Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.15

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.15.1

ततः सेना तव विभो मद्रराजपुरस्कृता ।
पुनरभ्यद्रवत्पार्थान्वेगेन महता रणे ॥ ९.१५.१ ॥

于是,主啊,由摩德罗王率领的你的军队在战斗中以巨大的冲力再次冲向般度之子。

9.15.2

पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः ।
क्षणेन चैव पार्थांस्ते बहुत्वात्समलोडयन् ॥ ९.१५.२ ॥

尽管受挫,你的众战士都渴望战斗,奋勇冲锋,凭借人多势众,瞬间便搅乱了般度之子。

9.15.3

ते वध्यमानाः समरे पाण्डवा नावतस्थिरे ।
क्षणेनैव महाराज पश्यतोः कृष्णपार्थयोः ॥ ९.१५.३ ॥

大王啊,般度族在战场上遭受打击,在克里希那与阿周那注视之下,瞬间便无法站稳脚跟。

9.15.4

ततो धनञ्जयः क्रुद्धः कृपं सह पदानुगैः ।
अवाकिरच्छरौघेण कृतवर्माणमेव च ॥ ९.१५.४ ॥

于是愤怒的财富征服者(阿周那)与他的步兵一起,以箭雨覆盖了克利巴和克里塔瓦尔曼。

9.15.5

शकुनिं सहदेवस्तु सहसैन्यमवाकिरत् ।
नकुलः पार्श्वतः स्थित्वा मद्रराजमयोधयत् ॥ ९.१५.५ ॥

偕天在箭雨中覆盖了沙恭尼及其军队,而那古拉则站在一旁,与摩德罗王作战。

9.15.6

द्रौपदेया नरेन्द्राश्च भूयिष्ठान्समवारयन् ।
द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत् ॥ ९.१५.६ ॥

德罗波蒂的诸子与诸王阻挡了庞大的军队,般遮罗的湿employ(尸干底)则阻挡了德罗纳之子。

9.15.7

भीमसेनस्तु राजानं गदापाणिरवारयत् ।
शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः ॥ ९.१५.७ ॥

而手持铁杵的怖军阻挡了国王;昆提之子坚战则与军队一同阻挡沙利耶。

9.15.8

ततः समभवद्युद्धं संसक्तं तत्रतत्र ह ।
तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् ॥ ९.१५.८ ॥

于是各处交战,混作一团,在你方与敌方之间,那些在战阵中不退缩的战士们之间。

9.15.9

तत्र पश्यामहे कर्म शल्यस्यातिमहद्रणे ।
यदेकः सर्वसैन्यानि पाण्डवानामयोधयत् ॥ ९.१५.९ ॥

在那里,我们看到沙利耶在战斗中极大的功绩:他独自一人与般度诸子的所有军队作战。

9.15.10

व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः ।
क्रूरश्चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः ॥ ९.१५.१० ॥

那时沙利耶出现在坚战身旁,如同凶恶的土星靠近月亮。

9.15.11

पीडयित्वा तु राजानं शरैराशीविषोपमैः ।
अभ्यधावत्पुनर्भीमं शरवर्षैरवाकिरत् ॥ ९.१५.११ ॥

沙利耶以如毒蛇般的箭矢逼迫国王之后,又冲向怖军,以箭雨将他覆盖。

9.15.12

तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम् ।
अपूजयन्ननीकानि परेषां तावकानि च ॥ ९.१५.१२ ॥

众人见他的敏捷与娴熟的武艺,敌军与你方的军队都向他致敬。

9.15.13

पीड्यमानास्तु शल्येन पाण्डवा भृशाविक्षताः ।
प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे ॥ ९.१५.१३ ॥

般度之子被沙利耶逼迫,身受重伤,在坚战呼喊之时,竟舍弃战场而逃。

9.15.14

वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः ।
अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः ॥ ९.१५.१४ ॥

当军队被摩德罗国王杀戮之时,般度之子法王坚战为愤怒所控。

9.15.15

ततः पौरुषमास्थाय मद्रराजमताडयत् ।
जयो वाऽस्तु वधो वेति कृतबुद्धिर्महारथः ॥ ९.१५.१५ ॥

于是,他振奋勇气,决意不胜即死,那位大车战士便击向摩德罗国王。

9.15.16

समाहूयाब्रवीत्सर्वान्भ्रातॄन्कृष्णं च पाण्डवः ॥ ९.१५.१६ ॥

般度之子坚战召集所有兄弟与黑天,对他们说道。

9.15.17

भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः ।
कौरवार्थे पराक्रान्ताः सङ्ग्रामे निधनं गताः।
यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः ॥ ९.१५.१७ ॥

毗湿摩、德罗纳、迦尔纳以及其他为俱卢族奋勇作战、战死沙场的诸王——正如他们一样,你们也要依据各自的本分与勇气,展现男儿的气概。

9.15.18

भागोऽवशिष्ट एकोऽयं मम शल्यो महारथः ।
सोऽहमद्य युधा जेतुमाशंसे मद्रकाधिपम् ॥ ९.१५.१८ ॥

我所余下的唯此一份——大车战士沙利耶。今日于战中,我希望战胜那位摩德罗之主。

9.15.19

तत्र यन्मानसं मह्यं तत्सर्वं निगदामि वः ।
चक्ररक्षाविमौ वीरौ मम माद्रवतीसुतौ ॥ ९.१५.१९ ॥

在那里,我要把我心中所想全部告诉你们:这两位英雄是守护我战车车轮的人,是摩德罗娃蒂的儿子。

9.15.20

अजेयौ वासवेनापि समरे शूरसम्मतौ ।
साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ ॥ ९.१५.२० ॥

这两人即使因陀罗也无法在战场上战胜,受到英雄们的尊敬,在战争中对舅父很好,把刹帝利的责任放在首位。

9.15.21

मदर्थे प्रतियुध्येतां मानार्हौ सत्यसङ्गरौ ।
मां वा शल्यो रणे हन्ता तं वाऽहं भद्रमस्तु वः।
इति सत्यामिमां वाणीं लोकवीरा निबोधत ॥ ९.१५.२१ ॥

为了我,愿这两位值得尊敬、信守誓言的人与我对抗作战。要么沙利耶在战场上杀死我,要么我杀死他;愿你们平安。请听这句真实之言,世界的英雄们。

9.15.22

योत्स्येऽहं मातुलेनाद्य क्षात्रधर्मेण पार्थिवाः ।
स्वमंशमभिसन्धाय विजयायेतराय वा ॥ ९.१५.२२ ॥

今天我将依照刹帝利的责任与舅父作战,诸王啊。决定了自己的份额——为了胜利,或为了另一方。

9.15.23

तस्य मेऽप्यधिकं शस्त्रं सर्वोपकरणानि च ।
संयुज्यन्तां रथे क्षिप्रं शास्त्रवद्रथयोजकैः ॥ ९.१५.२३ ॥

也为他多备武器和一切器械,请御车者依照典籍迅速将其系于战车上。

9.15.24

शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम् ।
पृष्ठगोपो भवत्वद्य मम पार्थो धनञ्जयः ॥ ९.१५.२४ ॥

摄尼耶为右轮,德利什塔祖姆那同样为左轮;今日愿般度子财主(阿周那)作我的后卫。

9.15.25

पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः ।
एवमभ्यधिकः शल्याद्भविष्यामि महामृधे ॥ ९.१५.२५ ॥

愿今日持械者中最优秀的毗摩作我的前导。如此,在这场大战中,我将胜过沙利耶。

9.15.26

एवमुक्तास्तथा चक्रुस्तदा राज्ञः प्रियैषिणः ॥ ९.१५.२६ ॥

如此被告知后,那些希望取悦国王的人便照此行事。

9.15.27

ततः प्रहर्षः सैव्यानां पुनरासीत्तदाः मृधे ।
पाञ्चालानां सोमकानां मात्स्यानां च विशेषतः ॥ ९.१५.२७ ॥

于是战斗中,那种喜悦再次在信度军中兴起,尤其是在般遮罗、索摩迦和摩蹉人之中。

9.15.28

प्रतिज्ञातं च सङ्ग्रामे धर्मराजस्य पूजयन् ।
ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्करान्।
अवादयन्त पाञ्चालाः सिंहनादांश्च नेदिरे ॥ ९.१५.२८ ॥

在战斗中尊奉法王的誓言,般遮罗人于是吹响了数百支海螺、战鼓与大鼓,并发出狮子般的吼声。

9.15.29

तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनम् ।
महता हर्षजेनाथ नादेन कुरुपुङ्गवाः ॥ ९.१५.२९ ॥

他们怒气冲冲地冲向敏捷勇猛的摩德罗王,那些库鲁群牛以喜悦而生的巨大吼声呼啸而去。

9.15.30

हादेन गजघण्टानां शङ्खानां निनदेन च ।
तूर्यशब्देन महता नादयन्तश्च मेदिनीम् ॥ ९.१५.३० ॥

以象铃的鸣响、海螺的号声和大量乐器的巨响,震动大地。

9.15.31

तान्प्रत्यगृह्णात्पुत्रस्ते मद्रराजश्च वीर्यवान् ।
महामेघानिव बहूञ्शैलावस्तोदयावुभौ ॥ ९.१५.३१ ॥

你的儿子与勇猛的摩德罗国王迎战他们,如大云遇见众山,如两座阿斯托达亚山。

9.15.32

शल्यस्तु समरश्लाघी धर्मराजमरिन्दमम् ।
ववर्ष शरवर्षेण शम्बरं मघवा इव ॥ ९.१५.३२ ॥

好夸口的沙利耶向法王、敌人的克服者坚战倾下箭雨,如因陀罗向商婆罗降雨。

9.15.33

तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः ।
द्रोणोपदेशान्विविधान्दर्शयानो महामनाः।
ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च ॥ ९.१५.३३ ॥

同样,库鲁王也拿起精美的弓,展示德罗纳的各种教导,心胸宽广地降下箭雨,奇妙、迅捷而精湛。

9.15.34

न चास्य विवरं कश्चिद्ददर्श चरतो रणे ॥ ९.१५.३४ ॥

在战场上来回穿梭的他,没有人看到他身上有任何空隙。

9.15.35

तावुभौ विविधैर्बाणैस्ततक्षाते परस्परम् ।
शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे ॥ ९.१५.३५ ॥

二人以各色箭矢相互射伤,如两只渴望血肉的猛虎,在战斗中勇猛向前。

9.15.36

भीमस्तु तव पुत्रेण युद्धशौण्डेन सङ्गतः ॥ ९.१५.३६ ॥

而毗摩则与以善战自豪的你的儿子交锋。

9.15.37

पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ ।
शकुनिप्रमुखान्वीरान्प्रत्यगृह्णन्समन्ततः ॥ ९.१५.३७ ॥

般遮罗王子、萨提亚基,以及摩德利的两个儿子般度五子,从四面八方迎战以沙古尼为首的勇士们。

9.15.38

तदासीत्तुमुलं युद्धं पुनरेव जयैषिणाम् ।
तावकानां परेषां च राजन्दुर्मन्त्रिते तव ॥ ९.१५.३८ ॥

王啊,由于你的恶谋,渴望胜利的你的部下与敌人之间再次爆发了猛烈的战斗。

9.15.39

दुर्योधनस्तु भीमस्य शरेणानतपर्वणा ।
चिच्छेदादिश्य सङ्ग्रामे ध्वजं हेमपरिष्कृतम् ॥ ९.१५.३९ ॥

然而难敌在战斗中瞄准,以一支弯曲节杆的箭射断了般度五子中怖军那镶金的旗帜。

9.15.40

स किङ्किणीकजालेन महता चारुदर्शनः ।
पपात रुचिरः सिंहो भीमसेनस्य पश्यतः ॥ ९.१५.४० ॥

那面华丽的狮子旗,形貌俊美,缀满一大片小铃铛的网,在怖军亲眼注视之下倒了下去。

9.15.41

पुनश्चास्य धनुश्चित्रं गजराजकरोपमम् ।
क्षुरेण शितधारेण प्रचकर्त नराधिपः ॥ ९.१५.४१ ॥

那位君王又以锋利的剃刀箭,斩断了怖军那张如象王之鼻的奇妙弓。

9.15.42

स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव ।
बिभेदोरसि विक्रम्य स रथोपस्थ आविशत् ॥ ९.१५.४२ ॥

虽然弓被斩断,光辉的怖军仍奋勇以战车长矛刺穿了你儿子的胸膛,他倒在了车厢的底板上。

9.15.43

तस्मिन्मोहमनुप्राप्ते पुनरेव वृकोदरः ।
यन्तुरेव शिरः कायात्क्षुरप्रेणाहरत्तदा ॥ ९.१५.४३ ॥

当他昏迷之时,狼腹(毗摩)又在那时以剃刀头的箭将御者的头从身上砍下。

9.15.44

हतसूता हयास्तस्य रथमादाय भारत ।
व्यद्रवन्त दिशो राजन्हाहाकारस्तदाऽभवत् ॥ ९.१५.४४ ॥

婆罗多啊,御者被杀,他的马拉着战车四散奔逃;大王啊,那时哀号之声四起。

9.15.45

तमभ्यधावंस्त्राणार्थं द्रोणपुत्रो महारथः ।
कृपश्च कृतवर्मां च पुत्रं ते हि परीप्सवः ॥ ९.१५.४५ ॥

想要保护你的儿子,德罗纳之子大战车手,与克里帕和克里达伐尔曼一起向他冲去。

9.15.46

तस्मिन्विलुलिते सैन्ये त्रस्तांस्तस्य पदानुगान् ।
गाण्डीवधन्वा विस्फार्य धनुस्तानहनच्छरैः ॥ ९.१५.४६ ॥

那支军队陷入混乱时,持甘狄拔弓的阿周那拉开弓,用箭射杀了他那些惊恐的步兵。

9.15.47

युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः ।
स्वयं सन्नोदयन्नश्वान्दन्तवर्णान्मनोजवान् ॥ ९.१५.४७ ॥

然而愤怒的坚战亲自驱策那些象牙色、迅如意念的马,向摩德罗王沙利耶冲去。

9.15.48

तत्राश्चर्यपमश्याम कुन्तीपुत्रे युधिष्ठिरे ।
पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत् ॥ ९.१५.४८ ॥

在那里,我们目睹了贡蒂之子坚战身上的一个奇迹:先前温和克己的他,那时竟变得凶猛可怖。

9.15.49

विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना ।
चिच्छेद योधान्निशितैः शरैः शतसहस्रशः ॥ ९.१५.४९ ॥

怒火中烧,双目圆睁,贡提之子以利箭斩杀了成千上万的战士。

9.15.50

यांयां प्रत्युद्ययौ सेनां तांतां ज्येष्ठः स पाण्डवः ।
शरैरपातयद्राजन्गिरीन्वज्रैरिवोत्तमैः ॥ ९.१५.५० ॥

大王啊,长子般度之子所冲向的每一支军队,他都以箭矢将其击倒,如同上好的雷霆击倒山峰。

9.15.51

साश्वसूतध्वजरथान्रथिनः पातयन्बहून् ।
अक्रीडदेको बलवान्पवनस्तोयदानिव ॥ ९.१५.५१ ॥

他击倒了连同马匹、御者与旗帜的战车,以及许多车战士,独自如同强劲的风吹散雨云般游戏于战场。

9.15.52

साश्वारोहांश्च तुरगान्पत्तींश्चैव सहस्रधा ।
व्यपोथयत सङ्ग्रामे क्रुद्धो रुद्रः पशूनिव ॥ ९.१५.५२ ॥

在战斗中盛怒的楼陀罗屠杀牲畜一般,他以千般方式碾碎了马匹及其骑手,以及步兵。

9.15.53

शून्यमायोधनं कृत्वा शरवर्षैः समन्ततः ।
अभ्यद्रवत मद्रेशं तिष्ठतिष्ठेति चाब्रवीत् ॥ ९.१५.५३ ॥

他以四面箭雨清空了战场,朝摩德罗王冲去,说道:“站住!站住!”

9.15.54

तस्य तच्चरितं दृष्ट्वा संग्रामे भीमकर्मणः ।
वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात् ॥ ९.१५.५४ ॥

在战斗中见到那位行事可怖者的此番功绩,你的将士全都惊恐;然而沙利耶迎上前去。

9.15.55

ततस्तौ भृशसङ्क्रुद्धौ प्रध्माय सलिलोद्भवौ ।
समाहूय तदाऽन्योन्यं भर्त्सयन्तौ समीयतुः ॥ ९.१५.५५ ॥

于是二人大怒,吹响水中所生的法螺,彼此呼喊斥骂,面对面地相迎而来。

9.15.56

शल्यस्तु शरवर्षेण पीडयामास पाण्डवम् ।
मद्रराजं तु कौन्तेयः शरवर्षैरवाकिरत् ॥ ९.१५.५६ ॥

沙利耶以箭雨折磨般度之子,而昆提之子则以箭雨覆盖了摩德罗王。

9.15.57

अदृश्येतां तदा राजन्कङ्कपत्रिभिराचितौ ।
उद्भिन्नरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ।
पुष्पिताविव रेजाते वने शाल्मलिकिंशुकौ ॥ ९.१५.५७ ॥

大王啊,那时两位英雄,身上覆满鹤羽箭、鲜血淋漓,即摩德罗王与坚战,看上去就像林中盛开的木棉与金合欢树。

9.15.58

दीव्यमानौ महात्मानौ प्राणद्यूतेन दुर्मदौ ।
दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम् ॥ ९.१५.५८ ॥

众军见这两位高尚而骄傲的英雄以性命为赌注相博,竟无法断定谁将获胜。

9.15.59

हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुन्धराम् ।
शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम् ॥ ९.१५.५९ ॥

普利塔之子杀死摩德罗之主,今日将享有大地;或者沙利耶杀死般度之子,将把大地交给难敌。

9.15.60

इतीव निश्चयो नाभूद्योधानां तत्र भारत ।
प्रदक्षिणमभूत्सर्वं धर्मराजस्य युध्यतः ॥ ९.१५.६० ॥

婆罗多之子啊,那里的战士们并未形成这样的定见;然而正在作战的法王的一切动作,都如右绕般吉祥。

9.15.61

ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे ।
धनुश्चास्य शिताग्रेण बाणेन निरुकृन्तत ॥ ९.१५.६१ ॥

于是沙利耶迅速向坚战射出百支箭,并以一支锋利箭头的箭斩断了他的弓。

9.15.62

सोऽन्यत्कार्मुकमादाय शल्यं शरशतैस्त्रिभिः ।
अविध्यत्कार्मुकं चास्य क्षुरेण निरकृन्तत ॥ ९.१५.६२ ॥

他另取一弓,以三百支箭射穿沙利耶,并以一支剃刀头的箭斩断了他的弓。

9.15.63

अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः ।
द्वाभ्यामतिशिताग्राभ्यामुभौ तत्पार्ष्णिसारथी ॥ ९.१५.६३ ॥

随后,他以带弯曲节的箭射杀了沙利耶的四匹马,又以两支极其锋利的箭击中了他身后的两名御者。

9.15.64

ततोऽस्य दीप्यमानेन पीतेन निशितेन च ।
प्रमुखे वर्तमानस्य भल्लेनापाहरद्वृजम् ॥ ९.१५.६४ ॥

当他站在他面前时,他以一支灿烂、金黄、锋利的薄刃箭,将他的战车击飞而去。

9.15.65

ततः प्रभग्नं तत्सैन्यं दौर्योधनमरिन्दम ॥ ९.१५.६५ ॥

于是,啊,降伏敌人者,难敌的那支军队溃散了。

9.15.66

ततो मद्राधिपं द्रौणिरभ्यधावत्तथा कृतम् ।
आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे ॥ ९.१५.६६ ॥

于是德罗纳之子冲向摩德罗国王;事情既成,他把他扶上自己的战车,急速逃走了。

9.15.67

मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे ।
गत्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः ॥ ९.१५.६७ ॥

二人离去片刻,而坚战正在怒吼;随后,摩德罗王登上另一辆战车离去。

9.15.68

विधिवत्कल्पितं शुभ्रं महाम्बुदनिनादिनम् ।
सज्जयन्त्रोपकरणं द्विषतां रोमहर्षणम् ॥ ९.१५.६८ ॥

装备齐备、光彩耀目的战车,如大云般轰鸣,配有战具,令敌人毛发竖立。

9.15.69

तथान्यद्धनुरादाय बलवान्वेगवत्तरम् ।
युधिष्ठिरं मद्रपतिर्भित्त्वा सिंह इवानदत् ॥ ९.१५.६९ ॥

摩德罗王同样拿起另一张弓,射穿坚战,并如狮子般咆哮。

9.15.70

ततः स शरवर्षेण पर्जन्य इव वृष्टिमान् ।
अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः ॥ ९.१५.७० ॥

于是这位心量无边、刹帝利中的雄牛,如降雨的云般,以箭雨倾注于刹帝利武士之上。

9.15.71

सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः ।
सहदेवं त्रिभिर्विद्धा युधिष्ठिरमपीडयत् ॥ ९.१५.७१ ॥

他以十箭射中萨谛奇,以三箭射中怖军,以三箭射中偕天,又逼迫坚战。

9.15.72

तांस्तानन्यान्महेष्वासान्साश्वान्सरथकूबरान् ।
अर्दयामास विशिखैरुल्काभिरिव कुञ्जरान् ॥ ९.१५.७२ ॥

他以箭矢逼迫那些大弓手,连同他们的马匹与车辕,就像火把逼迫大象一样。

9.15.73

कुञ्जरान्कुञ्जरारोहानश्वप्रयायिनः ।
रथांश्च रथिभिः सार्धं जघान रथिनां वरः ॥ ९.१५.७३ ॥

他连同御者一起击杀了象、象上的骑士、骑马者和战车,他是战车武士中的最优者。

9.15.74

बाहूंश्चिच्छेद तरसा सायुधान्केतनानि च ।
चकार च महीं योधैः स्तीर्णां वेदीं कुशैरिव ॥ ९.१५.७४ ॥

他迅速斩断持兵的臂膀和旗幡,用战士铺满大地,如同铺着吉祥草的祭坛。

9.15.75

तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम् ।
परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः ॥ ९.१५.७५ ॥

他如死神与阎摩般击杀敌军,怒火中烧的般度子、般遮罗与苏摩迦人便将他团团围住。