Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 8.86

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

8.86.1

ततः कर्णः कुरुषु प्रद्रुतेषु ।
वरूथिना श्वेतहयेन राजन्।
पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो ।
महेषुमिर्वात इवाभ्रसङ्घान् ॥ ८.८६.१ ॥

王よ、クル族が逃げ去ったとき、白馬に繋いだ戦車に乗る御者の子カルナは、風が雲の群れを散らすように、大きな矢でパーンチャーラの息子たちを散らした。

8.86.2

सूतं रथादञ्जलिकैर्निपात्य ।
जघान चाश्वाञ्जनमेजयस्य।
शतानीकं सुतसोमं च भल्लै… ।
रवाकिरद्धनुषी चाप्यकृन्तत् ॥ ८.८६.२ ॥

三日月形の矢で御者を車から倒し、ジャナメージャヤの馬を殺した。シャタニーカとスタソーマを幅広の矢で打ち……咆哮しながら彼らの弓も断ち切った。

8.86.3

धृष्टद्युम्नं निर्बिभेदाथ षड्भि… ।
र्जघानाश्वान्दक्षिणांस्तस्य सङ्ख्ये।
हत्वा चाश्वान्सात्यकेः सूतपुत्रः ।
कैकेयपुत्रं न्यवधीद्विशोकम् ॥ ८.८६.३ ॥

続いてドリシュタデュムナを六本の……矢で射抜き、戦いで右側の馬を倒した。サーティヤキの馬を殺した後、御者の子はケーカヤの王子ヴィショカを殺した。

8.86.4

तमभ्यधावन्निहते कुमारे ।
सेनापतिः कैकयो मित्रवर्मा।
शरैर्विधुन्वन्भृशमुग्रवेगैः ।
कर्णात्मजं चाप्यहनत्सुदेवम् ॥ ८.८६.४ ॥

王子が殺されると、ケーカヤの将軍ミトラヴァルマンが彼に襲いかかり、猛烈な速さの矢で激しく揺さぶり、カルナの息子スデーヴァをも打ち倒した。

8.86.5

तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त ।
प्रहस्य बाहू च शिरश्च कर्णः।
स स्यन्दनाद्गामगमद्गतासुः ।
परश्वथैः साल इवावरुग्णः ॥ ८.८६.५ ॥

カルナは笑いながら三本の三日月形の矢で彼の両腕と頭を切り落とした。命を失った彼は戦車から地に落ちた。斧で伐られたサールの木のように。

8.86.6

हताश्वमञ्जोगमिभिः सुषेणः ।
शिनिप्रवीरं निशितैः पृषत्कैः।
प्रच्छाद्य नृत्यन्निव कर्णपुत्रः ।
शैनेयबाणाभिहतः पपात ॥ ८.८६.६ ॥

馬が倒されると、スシェーナは踊るかのように、まっすぐ飛ぶ鋭い矢でシニの勇士を覆った。しかしカルナの息子はサーティヤキの矢に射られて倒れた。

8.86.7

पुत्रे हते क्रोधपरीतयेताः ।
कर्णः शिनीनां प्रवरं जिघांसुः।
हतोऽसि हे सात्यक इत्युदीर्य ।
व्यवासृजद्बाणममित्रसाहम् ॥ ८.८६.७ ॥

息子が殺され、怒りに目をみはったカルナは、シニの勇士を殺そうと、「サーティヤキよ、お前は死んだ」と叫び、敵を征服する矢を放った。

8.86.8

तमस्य चिच्छेद शरं शिखण्डी ।
त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम्।
शिखण्डिनः कार्मुकं च ध्वजं च ।
च्छित्त्वा क्षुराभ्यां न्यहनत्सुजातः ॥ ८.८६.८ ॥

シカンディンは彼の矢を切断し、三本ずつの矢でカルナを射た。さらにシカンディンの弓と旗を断ち切り、この高貴な者は二本の剃刀のような矢で彼を打ち倒した。

8.86.9

शिखण्डिनं षड्भिरविध्यदुग्रो ।
धार्ष्टद्युम्नेः स शिरश्चोच्चकर्त।
ततोऽभिनत्सुतसोमं क्षुरेण ।
सुसञ्झितेनाधिरथिर्महात्मा ॥ ८.८६.९ ॥

その猛者はシカンディンを六本の矢で射、ドリシュタデュムナの首を斬り落とした。さらにその大度のアディラタの子は、鋭く研がれた剃刀のような矢でスタソーマを引き裂いた。

8.86.10

अथाक्रन्दे तुमुले वर्तमाने ।
धार्ष्टद्युम्ने निहते तत्र कृष्णः।
अपाञ्चाल्यं क्रियते याहि पार्थ ।
कर्णं जहीलाब्रवीद्राजसिंह ॥ ८.८६.१० ॥

その時、そこで激しい叫びが起こり、ドリシュタデュムナが殺されると、クリシュナは言った。「行け、プリターの子よ。パーンチャーラ族が滅ぼされている。カルナを殺せ、王者の中の獅子よ。」

8.86.11

ततः प्रहस्याशु नरप्रवीरो ।
रथं रथेनाधिरथेर्जगाम।
भये तेषां त्राणमिच्छन्सुबाहु… ।
रभ्याहतानां रथयूथपेन ॥ ८.८६.११ ॥

そこで笑いながら、その人中の英雄は速やかに戦車に乗り、アディラタの子カルナのもとへ向かった。彼らを恐怖から守ることを望み、スバーフ…車将に打たれた者たちの。

8.86.12

ततोऽपरे भारत दुष्प्रकम्प्याः ।
पाञ्चालानां रथसङ्घाः समेताः।
प्रतिश्रिता ह्यन्तरिक्षे ग्रहाभा ।
धनुःप्रवीरास्तु रथप्रवीराः ॥ ८.८६.१२ ॥

そしてバーラタよ、動かし難いパーンチャーラの車群が集まった。空の惑星のように誓いを立てた、弓の勇士と戦車の勇士たちが。

8.86.13

विस्फार्य गाण्डीवमथोग्रघोषं ।
ज्यया समाहत्य तले भृशं च।
बाणान्धकारं सहसैव कृत्वा ।
जघान नागाश्वरथध्वजांश्च ॥ ८.८६.१३ ॥

そして凄まじい音を立ててガーンディーヴァを引き絞り、掌で弦を激しく打ち、突如として矢の闇を作り出し、象・馬・戦車の旗を打ち倒した。

8.86.14

प्रतिश्रुतः प्राचरदन्तरिक्षे ।
गुहा गिरीणामपतन्वयांसि।
यन्मण्डलज्येन विजृम्भमाणो ।
रौद्रे मुहूर्तेऽभ्यपतत्किरीटी ॥ ८.८६.१४ ॥

誓いを立てた彼は空を進んだ。山々の洞窟に鳥が落ちた。円形の弦を張り広げた冠のアルジュナは、恐ろしい瞬間に襲いかかった。

8.86.15

तं भीमसेनोऽनुययौ रथेन ।
पृष्ठे रक्षन्पाण्डवमेकवीरः।
तौ राजपुत्रौ त्वरितौ रथाभ्यां ।
कर्णाय यातावरिभिर्विषक्तौ ॥ ८.८६.१५ ॥

ビーマセーナは戦車で彼を追い、背後からパーンダヴァを守った、ただ一人の英雄。その二人の王子は、敵に囲まれながら二台の戦車でカルナのもとへ急いだ。

8.86.16

तत्रान्तरे सुमहान्सूतपुत्र… ।
श्चक्रे युद्धं सोमकान्सम्प्रमथ्य।
रथाश्वमातङ्गणाञ्जघान ।
प्रच्छादयामास शरैर्दिशश्च ॥ ८.८६.१६ ॥

その間に偉大な御者の子は……ソーマカ族と戦い、彼らを打ち砕き、戦車、馬、象を倒し、矢で四方を覆った。

8.86.17

तमुत्तमौजा जनमेजयश्च ।
क्रुद्धौ युधामन्युशिखण्डिनौ च।
कर्णं बिभेदुः सहिताः पृषत्कैः ।
सन्नर्दमानाः सह पार्षतेन ॥ ८.८६.१७ ॥

ウッタマウジャスとジャナメージャヤ、そして怒れるユダーマニユとシカンディンは、共に矢でカルナを貫き、プリシャタの子と共に雄叫びをあげた。

8.86.18

ते पञ्च पाञ्चालरथाः समेता ।
वैकर्तनं कर्णमभिद्रवन्तः।
तस्माद्रथाच्च्यावयितुं न शेकु… ।
र्धैर्यात्कृतात्मानमिवेन्द्रियार्थाः ॥ ८.८६.१८ ॥

その五人のパーンチャーラの戦車兵は集まってヴァイカルタナの子カルナに襲いかかったが、彼を戦車から動かすことはできなかった……あたかも感覚の対象が自制した人を揺るがせないように。

8.86.19

तेषां धनूंषि ध्वजवाजिसूतां… ।
स्तूर्णं पताकाश्च निकृत्य बाणैः।
तान्पाञ्चालानभ्यहनत्पृवत्कैः ।
कर्णस्ततः सिंह इवोन्ननाद ॥ ८.८६.१९ ॥

彼らの弓、旗、馬、御者を……矢で素早く断ち切り、カルナはそのパーンチャーラたちを打った。そして獅子のように吠えた。

8.86.20

तस्यास्यतस्तानभिनिघ्नतश्च ।
ज्याबाणहस्तस्य धनुःस्वेनन।
साद्रिद्रुमा स्यात्पृथिवी विशीर्णे… ।
त्यतीव मत्वा जनता व्यपीदत् ॥ ८.८६.२० ॥

彼が弓弦と矢を手に射て彼らを打ち倒すと、弓の響きに大地は山と木々もろとも裂けたかのようだった……人々は大いに苦しみ、思った……

8.86.21

स शक्रचापप्रतिमेन धन्वना ।
भृशायतेनाधिरथिः शरान्सृजन्।
बभौ रणे दीप्तमरीचिमण्डलो ।
यथांशुमाली परिवेषवांस्तथा ॥ ८.८६.२१ ॥

インドラの弓のように長い弓から矢を放つ御者の子カルナは、燃える光輪に囲まれた太陽のように戦場で輝いた。

8.86.22

शिखण्डिनं द्वादशभिः पराभिन… ।
च्छितैः शरैः षड्भिरथोत्तमौजसम्।
त्रिभिर्युधामन्युमविध्यदाशुगै… ।
स्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ ॥ ८.८६.२२ ॥

鋭い十二本の矢でシカンディンを、六本で勇猛な戦車の戦士ウッタマウジャスを、三本の速い矢でユダーマニユを射抜き、ソーマカとパールシャタの二人の息子にはそれぞれ三本ずつ射た。

8.86.23

पराजिताः पञ्च महारथास्तु ते ।
महाहवे सूतसुतेन मारिष।
निरुद्यमास्तस्थुरमित्रनन्दना ।
यथेन्द्रियार्थात्मवता पराजिताः ॥ ८.८६.२३ ॥

ああ尊き者よ、友を喜ばせる五人の大戦車兵は、大戦で御者の子に敗れ、感覚の対象に打ち負かされた自制の人のように、気力を失って立ち尽くした。

8.86.24

निमज्जतस्तानथ कर्णसागरे ।
विपन्ननावो वणिजो यथार्णवे।
उद्दध्रिरे नौभिरिवार्णवाद्रथैः ।
सुकल्पितैर्द्रौपदिजाः स्वमातुलान् ॥ ८.८६.२४ ॥

カルナという海に沈む者たちを、船が壊れた商人が大洋に沈むように、ドラウパディーの息子たちは、よく整えた戦車で母方の叔父たちを、海から舟で救い上げるように引き上げた。

8.86.25

ततः शिनीनामृषभः शितैः शरै… ।
र्निकृत्य कर्णप्रहितानिषून्वहून्।
विदार्य कर्णं निशितैरयस्मयै… ।
स्तवात्मजं ज्येष्ठमविध्यदष्टमिः ॥ ८.८६.२५ ॥

そのとき、シニ族の雄牛は、鋭い矢でカルナの放った多くの矢を断ち切り、鋭い鉄の矢でカルナを貫き、あなたの長男を八本の矢で射た。

8.86.26

कृपोऽथ भोजश्च तवात्मजस्तथा ।
स्वयं च कर्णो निशितैरताडयत्।
स तैश्चतुर्भिर्युयुधे यदूत्तमो ।
दिगीश्वरैर्दैत्यपतिर्यथा तथा ॥ ८.८६.२६ ॥

続いてクリパ、ボージャ、あなたの息子、そしてカルナ自身が鋭い矢で彼を打った。

8.86.27

समाततेनेष्वसनेन कूजता ।
महास्वनेनाशनिपातदीधितिः।
बभूव दुर्धर्षतरः स सात्यकिः ।
शरन्नभोमध्यगतो यथा रविः ॥ ८.८६.२७ ॥

完全に引き絞られた弓が唸り、大音声を上げて、サーティヤキは雷の閃光のように、また秋空の中天の太陽のように、いっそう抗しがたくなった。

8.86.28

पुनः समास्थाय रथान्सुदंशिताः ।
शिनिप्रवीरं जुगुपुः परन्तपाः।
समेत्य पाञ्चालमहारथा रणे ।
मरुद्रणाः शक्रमिवारिनिग्रहे ॥ ८.८६.२८ ॥

再び堅固な鎧をつけた戦車に乗り、敵を苦しめるパーンチャーラの大戦車兵たちは戦場に集まり、シニの英雄を守った。ちょうど敵を制するとき、マルドゥガナがインドラを守るように。

8.86.29

ततोऽभवद्युद्धमतीव दारुणं ।
तवाहितानां तव सैनिकैः सह।
रथाश्वमातङ्गविनाशनं तथा ।
यथा सुराणामसुरैः पुराऽभवत् ॥ ८.८६.२९ ॥

するとあなたの敵とあなたの兵との間に、極めて恐ろしい戦いが起こった。戦車、馬、象が滅び、昔、神々とアスラの間に起こったように。

8.86.30

रथा द्विपा वाजिपदातयस्तथा ।
भ्रमन्ति नानाविधशस्त्रवेष्टिताः।
परस्परेणाभिहताश्च चस्खलु… ।
र्विनेदुरार्ता व्यसवोऽपतंस्तथा ॥ ८.८६.३० ॥

戦車、象、騎兵と歩兵は、さまざまな武器に囲まれてさまよい、互いに打たれてよろめき、苦しみの叫びをあげ、息絶えて倒れた。

8.86.31

तथागतं भीममभीस्तवात्मजः ।
ससार राजावरजः किरञ्शरैः।
तमभ्यधावत्त्वरितो वृकोदरो ।
महारुरुं सिंह इवाभिपेदिवान् ॥ ८.८६.३१ ॥

恐れを知らぬ汝の息子、王の弟は、矢を降らせながらそのように進み出た。狼腹のビーマは素早く彼に襲いかかった。獅子が大きなルル鹿に飛びかかるように。

8.86.32

ततस्तयोर्युद्धमतीव दारुणं ।
प्रदीव्यतोः प्राणदुरोदरं द्वयोः।
परस्परेणाभिनिविष्टरोषयो… ।
रुदग्रयोः शम्बरशक्रयोर्यथा ॥ ८.८६.३२ ॥

そのとき二人の戦いは極めて恐ろしいものとなった。命を賭けて賭博に興じる二人の博徒のように、互いに怒りを向け合い、ルドラの筆頭の者たちであるシャンバラとインドラのように。

8.86.33

शरैः शरीरार्तिकरैः सुतेजनै… ।
र्निजघ्नतुस्तावितरेतरं भृशम्।
सकृत्प्रभिन्नाविव वासितान्तरे ।
महागजौ दोर्भिरदीनघातिनौ ॥ ८.८६.३३ ॥

身体を苦しめる鋭い矢で、二人は互いに激しく打ち合った。雌象の前で発情した二頭の大象が一歩も退かずに打ち合うように。

8.86.34

आलोक्य तौ चैव परस्परं ततः ।
समं च शूरौ च ससारथी तदा।
भीमोऽब्रवीद्याहि दुःशासनाय ।
दुःशासनो याहि वृकोदराय ॥ ८.८६.३४ ॥

そのとき二人の英雄は互いを見た。力は互角、それぞれ御者を伴って。するとビーマが言った、「ドゥフシャーサナのもとへ来い!」ドゥフシャーサナも言った、「ヴリコーダラのもとへ来い!」

8.86.35

तयो रथौ सारथिसम्प्रचोदितौ ।
समं रथौ तौ महसा समीयतुः।
नानायुधच्छत्रपताकिकाध्वजौ ।
दिवीव पूर्वं बलशक्रयो रणे ॥ ८.८६.३५ ॥

二人の戦車は御者に駆り立てられ、等しい勢いでぶつかり合った。様々な武器、天蓋、旗、幟で飾られて。昔、天空でバラとインドラが戦ったように。

8.86.36

दिष्ट्याऽसि दुःशासन अद्य दृष्टः ।
क्षणं प्रतीच्छे सहवृद्धि मूलम्।
चिरोदितं यन्मया ते सभायां ।
कृष्णाभिमर्शेन गृहाण मत्तः ॥ ८.८६.३६ ॥

幸いにも今日、お前ドゥフシャーサナが私の目に留まった。しばし待とう。会堂でクリシュナーに手をかけた報いとして、増長もろとも、かの根を私から受け取れ、と私は長く前に告げていたのだ。

8.86.37

स एवमुक्तस्तु ततो महात्मा ।
दुःशासनो वाक्यमुवाच वीरः।
सर्वं स्मरन्नेव विसंस्मरामि ।
उदीर्यमाणं शृणु भीमसेन ॥ ८.८६.३७ ॥

そう呼ばれると、その偉大な英雄ドゥフシャーサナは言った。「すべてを覚えていながら、私は忘れてしまう。ビーマセナよ、私の言うことを聞け。」

8.86.38

स्मरामि चात्मप्रभवं चिराय ।
यज्जातुषे वेश्मनि रात्र्यहानि।
विश्वासहीना मृगयां चरन्तो ।
वसन्ति सर्वत्र निराकृतास्तु ॥ ८.८६.३८ ॥

私は長く前、我ら自身の所為で起きたことを覚えている。蝋の館での昼と夜、信頼を失い狩りをして彷徨い、至るところで退けられて暮らしたことを。

8.86.39

महाभयं रात्र्यहानि स्मरन्त… ।
स्तथोपभोगाच्च सुखाच्च हीनाः।
वनेष्वटन्तो गिरिगह्वराणि ।
पाञ्चालराजस्य पुरं प्रविष्टाः ॥ ८.८६.३९ ॥

大きな恐怖を、昼と夜を思い出しながら……同じく享楽と幸福を奪われ、森や山の洞窟をさまよい、我らはパーンチャーラ王の都に入った。

8.86.40

मायां यूयं कामपि सम्प्रविष्टा ।
यतो वृतः कृष्णया फल्गुनो वः।
संभूय पापैस्तदनार्यवृत्तं ।
कृतं तदा मातृकृतानुरूपम् ॥ ८.८६.४० ॥

お前たちは何かの幻術に入った。クリシュナーがお前たちのパルグナ(アルジュナ)を選んだからだ。悪人どもと組んで、そのとき行った卑劣な振る舞いは、母の子にふさわしいものだった。

8.86.41

एका वृता पञ्चभिः साभिपन्ना ।
ह्यलज्जमानेश्च परस्परस्य।
स्मरे सभायां सुबलात्मजेन ।
दासीकृता यत्सह कृष्णया च ॥ ८.८६.४१ ॥

一人の女を五人が娶り、恥じることなく互いに分かち合った。集会で、スバラの息子がクリシュナーと共に彼女を奴隷にしたのを私は覚えている。

8.86.42

इत्येवमुक्तस्तु तवात्मजेन ।
पाण्डोः सुतः कोपवशं भृशं
धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत् ।
ललाटमप्यस्य बिभेद पत्रिणा ॥ ८.८६.४२ ॥

あなたの息子にそのように言われて、パーンドゥの息子は激しい怒りに支配された。二本の剃刀のような矢で彼の弓と旗を断ち切り、一本の矢で彼の額をも貫いた。

8.86.43

शिरश्च कायात्प्रजहार सारथेः ।
स राजपुत्रोऽन्यदवाप्य कार्मुकं
वृकोदरं द्वादशभिः पराभिनत् ।
स्वयं नियच्छंस्तुरगानजिह्मगैः ॥ ८.८६.४३ ॥

彼は御者の首を胴から切り落とした。そして王子は別の弓を取り、十二本の矢でヴリコーダラを打ち、自ら馬を御しながら真っすぐな矢で打ち据えた。

8.86.44

शरैश्च भीमं पुनरप्यवीवृषत् ॥ ८.८६.४४ ॥

そして矢で再びビーマに雨のように降り注いだ。