摩诃婆罗多 · 章 8.78
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.78.1
समागमे पाण्डवसृञ्जयानां ।
महाभये मामकानामगाधे।
धनञ्जये तात रणाय याते ।
कर्णेन तद्युद्वमथोऽत्र कीदृक् ॥ ८.७८.१ ॥
在般度子与萨伦阳的相遇之际,对于我的人民而言是巨大而深不可测的危险之时,当持财者(阿周那)前去作战时,他与迦尔纳的那场战斗是怎样的?
8.78.2
तेषामनीकानि महाध्वजानि ।
रणे समृद्धानि सुसङ्गतानि।
भेरीनिरादोन्मुखराण्यंगर्ज… ।
न्मेघा इव प्रावृषि मारुतास्ताः ॥ ८.७८.२ ॥
他们的军队,旗帜高大,在战场上强盛而阵列整齐,鼓声轰鸣,人声咆哮……如雨季中被风吹动的云团。
8.78.3
महागजाभ्राकुलमस्त्रतोयं ।
वादित्रनेमीतलशब्दवच्च।
हिरण्यचित्रायुधविद्युतं च ।
शरासिनाराचमहास्त्रधारम् ॥ ८.७८.३ ॥
如云的大象充满其中,兵器即是水,声如鼓边之响,闪耀着金饰多彩兵器的闪电,箭矢、剑与投枪如大雨倾注。
8.78.4
तद्भीमवेगं रुधिरौघवाहि ।
खङ्गाकुलं क्षत्रियजीवघाति।
अनार्तवं क्रूरमनिष्टवर्षं ।
बभूव संरम्भकरं प्रजानाम् ॥ ८.७८.४ ॥
那可怖的猛烈之势,流淌着血河,充满刀剑,夺取刹帝利战士的性命,成为一场不合时令、残酷而不祥的骤雨,在众人之中激起愤怒。
8.78.5
एकं रथं सम्परिवार्य मृत्युं ।
नयन्त्यनेके च रथाः समेताः।
एकस्तथैकं रथिनं रथाग्र्यां… ।
स्तथा रथश्चापि रथाननेकान् ॥ ८.७८.५ ॥
众多战车聚集,将一辆战车团团围住,引向死亡;同样,一位车战者在最好的战车上……(文本残缺),如此一辆战车也引领众多战车。
8.78.6
रथं ससूतं सहयं च कञ्चि… ।
त्कश्चिद्रती मृत्युवशं निनाय।
निनाय चाप्येकगजेन कश्चि… ।
द्रथान्बहून्मृत्युवशे तथाश्वान् ॥ ८.७८.६ ॥
某位车手连同战车、御者与马匹……送入死亡之手。另一人也用一头象将其送入死亡之手。他同样将许多战车和战马送入死亡之手。
8.78.7
रथान्ससूतान्सहयान्गजांश्च ।
सर्वानरीन्मृत्युवशं शरौघैः।
निन्ये हयांश्चैव तथा ससादी… ।
न्पदातिसङ्घांश्च तथैव पार्थः ॥ ८.७८.७ ॥
般度之子以箭雨将战车、御者、马匹、象和所有敌人送入死亡之手。他同样也将骑兵……和步兵群送入死亡之手。
8.78.8
कृपः शिखण्डी च रणे समेतौ ।
दुर्योधनं सात्यकिरध्यगच्छत्।
श्रुतश्रवा द्रोणपुत्रेण सार्धं ।
युधामन्युश्चित्रसेनेन सार्धम् ॥ ८.७८.८ ॥
克里帕与湿婆坎迪在战场上相遇。萨谛奇迎战难敌。施鲁塔什罗婆与德罗纳之子交战,优陀摩尼与支多犀那交战。
8.78.9
कर्णस्य पुत्रं तु रथी सुषेणं ।
समागतं सृञ्जयश्चोत्तमौजाः।
गान्धारराजं सहदेवोऽक्षधूर्तं ।
महर्षभं सिंह इवाभ्यधावत् ॥ ८.७८.९ ॥
然而迦尔纳之子苏shena作为车手挺身而出。斯林阇耶的优多摩阇也来了。偕天如狮子般扑向犍陀罗王,那位善掷骰的大公牛。
8.78.10
शतानीको नाकुलिः कर्णपुत्रं ।
युवा युवानं वृषसेनं शरौघैः।
समार्पयत्कर्णपुत्रश्च शूरः ।
पाञ्चालेयं शरवर्षैरनेकैः ॥ ८.७८.१० ॥
那库拉之子沙塔尼迦以箭雨送走了年轻的迦尔纳之子跋里沙塞那。英勇的迦尔纳之子则以多次箭雨压制了般遮罗王子。
8.78.11
रथर्षभः कृतवर्माणभार्च्छ… ।
न्माद्रीपुत्रो नकुलश्चित्रयोधी।
पाञ्चालानामधिपो याज्ञसेनिः ।
सेनापतिः कर्णमार्च्छत्ससैन्यम् ॥ ८.७८.११ ॥
车将中的雄牛……迦尔泰伐尔曼;摩德利之子那古拉,多技善战者,般遮罗之主,耶嗣那之子,统帅,率军攻击迦尔纳。
8.78.12
दुःशासनो भारत भारतं तु ।
व्यात्ताननं क्रूरमिवान्तकाभम्।
भीमं रणे शस्त्रभृतां वरिष्ठं ।
भीमं समार्च्छत्तमसह्यवेगम् ॥ ८.७८.१२ ॥
婆罗多啊,难降攻击了婆罗多:那张口大开、残暴如死神、在战斗中最优秀的持械者、令人恐惧的勇士,以难以抵挡的速度。
8.78.13
कर्णात्मजं तत्र जघान वीर… ।
स्तथाच्छिनच्चोत्तमौजाः प्रसह्य।
तस्योत्तमाङ्गं निपपात भूमौ ।
निनादयद्गां निनदेन खं च ॥ ८.७८.१३ ॥
英雄在那里……击杀了迦尔纳之子;同样,乌达玛吉斯以力斩断了他。他的头颅落地,其轰响使大地与天空回荡。
8.78.14
सुषेणशीर्षं पतितं पृथिव्यां ।
विलोक्य कर्णोऽथ तदार्तरूपः।
क्रोधाद्धयांस्तस्य रथं ध्वजं च ।
बाणैः सुधारैर्निशितैरकृन्तत् ॥ ८.७८.१४ ॥
迦尔纳见苏舍那之首落于地上,面容悲痛,怒火中烧,以锋利的箭矢斩断了他的马匹、战车和旗帜。
8.78.15
स तूत्तमौजा निशितैः पृषत्कै… ।
र्विव्याध खङ्गेन च भास्वरेण।
पार्ष्णिग्रहांश्चैव कृपस्य हत्वा ।
शिखण्डिवाहं स ततोऽध्यरोहत् ॥ ८.७८.१५ ॥
乌达玛吉斯以锋利的箭……又以闪亮的剑将他刺伤;杀死克里帕的车后护卫后,他随即登上了施坎迪的车驾。
8.78.16
कृपं तु दृष्ट्वा विरथं रथस्थो ।
नैच्छच्छरैस्ताडयितुं शिखण्डी।
तं द्रौणिरावार्य रथं कृपस्य ।
समुज्जहे पङ्कगतां यथा गाम् ॥ ८.७८.१६ ॥
Kṛpa 失去战车,站在自己战车上的 Śikhaṇḍin 不愿用箭射他。于是德罗纳之子掩护 Kṛpa 的战车,把他救起,如同扶起陷在泥中的母牛。
8.78.17
हिरण्यवर्मा निशितैः पृषत्कै… ।
स्तवात्मजानामनिलात्मजो वै।
अतापयत्सैन्यमतीव भीमः ।
काले शुचौ मध्यगतो यथाऽर्कः ॥ ८.७८.१७ ॥
风之子 Bhīma 身披金甲,以利箭……极力炙烤你儿子们的军队,如同酷热季节里悬于中天的太阳。