摩诃婆罗多 · 章 9.14
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.14.1
दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः ।
चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम् ॥ ९.१४.१ ॥
大王啊,难敌与般迦罗之子、普利沙塔之子猛光展开了一场充满箭矢与投枪的大战。
9.14.2
ततो राजन्समापेतुः शरधाराः सहस्रशः ।
अम्बुदानां यथा काले जलधाराः समन्ततः ॥ ९.१४.२ ॥
大王啊,于是箭雨如千百道,从四面八方倾泻而下,恰如时节到来时云中降下的水流。
9.14.3
राजा च पार्षतं विद्ध्वा शरैः पञ्चभिराशुगैः ।
द्रोणहन्तारमुग्रेषुं पुनर्विव्याध सप्तभिः ॥ ९.१४.३ ॥
国王以五支迅疾之箭射中般迦罗之子,随后又以七箭再次射中杀死德罗纳的那位猛烈的射手。
9.14.4
धृष्टद्युम्नस्तु समरे बलवान्दृढविक्रमः ।
सप्तत्या विशिखानां वै दुर्योधनमपीडयत् ॥ ९.१४.४ ॥
然而猛光在战场上勇猛无比、英武坚定,以七十支箭矢重创了难敌。
9.14.5
पीडितं वीक्ष्य राजानं सोदर्या भरतर्षभ ।
महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम् ॥ ९.१४.५ ॥
婆罗多族的雄牛啊,他们见国王受困,其兄弟便率领庞大军队将般迦罗之子团团围住。
9.14.6
स तैः परिवृतः शूरः सर्वतोऽतिरथै र्भृशम् ।
व्यचरत्समरे राजन्दर्शयन्नस्त्रलाघवम् ॥ ९.१४.६ ॥
大王啊,这位英雄被那些大车战士从四面八方包围,却在战场上猛烈驰骋,展示着他的武艺之娴熟。
9.14.7
शिखण्डी कृतवर्माणं गौतमं च महारथम् ।
प्रभद्रकैः समायुक्तो योधयामास धन्विनौ ॥ ९.१४.७ ॥
尸犍低与普罗跋陀罗人同行,与克里塔瓦尔曼和大车将乔达摩——这两位弓箭手——交战。
9.14.8
तत्रापि सुमहद्युद्धं घोररूपं विशाम्पते ।
प्राणान्सन्तजतां युद्धे प्राणद्यूताभिदेवने ॥ ९.१४.८ ॥
那里也爆发了极其惨烈的大战,人民之主啊,战斗中舍弃生命的人们之间,宛如以性命为赌注的赌博。
9.14.9
शल्यः सायकवर्षाणि विमुञ्जन्सर्वतोदिशम् ।
पाण्डवान्पीडयामास ससात्यकिवृकोदरान् ॥ ९.१४.९ ॥
沙利耶向四面八方倾泻箭雨,逼迫般度诸子,连同萨提亚基与狼腹(毗摩)。
9.14.10
तथा तौ तु यमौ यमतुल्यपराक्रमौ ।
योधयामास राजेन्द्र वीर्येणास्त्रबलेन च ॥ ९.१४.१० ॥
同样,那两位与阎摩同等勇武的孪生兄弟,大王啊,以勇力与武器之力作战。
9.14.11
शल्यसायकनुन्नानां पाण्डवानां महामृधे ।
त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः ॥ ९.१४.११ ॥
在那场大战中,被沙利耶之箭射中的般度诸子,竟连一位保护者也找不到,即便在那里的一些大车将中也没有。
9.14.12
ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते ।
अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः ॥ ९.१४.१२ ॥
那时,法王(坚战)深受折磨,勇猛的摩德利之子那古罗便疾速冲向他的舅父。
9.14.13
सञ्छाद्य समरे वीरं नकुलः परवीरहा ।
विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे ॥ ९.१४.१३ ॥
击杀敌方英雄的无种在战斗中遮蔽了那位英雄,面带微笑,用十支箭射中他的胸膛中央。
9.14.14
सर्वपारसवैर्बाणैः कर्मारपरिमार्जितैः ।
स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः ॥ ९.१४.१४ ॥
皆为波罗萨瓦木所制之箭,经工匠打磨,饰以金羽,于磨石上洗净,由弓之机括射出。
9.14.15
शल्यस्तु पीडितस्तेन स्वस्रीयेण हि मातुलः ।
नकुलं पीडयामास पत्रिभिर्नतपर्वभिः ॥ ९.१४.१५ ॥
然而沙利耶被外甥所伤,作为舅舅的他便以弯曲节眼的箭射击无种。
9.14.16
ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः ।
सहदेवश्च माद्रेणो मद्रराजमुपाद्रवन् ॥ ९.१४.१६ ॥
于是国王坚战、怖军、萨提奇以及摩德丽之子偕天,冲向摩德罗国王。
9.14.17
तानापतत एवाशु पूरयाणान्रथस्वनैः ।
दिशश्च विदिशश्चैव कम्पयानांश्च मेदिनीम्।
प्रतिजग्राह समरे सेनापतिरमित्रजित् ॥ ९.१४.१७ ॥
当他们迅速冲来,以战车之声充满四方与四隅、震动大地之时,统帅“胜敌者”在战斗中迎击了他们。
9.14.18
युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च पञ्चभिः ।
सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः ॥ ९.१४.१८ ॥
以三箭射坚战,以五箭射怖军,于战中以百箭射萨提奇,以三箭射偕天。
9.14.19
ततस्तु सशरं चापं नकुलस्य महात्मनः ।
मद्रेश्वरः क्षुरप्रेण मध्ये चिच्छेद मारिष ॥ ९.१४.१९ ॥
于是摩德罗王以剃刀头箭从中间斩断了大心的那福罗的弓连同箭矢,哦尊者。
9.14.20
तदपास्य धनुश्छिन्नं ततः शल्यस्य सायकैः ।
अथान्यद्धनुरादाय माद्रीपुत्रो महारथः।
मद्रराजरथं तूर्णं पूरयामास पत्रिभिः ॥ ९.१४.२० ॥
摩德罗王以箭斩断了那张弓,摩德莉之子大车将便抛弃断弓,另取一弓,迅速以箭充满了摩德罗王的战车。
9.14.21
युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष ।
दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम् ॥ ९.१४.२१ ॥
坚战与偕天,哦尊者,各以十箭射穿了摩德罗王的胸膛。
9.14.22
भीमसेनस्तु तं षष्ट्या सात्यकिर्दशभिः शरैः ।
मद्रराजमभिद्रुत्य जघ्नतुः …ङ्कपत्रिभिः ॥ ९.१४.२२ ॥
怖军以六十箭、萨提亚基以十箭,冲向摩德罗王,以…羽之箭击之(原文部分无法辨认)。
9.14.23
मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः ।
विव्याध भूयः सप्तत्या शराणां नतपर्वणाम् ॥ ९.१४.२३ ॥
于是愤怒的摩德罗王以九箭射中萨提亚基,又以七十支弯节之箭再次射中他。
9.14.24
अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष ।
हयांश्च चतुरः सङ्ख्ये प्रेषयामास मृत्यवे ॥ ९.१४.२४ ॥
随后,哦尊者,他在握把处斩断了萨提亚基的弓连同箭矢,并在战斗中将他的四匹马送往死亡。
9.14.25
विरथं सात्यकिं कृत्वा मद्रराजो महारथः ।
विशिखानां शतेनैनमाजघान समन्ततः ॥ ९.१४.२५ ॥
摩德罗国王这位大战车武士使萨蒂亚基失去战车,以百支箭从四面八方射击他。
9.14.26
माद्रीपुत्रं च संरब्धो भीमसेनं च पाण्डवम् ।
युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः ॥ ९.१४.२६ ॥
哎,俱卢子孙啊,他愤怒地以各十支箭射穿了摩德莉之子、般度之子婆摩森和坚战。
9.14.27
तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम् ।
यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे ॥ ९.१४.२७ ॥
在那里我们目睹了摩德罗国王的神奇勇武,即使普利塔之子联合起来,也不能在战斗中抵挡他。
9.14.28
अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः ।
पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान्।
अभिदुद्राव वेगेन मद्राणामधिपं बलात् ॥ ९.१४.२८ ॥
于是,真正勇猛的萨蒂亚基登上另一辆战车,见般度之子受困,陷入摩德罗国王的掌控,便迅速而有力地冲向摩德罗之主。
9.14.29
आपतन्तं रथं तस्य शल्यः समितिशोभनः ।
प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम् ॥ ९.१४.२९ ॥
善战的沙利耶驾着战车迎上冲来的战车,如同发狂的象遇上另一头发狂的象。
9.14.30
स सन्निपातस्तुमुलो बभूवाद्भुतदर्शनः ।
सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च।
यादृशो वै पुरा वृत्तः शम्बरामरराजयोः ॥ ९.१४.३० ॥
萨蒂亚基与摩德罗英雄之主的那场交锋变得激烈而奇异,正如往昔商跋罗与众神之王之间的战斗一般。
9.14.31
सात्यकिः प्रेक्ष्य समरे मद्रराजमवस्थितम् ।
विव्याध दशभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत् ॥ ९.१४.३१ ॥
萨提亚基见摩陀罗王在战场上屹立,便以十支箭射中他,并说:「站住,站住!」
9.14.32
मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना ।
सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः ॥ ९.१४.३२ ॥
摩陀罗王被那位大德者重创,便以带有彩色羽毛的锐利箭反射中萨提亚基。
9.14.33
ततः पार्था महेष्वासाः सात्वताऽभिसृतं नृपम् ।
अभ्यवर्तन्रथैस्तूर्णं मातुलं वधकाङ्क्षया ॥ ९.१४.३३ ॥
于是,大弓手普利塔之子们驾车迅速冲向那位被萨特瓦塔追赶的国王——他们的舅父,想要将其杀死。
9.14.34
तत आसीत्परामर्दस्तुमुलः शोणितोदकः ।
शूराणां युध्यमानानां सिंहानामिव नर्दताम् ॥ ९.१४.३४ ॥
于是,一场喧嚣的相互摧毁爆发了,血流成河;英雄们奋战,如狮子般咆哮。
9.14.35
तेषामासीन्महाराज व्यधिक्षेपः परस्परम् ।
सिंहानामामिषेप्सूनां कूजतामिव संयुगे ॥ ९.१४.३५ ॥
大王啊,他们之间相互投掷兵器,如同渴求肉食的狮子在战斗中咆哮。
9.14.36
तेषां बाणसहस्रौघैराकीर्णा वसुधाऽभवत् ।
अन्तरिक्षं च सहसा बाणभूतमभूत्तदा ॥ ९.१४.३६ ॥
大地被他们成千上万支箭的洪流所覆盖,而天空也瞬间被箭所充满。
9.14.37
शरान्धकारं सहसा कृतं तेन समन्ततः ।
अभ्रच्छायेव सञ्जज्ञे शरैर्मुक्तैर्महात्मभिः ॥ ९.१४.३७ ॥
他立即在四面造成箭的黑暗;由诸位大德射出的箭,使之如同云影。
9.14.38
तत्र राजञ्शरैर्मुक्तैर्निर्मुक्तैरिव पन्नैगः ।
स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तदा ॥ ९.१४.३८ ॥
大王啊,那里所射出的箭,如同蛇脱下的皮,以金色的羽翎闪耀,当时四方都为之照亮。
9.14.39
तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः ।
यदेकः समरे शूरो योधयामास वै बहून् ॥ ९.१४.३९ ॥
那里,摧毁敌人的沙利耶做了极其奇妙的事:他独自一人,作为战场上的英雄,与众多敌人作战。
9.14.40
मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः ।
सम्पतद्भिः शरैर्घोरैरवाकीर्यत मेदिनी ॥ ९.१४.४० ॥
由摩德罗王的臂膀射出、以鹤与孔雀羽毛装饰、飞驰而去的可怖之箭,覆盖了大地。
9.14.41
तत्र शल्यरथं राजन्विचरन्तं महाहवे ।
अपश्याम यथापूर्वं शक्रस्यासुरसंक्षये ॥ ९.१४.४१ ॥
大王啊,我们看到沙利耶的战车在大战中驰骋,正如往昔在歼灭阿修罗时看见因陀罗的战车。