摩诃婆罗多 · 章 8.81
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.81.1
श्रुत्वा तु रथनिर्घोषं सिंहनादं च संयुगे ।
अर्जुनः प्राह गोविन्दं शीघ्रं वाहय वाजिनः ॥ ८.८१.१ ॥
阿周那在战场上听到战车的隆隆声和狮子般的吼声,对哥文达说:“快驱马前进。”
8.81.2
अर्जुनस्य वचः श्रुत्वा गोविन्दोऽर्जुनमब्रवीत् ।
एष गच्छामि सुक्षिप्रं यत्र भीमो व्यवस्थितः ॥ ८.८१.२ ॥
哥文达听了阿周那的话,对阿周那说:“我这就飞快地前往比摩所在之处。”
8.81.3
तं यान्तमश्वा हिमशङ्खवर्णाः ।
सुवर्णमुक्तामणिजालनद्धाः।
जम्भं जिघांसुं प्रगृहीतवज्रं ।
हया यथा तत्र यथा वहंस्तदा ॥ ८.८१.३ ॥
那些雪白如贝壳色的马,系着金、珠、宝石编成的网,拉着那辆战车前行,仿佛载着一位举起金刚杵、欲杀死闍婆的人。
8.81.4
रथाश्वमातङ्गपदातिसङ्घा ।
बाणस्वनैर्नेमिखुरस्वनैश्च।
सन्नादयन्तो वसुधां दिशश्च ।
क्रुद्धा नृसिंहा जयमभ्युदीयः ॥ ८.८१.४ ॥
战车、战马、象兵与步兵的队伍,以箭矢的嗖嗖声与车轮、蹄子的轰鸣震动大地和四方,愤怒的人中狮子们向胜利挺进。
8.81.5
तेषां च पार्थस्य च मारिषासी… ।
द्देहासुपापक्षपणं सुयुद्धम्।
त्रैलोक्यहेतोरसुरैर्यथासी… ।
द्देवस्य विष्णोर्जयतां वरस्य ॥ ८.८१.५ ॥
在他们与帕尔塔之间,啊,主人,……发生了一场毁灭罪人生命的惨烈大战,如同昔日为三界而与阿修罗的战争一般,如同至高胜者神毗湿奴的战斗……
8.81.6
तैरस्तमुच्चावचमायुधं त… ।
देकः प्रचिच्छेद किरीटमाली।
क्षुरार्धचन्द्रैर्निशितैश्च भल्लैः ।
शिरांसि तेषां बहुधा च बाहून् ॥ ८.८१.६ ॥
冠饰花环的阿周那独自一人斩断了他们各式高低的兵器;以锋利的剃刀箭、半月箭和长矛箭,他多方斩断了他们的头颅与手臂。
8.81.7
छत्राणि वालव्यजनानि केतू… ।
नश्वान्रथान्पत्तिगणान्द्विपांश्च।
ते पेतुरुर्व्यां बहुधा विकृत्ता ।
वातप्रणुन्नानि यथा वनानि ॥ ८.८१.७ ॥
华盖、牦牛尾拂、旗幡、象、马、车、步兵队伍与象——被多方斩断,纷纷倒在大地上,如同被风吹倒的森林。
8.81.8
सुवर्णजालावनता महागजाः ।
सवैजयन्तीध्वजयोधकल्पिताः।
सुवर्णपुङ्घैरिषुभिः समाचिता… ।
शकाशिरे प्रज्वलिता यथाचलाः ॥ ८.८१.८ ॥
大象被金网压弯,饰以胜利旗幡与战士,布满金羽之箭,如燃烧的山岳般倒卧。
8.81.9
विदार्य नागाश्वरथान्धञ्जयः ।
शरोत्तमैर्वासववज्रसन्निभैः।
द्रुतं ययौ कर्णजिघांसया तथा ।
यथा मरुत्वान्बलभेदने पुरा ॥ ८.८१.९ ॥
以如因陀罗金刚杵般的上好箭矢撕裂象、马与车,他怀着杀死迦尔纳的愿望迅速疾驰,正如往昔摩偻婆(因陀罗)前去击破阿修罗跋罗。
8.81.10
ततः स पुरुषव्याघ्रस्तव सैन्यमरिन्दमः ।
प्रविवेश महाबाहुर्मकरः सागरं यथा ॥ ८.८१.१० ॥
那位人中虎、克敌者、大臂者随即冲入你的军队,如摩羯鱼没入大海。
8.81.11
तं हृष्टास्तावका राजन्रथपत्तिसमन्विताः ।
गजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन् ॥ ८.८१.११ ॥
君王啊,你的士兵欢欣鼓舞,携同战车与步兵,以及众多象、马与骑士,向般度之子冲去。
8.81.12
तेषामापततां पार्थमारावः सुमहानभूत् ।
सागरस्येव क्षुब्धस्य यथा स्यात्सलिलस्वनः ॥ ८.८१.१२ ॥
他们向帕尔塔冲去时,爆发出巨大的喧嚣,如同激荡的大海发出的水声。
8.81.13
ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः ।
अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा प्राणकृतं भयम् ॥ ८.८१.१३ ॥
那些大车战士如虎一般,在战场上冲向那人中之虎,抛弃了对性命的恐惧。
8.81.14
तेषामापततां तत्र शरवर्षाणि मुञ्चताम् ।
अर्जुनो व्यधमत्सैन्यं महावातो घनानिव ॥ ८.८१.१४ ॥
在那里,阿周那驱散了他们的军队——他们向他冲来,倾泻箭雨,正如大风驱散云朵。
8.81.15
तेऽर्जुनं सहिता भूत्वा रथवंशैः ग्रहारिणः ।
अभियाय महेष्वासा विव्यधुर्निशितैः शरैः ॥ ८.८१.१५ ॥
那些大弓手与车阵会合,向阿周那逼近,并以利箭射穿了他。
8.81.16
ततोऽर्जुनः सहस्राणि रथवारणवाजिनाम् ।
प्रेषयामास विशिखैर्यमस्य सदनं प्रति ॥ ८.८१.१६ ॥
于是阿周那以箭将成千上万的战车、象与马送往阎摩的居所。
8.81.17
ते वध्यमानाः समरे पार्थचापच्युतैः शरैः ।
तत्रतत्र स्म लीयन्ते भये जाते महारथाः ॥ ८.८१.१७ ॥
在战场上被从般度之子的弓中射出的箭所击中,大车战士们生出恐惧,便四处躲藏。
8.81.18
तेषां चतुःशतान्वीरान्यतमानान्महारथान् ।
अर्जुनो निशितैर्बाणैरनयद्यमसादनम् ॥ ८.८१.१८ ॥
阿周那以锐利的箭,将其中奋战的四百名英雄大车战士送往阎摩之处。
8.81.19
ते वध्यमानाः समरे नानालिङ्गैः शितैः शरैः ।
अर्जुनं समभित्यज्य दुद्रुवुर्वै दिशो दश ॥ ८.८१.१९ ॥
在战场上被多种标记的锐利箭矢射中,他们完全抛弃了阿周那,向十方逃散。
8.81.20
तेषां शब्दो महानासीद्द्रवतां वाहिनीमुखे ।
मेघौघस्येव भद्रं ते गिरिमासाद्य दीर्यतः ॥ ८.८१.२० ॥
他们在军前奔逃时发出巨大的声响,如同云雨之流撞上山岳而爆裂的轰鸣。愿您安好。
8.81.21
तां तु सेनां भृशं विद्ध्वा द्रावयित्वाऽर्जुनः शरैः ।
प्रायादभिमुखः पार्थः सूतानीकं हि मारिष ॥ ८.८१.२१ ॥
阿周那重创那支军队,以箭使其溃逃,然后正面向御者大军前进,尊者啊。
8.81.22
तस्य शब्दो महानासीत्परानभिमुखस्य वै ।
गरुडस्येव पततः पन्नगार्थे यथा पुरा ॥ ८.८१.२२ ॥
他面向敌人前进时,发出巨大的声响,如同往昔金翅鸟为捕蛇而猛扑时的声音。
8.81.23
तं तु शब्दमभिश्रुत्य भीमसेनो महाबलः ।
बभूव परमप्रीतः पार्थदर्शनलालसः ॥ ८.८१.२३ ॥
闻其声,大力的婆罗多人毗摩逊那大喜,渴望见到帕尔塔(阿周那)。
8.81.24
श्रुत्वैव पार्थमायान्तं भीमसेनः प्रतापवान् ।
त्यक्त्वा प्राणान्महाराज सेनां तव ममर्द ह ॥ ८.८१.२४ ॥
闻帕尔塔(阿周那)将至,勇猛的毗摩逊那,大王啊,便置生死于不顾,摧毁了你的军队。
8.81.25
स वायुवीर्यप्रतिमो वायुवेगसमो जवे ।
वायुवद्व्यचरद्भीमो वायुपुत्रः प्रतापवान् ॥ ८.८१.२५ ॥
其威力与风相当,速度与风相等,勇猛的毗摩,风神之子,如风一般疾行。
8.81.26
तेनाद्यमाना राजेन्द्र सेना तव विशाम्पते ।
व्यभ्रश्यत महाराज भिन्ना नौरिव सागरे ॥ ८.८१.२६ ॥
被他击中,王中之王啊,人主啊,大王,你的军队四散溃败,如同海上破碎的船只。
8.81.27
तां तु सेनां तदा भीमो दर्शयन्पाणिलाघवम् ।
शरैरवचकर्तोग्रैः प्रेपयिष्यन्यमक्षयम् ॥ ८.८१.२७ ॥
于是毗摩显示手上的敏捷,以猛烈的箭将那支军队斩杀,仿佛要将其送往阎摩之地。
8.81.28
तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम् ।
व्यत्रस्यन्त रणे योधाः कालस्येव युगक्षये ॥ ८.८१.२८ ॥
婆罗多之裔啊,在那里,见毗摩超人的力量,战场上的武士惊恐万分,犹如在劫末之时见到时间本身。
8.81.29
तथाऽर्दितान्भीमबलान्भीमसेनेन भारत ।
दृष्ट्वा दुर्योधनो राजा इदं वचनमब्रवीत् ॥ ८.८१.२९ ॥
婆罗多啊,见到婆罗多的勇士们被怖军如此折磨,国王难敌说出了这些话。
8.81.30
सैनिकांश्च महेष्वासान्योधांश्च भरतर्षभ ।
समादिशन्रणे सर्वान्हत भीममिति स्म ह ॥ ८.८१.३० ॥
婆罗多族中的雄牛啊,他在战场上命令所有士兵、大弓箭手和战士:"杀死怖军!"
8.81.31
तस्मिन्हते हतं मन्ये पाण्डुसैन्यमशेषतः ॥ ८.८१.३१ ॥
若他被杀,我想般度的全部军队便完全被杀尽了。
8.81.32
प्रतिगृह्य च तामाज्ञां तव पुत्रस्य पार्थिवाः ।
भीमं प्रच्छादयामासुः शरवर्षैः समन्ततः ॥ ८.८१.३२ ॥
诸王接受了你儿子的命令,从四面以箭雨遮蔽了怖军。
8.81.33
गजाश्च बहुला राजन्नराश्च जयगृद्धिनः ।
रथे स्थिताश्च राजेन्द्र परिवव्रुर्वृकोदरम् ॥ ८.८१.३३ ॥
大王啊,众多渴望胜利的象兵和士兵,以及立于战车上的战士,诸王之王啊,包围了狼腹(怖军)。
8.81.34
स तैः परिवृतः शूरैः शूरो राजन्समन्ततः ।
शुशुभे भरतश्रेष्ठो नक्षत्रैरिव चन्द्रमाः ॥ ८.८१.३४ ॥
大王啊,那位婆罗多族最优秀的英雄被那些勇士从四面环绕,光彩如同被星辰环绕的月亮。
8.81.35
परिवेषी यथा सोमः परिपूर्णो विराजते ।
स रराज तथा सङ्ख्ये दर्शनीयो नरोत्तमः।
निर्विशेषो महाराज विजयेनैव संयुगे ॥ ८.८१.३५ ॥
如同被光环环绕的满月般光辉,他在战斗中光彩照人,令人瞩目,是人中之杰。大王啊,唯凭胜利,他在战场上无与伦比。
8.81.36
तस्य ते पार्थिवाः सर्वे शरवृष्टिं समासृजन् ।
क्रोधरक्तेक्षणाः शूरा हन्तुकामा वृकोदरम् ॥ ८.८१.३६ ॥
众王向他倾泻箭雨,那些怒目赤红的勇士,欲杀狼腹(Vṛkodara)。
8.81.37
तां विदार्य महासेनां शरैः सन्नतपर्वभिः ।
निश्चक्राम रणाद्भीमो मत्स्यो जालादिवाम्भसि ॥ ८.८१.३७ ॥
他以关节弯曲的箭穿透那支大军,怖军(Bhīma)从战场中脱身而出,犹如水中之鱼脱离渔网。
8.81.38
हत्वा दशसहस्राणि गजानामनिवर्तिनाम् ।
नृणां शतसहस्रे द्वे द्वे शते चैव भारत ॥ ८.८१.३८ ॥
婆罗多啊,他杀死了不退缩的一万头象,以及二十二万人。
8.81.39
पञ्च चाश्वसहस्राणि रथानां शतमेव च ।
हत्वा प्रास्यन्दयद्भीमो नदीं शोणितवाहिनीम् ॥ ८.८१.३९ ॥
怖军杀死五千匹马和一百辆车,使一条血流之河奔涌而出。
8.81.40
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् ।
नरमीनाश्वनक्रान्तां केशशैवलशाद्वलाम् ॥ ८.८१.४० ॥
血为其水,战车为其漩涡,满是象形鳄鱼,人为鱼,马为鳄,发为水藻与青草的河流。
8.81.41
सञ्छिन्नभुजनागेन्द्रां बहुरत्नापहारिणीम् ।
ऊरुग्राहां मज्जपङ्कां शीर्षोपलसमावृताम् ॥ ८.८१.४१ ॥
一条河,满是断了鼻子和手臂的大象,卷走许多珠宝,以大腿为鳄鱼,以骨髓为泥浆,被作为石头的头颅所覆盖。
8.81.42
धनुःकाशां शरावापां गदापरिघकेतनाम् ।
हंसछत्रध्वजोपेतामुष्णीषवरफेनिलाम् ॥ ८.८१.४२ ॥
一条河,弓为芦苇,箭为播种之地,以钉棒与铁杵为旗帜,饰有天鹅伞与旌旗,被最好的头巾激起泡沫。
8.81.43
हारपद्माकरां चैव भूमिरेणूर्मिमालिनीम् ।
आर्यवृत्तवतीं सङ्ख्ये सुतरां भीरुदुस्तराम् ॥ ८.८१.४३ ॥
一片由项链构成的莲池,被大地尘埃的波浪环绕,在战斗中有高贵的行为,对勇士极易,对怯懦者难以渡过。
8.81.44
योधग्राहवतीं सङ्ख्ये वहन्तीं पितृसादनम् ।
क्षणेन पुरुषव्याघ्रः प्रावर्तयत निम्नगाम् ॥ ८.८१.४४ ॥
在战斗中,那位人中之虎顷刻间使这条以战士为鳄鱼、通往祖先居所的河流奔涌起来。
8.81.45
यथा वैतरणीमुग्रां दुस्तरामकृतात्मभिः ।
तथा दुस्तरणीं घोरां भीरूणां भयवर्धनीम् ॥ ८.८१.४५ ॥
正如凶猛的吠陀罗尼河对未修身者难以渡过,这条可怖的河流也难以渡过,增加怯懦者的恐惧。
8.81.46
यतोयतः पाण्डवेयः प्रविष्टो रथसत्तमः ।
ततस्ततः प्रापतन्वै योधाः शतसहस्रशः ॥ ८.८१.४६ ॥
般度之子,最优秀的车战士,无论进入何处,那里的战士便成百上千地向他扑来。
8.81.47
एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे ।
दुर्योधनो महाराज शकुनिं वाक्यमब्रवीत् ॥ ८.८१.४७ ॥
大王,杜尔敉陀那见毗摩森那在战中所为,便对沙恭尼说了这些话。
8.81.48
जहि मातुल सङ्ग्रामे भीमसेनं महाबलम् ।
अस्मिञ्जिते जितं मन्ये पाण्डवेयं महाबलम् ॥ ८.८१.४८ ॥
舅舅,请在战中杀死大力的毗摩森那。我想,他一旦被征服,大力的般度之子也就被征服了。
8.81.49
ततः प्रायान्महाराज सौबलेयः प्रतापवान् ।
रणाय महते युक्तो भ्रातृभिः परिवारितः ॥ ८.८१.४९ ॥
大王,于是威勇的苏波罗之子被兄弟们环绕,准备好大战,向前而去。
8.81.50
स समासाद्य सङ्ग्रामे भीमं भीमपराक्रमम् ।
वारयामास तं वीरो वेलेव मकरालयम् ॥ ८.८१.५० ॥
那位英雄在战中迎上了威力可怖的毗摩,像海岸阻挡大海一样将他拦住。
8.81.51
सन्न्यवर्तत तं भीमो वार्यमाणः शितैः शरैः ।
शकुनिस्तस्य राजेन्द्र वामपार्श्वे स्तनान्तरे।
प्रेषयामास नाराचान्रुक्मपुङ्खाञ्शिलाशितान् ॥ ८.८१.५१ ॥
毗摩被他拦住,在利箭之下退了回去。王中之王啊,沙恭尼向他的左侧、胸中间射出以石磨利、饰有金羽的铁箭。
8.81.52
वर्म भित्त्वा तु ते घोराः पाण्डवस्य महात्मनः ।
न्यम़ञ्जन्त महाराज कङ्कबर्हिणवाससः ॥ ८.८१.५२ ॥
大王啊,那些可怖的箭穿透了大德般度之子的铠甲,以白鹭与孔雀的羽毛装饰,深深陷入其中。
8.81.53
सोऽतिविद्धो रणे भीमः शरं रुक्मविभूषितम् ।
प्रेषयामास स रुषा सौबलं प्रति भारत ॥ ८.८१.५३ ॥
婆罗多的后裔啊,在战场上身受重伤的怖军怒气冲冲地向苏跋罗之子射出一支饰以黄金的箭。
8.81.54
तमायान्तं शरं घोरं शकुनिः शत्रुतापनः ।
चिच्छेद सप्तधा राजन्कृतहस्तो महाबलः ॥ ८.८१.५४ ॥
大王啊,那令敌人痛苦、手法娴熟、力大无穷的沙恭尼,将飞向自己的那支可怕的箭斩成了七段。
8.81.55
तस्मिन्निपतिते भूमौ भीमः क्रुद्धो विशाम्पते ।
धनुश्छिच्छेद भल्लेन सौबलस्य हसन्निव ॥ ८.८१.५५ ॥
民众之主啊,他倒在地上后,愤怒的怖军仿佛笑着,用一支钵罗箭斩断了苏跋罗之子的弓。
8.81.56
तदपास्य धनुश्छिन्नं सौबलेयः प्रतापवान् ।
अन्यदादाय वेगेन धनुर्भल्लांश्च षोडश।
तैस्तस्य तु महाराज भल्लैः सन्नतपर्वभिः ॥ ८.८१.५६ ॥
于是,勇猛的苏跋罗之子扔掉断弓,迅速取来另一张弓和十六支钵罗箭;大王啊,他用那些带有弯曲节的钵罗箭……
8.81.57
द्वाभ्यां स सारथिं ह्यार्च्छद्भीमं सप्तभिरेव च ।
ध्वजमेकेन चिच्छेद द्वाभ्यां छत्रं विशाम्पते।
चतुर्भिश्चतुरो वाहान्विव्याध सुबलात्मजः ॥ ८.८१.५७ ॥
他用两支箭射中怖军的御者,又用七支;民众之主啊,一支射断旗帜,两支射断华盖;苏跋罗之子又用四支射穿了四匹马。
8.81.58
ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् ।
शक्तिं चिक्षेप समरे रुक्मदण्डामयस्मयीम् ॥ ८.८१.५८ ॥
大王啊,那时愤怒而勇猛的怖军在战斗中掷出了一支铁制的长矛,矛柄以黄金装饰。
8.81.59
सा भीमभुजनिर्मुक्ता नागजिह्वेन चञ्चला ।
निपपात रणे तूर्णं सौबलस्य महात्मनः ॥ ८.८१.५९ ॥
那柄从婆罗末的手臂中掷出、如蛇信般颤动的标枪,在战场上迅速落在了大德的苏巴拉之子身上。
8.81.60
ततस्तामेव संगृह्य शक्तिं कनकभूषणाम् ।
भीमसेनाय चिक्षेप क्रुद्धरूपो विशाम्पते ॥ ८.८१.६० ॥
于是他握起那柄饰以黄金的标枪,怒容满面,向婆罗末掷去,啊,人民之主。
8.81.61
सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः ।
निपपात तदा भूमौ यथा विद्युन्नभश्च्युता ॥ ८.८१.६१ ॥
它刺穿了大德般度之子的左臂,随即如从天空坠落的闪电,落在地上。
8.81.62
अथोत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततः ।
न तु तं ममृषे भीमः सिंहनादं तरस्विनाम् ॥ ८.८१.६२ ॥
于是,大王啊,持国之子们从四面八方发出欢呼,但婆罗末无法忍受那些勇士的狮吼。
8.81.63
अन्यद्गृह्य धनुः सज्यं त्वरमाणो महाबलः ।
मुहूर्तादिव राजेन्द्र च्छादयामास सायकैः।
सौबलस्य बलं सङ्ख्ये त्यक्त्वा नादं महाबलः ॥ ८.८१.६३ ॥
他拿起另一张上好弦的弓,急速行动的大力者,啊,诸王之主,片刻间便用箭雨覆盖了沙古尼的军队,并在战场上发出狮吼。
8.81.64
तस्याश्वांश्चतुरो हत्वा सूतं चैव विशाम्पते ।
ध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी ॥ ८.८१.६४ ॥
他杀死了沙古尼的四匹马和御者,啊,人民之主,勇猛的婆罗末急速地用新月头的箭斩断了他的旗帜。
8.81.65
हताश्वं रथमुत्सृज्य त्वरमाणो नरोत्तमः ।
तस्थौ विस्फारयंश्चापं क्रोधरक्तेक्षणः श्वसन् ॥ ८.८१.६५ ॥
弃去马匹已被杀死的战车,这位人中之杰急速站立,大力拉开弓弦,双眼因愤怒而通红,喘着粗气。
8.81.66
शरैश्च बहुधा राजन्भीममार्च्छत्समन्ततः ॥ ८.८१.६६ ॥
大王啊,他以多种方式从四面八方用箭攻击毗摩。
8.81.67
प्रतिहत्य तु वेगेन भीमसेनः प्रतापवान् ।
धनुश्चिच्छेद सङ्क्रुद्धो विव्याध च शितैः शरैः ॥ ८.८१.६७ ॥
然而威猛的毗摩senā迅速反击,愤怒之中斩断了他的弓,并以锐利的箭射穿了他。
8.81.68
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः ।
निपपात तदा भूमौ किञ्चित्प्राणो नराधिपः ॥ ८.८१.६८ ॥
这位令敌人痛苦的人主,被强敌重重射中,当时几乎已无气息,倒在了地上。
8.81.69
ततस्तं विह्वलं ज्ञात्वा पुत्रस्तव विशाम्पते ।
अपोवाह रथेनाजौ भीमसेनस्य पश्यतः ॥ ८.८१.६९ ॥
那时,他知道这人已经昏乱,人主啊,你的儿子在毗摩森看着的时候,用战车把他从战场上带走了。
8.81.70
शकुनिं विह्वलं दृष्ट्वा धार्तराष्ट्राः पराङ्मुखाः ।
प्रदुद्रुवुर्दिशो भीता भीमसेनभयात्प्रभो ॥ ८.८१.७० ॥
看到沙寇尼昏乱,持国的众子转身,惊恐万分,人主啊,因为害怕毗摩森而四散奔逃。
8.81.71
सौबले निर्जिते राजन्भीमसेनेन धन्विना ।
भयेन महताऽऽविष्टः पुत्रो दुर्योधनस्तव।
अपायाज्जवनैरश्वैः सापेक्षो मातुलं प्रति ॥ ८.८१.७१ ॥
君王啊,当善射的毗摩那(Bhīmasena)击败了萨包罗(Śakuni)之后,你的儿子难敌(Duryodhana)被巨大的恐惧所攫住,焦急地驾着疾驰的马向他的舅舅方向逃去。
8.81.72
पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत ।
विप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः ॥ ८.८१.७२ ॥
婆罗多之子啊,见国王转身逃走,军队便放弃了单车对决,四面八方地溃散了。
8.81.73
तान्दृष्ट्वा विद्रुतान्सर्वान्धार्तराष्ट्रान्पराङ्मुखान् ।
जवेनाभ्यापतद्भीमः किरञ्शरशतान्बहून् ॥ ८.८१.७३ ॥
毗摩见般度的那些敌人(持国之子们)皆背身逃走,便疾速扑上前去,射出数百支箭。
8.81.74
ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः ।
कर्णमासाद्य समरे स्थिता राजन्समन्ततः ॥ ८.८१.७४ ॥
国王啊,持国之子们被毗摩击杀,背身逃走,来到迦尔纳身边,在战场上四面站定。
8.81.75
स हि तेषां महावीर्यो द्वीपोऽभूत्सुमहाबलः ।
भिन्ननौका यथा राजन्द्वीपमासाद्य निर्वृताः ॥ ८.८१.७५ ॥
国王啊,他对他们来说是一位大勇猛、大力量的人,犹如一座岛屿——就像船只破碎的人抵达岛屿,得以安息。
8.81.76
भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये ।
तथा कर्णं समासाद्य तावकाः पुरुषर्षभ ॥ ८.८१.७६ ॥
人中之虎啊,在时运的转变中,会有摆渡之人;同样,人中之牛啊,你的人抵达迦尔纳身边,便得到了庇护。
8.81.77
समाश्वस्ताः स्थिता राजन्सम्प्रहृष्टाः परस्परम् ।
समाजग्मुश्च युद्धाय मृत्युं कृत्वा निवर्तनम् ॥ ८.८१.७७ ॥
大王啊,他们重新振作,彼此欢欣鼓舞地站立着;决意使死亡逆转,他们为战斗而聚集。