蝗成群;哦,国王,那些箭射入敌人的身体,猛烈地打击他们。

8.65.25

रक्तचन्दनसन्दिग्धौ मणिहेमविभूषितौ ।
बाहू व्यत्यक्षिपत्कर्णः परमास्त्रं विदर्शयन् ॥ ८.६५.२५ ॥

迦尔纳挥动双臂,涂着红檀香,饰以宝石与黄金,展示至上神兵。

8.65.26

ततः सर्वा दिशो राजन्सायकैर्विप्रमोहयन् ।
अपीडयद्भृशं कर्णो धर्मराजं युधिष्ठिरम् ॥ ८.६५.२६ ॥

于是,大王啊,迦尔纳以箭矢扰乱诸方,猛烈地攻击法王坚战。

8.65.27

ततः क्रुद्धो महाराज धर्मपुत्रो युधिष्ठिरः ।
निशितैरिषुभिः कर्णं पञ्चाशद्भिः समार्पयत् ॥ ८.६५.२७ ॥

于是,大王啊,法之子坚战勃然大怒,以五十支利箭射向迦尔纳。

8.65.28

बाणान्धकारमभवत्तद्युद्धं घोरदर्शनम् ।
हाहाकारो महानासीत्तावकानां विशाम्पते ॥ ८.६५.२८ ॥

那场战斗化作箭矢的黑暗,令人望而生畏;主啊,你的子民中升起了巨大的哀号。

8.65.29

वध्यमाने तदा सैन्ये धर्मपुत्रेण मारिष ।
सायकैर्विविधैस्तीक्ष्णैः कङ्कपत्रैः शिलाशितैः।
भल्लैरनेकैर्विविधैः शक्त्यृष्टिमुसलैरपि ॥ ८.६५.२९ ॥

主啊,当法之子屠杀军队之时,他以各种利箭——羽饰鹭羽、磨于石上——以众多的婆罗箭,以及长矛、投枪和铁杵攻击。

8.65.30

यत्र यत्र स धर्मात्मा दुष्टां दृष्टिं व्यसर्जयत् ।
तत्र तत्र व्यशीर्यन्त तावका भरतर्षभ ॥ ८.६५.३० ॥

那位法心之人投出凶猛的目光之处,那里,婆罗多的雄牛啊,你的人马便四散溃败。

8.65.31

कर्णोऽपि भृशसङ्कुद्रो धर्मराजं युधिष्ठिरम् ।
नाराचैरर्धचन्द्रैश्च वत्सदन्तैश्च संयुगे ॥ ८.६५.३१ ॥

迦尔纳亦极为愤怒,在战斗中以铁箭、半月箭和犊牙箭射击法王坚战。

8.65.32

अमर्षी क्रोधनश्चैव रोषप्रस्फुरिताननः ।
सायकैरप्रमेयात्मा युधिष्ठिरमभिद्रवत् ॥ ८.६५.३२ ॥

他不能忍受屈辱,满怀愤怒,怒容满面,以无量之心,挟箭向坚战冲去。

8.65.33

युधिष्ठिरश्चापि स तं स्वर्णपुङ्खैः शितैः शरैः ॥ ८.६५.३३ ॥

坚战也以饰有金羽的利箭还击他。

8.65.34

प्रहसन्निव तं कर्णः कङ्कपत्रैः शिलाशितैः ।
उरस्यविध्यद्राजानं कुन्तीपुत्रं युधिष्ठिरम् ॥ ८.६५.३४ ॥

迦尔纳仿佛含笑,以磨于石上、饰以鹤羽的箭射穿了昆蒂之子坚战国王的胸膛。

8.65.35

स पीडितो भृशं तेन धर्मराजो युधिष्ठिरः ।
उपविश्य रथोपस्थे सूतं याहीत्यनोदयत् ॥ ८.६५.३५ ॥

法王坚战为他所重创,便坐于车厢底部,催促御者道:“驱车前行!”

8.65.36

अक्रोशन्त ततः सर्वे धार्तराष्ट्राः सराजकाः ।
गृह्णीध्वमिति राजानमभ्यधावन्त सर्वशः ॥ ८.६५.३६ ॥

于是,持国之子们与他们的国王一同高呼:“抓住他!”并从四面八方向国王冲去。

8.65.37

ततः शताः सप्तदश केकयानां प्रहारिणाम् ।
पञ्चालैः सहिता राजन्धार्तराष्ट्रान्न्यवारयन् ॥ ८.६५.३७ ॥

于是,十七百名击敌的甘迦族战士与般遮罗人联合,啊国王,阻止了持国的儿子们。

8.65.38

तस्मिन्सुतुमुले युद्धे वर्तमाने जनक्षये ।
दुर्योधनश्च भीमश्च समेयातां महाबलौ ॥ ८.६५.३८ ॥

在那场极其惨烈、人民正遭屠戮的战斗中,两位大力者难敌与怖军迎面相遇。