Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.76

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.76.1

प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना ।
सम्पूज्य देवताः सर्व ब्राह्मणान्स्वस्ति वाच्य च।
सुमङ्गलं स्वस्त्ययनमारुरोह रथोत्तमम् ॥ ८.७६.१ ॥

他以欢喜之心使法王欢悦,敬礼诸神与婆罗门,诵念吉祥祝福,行了最吉祥的安康仪式,然后登上最好的战车。

8.76.2

तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः ।
आशिषोऽयुङ्क्त परमाः युक्तं कर्णरथं प्रति ॥ ८.७६.२ ॥

智慧广大的法王坚战,在他前往迦尔纳战车之时,赐予他最高的祝福。

8.76.3

तमायान्तं महेष्वासं दृष्ट्वा भूतानि भारत ।
निहतं मेनिरे कर्णं पाण्डवेन महात्मना ॥ ८.७६.३ ॥

婆罗多啊,众生见那位大弓箭手走来,便以为迦尔纳已被大士般advanced的般度之子所杀。

8.76.4

बभूवुर्विमलाः सर्वा दिशो राजन्समन्ततः ।
चाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर।
प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम् ॥ ८.७६.४ ॥

大王,四方之境到处变得清明。人主啊,那时鹈鴣、百羽鸟和鹤鸟绕着般度之子向右回旋。

8.76.5

बहवः पक्षिणो राजन्पुन्नामानः शुभाः शिवाः ।
त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे ॥ ८.७६.५ ॥

大王,许多名为补那摩的吉祥善良之鸟,形态欢喜,在战斗中催促阿周那,并鸣叫起来。

8.76.6

कङ्का गृध्रा बकाः श्येना वायसाश्च विशाम्पते ।
अग्रतस्तस्य गच्छन्ति भक्ष्यहेतोर्भयानकाः ॥ ८.७६.६ ॥

人主啊,鹭鸟、秃鹫、鹤、鹰和乌鸦,形貌可怖,为求食物,走在他的前面。

8.76.7

निमित्तानि च धन्यानि पाण्डवस्य शशंसिरे ।
विनाशमरिसैन्यानां कर्णस्य च वधं तथा ॥ ८.७६.७ ॥

般度之子出现了吉兆,预示敌军的覆灭,也预示迦尔纳将被杀死。

8.76.8

प्रयातस्याथ पार्थस्य महान्स्वेदो व्यजायत ।
चिन्ता च विपुला जज्ञे कथं चेदं भविष्यति ॥ ८.७६.८ ॥

当普利塔之子(阿周那)前行时,他浑身大汗,心中生起巨大的忧虑:“这将如何发生?”

8.76.9

विषण्णं तु ततो ज्ञात्वा सव्यसाचिनमच्युतः ।
सञ्चोदयति तेजस्वी मधुहा वानरध्वजम् ॥ ८.७६.९ ॥

知道萨维亚萨钦(阿周那)沮丧,那不坏的、光辉的杀摩度者(克里希那),其旗上有猴子,催促他前进。

8.76.10

ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः ।
दृष्ट्वा पार्थं तथायान्तं चिन्तापरिगतं तदा ॥ ८.७६.१० ॥

那时,摩度苏陀那对持甘提拔弓者说话,见普利塔之子如此前来,被忧虑所困。

8.76.11

गाण्डीवधन्वन्सङ्ग्रामे ये त्वया धनुषा जिताः ।
न तेषां मानुषो जेता त्वदन्य इह विद्यते ॥ ८.७६.११ ॥

持甘提拔弓者啊!凡你在战斗中以弓所胜之人,此间除你之外,再无凡人能胜过他们。

8.76.12

एते हि बहवः शूराः शक्रतुल्यपराक्रमाः ।
त्वां प्राप्य समरे शूरं प्रयाताः परमां गतिम् ॥ ८.७६.१२ ॥

这些勇力与因陀罗相等的众多英雄,在战场上遇到你这位英雄,已踏上了至高的归宿。

8.76.13

को हि द्रोणं च भीष्मं च भगदत्तं च मारिष ।
विन्दानुविन्दावावन्त्यौ काम्भोजं च सुदक्षिणम् ॥ ८.७६.१३ ॥

尊贵的君主啊,德罗纳、毗湿摩、婆伽陀,阿槃提的两位王子毗因达与阿努毗因达,以及憍萨罗的苏陀刹那——这些人中谁能阻挡他呢?

8.76.14

श्रुतायुं चाश्रुतायुं च शतायुं च महारथम् ।
प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वद्विधः प्रभुः ॥ ८.७६.१४ ॥

室鲁多由、阿室鲁多由,以及大车士舍多由——面对他们,若非如你一般强大之人,谁能得保平安?

8.76.15

तव ह्यस्त्राणि दिव्यानि लाघवं बलमेव च ।
असम्मोहश्च युद्धेषु विज्ञानस्य च सन्नतिः।
वेधः पातश्च लक्षेषु योगश्चैव तथार्जुन ॥ ८.७६.१५ ॥

阿周那啊,你拥有神圣的武器、敏捷与力量;在战斗中你不为迷惑所扰,精通所学,击中目标的准头与射箭的功夫皆具备。

8.76.16

भवान्देवान्सगन्धर्वान्हन्यात्सर्वांश्च राक्षसान् ।
पृथिव्यां तु रणे पार्थ न योद्धा त्वत्समः पुमान् ॥ ८.७६.१६ ॥

你在战场上能杀尽诸天、乾闼婆与一切罗刹。阿周那啊,大地之上,于战阵中无人能与你匹敌。

8.76.17

धनुर्गृह्मन्ति ये केचित्क्षत्रिया युद्धदुर्मदाः ।
आत्मनस्तु समं तेषां न पश्यामि शृणोमि च ॥ ८.७६.१७ ॥

凡持弓而在战阵中自负的刹帝利,我见不到一人与你相等,也未曾听闻。

8.76.18

ब्रह्मणा हि प्रजाः सृष्टा गाण्डीवं च महद्धनुः ।
येन त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः ॥ ८.७६.१८ ॥

梵天创造了众生,也造了大弓甘提婆,你以它作战;因此阿周那啊,无人能与你相比。

8.76.19

अवश्यं तु मया वाच्यं यत्पथ्यं तव पाण्डव ।
मावमंस्था महाबाहो कर्णमाहवशोभिनम् ॥ ८.७६.१९ ॥

般度之子啊,我必须说出对你有益的话。大臂者啊,不要轻视在战场上光辉的迦尔纳。

8.76.20

कर्णो हि बलवान्दृप्तः कृतास्त्रश्च महारथः ।
कृती च चित्रयोधी च देशकालस्य कोविदः ॥ ८.७६.२० ॥

迦尔纳确实强大、傲慢,精通武器,是大战车武士,有才能,是奇妙的战士,并且通晓时机与场合。

8.76.21

बहुनात्र किमुक्तेन संक्षेपाच्छृणु पाण्डव ।
त्वत्समं त्वद्विशिष्टं वा कर्णं मन्ये महारथम्।
परमं यत्नमास्थाय त्वया वध्यो महाहवे ॥ ८.७६.२१ ॥

在此多说有何益处?般度之子啊,请简要听我说。我认为迦尔纳是与你相当、甚至胜过你的大战车武士。你必须竭尽全力,在大战中杀死他。

8.76.22

तेजसा वह्निसदृशो वायुवेगसमो जवे ।
अन्तकप्रतिमः क्रोधे सिंहसंहननो बली ॥ ८.७६.२२ ॥

论光辉,他如火;论速度,与风的速度相当。论愤怒,他如死神;他强壮,身躯坚实如狮子。

8.76.23

अष्टरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्जयः ।
अभिमानी च शूरश्च प्रवीरः प्रियदर्शनः ॥ ८.७६.२३ ॥

他身高八肘,臂膀强壮,胸膛宽阔,极难战胜。他骄傲、勇敢,是大英雄,外貌令人喜爱。

8.76.24

सर्वयोधगुणैर्युक्तो मित्राणामभयङ्करः ।
सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः ॥ ८.७६.२४ ॥

他具备一切勇士的品质,是朋友们的无畏之源。他始终憎恨般度子孙,一心致力于持国之子的利益。

8.76.25

सर्वैरवध्यो राधेयो देवैरपि सवासवैः ।
ऋते त्वामिति मे बुद्धिस्तदद्य जहि सूतजम् ॥ ८.७६.२५ ॥

迦尔纳对所有人都不可杀,即使诸神与因陀罗一同,也是如此,我如此认为,除你之外。因此今日,你杀了那御者之子吧。

8.76.26

देवैरपि हि संयत्तैर्बिभ्रद्भिर्मांसशोणितम् ।
अशक्यः स रथो जेतुं सर्वैरपि युयुत्सुभिः ॥ ८.७६.२६ ॥

即使诸神,准备好战斗,并承载着血肉之躯,也无法战胜那位车战士,所有求战者也不能。

8.76.27

दुरात्मानं पापवृत्तं नृशंसं ।
दुष्टप्रज्ञं पाण्डवेयेषु नित्यम्।
हीनस्वार्थं पाण्डवेयैर्विरोधे ।
हत्वा कर्णं निश्चितार्थो भवाद्य ॥ ८.७६.२७ ॥

杀死迦尔纳——那个恶毒、行为有罪、残忍、对般度之子心怀邪念、在与般度之子的敌对中失去了自身真正利益的人——今日请坚定你的决心。

8.76.28

तं सूतपुत्रं रथिनां वरिष्ठं ।
निष्कालिकं कालवशं नयाद्य।
तं सूतपुत्रं रथिनां वरिष्ठं ।
हत्वा प्रीतिं धर्मराजे कुरुष्व ॥ ८.७६.२८ ॥

今日把那御者之子——车战士中的最优者——未至其时便送入时间之手吧。杀死那御者之子,车战士中的最优者,使法王欢喜吧。

8.76.29

जानामि ते पार्थं वीर्यं यथाव… ।
द्दुर्वारणीयं च सुरासुरैश्च।
सदावजानाति हि पाण्डुपुत्रा… ।
नसौ दर्पात्सूतपुत्रो दुरात्मा ॥ ८.७६.२९ ॥

我如实知道你的儿子般度之子(Pārtha)的勇力,即便诸神与阿修罗也无法抵挡。并非他总是轻视般度之子,而是这个恶毒的御者之子出于傲慢才如此。

8.76.30

आत्मानं मन्यते वीरं येन पापः सुयोधनः ।
तमद्य मूलं पापानां जहि सौतिं धनञ्जय ॥ ८.७६.३० ॥

因为他,邪恶的苏尤陀那自认为英雄,今日就击杀那罪恶之根,那御者之子吧,达难闍耶。

8.76.31

खङ्गजिह्वं धनुरास्यं शरदंष्ट्रं तरस्विनम् ।
दृप्तं पुरुषशार्दूलं जहि कर्णं धनञ्जय ॥ ८.७६.३१ ॥

杀死迦尔纳吧,他舌如利剑,口如弓,齿如箭,迅猛而傲慢,是人中之虎,达那阇耶啊。

8.76.32

अहं त्वामनुजानामि वीर्येण च बलेन च ।
जहि कर्णं रणे शूरं मातङ्गमिव केसरी ॥ ८.७६.३२ ॥

我允许你,凭勇力与力量,在战场上杀死英雄迦尔纳,如狮子杀象。

8.76.33

यस्य वीर्येण वीर्यं ते धार्तराष्ट्रोऽवमन्यते ।
तमद्य पार्थ सङ्ग्रामे कर्णं वैकर्तनं जहि ॥ ८.७६.३३ ॥

今日在战场上杀死毗迦尔坦之子迦尔纳吧,正是他,德兰陀罗之子倚仗其勇而轻视你的勇力,普利塔之子啊。