摩诃婆罗多 · 章 8.93
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.93.1
रथौ तयोः श्वेतहयौ दिव्यौ युक्तौ महास्वनौ ।
समास्थितौ लोकवीरौ शङ्खान्दध्मुः पृथक्पृथकम्।
वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत ॥ ८.९३.१ ॥
他们的两辆战车,驾以白马,神圣而声音洪亮,两位世界英雄站立其上,各自分别吹响海螺。哦,婆罗多,婆薮提婆与阿周那,以及英雄迦尔纳与沙利耶(也在那里)。
8.93.2
तद्भीरुसन्त्रासकरं युद्धं समभवत्तदा ।
अन्योन्यस्पांधेनोरुग्रं शक्रशम्बरयोरिव ॥ ८.९३.२ ॥
那时,那场使怯懦者恐惧的战斗,因相互竞争而变得猛烈,如同因陀罗与商婆罗之战。
8.93.3
तयोर्ध्वजौ हि विमलौ शुशुभाते रथे स्थितौ ।
राहुकेतू यथाऽऽकाशे उदितौ जगतः क्षये ॥ ८.९३.३ ॥
他们两面无瑕的旗帜立于战车之上,闪耀如同世界末日时升起于天空的罗睺与计都。
8.93.4
कर्णस्याशीविषनिभा रत्नसारमयी दृढ़ा ।
पुरन्दरधनुः प्रख्या हस्तिकक्ष्या विराजते ॥ ८.९३.४ ॥
迦尔纳那坚固的束带,如毒蛇一般,由上等宝石精华制成,形似因陀罗之弓,闪耀如象腹之带。
8.93.5
कपिश्रेष्ठस्तु पार्थस्य व्यादितास्य इवान्तकः ।
दंष्ट्राभिर्भीषयन्भाभिर्दुर्निरीक्ष्यो रविर्यथा ॥ ८.९३.५ ॥
般度之子的殊胜猴旗,如张口的死神,以獠牙令人恐惧,以光芒如太阳般难以直视。
8.93.6
युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः ।
कर्णध्वजमुपातिष्ठत्स्वस्थानाद्वेगवान्कपिः ॥ ८.९३.६ ॥
渴望战斗的持甘狄拔弓者之猴旗,迅速离开其位,走近迦尔纳的旗帜。
8.93.7
उत्पत्य च महावेगः कक्ष्यामभ्याहनत्तदा ।
नखैश्च दशनैश्चैव गरुडः पन्नगं यथा ॥ ८.९३.७ ॥
他猛然跃起,以爪与齿撞击那系缚之绳,犹如金翅鸟扑向毒蛇。
8.93.8
सा किङ्किणीकाभरणा कालपाशोपमा तदा ।
अभ्यद्रवत्सुसंरब्धा हस्तिकक्ष्याऽथ तं कपिम् ॥ ८.९३.८ ॥
那装饰着铃铛的系绳,如同死神之索,此时怒气冲冲地扑向那只猴子。
8.93.9
तयोर्घोरतरे युद्धे द्वैरथे द्यूत आहिते ।
प्राकुर्वतां ध्वजौ युद्धं पूर्वं पूर्वतरं तदा ॥ ८.९३.९ ॥
在二人之间那场最为可怖的单打独斗中,仿佛下了赌注一般,两面旗帜竟比先前更早地开始了战斗。
8.93.10
हया हयानभ्यहेषन्स्पर्धमानाः परस्परम् ।
अविध्यत्पुण्डरीकाक्षः शल्यं नयनसायकैः।
शल्यश्च पुण्डरीकाक्षं तथैवाभिसमैक्षत ॥ ८.९३.१० ॥
马匹彼此竞争,互相嘶鸣。莲花眼者以目光之箭射穿了沙利耶;沙利耶也同样凝视着莲花眼者。
8.93.11
तत्राजयद्वासुदेवः शल्यं नयनसायकैः ।
कर्णं चाप्यजयदृष्ट्या कुन्तीपुत्रो धनञ्जयः ॥ ८.९३.११ ॥
在那里,婆苏提婆以目光之箭胜过了沙利耶;昆提之子陀那耶以目光也胜过了迦尔纳。
8.93.12
अयाब्रवीत्सूतपुत्रः शल्यमाभाष्य सस्मितम् ॥ ८.९३.१२ ॥
御者之子含笑对沙利耶说道。
8.93.13
यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित् ।
किं करिष्यसि सङ्घामे शल्य सत्यमथोच्यताम् ॥ ८.९३.१३ ॥
若今日阿周那在战场上杀了我,沙利耶啊,你在战斗中将做什么?请据实说来。
8.93.14
यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः ।
उभावेकरयेनाहं हन्यां माधवपाण्डवौ ॥ ८.९३.१४ ॥
若今日白马的阿周那在战场上杀了你,我便独自乘一辆战车,杀死摩陀婆与班度之子二人。
8.93.15
एवमेव तु गोविन्दमर्जुनः प्रत्यभाषत ।
तं प्रहस्याब्रवीत्कृष्णः पार्थं परमिदं वचः ॥ ८.९३.१५ ॥
阿周那也对哥温达如此回答。于是黑天微笑着对般遮之子说了这句至上之言。
8.93.16
पतेद्दिवाकरः स्थानाच्छीर्येद्भूमिरनेकधा ।
शैल्यमग्निरियान्न त्वां हन्यात्कार्णो धनञ्जय ॥ ८.९३.१६ ॥
即便太阳坠离其位,大地多处崩裂,火焰奔向山岳,迦尔纳也不会杀你,达那贾耶啊。
8.93.17
यदि चैतत्कथञ्चित्स्याल्लोकपर्यसनं भवेत् ।
हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे ॥ ८.९३.१७ ॥
即便此事以某种方式发生,世界走向终结,我也要单凭双臂,在战斗中杀死迦尔纳与沙利耶。
8.93.18
इति कृष्णवचः श्रुत्वा प्रहसन्कपिकेतनः ।
अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम् ॥ ८.९३.१८ ॥
阿周那听了黑天这番话,旗帜上有猴子的他笑着对毫不费力行事的黑天说了这些话。
8.93.19
मम तावदपर्याप्तौ कर्णशल्यौ जनार्दन ।
सपताकध्वजं कर्णं सशल्यरथवाजिनम् ॥ ८.९३.१९ ॥
啊,遮那陀那,对我而言,迦尔纳与沙利耶尚不足够:有旗帜与旗幡的迦尔纳,以及连同沙利耶、战车与马匹的他……
8.93.20
सच्छत्रकवचं चैव सशक्तिशरकार्मुकम् ।
द्रष्टाऽस्यद्य रणे कृष्ण शरैश्छिन्नमनेकधा ॥ ८.९३.२० ॥
啊,黑天,今日你将在战斗中看见他——连同华盖、铠甲、矛、箭与弓,被箭矢以种种方式斩裂。
8.93.21
अद्यैव सरथं साश्वं सशक्तिकवचायुधम् ।
सञ्चूर्णितमिवारण्ये वृक्षं पश्याद्य दन्तिना ॥ ८.९३.२१ ॥
就在今日,你将看见他连同战车、马匹、矛、铠甲与武器,如同森林中被象所踏碎的树木。
8.93.22
अद्य राधेयभार्याणां वैधव्यं समुपस्थितम् ।
ध्रुवं स्वप्नेष्वनिष्टानि ताभिर्दृष्टानि माधव ॥ ८.९३.२२ ॥
今日,罗陀之子迦尔纳的妻子们即将面临寡居。啊,摩陀婆,她们必定在梦中见过不祥之兆。
8.93.23
द्रष्टासि ध्रुवमद्यैव विधवाः कर्णयोषितः ।
न हि मे शाम्यते मन्युर्यदनेन पुरा कृतम् ॥ ८.९३.२३ ॥
今日你必定会看见迦尔纳的妻子们成为寡妇。我的愤怒不会因他先前所做之事而平息。
8.93.24
कृष्णां सभागतां दृष्ट्वा मूढेनादीर्घदर्शिना ।
अस्मांस्तथाऽवहसता क्षिपता च पुनःपुनः ॥ ८.९३.२४ ॥
看见黑公主(德罗波蒂)被带入议会,那愚昧短视的人便这样一次又一次地嘲笑、辱骂我们。
8.93.25
अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया ।
वारणेनेव मत्तेन पुष्पितं गजतीरुहम् ॥ ८.९३.२५ ॥
哇Govinda啊,今日你将看见我把迦尔纳连根拔起,如同发狂的象拔起开花的树。
8.93.26
अद्य ता मधुरा वाचः श्रोतासि मधुसूदन ।
दिष्ट्या जयसि वार्ष्णेय इति कर्णे निपातिते ॥ ८.९३.२६ ॥
摩图苏陀那啊,今日迦尔纳倒下,你将听到那些甜美的话语:“你幸运地获胜了,婆湿尼之裔啊。”
8.93.27
अद्याभिमन्युजननीं प्रहृष्टः सांत्वयिष्यसि ।
कुन्तीं पितृष्वसारं च प्रहृष्टः सन् जनार्दन ॥ ८.९३.२७ ॥
哇Janārdana啊,今日你欢喜地去安慰阿毗摩奴的母亲,以及你的姑母昆提。
8.93.28
अद्य बाष्पमुखीं कृष्णां सान्त्वयिष्यसि माधव ।
वाग्भिश्चामृतकल्पाभिर्धर्मराजं च पाण्डवम् ॥ ८.९३.२८ ॥
摩陀婆啊,今日你将安慰面带泪痕的黑公主,并以如甘露般的话语安慰法王,即般度之子。