摩诃婆罗多 · 章 8.96
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.96.1
अथाब्रवीच्चक्रधरोऽपि पार्थं ।
दृष्ट्वा रथेषून्प्रतिहन्यमानान्।
अमूमुषत्पश्यत एव तेऽद्य ।
ह्यस्त्राणि कर्णोऽस्त्रगणैः किरीटिन् ॥ ८.९६.१ ॥
于是持轮者也对般度之子说:「眼见你的车箭被击落,嗟乎冠冕者,今日迦尔纳以箭群当着你的面夺走了你的神兵。」
8.96.2
स पार्थ किं मुह्यसि वेत्सि चैव ता… ।
न्दृष्ट्वा समेतान्नदतः कुरूस्त्वम्।
कर्णं पुरस्कृत्य विदुर्हि सर्वे ।
तवास्त्रमस्त्रैर्विनिहन्यमानम् ॥ ८.९६.२ ॥
般度之子啊,你为何迷惑?你其实知道……眼见聚集咆哮的俱卢人以迦尔纳居前,他们都知道你的神兵正被兵器摧毁。
8.96.3
पार्थाहवे त्यक्तुमस्त्रं समर्थः ॥ ८.९६.३ ॥
般度之子啊,你有能力在战斗中放下武器。
8.96.4
अनेन चाशु क्षुरनेमिनाद्य ।
मया विसृष्टेन सुदर्शनेन।
छिन्ध्यस्य मूर्धानमरेः प्रसह्य ।
वज्रेण शक्रो नमुचेरिवारेः ॥ ८.९६.४ ॥
以此剃刀边缘之箭,以及我所发的苏达尔舍那,立刻有力地斩下这敌人的头颅吧,就如因陀罗以金刚杵斩断那纳穆chi之敌的头颅一般。
8.96.5
किरातरूपी भगवान्यया च ।
त्वया महात्मा परितोषितोऽभूत्।
स तां पुनर्वीर धृतिं गृहीत्वा ।
सहानुबन्धं जहि सूतपुत्रम् ॥ ८.९६.५ ॥
英雄啊,重新拿起那份坚定吧,正是凭借它,化身为库拉塔猎人的世尊才对你这伟大灵魂者感到满意,请与其随从一同杀死御者之子。
8.96.6
ततो महीं सागरमेखलां त्वं ।
सपत्तगा ग्रामवतीं समृद्धाम्।
प्रयच्छ राज्ञे निहतारिसङ्घां ।
यशश्च पार्थातुलमाप्नुहि त्वम् ॥ ८.९६.६ ॥
随后,将被大海环绕、步兵与村落丰饶的繁荣大地,献给那已消灭敌军的国王;帝释之子(普利塔之子)啊,你将获得无比的荣耀。
8.96.7
त्वां चापि दृष्ट्वा परिहीयमानम् ॥ ८.९६.७ ॥
见你也在衰减,桑遮耶说道:
8.96.8
सञ्चोदितो भीमजनार्दनाभ्यां ।
स्मृत्वा तदात्मानमवेत्य सर्वम्।
इहात्मनश्चागमने विदित्वा ।
प्रयोजनं केशवमित्युवाच ॥ ८.९६.८ ॥
在毗摩与阇那陀那的催促下,他想起自身,明白了一切,并知晓自己来此的目的,于是对黑天说道:
8.96.9
प्रादुष्करोभ्येष महास्त्रमुग्रं ।
शिवाय लोकस्य वधाय सौतेः।
तन्मेऽनुजानातु भवान्सुराश्च ।
ब्रह्मा शिवो ब्रह्मविदश्च सर्वे ॥ ८.९६.९ ॥
为了世界的福祉,也为了杀死御者之子,我现在显现这威猛的大神兵;愿你、诸神、梵天、湿婆以及一切梵智者都允许我这样做。
8.96.10
इति स्मोक्त्वा पाण्डवः सव्यसाची ।
नमस्कृत्वा ब्रह्मणे सोऽमितात्मा।
अनुत्तमं ब्राह्ममसह्यमस्त्रं ।
प्रादुश्चक्रे मनसा यद्विधेयम् ॥ ८.९६.१० ॥
说罢,般度之子萨维亚萨钦(阿周那)以无限之心向梵天致礼,仅以意念唤出那至高而难以承受、应当施用的梵神兵。
8.96.11
ततो दिशश्च प्रदिशश्च सर्वाः ।
समावृणोत्सायकैर्भूरितेजाः।
गाण्डीवमुक्तैर्भुजगैरिवोग्रै… ।
र्दिवाकरांशुप्रतिमैर्ज्वलद्भिः ॥ ८.९६.११ ॥
于是他用从甘狄拔弓射出的、如猛蛇般、如日光般炽烈的箭,遮蔽了一切方向与隅方,光芒极盛。
8.96.12
सृष्टास्तु बाणा भरतर्षभेण ।
शतं शतं भीममुखाः सुतीक्ष्णाः।
प्राच्छादयन्कर्णरथं क्षणेन ।
युगान्तकालार्ककरप्रकाशाः ॥ ८.९६.१२ ॥
婆罗多族的雄牛所射的箭,一百又一百,箭头可怖、极其锐利,瞬间遮蔽了迦尔纳的战车;它们如劫末之日的太阳光芒般闪耀。
8.96.13
वैकर्तनेनाशु तदाजिमध्ये ।
सहस्रशो बाणगणा विसृष्टाः।
ते चाक्षयाः पाण्डवमभ्युपेयुः ।
पर्जन्यसृष्टा इव वारिधाराः ॥ ८.९६.१३ ॥
于是在战阵中央,毗迦尔达那迅速射出成千上万的箭群;它们永不消散,扑向般度之子,如同云所降下的水流。
8.96.14
ततः स कृष्णं च किरीटिनं च ।
वृकोदरं चाप्रतिमप्रभावः।
त्रिभिस्त्रिभिर्भीमबलो निहत्य ।
ननाद घोरं महता स्वनेन ॥ ८.९६.१४ ॥
于是他拥有无与伦比的威力与可怖的力量,以三支箭分别射中黑天、冠者(阿周那)和狼腹(怖军),并以巨大的声音发出可怖的吼叫。
8.96.15
ततः स बाणाभिहतः किरीटी ।
भीमं तथा प्रेक्ष्य जनार्दनं च।
अमृष्यमाणः पुनरेव पार्थः ।
शरान्दशाष्टौ सममुद्ववर्ष ॥ ८.९६.१५ ॥
于是被箭射伤的冠者,见怖军与生主(黑天)亦遭此难,不能忍受,般度之子(阿周那)又一次同时射出十八支箭。
8.96.16
स केतुमेकेन शरेण विद्ध्वा ।
शल्यं चतुर्भिस्त्रिभिरेव कर्णम्।
ततः सुमुक्तैर्दशभिर्जघान ।
सेनापतिं काञ्चनवर्मनद्वम् ॥ ८.९६.१६ ॥
他以一箭射穿旗帜,以四箭射中沙利耶,以三箭射中迦尔纳,随后以十支善射之箭击中身披金甲的统帅。
8.96.17
स राजपुत्रो विशिरा विबाहु… ।
र्विवाजिसूतो विधनुर्विकेतुः।
अथो रथाग्रादपतत्प्ररुग्णः ।
परश्वथैः साल इवावकृत्तः ॥ ८.९६.१७ ॥
那位王子无头无臂……御者与马匹散乱,弓与旗尽失,从车前倒下,如被斧斫倒的娑罗树般折断。
8.96.18
नष्टौ सहस्राणि च पत्तिवीरान् ॥ ८.९६.१८ ॥
成千上万的步兵勇士也被消灭。
8.96.19
दृष्ट्वा तु मुख्यावतिविध्यमानौ ।
वरेषुभिः शूरवरावरिघ्नौ।
कर्णं च पार्थं च नियम्य वाहा-
न्सर्वे वरिष्ठाश्च ततोऽवतस्थुः ॥ ८.९६.१९ ॥
看到两位最优秀的英雄、杀敌者迦尔纳与普利塔之子被上好的箭矢重重射中,所有最优秀的战士勒住马匹,停留在那里。
8.96.20
प्रच्छादयामास ततः पृषत्कैः ।
सघोषमाच्छिद्य च गाण्डिवज्याम्।
अस्मिन्क्षणे फल्गुनं सूतपुत्रः ।
समाचिनोत्क्षुद्रकाणां शतेन ॥ ८.९६.२० ॥
随后他以箭矢覆盖了他;就在此时,御者之子发出一声响,斩断了甘狄拔弓的弦,并以百支小箭将福尔古纳覆盖。
8.96.21
निर्मुक्तसर्पप्रतिमैश्च तीक्ष्णै… ।
स्तैलप्रघौतैः खगपत्रवाजैः।
षष्ट्या बिभेदाशु च वासुदेवं ।
तदन्तरे प्रात्वरन्सोमकाश्च ॥ ८.९६.२१ ॥
他以六十支锐利的箭——如蛇蜕般光滑,以油打磨,缀有禽羽——迅速射穿了婆苏提婆;与此同时,索摩迦人冲上前来。
8.96.22
ततो नवज्यां सुदृढां किरीटि ।
स्वबाहुविक्षेपसहां प्रगृह्य।
समादधे गाण्डिवे क्षिप्रकारी ।
निमेषमात्रेण महाधनुष्मान् ॥ ८.९६.२२ ॥
于是戴冠者取来一根新的、极其坚韧的弓弦,能承受他自己手臂的挥动;这位行动迅捷的大弓手在转瞬之间将其系在了甘提拔弓上。
8.96.23
ज्याछेदनं ज्याविधानं च तस्य ।
नैवावबुध्यत्सूतपुत्रो लघुत्वात्।
पार्थस्य सङ्ख्ये द्विषतां निहन्तु… ।
स्तदद्भुतं तत्र बभूव राजन् ॥ ८.९६.२३ ॥
由于普利塔之子的迅捷,御者之子甚至没有察觉自己弓弦的被割断与重新装上;大王啊,在战场上斩杀敌人的……那奇异之事在那里发生了。
8.96.24
पार्थोऽपि तां ज्यामवधाय तूर्णं ।
शरासनज्यामाधिरथेर्विहत्य।
सुसंरब्धः कर्णशरैः क्षताङ्गो ।
रणे योधांस्तावकान्प्रत्यगृह्णात् ॥ ८.९६.२४ ॥
普利塔之子也迅速稳住弓弦,割断了御者之子的弓弦;身体被迦尔纳的箭所伤,他怒不可遏,转而在战场上攻击你的战士。
8.96.25
नैवापत्पक्षिगणोऽन्तरिक्षे ।
पार्थेन चास्त्रेण कृतेऽन्धकारे ॥ ८.९६.२५ ॥
普利塔之子以兵器造出黑暗时,天空中的鸟群并未遭受任何危险。
8.96.26
शल्यं तु पार्थो दशभिर्निमेषा… ।
द्भृशं तनुत्रे प्रहसन्नविध्यत्।
ततः कर्णं द्वादशभिः पृषत्कै… ।
र्विद्ध्वा पुनः सप्तभिरप्यविध्यत् ॥ ८.९६.२६ ॥
阿周那在十瞬之间……以笑声刺穿沙利耶的铠甲。随后以十二支箭……射穿迦尔纳,又以七支箭再次射穿。
8.96.27
स पार्थबाणासनवेगनुन्नै… ।
र्दृढाहतः पत्रिभिरुग्रवेगैः।
विभिन्नगात्रः क्षतजोक्षिताङ्गः ।
कर्णो बभौ रुद्र इवान्तकाले ॥ ८.९६.२७ ॥
被阿周那箭与弓的疾速所驱使……被猛烈迅疾的箭重创,肢体被刺穿,身体沾满鲜血,迦尔纳在死亡之时如楼陀罗般闪耀。
8.96.28
ततस्त्रिभिस्तं त्रिदशाधिपोपमं ।
शरैर्बिभेदाधिरथिर्धनञ्जयम्।
शरांश्च पञ्च ज्वलनानिवोरगा… ।
न्प्रवेशयामास जिघांसुरच्युते ॥ ८.९६.२८ ॥
随后,御者之子以三支箭射穿了如天神之主般的达那阳耶。他又如燃烧的毒蛇般,欲杀阿周那,将五支箭……射入阿至多(克里希那)之中。
8.96.29
सुवर्णचित्रं पुरुषोत्तमस्य ।
वर्माथ भित्त्वाभ्यपतन्सुपुङ्खाः।
वेगेन गां ते विविशुश्च राज… ।
न्स्नात्वा कर्णाऽभिमुखाः प्रतीयुः ॥ ८.९६.२९ ॥
穿透至上人(阿周那)镶金的铠甲,那些羽翎精良的箭以力道坠落,没入大地,并……进入国王体内;沐浴之后,它们转向迦尔纳返回。
8.96.30
तान्पञ्चभल्लैर्दशभिः सुमुक्तै… ।
स्त्रिधात्रिधैकैकमथोच्चकर्त।
धनञ्जयस्ते न्यपतन्पृथिव्यां ।
यथाऽहयस्तार्क्ष्यमुखेन कृत्ताः ॥ ८.९६.३० ॥
阿周那以五支巴拉与十支善射之箭,将他们每人斩成三段;他们如被金翅鸟之喙啄断的蛇一般倒在地上。
8.96.31
द्धैर्यात्तुं तस्थावतिमात्रधैर्यः ॥ ८.९६.३१ ॥
……他以极大的坚毅屹立不动。
8.96.32
प्रादुश्चकाराथ शरान्महात्मा ।
देहं विचिन्वन्निव सूतजस्य।
शरास्तु ते काञ्चनचित्रपुङ्खाः ।
सम्पेतुरुर्व्यां शतशो महान्तः ॥ ८.९६.३२ ॥
那位大心者随即射出箭矢,仿佛在寻找御者之子的身躯。那些羽翼镶金、色彩斑斓的巨箭,成百地落在地上。
8.96.33
ततः शरौघैः प्रदिशो दिशश्च ।
रविप्रभाः कर्णरथश्च राजन्।
अदृश्य आसीत्कुपिते धनञ्जये ।
तुषारनीहारवृतो गिरिर्यथा ॥ ८.९६.३३ ॥
于是,大王啊,愤怒的持财(阿周那)以箭雨如潮,使四方与隅角、以及如太阳般明亮的迦尔纳之车都隐没不见,如同被霜雾覆盖的山峰。
8.96.34
सचक्ररक्षा अपि पृष्ठगोपाः ।
कर्णस्य ये चापि पुरःसराश्च।
भीता द्रवन्ति स्म निहन्यमाना ।
महेषुभिः पार्थकरप्रणुन्नैः ॥ ८.९६.३४ ॥
迦尔纳的车轮护卫、后卫以及走在前方的人也都惊恐奔逃,被普利塔之子手中射出的巨箭击中。
8.96.35
ततोऽर्जुनो वै भरतप्रवीरो ।
महानुभावः समरे निहन्ता।
सुयोधनेनानुमतान्विनिघ्न… ।
न्समुच्छ्रितान्सरथान्सारभूतान् ॥ ८.९६.३५ ॥
此时,婆罗多族的英雄阿周那,威力强大,是战场上的杀手,开始击杀苏约达那所认可的、高立的战车武士,即最优秀的战士。
8.96.36
गाण्डीवधन्वा द्विगुणं सहस्रं ।
कुरुप्रवीरानृषभः कुरूणाम्।
क्षणेन सर्वान्सरथान्ससूता… ।
न्निनाय राजन्क्षयमेकवीरः ॥ ८.९६.३६ ॥
手持甘狄拔弓的、库鲁族中的公牛、独一无二的英雄,大王啊,顷刻之间,将两千名库鲁英雄连同战车与御者送入毁灭。
8.96.37
अथो पलायन्त विहाय कर्णं ।
तवात्मजा ये कुरवश्च शिष्टाः।
एतानवाकीर्य शरक्षतांश्च ।
विलप्यमानांस्तनयान्विमृद्गन् ॥ ८.९६.३७ ॥
于是你的儿子们和其余的库鲁人丢下迦尔纳逃走了。他将那些被箭射伤、哀号的儿子们驱散并碾压。
8.96.38
सर्वे प्रणेशुः कुरवो विभग्नाः ।
पार्थेषुभिः सम्परितप्यमानाः।
सुयोधनेनाथ पुनर्वरिष्ठाः ।
प्रचोदिताः कर्णरथानुयाने ॥ ८.९६.३८ ॥
所有库鲁人被阿周那的箭射得溃散、痛苦,纷纷丧命。随后,在苏约达那的催促下,那些最优秀的战士又去追随迦尔纳的战车。
8.96.39
भोः क्षत्रियाः शूरतमास्तु सर्वे ।
क्षत्रे च धर्मे निरताः स्थ यूयम्।
न युक्तरूपं भवतां समीपा… ।
त्पलायनं कर्णमतिप्रहाय ॥ ८.९६.३९ ॥
啊,刹帝利们,你们都是最英勇的,并且专注于刹帝利的本分与法。抛弃迦尔纳而逃走,对你们来说是不相称的。
8.96.40
तवात्मजेनापि तथोच्यमाना ।
नैवावतिष्ठन्त भयाद्विवर्णाः।
क्षणेन नष्टाः प्रदिशो दिशश्च ।
सर्वे ततः प्रेक्ष्य दिशो विशून्याः ॥ ८.९६.४० ॥
虽经你的儿子如此呼喊,他们因恐惧而面色苍白,无法坚守。顷刻之间,他们全都向各方和各隅逃散;然后看到四方空无一人,
8.96.41
भयावदीर्णः कुरुभिर्विहीनः ।
पार्थेषुभिः सम्परितप्यमानः।
न विव्यधे भारत तत्र कर्णः ।
प्रतीपमेवार्जुनमभ्यधावत् ॥ ८.९६.४१ ॥
卡尔纳被恐惧撕裂,被俱卢族抛弃,遭受阿周那箭矢的折磨,婆罗多啊,他在那里竟无法击中任何人;他直直地向阿周那冲去。