Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.80

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.80.1

र्नयाम्येतान्धार्तराष्ट्रान्यमाय ॥ ८.८०.१ ॥

我正将这些持国之子带往阎摩之处。

8.80.2

सञ्चोदितो भीमसेनेन चैवं ।
स सारथिः पुत्रबलं त्वदीयम्।
प्रायात्ततः सत्वरमुग्रवेगो ।
यतो भीमस्तद्बलं गन्तुमैच्छत् ॥ ८.८०.२ ॥

在怖军这样催促之下,那位御者以猛烈的速度迅速驱车奔向你子的军队,怖军正想冲向那支军队。

8.80.3

ततोऽपरे नागरथाश्वपत्तिभिः ।
प्रत्युद्ययुस्तं कुरवः समन्तात्।
भीमस्य वाहाग्र्यमुदारवेगं ।
समन्ततो बाणगणैर्निजघ्नुः ॥ ८.८०.३ ॥

于是其他俱卢战士率象兵、车兵、骑兵与步兵从四面八方迎上前来,用箭雨射击怖军那些上等而迅猛的良马。

8.80.4

ततः शरानापततो महात्मा ।
चिच्छेद बाणैस्तपीनयपुङ्खैः।
ते वै निपेतुस्तपनीयपुङ्खा ।
द्विधा त्रिधा भीमशरैर्निकृत्ताः ॥ ८.८०.४ ॥

于是那位大德用金羽之箭斩断了飞向他的箭;那些金羽之箭被怖军的箭斩为两段或三段,纷纷坠落。

8.80.5

ततो राजन्नागरथाश्वयूनां ।
भीमाहतानां वरराजमध्ये।
घोरो निनादः सुमहानभूत्तदा ।
वज्राहतानामिव पर्वतानाम् ॥ ८.८०.५ ॥

于是,大王啊,在被怖军击伤的诸位上等王者之中,象群、车队与马群中升起一阵可怖而巨大的喧嚣,犹如被霹雳击中的群山发出的轰鸣。

8.80.6

ते वध्यमानाश्च नरेन्द्रमुख्या ।
निर्भिद्यन्तो भीमशरप्रवेकैः।
भीमं समन्तात्समरेऽभ्यरोहन् ।
वृक्षं शकुन्ता इव पुष्पहेतोः ॥ ८.८०.६ ॥

那些被怖军锐利穿透之箭射中、正被杀戮的诸位首领王,在战场上从四面八方扑向怖军,犹如群鸟为了花朵而扑向树木。

8.80.7

ततोऽभियाते तव सैन्ये स भीमः ।
प्रादुश्चक्रे वेगमनन्तवेगः।
यथाऽन्तकाले क्षपयन्दिधक्षु… ।
र्भूतान्तकृत्काल इवात्तदण्डः ॥ ८.८०.७ ॥

当你的军队受到攻击时,速度无限的毗摩显示了他的速度,如同在末时持杖、欲焚烧而毁灭众生的死神迦罗……

8.80.8

तस्यातिवेगस्य रणेऽतिवेगं ।
नाशक्नुवन्धारयितुं त्वदीयाः।
व्यात्ताननस्यापततो यथैव ।
कालस्य काले हरतः प्रजा वै ॥ ८.८०.८ ॥

在战场上,你的战士无法阻挡这位极速者的极速,正如张口扑来、时候一到便攫取众生的时间。

8.80.9

ततो बलं भारत भारतानां ।
प्रदह्यमानं समरे महात्मना।
भीतं दिशोऽकीर्यत भीमनुन्नं ।
महानिलेनाभ्रगणा यथैव ॥ ८.८०.९ ॥

于是,婆罗多啊,婆罗多人的军队在战场上被大德的毗摩焚烧,惊恐地四散奔逃,如同被大风驱赶的云团。

8.80.10

ततो धीमान्सारथिमब्रवीद्बली ।
स भीमसेनः पुनरेव हृष्टः ॥ ८.८०.१० ॥

于是智慧而强大的毗摩森那再次欢喜地对他的御者说。

8.80.11

सूताभिजानीहि परान्स्वकान्वा ।
रथान्ध्वजांश्चापततः समेतान्।
युध्यन्ह्यहं नाभिजानामि किञ्चि… ।
न्मा सैन्यं स्वं छादयिष्ये प्रमत्तः ॥ ८.८०.११ ॥

御者啊!识别那些逼近聚集的,是敌人还是自己人,以及车辆与旌旗。我正在作战,什么也分辨不清……免得我疏忽之中,掩覆了自己的军队。

8.80.12

अरीन्विशोकान्हि निरीक्ष्य सर्वतो ।
महांश्च मन्युः पुनरेति मां भृशम्।
राजातुरो नागमद्यत्किरीटी ।
बहूनि दुःखान्यभिचिन्तयामि ॥ ८.८०.१२ ॥

看到四周的敌人,他们毫无忧愁,我的巨大愤怒一次次地向我袭来。因为国王忧心,戴冠者(阿周那)没有前往;我思虑着许多苦难。

8.80.13

एतद्दुःखं धारये धर्मराजो ।
यन्मां हित्वा यातवाञ्शत्रुमध्ये।
नैनं जीवं नाभिजानाम्यजीवं ।
बीभत्सुं वा तन्ममाद्यातिदुःखम् ॥ ८.८०.१३ ॥

法王承受着这份悲痛:他离开了我,进入了敌人之中。我不知道他是生是死,对毗跋蹉(阿周那)也一无所知;今日这对我来说极为痛苦。

8.80.14

सोऽहं द्विषत्सैन्यमुदग्रकल्पं ।
विनाशयिष्ये परमप्रतीतः।
एतन्निहत्याजिमध्ये समेतं ।
प्रीतो भविष्यामि सह त्वयाद्य ॥ ८.८०.१४ ॥

因此我满心欢喜地将摧毁这支看似强大的敌军。在战场中斩杀聚集的敌人之后,今日我将与你一同欢喜。

8.80.15

ह्याचक्ष्व मे सारथे क्षिप्रमेव ॥ ८.८०.१५ ॥

御者啊,请快快告诉我。

8.80.16

सर्वं विदित्वैवमहं वदामि ।
तवार्थसिद्धिप्रदमद्य वीर।
कैकेयकाम्भोजसुराष्ट्रबाह्लिका ।
म्लेच्छाश्च सुह्माः परतङ्कणाश्च। ॥ ८.८०.१६ ॥

知晓这一切,我如此说,这将使你今日的目的得以成就,啊英雄:凯柯耶人、钦浮人、苏拉什特拉人与巴赫利卡人,蛮夷、苏赫摩人与波罗丹甘那人。

8.80.17

मद्राश्च वङ्गा मगधाः कुणिन्दा ।
आनर्तकावर्तकाः पार्वतीयाः।
सर्वे गृहीतप्रवरायुधास्त्वां ।
संवेष्ट्य संवेष्ट्य ततो विवेदुः ॥ ८.८०.१७ ॥

摩德罗人、盎伽人、摩揭陀人、俱尼陀人、阿那尔多人、阿伐尔多人以及山地民族,都手持上好的兵器,一次次地包围你,然后发起进攻。

8.80.18

रथे तवास्मिन्निशिताः सुपीता… ।
स्ततो भल्ला द्वादश वै सहस्राः।
षण्मार्गणानामयुतानि वीर ।
क्षुराश्च भल्लाश्च तथायुताख्याः ॥ ८.८०.१८ ॥

在你的这辆战车上,有锋利而淬炼良好的……;然后有一万二千支钩头箭,啊英雄,一万支六杆箭,剃刀头箭和钩头箭,同样还有一万支名为阿尤塔的箭。

8.80.19

नाराचानां द्वे सहस्रे च वीर ।
त्रीण्येप च प्रदराणां स्म पार्थ।
अस्त्यायुधं पाण्डवेयावशिष्टं ।
न यद्वहेच्छकटं षङ्गवीयम् ॥ ८.८०.१९ ॥

两千支那罗遮箭,啊英雄,三千支普罗达拉箭,啊普利塔之子。啊般度之子,剩下的兵器多到连六头牛拉的车也拉不动。

8.80.20

एतद्विद्वन्मुञ्च सहस्रशोऽपि ।
गदासिबाहुद्रविणं च तेऽस्ति।
प्रासाश्च मुद्रराः शक्तयस्तोमराश्च ।
माभैषीस्त्वं संक्षयादायुधानाम् ॥ ८.८०.२० ॥

啊智者,成千上万地射出它们吧;你拥有棍棒、剑与弓这些财富,还有长矛、铁锤、枪和投枪。不要害怕兵器耗尽。

8.80.21

तन्मे देवाः सकलं साधयन्तु ॥ ८.८०.२१ ॥

愿诸神为我成就这一切。

8.80.22

सूताद्य मद्बाहुयुतैः समस्ता… ।
न्समाहनद्भिः पार्थिवानाशुवेगैः।
च्छन्नं बाणैराहवं घोररूपं ।
नष्टादित्यं मृत्युलोकेन तुल्यम् ॥ ८.८०.२२ ॥

御者啊,今日我以双臂之力,将所有……诸王以疾速之箭击杀,使这座被箭矢遮蔽、形貌可怖的战场,如日落之后的死亡世界一般。

8.80.23

अद्यैतद्यै विदितं पार्थिवानां ।
भविष्यति ह्याकुमारं च सूत।
निमग्नो वा समरे भीमसेन ।
एकः कुरून्वा समरे व्यजैषीत् ॥ ८.८०.२३ ॥

御者啊,今日这将为诸王乃至孩童所知:婆罗多的毗摩森那是否会沉没于战斗,还是独自在战争中征服库鲁族。

8.80.24

सर्वे सङ्ख्ये कुरवो निष्पतन्तु ।
मां वा लोकाः कीर्तयन्त्वाकुमारम्।
सर्वानेकस्तानहं पातयिष्ये ।
ते वा सर्वे भीमसेनं तुदन्तु ॥ ८.८०.२४ ॥

愿诸库鲁族在战场上一齐扑向我,或愿世人一直到孩童都歌颂我的名声;我独自将击倒他们所有人,或他们都来攻击毗摩森那。

8.80.25

आशास्तारः कर्म चाप्युत्तमं ये ।
तन्मे देवाः सफलं साधयन्तु।
आयातीह केशवसारथी रथी ।
शक्रस्तूर्णं यज्ञ इवोपहूतः ॥ ८.८०.२५ ॥

愿诸神使我之最上之业成就,正如期待者所愿。看,克沙婆作为御者来到此处,战车勇士迅速而来,如同被请至祭祀的因陀罗。

8.80.26

ईक्षस्वैतां भारतीं दीर्यमाणा… ।
मेते कस्माद्विद्रवन्ते नरेन्द्राः।
व्यक्तं धीमान्सव्यसाची नराग्र्यः ।
सैन्यं ह्येतच्छादयत्याशु बाणैः ॥ ८.८०.२६ ॥

看,这婆罗多之军正被撕裂……这些人王为何在我面前逃窜?无疑是智慧的萨维亚萨钦,人中之最——阿周那,正以箭矢迅速遮蔽此军。

8.80.27

पश्य ध्वजांश्च द्रवतो विशोक ।
नागान्हयान्पत्तिसङ्घांश्च सङ्ख्ये।
रथान्विकीर्णाञ्शरशक्तिताडिता… ।
न्पश्यस्वैतान्रथिनश्चैव सूत ॥ ८.८०.२७ ॥

视向,毗首迦,看那逃散的旗帜,战场上溃散的象群、马群与步兵阵列;看那些被箭矢和投枪击中而散乱的战车,还有这些车手,御者啊。

8.80.28

आपूर्यते कौरवी चाप्यभीक्ष्णं ।
सेना ह्यसौ सुभृशं हन्यमाना।
धनञ्जयस्याशनितुल्यवेगै… ।
र्ग्रस्ता शरैः काञ्चनबर्हजालैः ॥ ८.८०.२८ ॥

俱卢军不断被填满;那支军队遭受财主(阿周那)雷霆般迅猛的打击,被金羽箭织成的罗网所困……。

8.80.29

एते द्रवन्ति स्म रथाश्वनागाः ।
पदातिसङ्घानतिमर्दयन्तः।
सम्मुह्यमानाः कौरवाः सर्व एव ।
द्रवन्ति नागा इव दाहभीताः ॥ ८.८०.२९ ॥

这些战车、马与象纷纷逃窜,践踏着步兵阵列;所有迷乱的俱卢人如同被火惊吓的象群一般奔逃。

8.80.30

हाहाकृताश्चैव रणे विशोक ।
मुञ्चन्ति नादान्विपुलान्गजेन्द्राः ॥ ८.८०.३० ॥

毗首迦啊,这些大象在战场上发出“哎呀”的哀鸣,长声嘶吼。

8.80.31

किं भीम नैनं त्वमिहाशृणोषि ।
विस्फारितं गाण्डिवस्यातिघोरम्।
क्रुद्धेन पार्थेन विकृष्यतोऽद्य ।
कच्चिन्नेमौ तव कर्णौ विनष्टौ ॥ ८.८०.३१ ॥

毗摩啊,你在这里竟听不到吗?愤怒的普利塔之子今日拉开的甘提婆弓,发出了何等可怖的弦响!难道你的两只耳朵已经坏了吗?

8.80.32

सर्वे कामाः पाण्डव ते समृद्धाः ।
कपिर्ह्यसौ दृश्यते हस्तिसैन्ये।
नीलाद्धनाद्विद्युतमुच्चरन्तीं ।
तथा पश्य विस्फुरन्तीं धनुर्ज्याम् ॥ ८.८०.३२ ॥

般度之子啊,你的所有愿望都已实现。那只猴子在象军中清晰可见。看那弓弦颤动,如同闪电从乌云中迸出。

8.80.33

कपिर्ह्यसौ वीक्षते सर्वतो वै ।
ध्वजाग्रमारुह्य धनञ्जयस्य।
वित्रासयन्रि पुसङ्घान्विमर्दे ।
बिभेम्यस्मादात्मनैवाभिवीक्ष्य ॥ ८.८०.३३ ॥

那只猴子四面张望。它登上阿周那的旗杆之顶,在战斗的拥挤中惊吓敌军的各群。望见它,我自己也感到恐惧。

8.80.34

विभ्राजते चातिमात्रं किरीटं ।
विचित्रमेतच्च धनञ्जयस्य।
दिवाकराभो मणिरेष दिव्यो ।
विभ्राजते चैव किरीटसंस्थः ॥ ८.८०.३४ ॥

阿周那的冠冕光辉极盛,何等奇妙。这颗如太阳般明亮的神圣宝珠,镶在冠冕之上,熠熠生辉。

8.80.35

पार्श्वे भीमं पाण्डुराभ्रप्रकाशं ।
पश्यस्व सङ्खं देवदत्तं सुघोषम्।
अभीषुहस्तस्य जनार्दनस्य ।
विगाहमानस्य चमूं परेषाम् ॥ ८.८०.३५ ॥

旁边看那名为提婆达多的螺号,可怖,光如白云,声音美妙。手持缰绳的遮那陀那冲入敌军之中。

8.80.36

रविप्रभं वज्रनाभं क्षुरान्तं ।
पार्श्वे स्थितं पश्य जनार्दनस्य।
चक्रं यशोवर्धनं केशवस्य ।
सदार्चितं यदिभिः पश्य वीर ॥ ८.८०.३६ ॥

英雄啊,看那侧旁立着的遮那陀那之轮,光如太阳,轮毂如金刚,边缘如剃刀;这增添克舍婆光荣的轮宝,向来受人敬奉。

8.80.37

महाद्विपानां सरलद्रुमोपमाः ।
करा निकृत्ताः प्रपतन्त्यमी क्षुरैः।
किरीटिना तेन पुनः ससादिनः ।
शरैर्निकृत्ताः कुलिशैरिवाद्रयः ॥ ८.८०.३७ ॥

大象的象鼻如同笔直的树木,被这些利刃箭斩断坠落。那戴冠者又以箭将其与御者一同射断,如同山岳被雷电劈裂。

8.80.38

तथैव कृष्णस्य च पाञ्चजन्यं ।
महार्हमेतं द्विजराजवर्णम्।
कौन्तेय पश्योरसि कौस्तुभं च ।
जाज्वल्यमानं विजयां स्रजं च ॥ ८.८०.३८ ॥

同样,看那克里希那极为珍贵的般遮难耶贝壳,其色如月。昆提之子啊,也看看他胸前闪耀的考斯图巴宝石和胜利花环。

8.80.39

ध्रवं रथाग्र्यः समुपैति पार्थो ।
विद्रावयन्सैन्यमिदं परेषाम्।
सिताभ्रवर्णैरसितप्रयुक्तै… ।
र्हयैर्महार्है रथिनां वरिष्ठः ॥ ८.८०.३९ ॥

第一的车战勇士普利塔之子必定正在前来,驱散敌军,他的骏马珍贵,色白如云,系着黑色缰绳,是最好的御者。

8.80.40

रथान्हयान्पत्तिगणांश्च सायकै… ।
र्विदारितान्पश्य पतन्त्यमी यथा।
तवानुजेनामरराजतेजसा ।
महावनानीव सुपर्णवायुना ॥ ८.८०.४० ॥

看,那些被箭撕裂的战车、战马和步兵队列纷纷倒下,如同大森林被金翅鸟的风吹倒一般,那是你的弟弟以天帝之威所为。

8.80.41

चतुः शतान्पश्य रथानिमान्हतान् ।
सवाजिसूतान्समरे किरीटिना।
महेषुभिः सप्तशतानि दन्तिनां ।
पदातिसादींश्च रथाननेकशः ॥ ८.८०.४१ ॥

看,在战斗中,那戴冠者以大箭杀死了这四百辆战车及其马匹和御者;以大箭杀死七百头象,步兵与骑兵,以及许多战车。

8.80.42

अयं समभ्येति तवान्तिकं बली ।
निघ्नन्कुरूंश्चित्र इव ग्रहोऽर्जुनः।
समृद्धकामोऽसि हतास्तवाहिता ।
बलं तवायुश्च चिराय वर्धताम् ॥ ८.८०.४२ ॥

这位强大的阿周那正向你靠近,击杀俱卢族人,如同奇异的星辰。你的愿望已经实现,你的敌人已被杀死。愿你的力量与寿命长久增长。

8.80.43

ददानि ते ग्रामवरांश्चतुर्दश ।
प्रियाख्याने सारथे सुप्रसन्नः।
दासीशतं चापि रथांश्च विंशतिं ।
यदर्जुनं वेदयसे विशोक ॥ ८.८०.४३ ॥

车夫啊,你带来这喜讯,我非常欢喜;我将赐你十四个上好的村庄、一百名婢女和二十辆战车,因为你报告了阿周那的消息,Viśoka啊。