Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.66

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.66.1

कर्णोऽपि शरजालेन केकयानां महारथान् ।
व्यधमत्परमेष्वासानग्रानीके व्यवस्थितान् ॥ ८.६६.१ ॥

迦尔纳也以箭网击倒了立于军阵前列的甘伽族大车武士与最优秀的弓箭手。

8.66.2

तेषां प्रयतमानानां राधेयस्य निवारणे ।
रथान्पञ्चशतान्कर्णः प्राहिणोद्यमसादनम् ॥ ८.६६.२ ॥

迦尔纳将试图阻挡罗陀之子的五百辆战车送往阎摩之所。

8.66.3

अविषह्यतमं दृष्ट्वा राधेयं युधि योधिनः ।
भीमसेनमुपागच्छन्कर्णबाणप्रपीडिताः ॥ ८.६६.३ ॥

众战士见罗陀之子在战场上难以抵挡,被迦尔纳的箭所伤,便前往毗摩森那处。

8.66.4

रथानीकं विदार्यैव शरै राजन्ननेकधा ।
कर्ण एकरथेनैव युधिष्ठिरमुपाद्रवत् ॥ ८.६६.४ ॥

大王啊,迦尔纳以箭将战车军从多方面撕裂之后,独自乘一辆战车,冲向坚战。

8.66.5

सेनानिवेशं गच्छन्तं मार्गणैर्भृशपीडितम् ।
यमयोर्मध्यगं वीरं शनैर्यान्तं विचेतसम् ॥ ८.६६.५ ॥

那位前往军营、被箭重创、缓缓行于双子之间、神志昏乱的英雄。

8.66.6

स समासाद्य राजानं दुर्योधनहितेप्सया ।
सूतपुत्रस्त्रिभिस्तीक्ष्णैर्विव्याध परमेषुभिः ॥ ८.६६.६ ॥

迦尔纳是御者之子,为了杜尔yodhana的利益,来到那位国王面前,以三支锐利的上等箭射中了他。

8.66.7

तथैव राजा राधेयं प्रत्यविध्यत्स्तनान्तरे ।
शरैस्त्रिभिश्च यन्तारं चतुर्भिश्चतुरो हयान् ॥ ८.६६.७ ॥

国王同样回击了罗陀之子(迦尔纳),射中他的胸膛正中;用三箭射中御者,用四箭射中四匹马。

8.66.8

चक्ररक्षौ नृपसुतौ माद्रीपुत्रौ परन्तपौ ।
तावप्यधावतां कर्णं राजानं मा वधीदिति ॥ ८.६६.८ ॥

担任护轮的王子、玛德丽之二子,灭敌者,也冲向迦尔纳,并说:“不要杀国王!”

8.66.9

तौ पृथक्शरवर्षाभ्यां राधेयं समवर्षताम् ।
नकुलः सहदेवश्च परमं यत्नमास्थितौ ॥ ८.६६.९ ॥

两人各自以箭雨倾泻于罗陀之子(迦尔纳)身上;那古罗与萨诃提婆竭尽全力。

8.66.10

तथैव तौ प्रत्यविध्यत्सूतपुत्रः प्रतापवान् ।
भल्लाभ्यां शितधाराभ्यां महात्मानावरिन्दमौ ॥ ८.६६.१० ॥

同样,威猛的御者之子(迦尔纳)用两支锋利的婆罗箭回击那两位伟大、降伏敌人的英雄。

8.66.11

दन्तवर्णांस्तु राधेयो निजघान मनोजवान् ।
युधिष्ठिरस्य सङ्ग्रामे कालवालान्हयोत्तमान् ॥ ८.६६.११ ॥

迦尔纳在战斗中杀死了象牙色、疾如意念的迦罗伐罗良马,那是坚战最好的马。

8.66.12

ततोऽपरेण भल्लेन शिरस्त्राणमपातयत् ।
कौन्तेयस्य महेष्वासः प्रहसन्निव सूतजः ॥ ८.६६.१२ ॥

随后,这位大弓手、御者之子以另一支婆罗箭,仿佛在笑,打落了贡蒂之子(阿周那)的头盔。

8.66.13

तथैव नकुलस्यापि हयान्हत्वा महारथः ।
ततोऽपरेण भल्लेन भृशं तीक्ष्णेन भारत।
धनुश्चिच्छेद वीरस्य माद्रीपुत्रस्य धीमतः ॥ ८.६६.१३ ॥

同样,这位大车战士也杀死了那km那拉的马,随后,婆罗多啊,他以另一支锋利的婆罗箭猛烈地射断了那位英雄、智慧的摩德利之子的弓。

8.66.14

तौ हताश्वौ हतरथौ पाण्डवौ भृशविक्षतौ ।
भ्रातरावारुरुहतुः सहदेवरथं तदा ॥ ८.६६.१४ ॥

那两位般度之子,马匹已死、战车已毁,遍体重伤,两位兄弟于是登上了偕提婆的战车。

8.66.15

तौ दृष्ट्वा मातुलस्तत्र विरथौ परवीरहा ।
अभ्यभाषत राधेयं मद्रराजोऽनुकम्पया ॥ ८.६६.१५ ॥

看见他们二人失去战车,那位摧毁敌方英雄的舅父、摩德罗王,出于怜悯,对罗陀之子迦尔纳说道。

8.66.16

मार्गितव्यस्त्वया कर्ण कुन्तीपुत्रो धनञ्जयः ।
अतस्त्वं धर्मराजेन किमर्थमिह युध्यसे ॥ ८.६६.१६ ॥

迦尔纳啊,你本应去寻找贡蒂之子檀那耶。那么你为何在此与正法之王交战呢?

8.66.17

क्षीणशस्त्रास्त्राकवचः क्षीणबाणो विबाणधिः ।
श्रान्तसारथिवाहश्च च्छन्नोऽस्त्रैररिभिस्तथा।
पार्थमासाद्य राधेय उपहास्यो भविष्यसि ॥ ८.६६.१७ ॥

你的兵器、飞弹与甲胄已尽,箭矢用完,弓弦已断,御者与马匹疲惫,又被敌人的飞弹所围,啊,罗陀之子,你若走近帕尔特,便会成为笑柄。

8.66.18

तथापि कर्णः संरब्धो युधिष्ठिरमपीडयत् ।
शरैस्तीक्ष्णैर्महावीर्यैर्माद्रीपुत्रौ च पाण्डवौ ॥ ८.६६.१८ ॥

尽管如此,愤怒的迦尔纳仍然猛烈逼迫坚战,并以锋利而威力巨大的箭矢折磨摩德利的两个儿子,即般度五子。

8.66.19

ततः शल्यः प्रहस्येदं कर्णं पुनरुवाच ह ।
रथस्थमतिसंरब्धं युधिष्ठिरवधे स्थितम् ॥ ८.६६.१९ ॥

于是沙利耶笑着再次对站在战车上、极度愤怒、一心要杀死坚战的迦尔纳说道。

8.66.20

यदर्थं धार्तराष्ट्रेण सततं मानितो भवान् ।
तं पार्थ जहि राधेय किं ते हत्वा युधिष्ठिरम्।
हते यस्मिन्ध्रुवं पार्थः सर्वाञ्जेष्यति नो रथान् ॥ ८.६६.२० ॥

为了他,持国之子一直尊重你,所以,迦尔纳啊,去杀那位半陀(阿周那)吧。杀死坚战对你有什么用?他一死,半陀必定会战胜我们所有的车战勇士。

8.66.21

तस्मिन्हि धार्तराष्ट्रस्य निहते तु ध्रुवो जयः ।
ध्वजोऽसौ दृश्यते तस्य रोचमानोंऽशुमानिव।
सारो ह्येष महाबाहो किं ते हत्वा युधिष्ठिरम् ॥ ८.६६.२१ ॥

他一死,持国之子的胜利便是确定的。那面像太阳一样闪耀的旗帜就在那里可见。这才是要害,大臂者啊。杀死坚战对你有什么用?

8.66.22

शङ्खयोर्ध्मातयोः शब्दः सुमहानेष कृष्णयोः ।
श्रूयते चापघोषश्च प्रावृषीवाम्बुदस्य ह ॥ ८.६६.२२ ॥

两位黑天的螺号声极为响亮,弓弦的嗡鸣也可听见,如同雨季中乌云的雷声。

8.66.23

असौ निघ्नन्रथोदारानर्जुनः शरवृष्टिभिः ।
सर्वां ग्रसति नः सेनां कर्ण पश्यैनमाहवे ॥ ८.६६.२३ ॥

那阿周那以箭雨击杀我方高贵的车战勇士,正吞噬我们整个军队。迦尔纳啊,在战场上看看他吧。

8.66.24

पृष्ठरक्षौ च शूरस्य युधामन्यूत्तमौजसौ ॥ ८.६६.२४ ॥

那位英雄的后卫是优陀摩尼与乌达摩乔。

8.66.25

उत्तरं चास्य वै शूरश्चक्रं रक्षति सांत्यकिः ।
धृष्टद्युम्नस्तथा चास्य चक्रं रक्षति दक्षिणम् ॥ ८.६६.२५ ॥

英雄萨蒂亚奇守护他的北侧车轮,同样,德里斯塔尤姆那守护他的南侧车轮。

8.66.26

भीमसेनश्च वै राज्ञा धार्तराष्ट्रेण युध्यते ।
यथा न हन्यात्तं भीमः सर्वेषां नोऽद्य पश्यताम्।
कुरु राधेय वै राजा यथा मुच्येत तत्तथा ॥ ८.६६.२६ ॥

毗摩娑那正与国王——持国之子——交战。在我们众人注视之下,啊,罗陀之子,请做使国王得救的事,免得毗摩今日杀了他。

8.66.27

… भीमसेनेन ग्रस्तमाहवशोभिना ।
यदि नामाद्य मुच्येत विस्मयः सुमहान्भवेत् ॥ ८.६६.२७ ॥

……被在战场上闪耀的毗摩娑那所擒。若他今日果真得脱,那将是极大的奇事。

8.66.28

परित्राह्येनमभ्येत्य संशयं परमं गतम् ।
किं नु माद्रीसुतौ हत्वा राजानं वा युधिष्ठिरम् ॥ ८.६६.२८ ॥

前去救援陷入极大危险的他。为何不杀死摩德利的两个儿子,或国王坚战呢?

8.66.29

इति शल्यवचः श्रुत्वा राधेयः पृथिवीपते ।
दृष्ट्वा दुर्योधनं चैव भीमग्रस्तं महाहवे ॥ ८.६६.२९ ॥

啊,大地之主,罗陀之子(迦尔纳)听了沙利耶的这番话,又见杜尤达那在大战中被毗摩所擒……

8.66.30

राजगृध्नुर्भृशं चैव शल्यवाक्यप्रचोदितः ।
अजातशत्रुमुत्सृज्य माद्रीपुत्रौ च पाण्डवौ ॥ ८.६६.३० ॥

他贪图王位,又深受沙利耶言语的激励,便放下了无敌者(坚战)和摩德利的两个儿子般度五子。

8.66.31

तव पुत्रं परित्रातुमभ्यधावत वीर्यवान् ।
मद्रराजप्रणुदितैरश्वैराकाशगैरिव ॥ ८.६६.३१ ॥

勇猛的他奔向保护你的儿子,由摩德罗国王驱策的马匹仿佛在天空飞驰。

8.66.32

गते कर्णे तु कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः ।
अपायाज्जवनैरश्वैः सहदेवस्य मारिष ॥ ८.६६.३२ ॥

迦尔纳离去后,昆提之子、般度之子坚战,啊,尊者,乘着萨诃提婆的迅捷马匹从那里撤退了。

8.66.33

ताभ्यां स सहितस्तूर्णं व्रीडन्निव नरेश्वरः ।
प्राप्य सेनानिवेशं स्वं मार्गणैर्भृशविक्षतः ॥ ८.६६.३३ ॥

与那二人同行,仿佛羞愧一般,这位人主很快回到了自己的军营,被箭矢重重射伤。

8.66.34

अवतीर्य रथात्तूर्णमाविशच्छयनं शुभम् ।
अपेतशल्यो राजा तु हृच्छल्येनाभिपीडितः ॥ ८.६६.३४ ॥

他迅速从战车上下来,走进一张华美的床榻。箭虽已拔出,国王却因心中的箭而极度痛苦。

8.66.35

सोऽब्रवीद्धातरौ राजा माद्रीपुत्रौ महारथौ ।
गच्छन्त त्वरितौ वीरौ यत्र भीमो व्यवस्थितः ॥ ८.६६.३५ ॥

他对摩德丽之子、两位大车勇士兄弟说:'勇士们,快去那里,那里是坚定站立的毗摩。'

8.66.36

ततस्ते पाण्डवाः सर्वे समाभाष्य परस्परम् ।
अनीकं भीमसेनस्य पाण्डवावभ्यगच्छताम्।
जीमूत इव नर्दंस्तु युध्यते स वृकोदरः ॥ ८.६६.३६ ॥

于是众般度之子彼此商议后,那两位般度之子奔向毗摩塞那的军队。狼腹(毗摩)如雨云般咆哮,正在作战。

8.66.37

ततोऽन्यं रथमास्थाय नकुलो रथपुङ्गवः ।
सहदेवश्च तेजस्वी भ्रातरौ शत्रुकर्शनौ ॥ ८.६६.३७ ॥

随后,乘上另一辆战车的,是车将中最杰出的那古拉,与光辉的萨诃提瓦——这两位制服敌人的兄弟(向前进发)。

8.66.38

तुरगैरग्र्यरंहोभिर्यत्र भीमस्तरस्विनौ ।
अनीकैः सहितौ तत्र भ्रातरौ समवस्थितौ ॥ ८.६६.३८ ॥

乘着最为迅捷的良驹,在怖军所在之处,这两位迅疾的兄弟率领各自的军队并立而驻。