摩诃婆罗多 · 章 8.95
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.95.1
तौ शङ्खभेरीनिनदे समृद्धे ।
समीयतुः श्वेतहयौ नराग्र्यौ।
वैकर्तनः सूतपुत्रोऽर्जुनश्च ।
दुर्मन्त्रिते ते ससुतस्य राजन् ॥ ८.९५.१ ॥
在螺号与鼓声轰鸣之中,那两位驾白马的人中俊杰——维卡尔塔纳之子迦尔纳与阿周那——迎面相遇。大王啊,这正是你和你儿子们恶劣谋划的结果。
8.95.2
आशीविषावग्निमिवोत्सृजन्तौ ।
तथा मुखाभ्यामभिनिः श्वसन्तौ।
यशस्विनौ जज्वलतुर्मृधे तदा ।
घृतावसिक्ताविव हव्यवाहौ ॥ ८.९५.२ ॥
如同两条吐出火焰、从口中喷气的毒蛇,那两位声名显赫的英雄当时在战场上燃烧起来,犹如两团浇了酥油的祭火。
8.95.3
यथा गजौ हैमवतौ प्रभिन्नौ ।
प्रवृद्धदन्ताविव वासितार्थे।
तथा समाजग्मतुरुग्रवीर्यौ ।
धनञ्जयश्चाधिरथिश्च वीरौ ॥ ८.९५.३ ॥
如同喜马拉雅两头发情的雄象,獠牙已然长成,为求雌象而相撞,那两位威猛的英雄——财增与阿提罗陀之子迦尔纳——也如此相遇。
8.95.4
बलाहकेनेव महाबलाहको ।
यदृच्छया वा गिरिणा यथा गिरिः।
तथा धनुर्ज्यातलनेमिनिःस्वनौ ।
समीयतुस्ताविषुवर्षवर्षिणौ ॥ ८.९५.४ ॥
如同大片乌云相遇,或如一座山偶然撞上另一座山,那两人弓弦与弓缘鸣响,降下箭雨,相遇交锋。
8.95.5
शरास्त्रशक्त्यृष्टिगदासिसर्पौ ।
रोषानिलोद्वूतमहोर्मिमालौ।
यथाऽचलौ द्वौ चलतस्तथा तौ ।
यथाऽर्णवौ चाशु चतुर्युगान्ते ॥ ८.९५.५ ॥
这两人以箭、兵器、枪、矛、棍与剑化作的蛇,披着由怒风掀起的巨浪之鬘,他们移动起来,如同两座不动的山岳开始行走,又如四大时代末日,两片海洋迅速翻涌。
8.95.6
प्रवृद्धशृङ्गद्रुमवीरुदोषधी ।
प्रवृद्वनानाविधनिर्झरौघौ।
यथाऽचलौ वा चलितौ महाजलै… ।
स्तथा महास्त्रैरितरेतरं हतः ॥ ८.९५.६ ॥
如同两座山峰高耸、树木、藤蔓与草药丛生、各种瀑布溪流涨满的大山,或如被巨浪撼动的两座山,他们以大神兵相互击伤。
8.95.7
स सन्निपातो रथयोर्महानभू… ।
त्सुरेशवैरोचनयोर्यथा पुरा।
शरैर्विनुन्नाश्वनियन्तृदेहयोः ।
सुदुःसहास्त्रैः परिभिन्नदेहयोः ॥ ८.९५.७ ॥
两车的大碰撞发生了,如同往昔天神之主与毗卢遮那之间的那场战斗。马匹与御者的身体被箭矢击倒,身体被极难承受的武器刺穿。
8.95.8
प्रभूतपद्मोत्पलमत्स्यकच्छपौ ।
महाहदौ पक्षिगणानुनादितौ।
सुसन्निकृष्टावनिलोद्धतौ यथा ।
तथा रथौ तौ ध्वजिनौ समीयतुः ॥ ८.९५.८ ॥
如同两大湖泊,莲花、睡莲、鱼与龟繁多,鸟群的鸣声回荡,被风吹得彼此靠得很近,那两辆有旗帜的战车便相遇了。
8.95.9
उभौ महेन्द्रस्य समानविक्रमा… ।
वुभौ महेन्द्रप्रतिमौ महारथौ।
महेन्द्रवज्रप्रतिमैश्च सायकै… ।
र्महेन्द्रवृत्राविव सम्प्रजघ्नतुः ॥ ८.९५.९ ॥
二人勇力都与摩亨陀罗(因陀罗)相等,都是如因陀罗般的大车战士,以如因陀罗金刚杵般的箭矢,彼此相击,如同因陀罗与弗栗多。
8.95.10
सनागपत्त्यश्वरथे उभे बले ।
विचित्रवर्माभरणाम्बरायुधे।
चकम्पतुश्चोन्नदतुश्च विस्मया… ।
द्धरा वियच्चार्जुनकर्णसङ्गमे ॥ ८.९५.१० ॥
两军的象兵、步兵、马兵与车兵,披着各式铠甲,佩戴饰物、穿着衣服、持着兵器,都战栗呐喊;大地与天空也因惊异而震动,在阿周那与迦尔纳相遇的那一刻。
8.95.11
भुजाः सवस्त्राङ्गुलयः समुच्छ्रिताः ।
ससिंहनादैर्हृषितैर्दिदृक्षुभिः।
यदाऽर्जुनं मत्त इव द्विपो द्विपं ।
समभ्ययादाधिरथिर्जिघांसया ॥ ८.९५.११ ॥
御者之子迦尔纳举起缠着布的手指,如狮吼般在渴望观看、欢欣鼓舞的人群前,怀着杀意向阿周那逼近,如同发狂的象冲向另一头象。
8.95.12
उदक्रोशन्सोमकास्तत्र पार्थं ।
त्वरस्व याह्यर्जुन भिन्धि कर्णम्।
छिन्ध्यस्य मूर्धानमलं चिरेण ।
श्रद्धां च राज्याद्वृतराष्ट्रसूनोः ॥ ८.९५.१२ ॥
此时,索摩迦人向般度之子高声呼喊:“阿周那,快去!刺穿迦尔纳,毫不迟疑地斩下他的头颅,粉碎持国之子对王国的希望!”
8.95.13
तथाऽस्माकं बहवस्तत्र योधाः ।
कर्णं तथा याहि याहीत्यवोचन्।
जह्यर्जुनं कर्ण ततः सुदीनाः ।
पुनर्वनं यान्त्वचिराय पार्थाः ॥ ८.९५.१३ ॥
我方许多战士也在那里喊道:“迦尔纳,前进,前进!杀死阿周那,迦尔纳!”愿那些极其沮丧的普利塔之子快快重返森林。
8.95.14
कर्णोऽथ पूर्वं दशभिः पृषत्कै… ।
र्गाण्डीवधन्वानमविध्यदाशु।
जघान तं चापि ततः किरीटी ।
शरैस्तदाष्टादशभिः सुमुक्तैः ॥ ८.९५.१४ ॥
于是迦尔纳先以十支箭迅速射中……持甘底拔弓者。持冠者(阿周那)也反击了他,随后以十八支发射精准的箭。
8.95.15
पुनश्च कर्णस्त्वरितोऽपि पार्थं ।
रथेषुभिस्तं दशभिर्जघान।
तं चापि पार्थो दशभिः शिताग्रैः ।
कक्ष्यान्तरे तीक्ष्णमुखैरविध्यत् ॥ ८.९५.१५ ॥
随后迦尔纳迅速又以十支车箭射中了般度之子(阿周那)。
8.95.16
कर्णस्ततो भारत साम्पराये ।
घोरेऽतिवेलं रणसंविमर्दी।
जघान पार्थं नवभिः शिताग्रैः ।
कक्ष्यान्ते नागमिव प्रभिन्नम् ॥ ८.९५.१६ ॥
婆罗多啊,在那场可怕的战斗中,压碎战场的迦尔纳以九支锐利的箭射中般度之子,如同刺中发情的大象的肋侧。
8.95.17
ततोऽपराभ्यां युधि सूतपुत्रो ।
द्वाभ्यां क्षुराभ्यां हरिमाशुकारी।
समाजघान त्वरया महात्मा ।
यथा सुरेन्द्रं नमुचिः प्रसह्य ॥ ८.९५.१७ ॥
接着在战斗中,这位车夫之子、大度而行动迅速者,以两支利如剃刀的箭射中了马匹哈里,正如那摩琼支强行打击诸神之王。
8.95.18
तं पाण्डवः पञ्चभिरायसाग्रै… ।
राकर्णपूर्णैर्निजघान कर्णम्।
ते शोणितं तस्य पपुस्तदानीं ।
कालस्य दूता इव पार्थबाणाः ॥ ८.९५.१८ ॥
般度之子以五支铁尖箭……拉满至耳的弓弦射倒了迦尔纳。那些般度之子的箭便如时间的使者一般吮吸着他的鲜血。
8.95.19
कर्णोऽपि पार्थं सह वासुदेवं ।
समाचिनोद्भारत वत्सदन्तैः।
परस्परं तौ विशिखैः प्रमुक्तै… ।
स्ततक्षतुः सूतपुत्रोऽर्जुनश्च ॥ ८.९५.१९ ॥
迦尔纳也以小牛齿箭遮蔽了般度之子与瓦苏提婆(克里希那),婆罗多啊。以彼此射出的箭……御者之子迦尔纳与阿周那彼此射伤。
8.95.20
परस्परं छिद्रदिदृक्षया च ।
सुभीममभ्याययतुः प्ररुष्टौ ॥ ८.९५.२० ॥
两人都怒气冲冲,想找出对方的破绽,便极其凶猛地向彼此逼近。
8.95.21
ततोऽस्त्रमाग्नेयममित्रतापनं ।
मुमोच कर्णाय सुरेश्वरात्मजः।
धनञ्जयात्संयुगमूर्ध्नि निःसृतं ।
तदा प्रजज्वाल तदस्त्रमुत्तमम् ॥ ८.९५.२१ ॥
于是这位诸神之王的儿子(阿周那),焚烧敌人者,向迦尔纳射出了火焰神箭;那柄由达纳姜耶在战阵前端射出的至上神箭,此时烈焰升腾。
8.95.22
समीक्ष्य कर्णो ज्वलनास्त्रमुद्यतं ।
स वारुणं तत्प्रशमार्थमाहवे।
समुत्सृजत्सूतपुत्रः प्रतापवान् ।
स तेन वह्निं शमयाञ्चकार ॥ ८.९५.२२ ॥
迦尔纳看见举起的火焰神箭,这位威猛的御者之子为了在战斗中将其熄灭,便射出了伐楼那神箭;以此,他熄灭了那火焰。
8.95.23
वलाहकास्त्रेण दिशस्तरस्वी ।
चकार सर्वास्तिमिरेण संवृताः।
अपावहन्मेघगणांस्ततस्तान् ।
समीरणास्त्रेण समीरितेन ॥ ८.९५.२३ ॥
这位迅捷而有力的战士以云雾神箭使四方皆被黑暗笼罩;随后,受风神箭驱动,他驱散了那些云团。
8.95.24
ततः सोऽस्त्रं दयितं देवराज्ञः ।
प्रादुश्चक्रे वज्रममित्रतापनः।
गाण्डीवज्या विमृशंश्चातिमन्यु… ।
र्धनञ्जयः शत्रुसङ्घप्रमाथी ॥ ८.९५.२४ ॥
于是这位焚烧敌人者显现出天王(因陀罗)所钟爱的金刚神箭;他思量着甘狄拔弓的弦,怒不可遏,这位摧毁敌军的达纳姜耶便如此行动。
8.95.25
नाराचनालीकवराहकर्णा ।
गाण्डीवतः प्रादुरासन्सुतीक्ष्णाः।
सहस्रशो वज्रसमानवेगा… ।
स्ते सर्वतः पर्यधावन्त घोराः ॥ ८.९५.२५ ॥
从甘狄拔弓中射出极其锋利的箭,名为那罗遮、那利迦和野猪耳,成千上万,速度如金刚杵……那些可怖的箭向四面八方疾驰。
8.95.26
पार्थेषवः कर्णरथं विलग्ना ।
अधोमुखाः पक्षिगणा दिनान्ते।
निशानिकेतार्थमिवाशु वृक्षं ।
जग्राह तान्सूतपुत्रः पृषत्कैः ॥ ८.९५.२६ ॥
般度之子的箭朝下射中迦尔纳的战车,如同日暮时飞鸟急于栖息于树上。御者之子用自己的箭将它们接住。
8.95.27
क्षिप्तांस्तथा पाण्डवबाणसङ्घा… ।
नमृष्यमाणस्य धनञ्जयस्य।
रणाजिरे त्वन्तकतुल्यकर्मा ।
वैकर्तनो रोषपरीतचेताः ॥ ८.९५.२७ ॥
般度子弟的箭群也同样射出。但面对阿周那无法忍受的猛攻,行为如同死神的维迦尔摊那(迦尔纳),心被愤怒所控,在战场上……
8.95.28
ज्योतिष्प्रभां यद्वदुपागतः स… ।
न्दिवाकरो नाशयते क्षणेन।
पार्थस्य तान्बाणगणान्समग्रा… ।
न्व्यनाशयद्युध्यत एव कर्णः ॥ ८.९५.२८ ॥
犹如太阳靠近星辰之光,瞬间将其消灭,迦尔纳在作战中便摧毁了般度之子的那全部箭群……
8.95.29
रोषात्प्रदीप्तः सुमहाविमर्दे ।
भीमस्ततोऽक्रुध्यददीनसत्वः।
पाणिं स्वपाणौ स विनिष्पिष्य रोषा… ।
दमर्षितो वाक्यमुवाच पार्थम् ॥ ८.९५.२९ ॥
于是,在大混战中因愤怒而炽燃的、勇毅不屈的婆罗多王子毗摩大怒;他双手相互揉搓,在愤恨之中……无法忍受,对般度之子说了这番话。
8.95.30
त्वां सूतपुत्रो नु कथं किरीटि… ।
न्रथेषुभिर्हन्ति शिताग्रधारैः।
धृत्या हि भूतानि ययाऽजयस्त्वं ।
ग्रासं ददत्खाण्डवे पावकाय ॥ ८.९५.३० ॥
御者之子怎能以锋利的箭矢射杀你,哦,基利提因?你以征服众生的那份坚忍,在割喀万林向火神献上供物时获得了胜利。
8.95.31
धृत्या तया सूतपुत्रं जहि त्व… ।
महं वैनं गदया पोथयिष्ये।
समेत्य पार्थं सुनृशंसवादी ।
जीवन्नायं यास्यति कालपक्वः ॥ ८.९५.३१ ॥
以那同样的坚忍,你去杀死御者之子。我要用我的棍棒将他碾碎。这个说残酷话语的人,已被时间催熟,遇见般度之子后将不能活着归去。