Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.82

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.82.1

ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे ।
दुर्योधनोऽब्रवीत्किं नु सौबलो वाऽपि सञ्जय ॥ ८.८२.१ ॥

当军队在战斗中被毗摩森那击溃后,难敌说了什么,或者萨巴拉(沙恭尼)说了什么,桑闪耶?

8.82.2

कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि ।
कृपो वा कृतवर्मा वा द्रौणिर्दुःशासनोऽपि वा ॥ ८.८२.२ ॥

是胜利者中最优秀的迦尔纳,还是我方在战斗中的战士,或是克利巴、克里塔瓦尔曼、德罗纳之子,或是难降?

8.82.3

अत्यद्भुतमहं मन्ये पाण्डवेयस्य विक्रमम् ।
यदेकः समरे सर्वान्योधयामास मामकान् ॥ ८.८२.३ ॥

我认为般度之子的勇力极为非凡,他独自在战场上与我方所有人作战。

8.82.4

यथाप्रतिज्ञं योधानां राधेयः कृतवानपि ।
कुरूणामथ सर्वेषां कर्णः शत्रुनिषूदनः।
शर्म वर्म प्रतिष्ठा च जीविताशा च सञ्जय ॥ ८.८२.४ ॥

正如他所承诺的,罗陀之子迦尔纳为战士们,也为所有的俱卢人而行动;摧毁敌人的迦尔纳,是我们的庇护、铠甲、支柱和生命的希望,桑闪耶。

8.82.5

तद्भग्रं स्वबलं दृष्ट्वा कौन्तेयेनामितौजसा ।
धनुर्दराणां प्रवरः कर्णः किमकरोद्युधि ॥ ८.८२.५ ॥

看到自己的军队被不可限量之力的昆提之子击溃,弓箭手中的第一人迦尔纳在战斗中做了什么?

8.82.6

पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः ।
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि सञ्जय ॥ ८.८२.६ ॥

请把这一切都告诉我:我那些难以战胜的儿子们,或那些大战车的国王们做了什么,因为你精通此事,桑闪耶。

8.82.7

अपराह्णे महाराज सूतपुत्रः प्रतापवान् ।
जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः ॥ ८.८२.७ ॥

大王啊,午后,威猛的御者之子在怖军眼前杀尽了所有索摩迦人。

8.82.8

भीमोऽप्यतिबलं सैन्यं धार्तराष्ट्रं व्यपोथयत् ॥ ८.८२.८ ॥

怖军也摧毁了持国之子那支极其强大的军队。

8.82.9

द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता ।
यन्तारमब्रवीत्कर्णः पाञ्चालानेव मां वह ॥ ८.८२.९ ॥

迦尔纳见自己的军队被智者怖军击溃,便对御者说:"把我直接驶向般遮罗人。"

8.82.10

मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान् ।
प्राहिणोच्चेदिपाञ्चालान्करूशांश्च महाबलः ॥ ८.८२.१० ॥

于是摩德罗国王、大力的沙利耶驱使他那快速的白马冲向支地人、般遮罗人和迦卢沙人。

8.82.11

प्रविश्य च महत्सैन्यं शल्यः परबलार्दनः ।
न्ययच्छत्तुरगान्हृष्टो यत्रयत्र च ते रथाः ॥ ८.८२.११ ॥

沙利耶冲入庞大的军队,摧毁敌军,欣然勒住马匹,停在你的战车所在之处。

8.82.12

तं रथं मेघसङ्काशं वैयाघ्रपरिवारणम् ।
संदृश्य पाण्डुपञ्चालास्त्रस्ता ह्यासन्विशाम्पते ॥ ८.८२.१२ ॥

人主啊,看见那辆如云般、以虎皮遮护的战车,般度之子和般遮罗人果然都惊恐了。

8.82.13

ततो रथस्य निनदः प्रादुरासीन्महारणे ।
पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः ॥ ८.८२.१३ ॥

于是在大战中,战车发出巨响,如雨云的雷鸣,又如山岳崩裂。

8.82.14

ततः शरशतैस्तीक्षणैः कर्ण आकर्णनिःसृतैः ।
जघान पाण्डवबलं शतशोऽथ सहस्रशः ॥ ८.८२.१४ ॥

于是迦尔纳以数百支锐利的箭,从拉至耳边的弓上射出,将般度军成百上千地杀伤。

8.82.15

तं तथा समरे कर्म कुर्वाणमपराजितम् ।
परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः ॥ ८.८२.१५ ॥

他在战场上如此建功时,这位无敌者被般度之子的大弓手与大战车勇士团团围住。

8.82.16

तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः ।
नकुलः सहदेवश्च द्रौपदेयाश्च सात्यकिः ॥ ८.८२.१६ ॥

尸犍底、怖军、猛光、补利沙塔之子、无种、偕天、德罗跋蒂之子们以及萨谛奇包围了他。

8.82.17

परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः ।
सात्यकिस्तु तदा कर्णं विंशत्या निशितैः शरैः ॥ ८.८२.१७ ॥

他们想杀死罗陀之子迦尔纳,便以箭雨将他包围。那时萨谛奇以二十支利箭射中了迦尔纳。

8.82.18

अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः ।
शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च सप्तभिः ॥ ८.८२.१८ ॥

那位人中之杰的英雄在战斗中射中了迦尔纳的锁骨处。尸犍底以二十五支箭射中他,猛光以七支箭射中他。

8.82.19

द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः ।
नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः ॥ ८.८२.१९ ॥

德罗波蒂之子以六十四支箭射中迦尔纳,偕提婆以七箭,那古罗以百箭,在战中刺伤了他。

8.82.20

भीमसेनस्तु राधेयं नवत्या नतपर्वणाम् ।
विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः ॥ ८.८२.२० ॥

然而,怒火中烧的大力者跋摩沙那,在战中以九十支弯节之箭射中了罗陀之子(迦尔纳)的锁骨处。

8.82.21

अथ प्रहस्याधिरथिर्व्याक्षिपद्धनुरुत्तमम् ।
मुमोच निशितान्बाणान्पीडयन्सुमहाबलः ॥ ८.८२.२१ ॥

于是阿提罗陀之子(迦尔纳)笑着拉开良弓,以极大的力量射出锐利之箭,使敌人痛苦不堪。

8.82.22

तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः ।
सात्यकेस्तु धनुश्छित्त्वा ध्वजं च भरतर्षभ ॥ ८.८२.२२ ॥

罗陀之子(迦尔纳)以每人五箭的方式还击,射中他们每一个;而且,婆罗多族的雄牛啊,他砍断了萨提亚奇的弓,也射倒了他的旗帜。

8.82.23

तं तथा नवभिर्बाणैराजघान स्तनान्तरे ।
भीमसेनं ततः क्रुद्धो विव्याध त्रिंशता शरैः ॥ ८.८२.२३ ॥

他就这样以九箭射中他的胸膛正中;随后他愤怒地以三十支箭射中了跋摩沙那。

8.82.24

सहदेवस्य भल्लेन ध्वजं चिच्छेद मारिष ।
सारथिं च त्रिभिर्बाणैराजघान परन्तपः ॥ ८.८२.२४ ॥

尊者啊,敌人的焚烧者(迦尔纳)以一支阔头箭斩断了偕提婆的旗帜,又以三箭射中了他的御者。

8.82.25

विरथान्द्रौपदेयांश्च चकार भरतर्षभ ।
अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत् ॥ ८.८२.२५ ॥

婆罗多之牛啊,他在眨眼之间使德罗波蒂的儿子们失去战车,那看来如同奇迹。

8.82.26

विमुखीकृत्य तान्सर्वाञ्शरैः सन्नतपर्वभिः ।
पाञ्चालानहनञ्छूरांश्चेदीनां च महारथान् ॥ ८.८२.२६ ॥

使他们全部转身败退后,他用带弯曲节的箭射杀了般遮罗人以及遮提的勇猛大战车武士。

8.82.27

ते वध्यमानाः समरे चेदिमत्स्या विशाम्पते ।
कर्णमेकमभिद्रुत्य शरसङ्खैः समार्पयन् ॥ ८.८२.२७ ॥

人主啊,那些在战斗中被击打的遮提与摩蹉人,单独冲向迦尔纳,以箭雨覆盖了他。

8.82.28

ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः ।
ते वध्यमानाः समरे चेदिमात्स्या विशाम्पते।
प्राद्रवन्त रणे भीताः सिंहत्रस्ता मृगा इव ॥ ८.८२.२८ ॥

大战车武士、御者之子以利箭射击他们。人主啊,那些在战斗中被击打的遮提与摩蹉人惊恐地逃离战场,如同被狮子吓坏的鹿。

8.82.29

एतदत्युद्भतं कर्म दृष्ट्वानस्मि भारत ।
यदेकः समरे शूरान्सूतपुत्रः प्रतापवान् ॥ ८.८२.२९ ॥

婆罗多的后裔啊,见此极为奇妙的行为,我惊讶于在战斗中,那威猛的御者之子独自战胜了众英雄。

8.82.30

यतमानान्परं शक्त्या योधयानांश्च धन्विनः ।
पाण्डवेयान्महाराज शरैर्वारितवान्रणे ॥ ८.८२.३० ॥

大王啊,在战斗中,他以箭阻挡了尽全力奋战的持弓般度之子们。

8.82.31

तत्र भारत कर्णस्य लाघवेन महात्मनः ।
तुतुषुर्देवताः सर्वाः सिद्धाश्च सह चारणैः ॥ ८.८२.३१ ॥

婆罗多啊,在那里,诸神、一切悉陀与天界乐师,因大成就者迦尔纳的敏捷而欢喜。

8.82.32

अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम् ।
कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् ॥ ८.८२.३२ ॥

持国的诸子,大弓箭手,尊敬人中至尊、诸良车手中的首位、一切弓手中最优者迦尔纳。

8.82.33

ततः कर्णो महाराज ददाह रिपुवाहिनीम् ।
कक्षमिद्धो यथा वह्निर्निदाधे ज्वलितो महान् ॥ ८.८२.३३ ॥

大王啊,于是迦尔纳焚烧敌军,如同盛夏中燃起的大火焚烧丛林。

8.82.34

ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः ।
प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महारथम् ॥ ८.८२.३४ ॥

般度之子被迦尔纳到处杀戮,在战场上见到大车战士迦尔纳,便惊恐四散奔逃。

8.82.35

तत्राक्रन्दो महानासीत्पाञ्चालानां महारणे ।
वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः ॥ ८.८२.३५ ॥

在那场大战中,般遮罗人发出巨大的哀号,他们被迦尔纳优良弓射出的锐利箭矢所杀。

8.82.36

तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः ।
कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः ॥ ८.८२.३६ ॥

般度之子的大军被那声音惊骇;在那里,敌人只认为迦尔纳一人是战场上的勇士。

8.82.37

तत्राद्भुतं पुनश्चक्रे राधेयः शत्रुकर्शनः ।
यदेनं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम् ॥ ८.८२.३७ ॥

那里,罗陀之子、折磨敌人者迦尔纳再次创造了奇迹,以致所有般度之子都不能正视他。

8.82.38

जलौघः पर्वतश्रेष्ठं यथासाद्य प्रभिद्यते ।
तथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते ॥ ८.८२.३८ ॥

如洪流撞上最高的山峰而破碎,般度军队遇到迦尔纳时也被撕裂。

8.82.39

कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलत् ।
दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम् ॥ ८.८२.३९ ॥

大王啊,迦尔纳在战场上也如无烟之火熊熊燃烧,这位大臂者站立着焚烧般度的大军。

8.82.40

शिरांसि च महाराज कर्णां श्चैव सकुण्डलान् ।
बाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः ॥ ८.८२.४० ॥

大王啊,那位英雄迅速以箭斩断了勇士们的头颅、带耳环的耳朵和手臂。

8.82.41

हस्तिदन्तत्सरून्खङ्गान्ध्वजाञ्शक्तीर्हयान्गजान् ।
रथांश्च विविधान्राजन्पताका व्यजनानि च ॥ ८.८२.४१ ॥

大王啊,象牙长矛、刀剑、旗幡、枪矛、马匹、大象、各式战车、旌旗与拂尘,他也都击碎了。

8.82.42

अक्षं च युगयोक्त्राणि चक्राणि विविधानि च ।
चिच्छेद बहुधा कर्णो योधव्रतमनुष्ठितः ॥ ८.८२.४२ ॥

车轴、轭与缰绳,以及各式车轮,迦尔纳依照武士之誓将它们多方斩碎。

8.82.43

तत्र भारत कर्णेन निहतैर्गजवाजिभिः ।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥ ८.८२.४३ ॥

婆罗多啊,那里被迦尔纳杀死的象与马使大地成为肉与血的泥泞,无法通行。

8.82.44

विषमं च समं चैव हतैरश्वपदातिभिः ।
रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किञ्चन ॥ ८.८२.४४ ॥

被杀的骑兵、步兵、战车与象使人无法分辨崎岖与平坦,什么都认不出来。

8.82.45

नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम् ।
घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते ॥ ८.८२.४५ ॥

迦尔纳的武器在可怕的箭雨黑暗中铺展开来时,无论己方还是敌方的战士都无法互相辨认。

8.82.46

राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषणैः ।
सञ्छादिता महाराज पाण्डवानां महारथाः ॥ ८.८२.४६ ॥

大王啊,般度子孙的大车武士被迦尔纳弓上射出的金饰之箭所覆盖。

8.82.47

ते पाण्डवेयाः समरे राधेयेन पुनः पुनः ।
अभज्यन्त महाराज यतमाना महारथाः ॥ ८.८२.४७ ॥

大王啊,那些般度之子大车武士虽然在战斗中尽力,却一次又一次被迦尔纳击溃。

8.82.48

मृगसङ्घान्यथा क्रुद्धः सिंहो द्रावयते वने ।
पञ्चालानां रथश्रेष्ठान्द्रावयञ्शात्रवांस्तथा ॥ ८.८२.४८ ॥

如同愤怒的狮子在森林中驱散鹿群,他也驱散着般遮罗最优秀的战车武士和敌人。

8.82.49

कर्णस्तु समरे योधांस्त्रासयुन्सुमहायशाः ।
कालयामास तत्सैन्यं यथा पशुगणान्वृकः ॥ ८.८२.४९ ॥

大名鼎鼎的迦尔纳在战场上使战士恐惧,像狼摧毁牲畜群一样摧毁了那支军队。

8.82.50

दृष्ट्वा तु पाण्डवीं मेनां धार्तराष्ट्राः पराङ्युखीम् ।
तत्राजग्मुर्महेष्वासा रुदन्तो भैरवात्रवान् ॥ ८.८२.५० ॥

般度之子的军队转身逃跑,持大弓的持国百子见此情景,发出可怕的哭喊,来到了那里。

8.82.51

दुर्योधनो हि राजेन्द्र मुदा परमया युतः ।
वादयामास संहृष्टो नानावाद्यानि सर्वशः ॥ ८.८२.५१ ॥

王中之王啊!难敌满怀至上的喜悦,欢欣鼓舞,下令四处奏响各种乐器。

8.82.52

पाञ्चालाश्च महेष्वासा भग्नास्तत्र नरोत्तमाः ।
न्यवर्तन्त तदा शूरा मृत्युं कृत्वा निवर्तनम् ॥ ८.८२.५२ ॥

般遮罗的大弓手、人中俊杰在那里被击溃;于是这些英雄以死亡作为归途,转身折返。

8.82.53

तान्निवृत्तान्रणे शूरान्राधेयः शत्रुतापनः ।
अनेकशो महाराज बभञ्ज पुरुषर्षभः ॥ ८.८२.५३ ॥

大王啊!能使敌人痛苦的罗陀之子迦尔纳,人中雄牛,多次击溃了那些在战场上转身折返的英雄。

8.82.54

तत्र भारत कर्णेन पाञ्चाला विंशती रथाः ।
निहताः सायकैः क्रोधाच्चेदयश्च परंशताः ॥ ८.८२.५४ ॥

婆罗多之子啊,在那里,迦尔纳在愤怒中以箭矢射杀了般遮罗的二十辆战车,还有……

8.82.55

कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारत ।
निर्मनुष्यान्गजस्कन्धान्पादातांश्चैव विद्रुतान् ॥ ८.८२.५५ ॥

婆罗多啊,他使战车的平台、马背、象肩以及逃散的步兵都空无人迹、没有人了。

8.82.56

आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परन्तपः ।
कालान्तकवपुः शूरः सूतपुत्रोऽभ्यराजत ॥ ८.८२.५६ ॥

如正午的太阳,令人不敢直视,灼烧敌人,形貌如死神,英雄苏多之子光芒四射。

8.82.57

एवमेतन्महाराज नरवाजिरथद्विपान् ।
हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः ॥ ८.८२.५७ ॥

大王啊,就这样,杀尽了人、马、战车和象,大弓手、摧毁敌军的迦尔纳屹立不动。

8.82.58

यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलः ।
तथा स सोमकान्हत्वा तस्थावेको महारथः ॥ ८.८२.५८ ॥

如同威力强大的时间在毁灭众生之后屹立,那位大战车将独自杀尽索摩迦人后屹立。

8.82.59

तत्राद्भुतमपश्याम पाञ्चालानां पराक्रमम् ।
वध्यमानाऽपि यत्कर्णं नाजहू रणमूर्धनि ॥ ८.८२.५९ ॥

在那里我们看到了般遮罗人惊人的勇武:即便被击杀,他们也没有在战场前线抛弃迦尔纳。

8.82.60

राजा दुःशासनश्चैव कृपः शारद्वतस्तथा ।
अश्वत्थामा कृतवर्मा शकुनिश्च महाबलः।
व्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः ॥ ८.८२.६० ॥

国王难近、沙罗德瓦多之子克里帕、马嘶、迦塔婆摩以及大力沙恭尼,也成百上千地击溃了般度之军。

8.82.61

कर्मपुत्रौ तु राजेन्द्र भ्रातरौ सत्यविक्रमौ ।
निजघ्नाते बलं क्रुद्धौ पाण्डवानामितस्ततः ॥ ८.८२.६१ ॥

王中之王啊,迦尔纳的两个儿子,真正英勇的兄弟,愤怒地到处击杀般度之子的军队。

8.82.62

तत्र युद्धं महच्चासीत्क्रूरं विशसनं महत् ॥ ८.८२.६२ ॥

那里发生了一场残酷的大战,大屠杀。

8.82.63

तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ ।
द्रौपदेयाश्च सङ्क्रुद्धा अभ्यघ्नंस्तावकं बलम् ॥ ८.८२.६३ ॥

同样,英勇的般度五子、猛光与始干迪,以及德罗波蒂的儿子们,极为愤怒,攻击了你的军队。

8.82.64

एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः ।
तावकानामपि रणे भीमं प्राप्य महाबलम् ॥ ८.८२.६४ ॥

就这样,般度之子的毁灭在各处发生;在战场上,你的部下也在遭遇大力的怖军时遭到毁灭。