Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.97

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.97.1

ततोऽपयाताः शरपातमात्रमवस्थिता वै कुरवो नरेन्द्र ।
विद्युत्प्रकाशं ददृशुः समन्ताद्धनञ्जयास्त्रं समुदीर्यमाणम् ॥ ८.९७.१ ॥

于是,科鲁人退至箭程之内站立,国王啊,他们看见阿周那的神箭从四面八方射出,闪耀如闪电。

8.97.2

ततोऽग्रसत्सूतपुत्रोऽर्जुनस्य वियद्गतं घोरतरं शरैस्तत् ।
क्रुद्धेन पार्थेन शरं विसृष्टं वधाय कर्णस्य महाविमर्दे ॥ ८.९७.२ ॥

于是御者之子用自己的箭拦截了阿周那那支飞行于空中、极其可怕的箭——那是愤怒的普利塔之子在大战中为杀死迦尔纳而射出的。

8.97.3

उदीर्यमाणं स्म कुरुन्दहन्तं सुवर्णपुङ्खैर्विशिखैर्ममर्द ।
कर्णस्त्वमोघेष्वसनं दृढज्यं विस्फारयित्वा विसृजञ्छरौघान ॥ ८.९७.३ ॥

迦尔纳用金羽箭压碎了那支燃烧着科鲁人而升起的箭;他将不失准的弓拉满、弦绷紧,射出箭的洪流。

8.97.4

रामादुपात्तेन महामहिम्ना ह्याथर्वणेनारिविनाशनेन ।
तदर्जुनास्त्रं व्यघमद्दहन्तं पार्थ च वाणैर्निशितैरविध्यत् ॥ ८.९७.४ ॥

他以从罗摩处获得的、威力巨大、能毁灭敌人的阿他婆吠陀神箭,压碎了阿周那那燃烧的神箭,并用锐利的箭射穿了普利塔之子。

8.97.5

ततो विमर्दः सुमहान्वभूव तत्रार्जुनस्याधिरथेश्च राजन् ।
अन्योन्यमासादयतोः पृषत्कैर्विषाणघातैर्द्विपयोरिवाजौ ॥ ८.९७.५ ॥

于是,国王啊,阿周那与御者之子迦尔纳之间爆发了一场巨大的冲突;他们以箭互相逼近,如同战场上两头大象以象牙相撞。

8.97.6

ततोऽस्त्रसंघातसमावृतं तदा बभूव राजंस्तुमुलं रणाजिरम् ।
य्त्कर्णपार्थै शरवृष्टिसङ्घैर्निरन्तरं चक्रतुरम्बरं तदा ॥ ८.९७.६ ॥

那时,大王啊,被众多兵器覆盖的战场变得喧嚣混乱;迦尔纳与阿周那以箭雨的洪流不断遮蔽了天空。

8.97.7

ततो जालं वाणमयं महान्तं सर्वेऽद्राक्षुः कुरवः सोमकाश्च ।
नान्यं च भूतं ददृशुस्तदा ते बाणान्धकारे तुमुलेऽथ किंचित् ॥ ८.९७.७ ॥

那时,所有的俱卢人与苏摩迦人都看见了一张由箭矢织成的巨大罗网;在那箭矢的黑暗与喧嚣之中,他们再也看不见其他任何东西。

8.97.8

तौ सन्दधानावनिशं च राजन् समस्यन्तौ चापि शराननेकान् ।
सन्दर्शयेतां युधि मार्गान्दिचित्रा न्धनुर्धरौ तौ विविधैः कृतास्त्रैः ॥ ८.९७.८ ॥

大王啊,那二人不停地搭箭射出,在战斗中射出无数箭矢,展现出奇妙的轨迹——那两位弓手精通多种神兵。

8.97.9

तयोरेवं युध्यतोराजिमध्ये सूतात्मजोऽभूदधिकः कदाचित् ।
पार्थः कदाचित्त्वधिकः किरीटी वीर्यास्त्रमायाबलपौरुषेण ॥ ८.९७.९ ॥

二人在战阵之中如此交战,有时御者之子占了上风,有时戴冠的帕尔塔占了上风——凭着勇力、神兵、幻术、力量与丈夫之气。

8.97.10

दृष्ट्वा तयोस्तं युधि संप्रहारं परस्परस्यान्तरमीक्षमाणयोः ।
घोरं तयोर्दुर्विषहं रणेऽन्यैर्योधाः सर्वे विस्मयमभ्यगच्छन् ॥ ८.९७.१० ॥

众战士看见二人在战中彼此寻找破绽、相互猛烈交击的那可怕而难以承受的搏斗,个个都惊愕不已。

8.97.11

ततो भूतान्यन्तरिक्षस्थितानि तौ कर्णपार्थै प्रशशंसुर्नरेन्द्र ।
भोः कर्ण साध्वर्जुन साधु चेति वियत्सु वाणी श्रूयते सर्वतोपि ॥ ८.९७.११ ॥

那时,停留在空中的众生,啊,人主,赞美那二人——迦尔纳与般度子。"善哉,迦尔纳!善哉,阿周那!"这样的声音从天空四面八方传来。

8.97.12

तस्मिन्विमर्दे रथवाजिनागैस्तदाऽभिघातैर्दलिते हि भूतले ।
ततस्तु पातालतले शयानो नागोऽश्वसेनः कृतवैरोऽर्जुनेन ॥ ८.९७.१२ ॥

在那场战斗的混乱中,当大地被战车、马匹和象群的冲撞踏碎时,那躺在地底深处、与阿周那结下仇怨的蛇王阿湿缚犀那,正在那里。

8.97.13

राजंस्तदा खाण्डवदाहमुक्तो विवेश कोपाद्वसुधातले यः ।
अथोत्पपातोर्ध्वगतिर्जवेन सन्दृश्य कर्णार्जुनयोर्विमर्दम् ॥ ८.९७.१३ ॥

啊,国王!那时,从燃烧的犍陀婆林中逃脱、怒气冲冲地钻入地下的那条蛇,看见迦尔纳与阿周那的这场交锋,便迅疾向上腾起。

8.97.14

अयं हि कालेस्य दुरात्मनो वै पार्थस्य वैरप्रतियातनाय ।
सञ्चिन्त्य तूर्ण प्रविवेश चैव कर्णस्य राजन्शररुपधारी ॥ ८.९७.१४ ॥

"此刻正是这恶人报复与般度子之仇的时候了。"如此思量之后,啊,国王,他化作一支箭,迅速进入了迦尔纳。

8.97.15

ततोस्रसङ्घातसमाकुलं तदा बभूव जन्यं विततांशुजालम् ।
तत्कर्णपार्थौ शरसङ्घ्वृष्टिभिर्निरन्तरं चक्रतुरंबरं तदा ॥ ८.९७.१५ ॥

那时,充满血流的战场变得如同铺开的光网。那时,迦尔纳与般度子以箭群如雨般不断地充满天空。

8.97.16

तद्वाणजालैकमयं महान्तं सर्वेऽत्रसन्कुरवः सोमकाश्च ।
नान्यत्किञ्चिद्ददृशुः सम्पतद्वै बाणान्धकारे तुमुलेऽतिमात्रम् ॥ ८.९७.१६ ॥

看见这由箭网织成的巨大黑暗,所有的俱卢人和索摩迦人都惊恐不已。在箭雨造成的可怕黑暗中,他们除了坠落的箭什么也看不见。

8.97.17

ततस्तौ पुरुषव्याघ्रौ सर्वलोकधनुर्धरौ ।
त्यक्तप्राणौ रणे वीरौ युध्दश्रममुपागतौ ॥ ८.९७.१७ ॥

那时,这两位人中之虎、三界的弓箭手、在战场上置生死于度外的英雄,陷入了战斗的疲惫。

8.97.18

समुत्क्षेपैर्वीक्षमाणौ सिक्तौ चन्दनवारिणा ।
सवालव्यजनैर्दिव्यैर्दिविस्थैरप्सरोगणैः ।
शक्रसूर्यकराब्जाभ्यां प्रमार्जितमुखावुभौ ॥ ८.९७.१८ ॥

二人被檀香水洒过,被牦牛尾拂尘和天上的神扇扇风,天上站立的阿普萨拉斯群体注视着他们,脸庞被因陀罗和太阳的莲花手擦拭干净。

8.97.19

कर्णोऽथ पार्थ न विशेषयद्यदा भृशं च पार्थेन शराभितप्तः ।
ततस्तु वीरः शरविक्षताङ्गो दघ्रे मनो ह्येकशयस्य तस्य ॥ ८.९७.१९ ॥

阿周那用箭猛烈攻击他时,迦尔纳已无法分辨阿周那。于是这位身上被箭所伤的英雄,把心思专注于那唯一的床榻。

8.97.20

ततो रिपुघ्नं समधत्त कर्णः सुसंचितं सर्पमुखं ज्वलन्तम् ।
रौद्रं शरं सन्नतमुग्रघौतं पार्थार्थमित्येव चिराभिगुप्तम् ॥ ८.९७.२० ॥

于是迦尔纳把那支杀敌的箭搭上弓弦。这支箭准备精良,箭头如蛇口,炽烈可怖,弯曲而锐利地磨过,长久以来只为阿周那而保存。

8.97.21

सदार्चितं चन्दनचूर्णशायितं सुवर्णतूणीरशयं महार्चिषम् ।
आकर्णपूर्ण विचकर्ष कर्णो विमोक्तुकामः शरमुग्रवेगम् ॥ ८.९७.२१ ॥

那支常受供奉、躺在檀香粉上、置于金箭囊中、光焰巨大的箭;迦尔纳将其拉至耳边,欲射出这支猛烈疾速的箭。

8.97.22

प्रदीप्तमैरावतवंशसंभवं शिरो जिहीर्षुर्युधि सव्यसाचिनः ।
ततः प्रजज्वाल दिशो नमश्च उल्काश्च घोराः शतशः प्रपेतुः ॥ ८.९७.२२ ॥

此箭出自爱罗婆多之族,光焰熊熊,欲在战场上夺取萨维亚萨钦(阿周那)之首。于是四方与天空燃烧起来,数百颗可怖的流星坠落。

8.97.23

तस्मिस्तु नागे धनुषि प्रयुक्ते हाहाकृता लोकपालाः सशक्राः ॥ ८.९७.२३ ॥

当那支蛇箭搭上弓弦时,世界护卫与帝释天一同惊呼:“哀哉,哀哉!”

8.97.24

स सूतपुत्रस्तमपाङ्गदेशे अवाड्मुखं संधयति स्म रोषात् ।
न तं स्म जानाति महानुभावमपङ्गदेशेऽभिनिविष्टमाजौ ॥ ८.९७.२४ ॥

御者之子怀着愤怒,将那支朝下的箭搭在眼角处;他不知道,那位大能者正在战场上停留于眼角。

8.97.25

न चापि तं बुबुधे सूतपुत्रो बाणे प्रविष्टं योगबलेन नागम् ।
दशशतनयनोऽहिं दृश्य बाणे प्रविष्टं निहत इति सुतो मे स्रस्तगात्रो बभूव ।
जलजकुसुमयोनिः श्रेष्ठभावो जितात्मा त्रिदशपतिमवोचन्मा व्यथिष्ठा जये श्रीः ॥ ८.९७.२५ ॥

御者之子未曾察觉那条凭借瑜伽之力潜入箭中的蛇。千眼因陀罗见蛇入箭中,以为“我的儿子被杀了”,四肢无力。于是莲花所生的梵天,品性崇高、自制其心,对众神之主说:“莫要忧伤;胜利之中自有吉祥。”

8.97.26

ततोऽब्रवीन्मद्रराजो महात्मा दृष्ट्वा कर्ण प्रहितेषुं तमुग्रम् ।
ग्रीवायतः कर्ण न् संहितोऽयं समीक्ष्य संधत्स्व शरं परध्नम् ॥ ८.९७.२६ ॥

那时,高尚的摩德罗王看到迦尔纳射出的猛烈箭矢,说道:“迦尔纳,它瞄准了颈项;看准它,搭上能杀敌的箭吧。”

8.97.27

अथाब्रवीत्क्रोधसंरक्तनेत्रो मद्राधिपं सूतपुत्रो मनस्वी ।
न संधत्ते द्विः शरं शल्य कर्णो न मादृशा जिह्ययुध्दा भवन्ति ॥ ८.९७.२७ ॥

于是心高气傲的御者之子,双眼因愤怒而通红,对摩德罗王说:“沙利亚,迦尔纳不会两次搭箭;像我这样的人不用狡诈的战法。”

8.97.28

इतिदमुक्त्वा विससर्ज तं शरं प्रयत्नतो वर्षगणाभिपूजितम् ।
हतोसि रे फल्गुन इत्यधिक्षिपन्नुवाच चोच्चैर्गिरमूर्जितां वृषः ॥ ८.९७.२८ ॥

说罢,他竭尽全力射出了那支多年来受人供奉的箭;他嘲讽地高声喊道:“喂,般度的阿周那,你死定了!”这位如公牛般的勇士大声呼喊。

8.97.29

स सायकः कर्णभुजप्रसृष्टो हुताशनार्कप्रतिमः सुघोरः ।
गुणच्युतः कर्णधनुः प्रमुक्तो वियद्गतः प्राज्वलदन्तरिक्षे ॥ ८.९७.२९ ॥

那支箭从迦尔纳的臂上射出,可怕如火与太阳;它离开迦尔纳弓弦,飞入天空,在太空中熊熊燃烧。

8.97.30

तमापतन्तं ज्वलितं निरीक्ष्य वियद्गतं वृष्णिकुलप्रवीरः ।
रथस्य चक्रं सहसा निपीड्य पञ्चाङ्गुलं मञ्जयति स्म वीरः ॥ ८.९७.३० ॥

维里施尼族的第一勇士看到那支燃烧的箭从天空朝他们坠来,立刻猛压战车的车轮,将其压入地中五指之深。

8.97.31

ततोऽन्तरिक्षे सुमहान्निनादः संपूजनार्थ मधुसूदनस्य ।
र्दिव्यानि पुष्पाण्यथ सिंहनादाः ।
तस्मिंस्तथा वै धरणीं निमग्ने रथे प्रयत्नान्मधुसूदनस्य ॥ ८.९७.३१ ॥

此时天空中响起巨大的声音,以敬拜摩图苏陀那(克里希那);神圣的花朵纷纷落下,狮吼之声回荡。就在此时战车正陷入大地,摩图苏陀那费力地将它托住。

8.97.32

ततः किरीटं वहुरत्नचित्रं जघान नागोऽर्जुनमूर्धतो बलात् ।
गिरेः सुजाताङ्कुरपुष्पितद्रुमं महेन्द्रवज्रं शिखरं यथोत्तमम् ॥ ८.९७.३२ ॥

此时,蛇箭猛烈击落阿周那头上镶满众多宝石的王冠,正如高山之巅——生长着嫩芽与花树——被因陀罗的金刚杵击中。

8.97.33

ततः किरीटं तपनीयचित्रं पार्थोत्तमाङ्गदहरत्तरस्वी ।
तद्धेमजालावनतं सुघोरं संप्रज्वलत्तन्निपपात भूमौ ॥ ८.९७.३३ ॥

此时,迅捷的普利塔之子从阿周那头上夺下那镶嵌金饰的王冠;这顶被金网压弯的可怖王冠燃烧着坠落在地。

8.97.34

ततोऽर्जुनस्योत्तमगात्रभूषणं सुवर्णमुक्तामणिवज्रचित्रितम् ।
धरावियद्दयोसलिलेषु विश्रुतं बलं निसर्गोत्तममन्युभिः सदा ॥ ८.९७.३४ ॥

此时,阿周那高贵身躯的饰物——以黄金、珍珠、宝石与金刚石装饰,闻名于大地、天空、天界与水中,始终具有其天生至高愤怒之力。

8.97.35

शरेण मूर्ध्नि प्रजहार सूतजो दिवाकरेन्दुज्वलनग्रहत्विषम् ।
सुवर्णमुक्तामणिवज्रभूषणं पुरन्दरार्थ तपसा प्रयत्नतः ॥ ८.९७.३५ ॥

御者之子以箭射中头上的饰物,那饰物光辉如日、月、火与星辰,以金、珍珠、宝石与金刚石装饰,为因陀罗以苦行精心制成。

8.97.36

स्वयं कृतं यद्विधिना स्वयंभुवा महार्हरुपं द्विषतां भयंकरम् ।
निजघ्नते देवरिपून्सुरेश्वरः स्वयं ददौ यध्दि मुदाऽर्जुनाय ॥ ८.९७.३६ ॥

此物乃梵天自作,形貌珍贵,令敌人恐惧;天主因陀罗以之击杀众天神之敌,欣然将其赐予阿周那。

8.97.37

हरिप्रचेतोहरिवित्तगोप्तृभिः पिनाकपाशाशनिदण्डधारिभिः ।
सुरोत्तमैरप्यविषह्यमर्दितुं प्रसह्य नागेन जहार तद्वृषा ॥ ८.९७.३७ ॥

即便众天神之最也难以毁坏之物,由诃利、普罗切塔斯和俱毗罗等守护者——持弓、索、雷杵与棒者守护,那公牛借蛇之力强行将其夺走。

8.97.38

तदुत्तमेषून्मथितं विषाहिना प्रदीप्तपर्चिष्मदतीव सुन्दरम् ।
पपात पार्थस्य किरीटमुत्तमं दिवाकरोस्तादिव पर्वताज्ज्वलन् ॥ ८.९७.३८ ॥

阿周那那顶殊胜的宝冠,被上好的箭与毒蛇撼动,焰光灼灼,极为华美,坠落下来,如燃烧的太阳从山上坠下。

8.97.39

महीवियद्दयोसलिलानि वायुना प्रसह्य रुग्णानि विघूर्णितानि वा ।
इतीव शब्दं भुवनेषु तत्तथा जना व्यवस्यन्ति दिशश्च विह्वलाः ॥ ८.९७.३९ ॥

大地、天空、天界与水,仿佛被风强力撕裂旋转——世间回荡着这样的声音,人们与四方在惊惶中也如此认定。

8.97.40

विना किरीटं शुशुभे स पार्थः श्यामो युवा शैल इव त्रिशृङ्गैः ॥ ८.९७.४० ॥

阿周那失去宝冠,肤色黝黑而年轻,犹如三峰之山,光彩照人。

8.97.42

ततः समुद्ग्र्थ्य सितेन वाससा स्वमूर्घजानव्यथितस्तदाऽर्जुनः ।
बभौ सुसंपूर्णमरीचिनेन्दुना शिरोगतेनोदयपर्वतो यथा
स चापि राधेयभुजप्रमुक्तो हुताशनार्कप्रतिमद्युतिर्महान् ।
महोरगः कृतवैरोऽर्जुनेन किरीटमाहृत्य समुत्पपात ॥ ८.९७.४२ ॥

于是阿周那泰然自若,以白布束起头发,犹如升起之山,顶上托着满辉的明月,光彩照人。那大蛇从迦尔纳的臂中挣脱,光辉如火与日,怀着对阿周那的敌意,夺取王冠后向上飞去。

8.97.43

तमुत्पतन्तं द्विपदां वरिष्ठो दृष्ट्वा वचः पार्थमुवाच कृष्णः ।
महोरगं पाण्डव पश्यपश्य प्रयोजितं त्वन्निधनार्थमुग्रम् ॥ ८.९७.४३ ॥

克里希那,两足者中最优秀者,见那大蛇飞腾而起,便对阿周那说:看啊,般度之子,看那被派来毁灭你的凶猛大蛇!

8.97.44

स एवमुक्तो मधुसूदनेन गाण्डीवधन्वा हरिमुग्रवाचा ।
उवाच को न्वेष ममाद्य नागः क्षयाय नागाद्गरुडस्य वक्त्रम् ॥ ८.९७.४४ ॥

摩图苏陀那如此说后,持甘狄拔弓的阿周那以严厉之语对哈里说:今日化作大蛇来毁灭我的,究竟是谁?他就像从迦鲁达口中逃脱的蛇,到底是何人?

8.97.45

योऽसौ त्वया खाण्डवे चित्रभानुं संतर्पयाणेन धनुर्धरेण ।
वियद्गतो जननीगुप्तदेहो मत्वैकरूपं निहताऽस्य माता ॥ ८.९७.४५ ॥

你在坎达婆林中以弓手之身杀死的那人,即在满足赤焰(火神)时被杀者,其身体曾由母亲护佑,此人已升入天空。他把你和她视为同一形象,于是杀了你的母亲。

8.97.46

स एष तद्वैरमनुस्मरन्वै त्वां प्रार्थयत्यात्मवधाय नूनम् ।
नभश्च्युतां प्रज्वलितामिवोल्कां पश्यैनमायान्तममित्रसाह ॥ ८.९७.४६ ॥

他记着那份仇恨,必定是为了自取灭亡而来寻你。看他像从天上坠落的燃烧流星般逼近吧,征服敌人者啊。

8.97.47

ततः स जिष्णुः परिवृत्य रोषाच्चिच्छेद षड्भिर्निशितैः सुधारैः ।
नागं वियत्तिर्यगिवोत्पतन्तं स च्छिन्नगात्रो निपपात भूमौ ॥ ८.९७.४७ ॥

于是胜者阿周那怒而转身,用六支锋利的利箭,将斜向天空升起的那条蛇斩断;它的身体被截断,坠落在地上。

8.97.48

हते च तस्मिन्भुजगे किरीटिना स्वयं विभुः पार्थिव भूतलादथ ।
समुज्जहाराशु पुनः पतन्तं रथं भुजाभ्यां पुरुषोत्तमस्ततः ॥ ८.९७.४८ ॥

国王啊,当戴冠的阿周那杀死那条蛇后,全能的人中之最(克里希那)亲自迅速用双臂把从地面上坠落的战车重新托起。

8.97.49

तस्मिन्मुहूर्ते दशभिः पृषत्कैः शिलाशितैर्बर्हिणबर्हवाजितैः ।
विव्याघ कर्णः पुरुषप्रवीरो धनञ्जयं तिर्यगवेक्षमाणः ॥ ८.९७.४९ ॥

就在那一刻,英雄迦尔纳——人中之最——用十支在石上磨利、以孔雀羽装饰的箭射中了德汗阇耶(阿周那),一边斜眼看着他。

8.97.50

ततोऽर्जुनो द्वादशभिः सुमुक्तैर्वराहकर्णैर्निशितैः समर्प्य ।
नाराचमाशीविषतुल्यवेगमाकर्णपूर्णायतमुत्ससर्ज ॥ ८.९७.५० ॥

于是阿周那搭上十二支善射、形如野猪耳的利箭,射出了一支速度如毒蛇、拉满至耳际的铁箭。

8.97.51

स चित्रवर्मेषुवरो विदार्य प्राणान्निरस्यन्निव साधुमुक्तः ।
कर्णस्य पीत्वा रुधिरं विवेश वसुंधरां शॊणितदिग्धवाजः ॥ ८.९७.५१ ॥

那支带有斑斓铠甲的上好箭,仿佛要驱出生命之气,被好好射出,刺穿迦尔纳,饮尽他的鲜血,进入大地,羽毛沾满血迹。

8.97.52

ततो वृषो बाणनिपातकोपितो महोरगो दण्डविघट्टितो यथा ।
तदाऽऽशुकारी व्यसृजच्छरोत्तमान् महाविषः सर्प इवोत्तमं विषम् ॥ ८.९७.५२ ॥

于是持牛者因箭落而愤怒,如同被杖击打的大蛇,迅速射出上好的箭,正如剧毒之蛇喷出至毒。

8.97.53

जनार्दनं द्वादशभिः पराभिनन्नवैर्नवत्या च शरैस्तथाऽर्जुनम् ।
शरेण घोरेण पुनश्च पाण्डवं विदार्य कर्णो व्यनदज्जहास च ॥ ८.९७.५३ ॥

他以十二支箭射中生主(黑天),以九十支箭射中阿周那;又以可怕的箭刺穿般度之子,迦尔纳吼叫并大笑。

8.97.54

तमस्य हर्षं ममृषे न पाण्डवो बिभेद मर्माणि ततोऽस्य मर्मवित् ।
परःशतैः पत्रिभिरिन्द्रविक्रमस्तथा यथेन्द्रो बलमोजसा रणे ॥ ८.९७.५४ ॥

般度之子不能忍受他的得意;他通晓要害,以数百支带羽的箭刺穿迦尔纳的要害,英勇如因陀罗,正如因陀罗以其力量与威势在战场上所做的。

8.97.55

ततः शराणां नवतिं तदाऽर्जुनः ससर्ज कर्णेऽन्तकदण्डसंनिभाम् ।
तैः पत्रिभिर्विद्धतनुः स विव्यथे तथा यथा वज्रविदारितोऽचलः । ॥ ८.९७.५५ ॥

于是阿周那向迦尔纳射出九十支如阎摩之杖般的箭;他的身体被那些带羽的箭刺穿,痛苦如被雷霆劈裂的山。

8.97.56

मणिप्रवेकोत्तमवज्रहाटकैरलंकृतं चास्य वराङ्गभूषणम् ।
प्रविद्धमुर्व्यां निपपात पत्रिभिर्धनञ्जयेनोत्तमकुण्डलेपि च ॥ ८.९७.५६ ॥

他那以宝石、上等钻石和黄金装饰的殊胜身饰被阿周那的箭射穿,落在地上,他的上好耳环也落下了。

8.97.57

महाधनं शिल्पिवरैः प्रयत्नतः कृतं यदस्योत्तमवर्म भास्वरम् ।
सुदीर्घकालेन ततोऽस्य पाण्डवः क्षणेन बाणैर्बहुधा व्यशातयत् ॥ ८.९७.५७ ॥

他那件闪亮的上好铠甲极其昂贵,由最优秀的工匠耗费大量精力、历时很久而制成,却被般度之子在瞬间以箭射成了许多碎片。

8.97.58

तस्येषुभिः खण्डितकुण्डलोऽन्तः परिक्षतश्चाभ्यधिकं तदानीम् ।
सलोहिताङ्गश्रवणश्चकाशे सलोहिताङ्गश्रवणो यथा दिवि ॥ ८.९७.५८ ॥

他的耳环被箭射断;那时他内里受了极重的伤,他那血红的肢体与耳朵,在天空中闪耀如一颗红色的行星。

8.97.59

स तं विवर्माणमथोत्तपेषुभिः शितैश्चतुर्भिः कुपितः पराभिनत् ।
स विव्यथेऽत्यर्थमरिप्रताडितो यथाऽऽतुरः पित्तकफानिलज्वरैः ॥ ८.९७.५९ ॥

阿周那愤怒地用四支锋利、炽热的箭射击失去铠甲的迦尔纳;被敌人击伤的他极度痛苦,如同被胆汁、痰与风的热病折磨的病人。

8.97.60

महाधनुर्मण्डलनिः सृतैः शितैः क्रियाप्रयत्नप्रहितैर्बलेन च ।
ततक्ष कर्ण बहुभिः शरोत्तमैर्बिभेद मर्मस्वपि चार्जुनस्त्वरन् ॥ ८.९७.६० ॥

阿周那以许多上好的锐利箭矢击中迦尔纳,这些箭从他大弓的圆弧中射出,借娴熟的努力与力量发出;他急速地连致命要害也刺穿了。

8.97.61

दृढाहतः पत्रिभिरुग्रवेगैः पार्थेन कर्णो विविधैः शिताग्रैः ।
बभौ गिरिर्गैरिकधातुरक्तः क्षरन्प्रपातैरिव रक्तमम्भः ॥ ८.९७.६१ ॥

被阿周那以猛烈速度的各种利箭重创的迦尔纳,如同被赭石染红的山岳,从瀑布中流出如血的水,闪耀夺目。

8.97.62

ततोऽर्जुनः कर्णमवक्रगैर्नवैः सुवर्णपुङ्खैः सुदृढैरयस्मयैः ।
यमाग्निदण्डप्रतिमैः स्तनान्तरे पराभिनत्क्रौञ्चमिवाद्रिमग्निजः ॥ ८.९७.६२ ॥

于是阿周那用新的、直飞的、带金羽的、极坚固的铁箭,如同阎摩与火神之杖,射穿了迦尔纳的胸膛,正如火之子刺穿了克劳伽山。

8.97.63

ततः शरावापमपास्य सूतजो धनुश्च तच्छक्रशरासनोपमम् ।
ततो रथस्थः स मुमोह च स्खलन् प्रशीर्णमुष्टिः सुभृशाहतः प्रभो ॥ ८.९७.६३ ॥

于是御者之子抛弃了那张如同因陀罗之弓的弓和箭囊;随后他站在车上神志迷乱,摇晃踉跄,手掌松开,遭受重创,哦主上!

8.97.64

न चार्जुनस्तं व्यसने तदेषिवान्निहन्तुमार्यः पुरुषव्रते स्थितः ।
ततस्तमिन्द्रावरजः सुसंभ्रमादुवाच किं पाण्डव हे प्रमाद्यसे ॥ ८.९७.६४ ॥

高贵的阿周那恪守男子之誓,不愿在他陷入困境时将其杀死;于是因陀罗的幼弟十分急切地对他说:'哦般度之子,你为何疏忽?'

8.97.65

नैवाहितानां सततं विपश्चितः क्षणं प्रतीक्षन्त्यपि दुर्बलीयसाम् ।
विशेषतोऽरीन्व्यसनेषु पण्डितो निहत्य धर्मं च यशश्च विन्दते ॥ ८.९७.६५ ॥

智者对敌人从不等待哪怕一刻,尤其是对弱者;智者在危难中杀死敌人,便同时获得法与名声。

8.97.66

तदेकवीरं तव चाहितं सदा त्वरस्व कर्ण सहसाऽभिमर्दितुम् ।
पुरा समर्थः समुपैति सूतजो भिन्धि त्वमेनं नमुचिं यथा हरिः ॥ ८.९७.६६ ॥

因此,迦尔纳啊,你要赶快立即粉碎那位你永远的敌人、独一无二的英雄。御者之子正有能力地逼近;你要像因陀罗斩杀那穆质一样斩杀他。

8.97.67

ततस्तदेवेत्यभिपूज्य सत्वरं जनार्दनं कर्णमविध्यदर्जुनः ।
शरोत्तमैः सर्वकुरुत्तमस्त्वरं स्तथा यथा शम्बरहा पुरा बलिम् ॥ ८.९७.६७ ॥

于是,说道“就这样吧”,迅速礼敬遮那提那,诸俱卢中最优秀的阿周那用上好的箭射穿了迦尔纳,正如往昔杀死商跋罗者射穿了钵利。

8.97.68

साश्चं तु कर्णं सरथं किरीटी समाचिनोद्भारत वत्सदन्तैः ।
प्रच्छादयामास दिशश्च बाणैः सर्वप्रयत्नात्तपनीयपुङ्खैः ॥ ८.९७.६८ ॥

然而,戴冠者(阿周那)啊,婆罗多后裔,用“犊牙”箭把迦尔纳连同马匹和战车一起覆盖;他竭尽全力,又以金羽箭遮蔽了四方。

8.97.69

स वत्सदन्तैः पृथुपीनवक्षाः समाचितः सोऽधिरथिर्विभाति ।
सुपुष्पिताशोकपलाशशाल्मलिर्यथाऽचलश्चन्दनकाननायुतः ॥ ८.९७.६९ ॥

那位阿提罗陀之子,宽阔丰满的胸膛被犊牙箭覆盖,闪耀如被檀香林环绕的山岳,那里盛开着阿输迦、波罗奢与舍摩梨树。

8.97.70

शरैः शरीरे बहुभिः समर्पितैर्विभाति कर्णः समरे विशांपते ।
महीरुहैराचितसानुकन्दरो यथा गिरीन्द्रः स्फुटकर्णिकारवान् ॥ ८.९७.७० ॥

人主啊,在战场上,迦尔纳身上插满许多箭,闪耀如山中之王,其峰峦与洞穴被树木覆盖,盛开着迦尼迦罗树。

8.97.71

स बाणस्ङ्घान्बहुधा व्यवासृजन् विभाति कर्णः शरजालरश्मिवान् ।
सलोहितो रक्तगभस्तिमण्डलो दिवाकरोऽस्ताभिमिखो यथा तथा ॥ ८.९७.७१ ॥

他以多种方式射出箭群;迦尔纳以箭网为光芒而闪耀,如同红色光轮的太阳面向落山时闪耀。

8.97.72

बाह्वन्तरादाधिरथेर्विमुक्तान् बाणान्महाहीनिव दीप्यमानान् ।
व्यध्वंसयन्नर्जुनवाहुमुक्ताः शराः समासाद्य दिशः शिताग्राः ॥ ८.९७.७२ ॥

从阿周那臂中射出的锋利箭矢,摧毁了从迦尔纳臂间射出、如大蛇般燃烧的箭;它们抵达了四方。

8.97.73

ततः स कर्णः समवाप्य धैर्य बाणान्विमुञ्चन्कुपिताहिकल्पान् ।
विव्याध पार्थ दशभिः पृषत्कैः कृष्णं च षड्भिः कुपिताहिकल्पैः ॥ ८.९७.७३ ॥

于是迦尔纳重新获得勇气,射出如愤怒毒蛇般的箭;他以十支普里沙特箭射中阿周那,以六支如愤怒毒蛇般的箭射中黑天。

8.97.74

ततः किरीटी भृशमुग्रनिः स्वनं महाशरं सर्पविषानलोपमम् ।
अयस्मयं रौद्रमहास्रसंभृतं महाहवे क्षेप्तुमना महामतिः ॥ ८.९७.७४ ॥

于是智慧广大的冠者阿周那决意射出一支大箭:它在大战中猛烈咆哮,如同蛇毒之火,由铁制成,可怖,充满大神兵。

8.97.75

कालो ह्यदृश्यो नृप विप्रशापान्निदर्शयन्कर्णवधं ब्रुवाणः ।
भूमिस्तु चक्रं ग्रसतीत्यवोच त्कर्णस्य तस्मिन्वघकाल आगते ॥ ८.९७.७५ ॥

大王啊,因婆罗门的诅咒而不可见的时间,示现迦尔纳之死,说道:「大地确实吞没了车轮」;当迦尔纳被杀之时到来时,它如此说。

8.97.76

न चास्य धोरं प्रतिभाति चास्त्रं यद्भार्गवोऽस्मै प्रददौ महात्मा ।
चक्रं च वामं ग्रसते भूमिरस्य प्राप्ते तस्मिन्वध्काले नृवीर ॥ ८.९७.७६ ॥

那位伟大的婆利古后裔所赐予他的可怕武器,如今已不在他心中浮现。啊,人中英雄,当他的死期来临时,大地正吞噬着他的左轮。

8.97.77

ततो रथो घूर्णितवान्नरेन्द्र शापात्तदा ब्राह्मणसत्तमस्य ।
प्राप्तं वधं शंसति चाप्यथास्रं प्रणश्यमानं द्विजमुख्यशापात् ॥ ८.९७.७७ ॥

那时,啊人主,由于最优秀婆罗门的诅咒,他的战车开始旋转;它预示着他的死期已到,而由于再生者中首要者的诅咒,神箭也在消亡。

8.97.78

ततश्च क्रमपतत्तस्य भूमौ स विह्वलः समरे सूतपुत्रः ।
सवेदिकश्चैत्य इवातिमात्रः सुपुष्पितो भूमितले निमग्नः ॥ ८.९७.७८ ॥

于是,这位御者之子在战场上昏乱,渐渐倒在地上,就像一棵高大开花的圣树(支提)连同祭坛一起陷入地中。

8.97.79

मग्ने रथे ब्राह्मणशापमूढो ह्यस्त्रं च तं मोघमिषुं च सर्पम् ।
अमृष्यमाणो व्यसनानि तानि ह्स्तौ विधुन्वन्विजगर्ह धर्मम् ॥ ८.९७.७९ ॥

车轮陷入地中,他被婆罗门的诅咒所迷惑,不能忍受这些灾难,想起那件武器、那支无用之箭和那支蛇箭,便挥动双手,指责法。

8.97.80

धर्मप्रधानं किल पाति धर्म इत्यब्रुवन्धर्मविदः सदैव ।
वयं च धर्मे प्रयताम नित्यं चर्तुयथाशक्ति यथाश्रुतं च ।
स चापि निघ्नाति न पाति भक्तान् मन्ये न नित्यं परिपाति धर्मः ॥ ८.९७.८० ॥

精通法者总是说法为首,法能庇护。我们也依照所闻,尽力日日奉行法。然而,那法却击杀信徒,而不庇护他们;依我看,法并非总是庇护。

8.97.81

एवं ब्रुवन्प्रस्खलिताश्वसूतो विचाल्यमानोऽर्जुनबाणपातैः ।
मर्माभिघाताच्छिथिलः त्रियासु पुनः पुनर्धर्ममसौ जगर्ह ॥ ८.९७.८१ ॥

他如此说着,马匹与御者已踉跄,被阿周那箭矢的落下所震撼,因打中要害而虚弱,一再谴责法。

8.97.82

ततः शरैर्भीमतरैरविध्यत्रिभिराहवे ।
हस्ते कृष्णं तथा पार्थमभ्यविध्यच्च सप्तभिः ॥ ८.९७.८२ ॥

随后在战斗中,他以三支极为可怕的箭射中了他,又以七支箭击中了手中的克里希那与普利塔之子。

8.97.83

ततोऽर्जुनः सप्तदश तिग्मवेगानजिह्नगान् ।
इन्द्राशनिसमान्घोरानसृजत्पावकोपमान् ॥ ८.९७.८३ ॥

随后阿周那射出十七支锐利迅疾、直飞的箭,如同因陀罗的金刚杵,可怖如火。

8.97.84

निर्भिद्य ते भीमवेगा ह्यपतन्प्रूथिवीतले ।
कम्पितात्मा ततः कर्णः शक्त्या चेष्टामदर्शयत् ॥ ८.९७.८४ ॥

那些速度可怖的箭穿透了他,坠落于地。随后,心中颤抖的迦尔纳以长矛(矢)展示了他的努力。

8.97.85

बलेनाथ स संस्तभ्य ब्रह्मास्त्रं समुदैरयत् ।
ऎन्द्रं ततोऽर्जुनश्चापि तं दृष्ट्वाऽभ्युपमन्त्रयत् ॥ ८.९७.८५ ॥

于是迦尔纳以力量稳住自己,发出了梵天神箭。阿周那见此,也随即召唤因陀罗神箭。

8.97.86

गाण्डीवं ज्यां च बाणांश्च सोऽनुमत्र्य परंतपः ।
व्यसृजच्छरवर्षाणि वर्षाणीव पुरंदरः ॥ ८.९७.८६ ॥

这位焚烧敌人的英雄以咒语加持了甘狄拔弓、弓弦和箭矢,如同补罗檀陀罗一般降下箭雨。

8.97.87

ततस्तेजोमया वाणा रथात्पार्थस्य निः सृताः ।
प्रादुरासन्महावीर्याः कर्णस्य रथमन्तिकात् ।
स कर्णोऽग्रसदस्यास्त्रं कुर्वन्मोक्षं महारथः ॥ ८.९७.८७ ॥

于是阿周那战车上射出光明的箭矢,威力巨大,出现在迦尔纳的战车近旁。大车士迦尔纳吞没了它们的神力,使其无法释放。

8.97.88

ततोऽब्रवीद्वृष्णिवीरस्तस्मिन्नस्रे विनाशिते ।
विसृजास्रं परं पार्थ राधेयो ग्रसते शरान् ॥ ८.९७.८८ ॥

那神箭被摧毁之后,毗湿尼族的英雄说道:“般度之子啊,放出至上神箭!罗陀之子正在吞噬你的箭矢。”

8.97.89

ततो ब्रह्मास्त्रमत्युग्रं संमत्र्य समयोदयत् ।
छादयित्वा ततो बाणैः कर्ण प्रत्यस्यदर्जुनः ॥ ८.९७.८९ ॥

于是阿周那以咒语加持最猛烈的梵天神箭,并将其发出。随后以箭矢遮蔽迦尔纳,向他发动攻击。

8.97.90

द्वितीयां च तृतीयां च चतुर्थी पञ्चमीं तथा ।
षष्ठीमथास्य चिच्छेद सप्तमीं च तथाऽष्टमीम् ।
नवमीं दशमीं चास्य तथा चैकादशीं वृषः ॥ ८.९७.९० ॥

他又斩断了他的第二、第三、第四、第五、第六、第七、第八、第九、第十和第十一根弓弦——这位公牛(阿周那)。

8.97.91

ज्याशतं शतसंधानः स क्रर्णो नावबुध्यते ॥ ८.९७.९१ ॥

能一次搭上百支箭的迦尔纳,竟没有察觉那一百根弓弦已被斩断。

8.97.92

ततो ज्यां विनिधायान्यामभिमत्र्य च पाण्डवः ।
शरैरवाकिरत्कर्ण दीप्यमानैरिवाहिभिः ॥ ८.९७.९२ ॥

于是般度之子装上另一根弓弦,以咒语加持,向迦尔纳射出如燃烧毒蛇般的箭雨。

8.97.93

तस्य ज्याच्छेदनं कर्णो ज्यावधानं च संयुगे ।
नान्वभुध्यत शीघ्रत्वात्तदद्भुतमिवाभवत् ॥ ८.९७.९३ ॥

战斗中,因速度之快,迦尔纳没有察觉自己弓弦被斩断和重新装上;这看似奇迹。

8.97.94

अस्त्रैरस्त्राणि संवार्य प्रनिघ्नन्सव्यसाचिनः ।
चक्रे चाप्यधिकं पार्थात्स्ववीर्यमतिदर्शयन् ॥ ८.९७.९४ ॥

以兵器挡住兵器,并反击善用左右手的阿周那(萨维亚萨钦),他展现的勇力超过了普利塔之子。

8.97.95

ततः कर्णोऽर्जुनं दृष्ट्वा स्वस्यास्त्रेण च पीडितम् ।
अभ्यसेत्यब्रवीत्पार्थमातिष्ठास्त्रं व्रजेति च ॥ ८.९७.९५ ॥

于是迦尔纳见阿周那被自己的兵器所困,便对普利塔之子说:“来吧,站稳,拿起你的兵器,前进!”

8.97.96

ततोऽग्निसदृशं घोरं शरं सर्पविषोपमम् ।
अश्मसारमयं दिव्यमभिमत्र्य परंतपः ।
रौद्रमस्रं समाधाय क्षेतुकामः किरीटिने ॥ ८.९७.९६ ॥

于是,令敌人痛苦的迦尔纳以咒语加持一支神箭,此箭如火般可怖,如蛇毒般致命,坚如金石;他搭上残酷的神兵,欲将其射向戴冠者阿周那。

8.97.97

ततोऽग्रसन्मही चक्रं राधेयस्य तदा नृप ॥ ८.९७.९७ ॥

于是,国王啊,大地吞没了罗陀之子迦尔纳的车轮。

8.97.98

ततोऽवतीर्य राघेयो रथादाशु समुद्यतः ।
चक्रं भुजाभ्यामालम्ब्य सुमुत्क्षेप्तुमियेष सः ॥ ८.९७.९८ ॥

于是罗陀之子迦尔纳迅速下车,做好准备,双臂抓住车轮,想要将它举起并掷出。

8.97.99

सप्तद्वीपा वसुमती सशैलवनकानना ।
गीर्णाचक्रा समुत्क्षिप्ता कर्णॆन चतुरङ्गुलम् ॥ ८.९७.९९ ॥

七大洲、山岳、森林与园林俱全的大地婆苏摩提,其车轮被吞没,却被迦尔纳向上举起了四指宽。

8.97.100

ग्रस्तचकस्तु राधेयः क्रोधादश्रूण्यवर्तयत् ।
अर्जुनं वीक्ष्य संरब्धमिदं वचनमब्रवीत् ॥ ८.९७.१०० ॥

然而,车轮被吞没的罗陀之子迦尔纳因愤怒而落泪;他望着愤怒的阿周那,说出了这些话。

8.97.101

भोभो पार्थ महेष्वास मुहूर्त परिपालय ।
यावच्चक्रमिदं ग्रस्तमुध्दरामि महीतलात् ॥ ८.९७.१०१ ॥

啊,普利塔之子,伟大的弓手!请稍等片刻,待我将这被吞没的车轮从地面拉出。

8.97.102

सव्यं चक्रं महीग्रस्तं दृष्ट्वा दैवादिदं मम ।
पार्थ कापुरुषाचीर्णमभिसन्धिं विसर्जय ॥ ८.९७.१०२ ॥

帕尔塔啊,见我左轮因天命陷入地中,你应舍弃这种懦夫所行的念头。

8.97.103

न त्वं कापुरुषाचीर्ण मार्गमास्थातुमर्हसि ।
ख्यातस्त्वमसि कौन्तेय विशिष्टो रणकर्मसु ।
विशिष्टतरमेव त्वं कर्तुमर्हसि पाण्डव ॥ ८.९७.१०३ ॥

你不应走懦夫所行之路。考恩特耶啊,你在战斗之事上名声显赫、卓越超群。潘度之子啊,你更应当成就更卓越的功业。

8.97.104

प्रकीर्णकेशे विमुखे ब्राह्मणेऽथ कृताञ्जलौ ।
शरणागते न्यस्तशस्त्रे याचमाने तथाऽर्जुन ॥ ८.९७.१०४ ॥

阿周那啊,对于披发、背过脸、合掌、前来求庇护、已放下武器并乞求的婆罗门,也同样(不应放箭)。

8.97.105

अबाणे भ्रष्टकवचे भ्रष्टभग्नायुधे तथा ।
न विमुञ्चन्ति शस्त्राणि शूराः साधुव्रते स्थिताः ॥ ८.९७.१०५ ॥

没有箭矢、铠甲脱落、兵器跌落折断之人,英雄也不会放出武器;他们坚守善人的誓愿。

8.97.106

त्वं च शूरतमो लोके साधुवृत्तश्च पाण्डव ।
अभिज्ञो युध्दधर्माणां तस्मात्क्षममुहूर्तकम् ॥ ८.९७.१०६ ॥

潘度之子啊,你是世上最勇武、品行端正且通晓战争之法的人;因此请稍待片刻。

8.97.107

दिव्यास्त्रविदमेयात्मा कार्तवीर्यसमो युधि ।
यावच्चक्रमिदं ग्रस्तमुद्धरामि महाभुज ॥ ८.९७.१०७ ॥

大臂者啊,我精通神兵,心志无量,战场上与迦尔达维里耶相当;只要此轮仍陷于地中,我便要将它扶起。

8.97.108

न मां रथस्थो भूमिष्ठं विकलं हन्तुमर्हसि ।
न वासुदेवात्त्वत्तो वा पाण्डवेयविभेम्यहम् ॥ ८.९७.१०८ ॥

你立于战车之上,不应杀害站在地上、残废的我。我不惧怕瓦苏提婆,也不惧怕你,也不惧怕般度之子。

8.97.109

त्वं हि क्षत्रियदायादो महाकुलविवर्धनः ।
अतस्त्वां प्रब्रवीम्येष मुहूर्त क्षम पाण्डव ॥ ८.९७.१०९ ॥

你是刹帝利种姓的继承人,是光大大族的人。因此,般度之子啊,我对你说:稍候片刻。