摩诃婆罗多 · 章 9.16
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.16.1
तं भीमसेनश्च शिनेश्च नप्ता ।
माद्याश्च पुत्रौ पुरुषप्रवीरौ।
समागतं भीमबलेन राज्ञा ।
पर्यापुरन्योन्यमथाह्वयन्त ॥ ९.१६.१ ॥
毗摩森那、失尼之孙,以及摩德利的两位英雄之子,聚集起来对抗那位大力的国王,将他包围,并彼此挑战。
9.16.2
ततस्तु शूराः समरे नरेन्द्र ।
नरेश्वरं प्राप्य युधां वरिष्ठम्।
आवार्य चैनं समरे नृवीरा ।
जघ्नुः शितैः पत्रिभिरुग्रवेगैः ॥ ९.१६.२ ॥
于是,人主啊,那些战场上的英雄到达了那位战士中最杰出的国王身前,阻拦住他,并用锋利而迅猛的箭矢射击他。
9.16.3
संरक्षितो भीमसेनेन राजा ।
माद्रीसुताभ्यामथ माधवेन।
मद्राधिपं पत्रिभिरुग्रवेगैः ।
स्तनान्तरे धर्मसुतो निजघ्ने ॥ ९.१६.३ ॥
法王之子,由毗摩森那、摩德利的两个儿子,然后由摩陀婆所护卫的国王,用迅猛的箭矢射中摩德罗国之主的胸膛正中。
9.16.4
ततो रणे तावकानां रथौघाः ।
समीक्ष्य मद्राधिपतिं शरार्तम्।
पर्यावव्रुः प्रवराः सर्वयोधा ।
दुर्योधनस्यानुमते पुरस्तात् ॥ ९.१६.४ ॥
于是在战场上,你的儿子们的战车群见那摩德罗国之主为箭所苦,经难敌同意,从前方转身,把他团团围住,所有杰出的战士都来了。
9.16.5
ततो द्रुतं मद्रजनाधिपो रणे ।
युधिष्ठिरं सप्तभिरभ्यविद्व्यत्।
तं चापि पार्थौ नवभिः पृषत्कै… ।
र्विव्याध राजंस्तुमुले महात्मा ॥ ९.१६.५ ॥
于是摩德罗人的主君在战斗中迅速用七支箭射穿了坚战;大王啊,那位大德者也用九支箭……射伤了两位般度之子,在混乱的激战中。
9.16.6
आकर्णपूर्णायतसम्प्रयुक्तैः ।
शरैस्तदा संयति तैलधौतैः।
अन्योन्यमाच्छादयतां महारथौ ।
मद्राधिपश्चापि युधिष्ठिरश्च ॥ ९.१६.६ ॥
箭拉至耳边,满弦搭上,以油擦亮,那时两位大车将在战斗中互相遮蔽:摩德罗王与坚战。
9.16.7
ततस्तु तूर्णं समरे महारथौ ।
परस्परस्यान्तरमीक्षमाणौ।
शरैर्भृशं विव्यधतुर्नृपोत्तमौ ।
महबलौ शत्रुभिरप्रधृष्यौ ॥ ९.१६.७ ॥
随即,两位大车将在战斗中迅速伺机寻找对方的空隙,以箭猛烈地互相射伤——这两位最优秀的国王。
9.16.8
तयोर्धनुर्ज्यातलनिःस्वनो महा… ।
न्महेन्द्रवज्राशनितुल्यनिः स्वनः।
परस्परं बाणगणैर्महात्मनोः ।
प्रवर्षतोर्मद्रपपाण्डुवीरयोः ॥ ९.१६.८ ॥
他们弓弦的响声,如大因陀罗的金刚杵与霹雳之声——那两位大德,摩德罗之主与般度勇士,彼此倾泻着成群的箭矢……
9.16.9
तौ चेरतुर्व्याघ्रशिशुप्रकाशौ ।
महावनेष्वामिषगृद्विनाविव।
विषाणिनौ नागवराविवोभौ ।
ततक्षतुः संयति जातदर्पौ ॥ ९.१६.९ ॥
二人光彩如虎崽,在大林中如贪求肉食者般游走;如两头有牙的上等大象,二人皆因骄傲而膨胀,在战斗中相互攻击。
9.16.10
ततस्तु मद्राधिपतिर्महात्मा ।
युधिष्ठिरं भीमबलं प्रसह्य।
विव्याध वीरं हृदयेऽतिवेगं ।
शरेण सूर्याग्निसमप्रभेण ॥ ९.१६.१० ॥
随后,摩德罗之主这位大德以猛烈之力、极速之势,用一支如日火般闪耀的箭,射穿了这位力量可怖的英雄坚战的胸膛。
9.16.11
ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि ।
सुसम्प्रयुक्तेन शरेण राजन्।
जघान मद्राधिपतिं महात्मा ।
मुदं च लेभे वृषभः कुरूणाम् ॥ ९.१६.११ ॥
此时,虽然重伤,大德的坚战以精准射出的箭击中了摩德罗国之主,啊国王;库鲁族的公牛因此感到欢喜。
9.16.12
ततो मुहूर्तादिव पार्थिवेन्द्रो ।
लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः।
शरेण पार्थं त्वरितो जघान ।
सहस्रनेत्रप्रतिमप्रभावः ॥ ९.१६.१२ ॥
随后,仿佛过了片刻,这位诸王之主恢复了知觉,双目因愤怒而通红,威力如同千眼之神;他迅速以箭射中了帕尔塔。
9.16.13
त्वरंस्ततो धर्मसुतो महात्मा ।
शल्यस्य कोपान्नवभिः पृषत्कैः।
भित्त्वा ह्युरस्तपनीयं च वर्म ।
जघान षड्भिस्त्वपरैः पृषत्कैः ॥ ९.१६.१३ ॥
于是,法之子大德者急速地在愤怒中以九支箭射穿沙利耶的胸膛,甚至刺穿了他的金甲,又以另外六支箭击中了他。
9.16.14
ततस्तु मद्राधिपतिः प्रकृष्टं ।
धनुर्विकृष्य व्यसृजत्पृषत्कान्।
द्वाभ्यां शराभ्यां च तथैव राज्ञ… ।
श्चिच्छेद चापं कुरुपुङ्गवस्य ॥ ९.१६.१४ ॥
于是摩德罗国之主拉开强弓,放出箭矢;又以两支箭同样斩断了国王、库鲁族公牛的弓。
9.16.15
नवं ततोऽन्यत्समरे प्रगृह्य ।
राजा धनुर्धोरतरं महात्मा।
शल्यं तु विव्याध शरैः समन्ता… ।
द्यथा महेन्द्रो नमुचिं शिताग्रैः ॥ ९.१६.१५ ॥
随后,在战斗中,这位大德的国王拿起另一张崭新而坚固的强弓,从四面八方以箭射穿沙利耶,正如因陀罗以锐利的箭矢射穿那牟其。
9.16.16
ततस्तु शल्यो नवभिः पृषत्कै… ।
र्भीमस्य राज्ञश्च युधिष्ठिरस्य।
निकृत्य रौक्मे पटुवर्मणी तयो… ।
र्विदास्यामास भुजौ महात्मा ॥ ९.१६.१६ ॥
于是大德的沙利耶以九支箭……斩断了怖军和国王坚战的金甲,刺穿了二人的双臂……
9.16.17
ततोऽपरेण ज्वलनार्कतेजसा ।
क्षुरेण राज्ञो धनुरुन्ममाथ।
कृपश्च तस्यैव जघान सूतं ।
षड्भिः शरैः सोऽभिमुखः पपात ॥ ९.१६.१७ ॥
随后,他以另一支如火如日般灼灼闪光的剃刀箭,折断了国王的弓;克里帕以六箭射杀其御者,御者面朝前倒下。
9.16.18
मद्राधिपश्चापि युधिष्ठिरस्य ।
शरैश्चतुर्भिर्निजघान वाहान्।
वाहांश्च हत्वा व्यकरोन्महात्मा ।
योधक्षयं धर्मसुतस्य राज्ञः ॥ ९.१६.१८ ॥
摩德罗王也以四箭射杀了坚战的马;杀马之后,这位大德使法之子国王的士兵遭受了毁灭。
9.16.19
यदद्भुतं कर्म न शक्यमन्यैः ।
सुदुःसहं तत्कृतवन्तमेकम्।
शल्यो नरेन्द्रः सविषण्णभावा… ।
द्विचिन्तयामास मृदङ्गकेतुः ॥ ९.१६.१९ ॥
这一他人无法做到、极难承受的奇异壮举,他独自完成了——人主沙利耶心中忧伤,……作了两种思量;那位以鼓为旗者。
9.16.20
किमेतदिन्द्रावरजस्य वाक्यं ।
मोघं भवत्यद्य विधेर्बलेन।
जहीति शल्यं ह्यवदत्तदाऽऽजौ ।
न लोकनाथस्य वचोऽन्यथा स्यात् ॥ ९.१६.२० ॥
因陀罗之弟(克里希那)的话,今日会否因命运之力而落空?他当时曾说:“在战场上杀死沙利耶。”世界之主的话不会有其他结果。
9.16.21
तथा कृते राजनि भीमसेनो ।
मद्राधिपस्याथ ततो महात्मा।
छित्त्वा धनुर्वेगवता शरेण ।
द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम् ॥ ९.१६.२१ ॥
国王如此行事后,毗摩赛那以迅疾之箭斩断了摩德罗王的弓;随后这位大德以两支箭狠狠射中了那位人主。
9.16.22
तथापरेणास्य जहार यन्तुः ।
कायाच्छिरः संहननीयमध्यात्।
जघान चाश्वांश्चतुरः सुशीघ्रं ।
तथा भृशं कुपितो भीमसेनः ॥ ९.१६.२२ ॥
同样,他以另一支箭从那强壮身躯的中部斩下御者的头颅,并极迅速地击杀了四匹马;毗摩赛那怒火大发,如此行事。
9.16.23
तमग्रणीः सर्वधनुर्धराणा… ।
मेकं चरन्तं समरेऽतिवेगम्।
भीमः शतेन व्यकिरच्छराणां ।
माद्रीपुत्रः सहदेवस्तथैव ॥ ९.१६.२३ ॥
那位在所有弓箭手中居首、在战场上独自疾速奔驰的人,毗摩以百箭覆盖了他;摩德里之子偕提婆也同样如此。
9.16.24
तैः सायकैर्मोहितं वीक्ष्य शल्यं ।
भीमः शरैरस्य चकर्त वर्म।
स भीमसेनेन निकृत्तवर्मा ।
मद्राधिपश्चर्म सहस्रतारम् ॥ ९.१६.२४ ॥
毗摩见沙利耶被那些箭所迷惑,便以自己的箭割裂了他的铠甲;摩德罗王的铠甲被毗摩赛那割断,于是取了一面有千星的盾牌。
9.16.25
प्रगृह्य खङ्गं च रथान्महात्मा ।
प्रस्कन्द्य कुन्तीसुतमभ्यधावत्।
छित्त्वा रथेषां नकुलस्य सोऽथ ।
युधिष्ठिरं भीमबलोऽभ्यधावत् ॥ ९.१६.२५ ॥
这位大德拿起剑,从战车上跃下,冲向贡蒂之子;随后,他斩断了那婆罗的战车辕,具有毗摩之力者又冲向坚战。
9.16.26
तं चापि राजानमथोत्पतन्तं ।
क्रुद्धं यथैवान्तकमापतन्तम्।
धृष्टद्युम्नो द्रौपदेयाः शिखण्डी ।
शिनेश्च नप्ता सहसा परीयुः ॥ ९.१६.२६ ॥
那位跃起、愤怒如死神般扑来的国王,被法赫希塔俱么那、德罗波蒂之子们、湿乾迪以及尸尼之孙骤然包围。
9.16.27
अथास्य चर्माप्रतिमं न्यकृन्त… ।
द्भीमो महात्मा नवभिः पृषत्कैः।
खङ्गं च भल्लैर्निचकर्त मुष्टौ ।
नदन्प्रहृष्टस्तव सैन्यमध्ये ॥ ९.१६.२७ ॥
随后伟大的毘摩斩断了他无与伦比的盾牌……并以九支箭与月牙箭在剑柄处斩断了他的剑,在您的军中欢喜地咆哮。
9.16.28
तत्कर्म भीमस्य समीक्ष्य हृष्टा… ।
स्ते पाण्डवानां प्रवरा रथौघाः।
नादं च चक्रुर्भृशमुत्स्मयन्तः ।
शङ्खांश्च दध्मुः शशिसन्निकाशान् ॥ ९.१६.२८ ॥
看见毘摩的功绩,般度诸子中最优秀的战车群欣喜……大笑着发出吼声,吹响了如月光般皎洁的海螺。
9.16.29
तेनाथ शब्देन विभीषणेन ।
तथाऽभितप्तं बलमप्रधृष्यम्।
स्वेदाभिभूतं रुधिरोक्षिताङ्गं ।
विसञ्ज्ञकल्पं च तदा विषण्णम् ॥ ९.१६.२९ ॥
于是那支不可战胜的军队,被那可怖的声响如此折磨,满身大汗,肢体沾满鲜血,几近失去知觉,此时变得沮丧。
9.16.30
स मद्रराजः सहसा विकीर्णो ।
भीमाग्रगैः पाण्डवयोधमुख्यैः।
युधिष्ठिरस्याभिमुखं जवेन ।
सिंहो यथा मृगहेतोः प्रयातः ॥ ९.१६.३० ॥
那位摩德罗国王被毘摩的先锋与般度族的主要战士骤然冲散,便迅速冲向坚战,如同狮子为了猎物而奔去。
9.16.31
स धर्मराजो निहताश्वसूतः ।
क्रोधेन दीप्तो ज्वलनप्रकाशः।
दृष्ट्वा च मद्राधिपतिं स्म तूर्णं ।
समभ्यधावत्तमरिं बलेन ॥ ९.१६.३१ ॥
马匹与御者皆被杀死的法王(坚战)因愤怒而如火焰般炽烈。他看见摩德罗国之主,便迅速以力量猛扑向那个敌人。
9.16.32
गोविन्दवाक्यं त्वरितं विचिन्त्य ।
दध्रे मतिं शल्यविनाशनाय।
स धर्मराजो निहताश्वसूतो ।
रथे तिष्ठञ्शक्तिमथान्वकर्षत् ॥ ९.१६.३२ ॥
他迅速思量了戈文达的话,决心毁灭沙利耶。马匹与御者皆被杀死的法王站在战车上,将长矛向后拉起。
9.16.33
तच्च… शल्यस्य निशाम्य कर्म ।
तमात्मनो भागमथावशिष्टम्।
कृत्वा मनः शल्यवधे महात्मा ।
यथोक्तमिन्द्रावरजस्य चक्रे ॥ ९.१६.३३ ॥
看到沙利耶的所作所为,并想起自己剩余的份额,这位大德将心思定在杀死沙利耶上,依照因陀罗之幼弟所说而行。
9.16.34
स धर्मराजो मणिहेमदण्डां ।
जग्राह शक्तिं कनकप्रकाशाम्।
नेत्रे च दीप्ते सहसा विवृत्य ।
मद्राधिपं क्रुद्धमना निरैक्षत् ॥ ९.१६.३४ ॥
那位法王握住了长矛,矛杆镶嵌着宝石与黄金,闪耀如金。他忽然睁大炽烈的双眼,怒意满怀地望向摩德罗之主。
9.16.35
निरीक्षितो धर्मसुतेन राज्ञा ।
षूतात्मना निर्हृतकल्मषेण।
आसीन्न यद्भस्मसान्मद्रराज… ।
स्तदद्भुतं मे प्रतिभाति राजन् ॥ ९.१६.३५ ॥
法王之子,纯净灵魂、已消除罪垢的那位国王注视之下,摩德罗之主……竟未化为灰烬,这在我看来是奇异的,大王啊。
9.16.36
ततस्तु शक्तिं रचिरोग्रदण्डां ।
मणिप्रवेकोज्ज्वलितां प्रदीप्ताम्।
चिक्षेप वेगात्सुभृशं महात्मा ।
मद्राधिपाय प्रवरः कुरूणाम् ॥ ९.१६.३६ ॥
于是库鲁族中最杰出的那位大德,以极大的力量向摩德罗王掷出一支长矛。此矛制作精美,握柄凶猛,镶嵌宝石,光芒闪耀。
9.16.37
दीप्तामथैनां प्रहितां बलेन ।
सविस्फुलिङ्गां सहसापतन्तीम्।
प्रैक्षन्त सर्वे कुरवः समेता ।
दिवो युगान्ते महतीमिवोल्काम् ॥ ९.१६.३७ ॥
聚集的众库鲁人都看着那燃烧的长矛,被猛力掷出,迸发火星,突然坠落,如同在劫末从天空坠落的巨大流星。
9.16.38
तां कालरात्रीमिव पाशहस्तां ।
यमस्य धात्रीमिव चोग्ररूपाम्।
स ब्रह्मदण्डप्रतिमाममोधां ।
ससर्ज यत्तो युधि धर्मराजः ॥ ९.१६.३८ ॥
那长矛如手持绳索的死亡之夜,形态凶猛如阎摩的乳母,又如婆罗门的惩罚杖般不会落空。在战斗中警觉的法王(坚战)将它射出。
9.16.39
गन्धस्रगग्र्यासनपानभोजनै… ।
रभ्यर्चितां पाण्डुसुतैः प्रयत्नात्।
सांवर्तकाग्निप्रतिमां ज्वलन्तीं ।
कृत्यामथर्वाङ्गिरसीमिवोग्राम् ॥ ९.१६.३९ ॥
被般度之子以香料、花环、上等座位、饮食小心供奉,燃烧如劫末之火,凶猛如阿闼婆与安吉罗萨的咒术兵器。
9.16.40
ईशानहेतोः प्रतिनिर्मितां तां ।
त्वष्ट्रा रिपूणामसुदेहभक्ष्याम्।
भूम्यन्तरिक्षद्युजलाश्रयाणि ।
प्रसह्य भूतानि निहन्तुमीशाम् ॥ ९.१६.४० ॥
那件武器是陀湿多为湿婆(自在天)重新锻造的,吞噬敌人的生命与身体,能强行杀死住在大地、空中、天界和水中的众生。
9.16.41
घण्टापताकां मणिवज्रभूषां ।
वैदूर्यचित्रां तपनीयदण्डाम्।
त्वष्ट्रा प्रयत्नान्नियमेन क्लृप्तां ।
ब्रह्मद्विषामन्तकरीममाघाम् ॥ ९.१६.४१ ॥
饰以铃铛与旗幡,缀以宝石与金刚石,嵌有青金石纹,金柄,由特瓦湿多以极大的努力依法锻造,能使婆罗门的敌人毙命,不会落空。
9.16.42
बलप्रयत्नादनिरोधवेगां ।
मन्त्रैश्च घोरैरपि पूरयित्वा।
ससर्ज मार्गेण च तां खगानां ।
वधाय मद्राधिपतेस्तदानीम् ॥ ९.१६.४२ ॥
以力量与努力充能,其速度不可阻挡,并以可怖的咒语注满,随即让它沿天空之路飞出,以杀死摩德罗国之主。
9.16.43
हतो ह्यसावित्यभिगर्जमानो ।
रुद्रोऽन्धकायान्तकरं यथेषुम्।
प्रसार्य बाहुं सुदृढं सुपाणिं ।
क्रोधेन नृत्यन्निव धर्मराजः ॥ ९.१६.४३ ॥
咆哮道:“他已死了!”如同摧毁安陀迦的楼陀罗举起箭矢,法王伸展他坚实而美丽的手臂,仿佛在愤怒中起舞……
9.16.44
स्फुरत्प्रभामण्डलिनोंशुजालै… ।
र्धर्मात्मनो मद्रविनाशकाले।
पुरत्रयप्रोत्सरणे पुरस्ता… ।
न्माहेश्वरं रूपमभूत्तदानीम् ॥ ९.१६.४४ ॥
以闪耀光环的光网……正法之魂,在摩德罗人毁灭之时,如同摧毁三城之际,于其前……那时显现出摩赫什瓦罗之相。
9.16.45
आवर्तनाकुञ्चितबाहुदण्डः ।
सन्ध्याविहारी तनुवृत्तमध्यः।
विशालवक्षा भगवान्हरो यथा ।
सुदुर्निरीक्ष्योऽभवदर्जुनाग्रजः ॥ ९.१६.४५ ॥
手臂如旋转而弯曲的棍棒,于黄昏中游行,腰身纤细圆润,胸膛宽阔,如吉祥的哈罗,阿周那的长兄变得难以直视。
9.16.46
तां सर्वशक्त्या प्रहितां सुशक्तिं ।
युधिष्ठिरेणाप्रतिवार्यवीर्याम्।
प्रतिग्रहायाभिननन्द शल्यः ।
सम्यग्घुतामग्निरिवाज्यधाराम् ॥ ९.१६.४६ ॥
沙利耶欢迎接受那支由坚战以全力投掷、其威力不可抵挡的美妙长矛,如同火欢迎恰当献上的酥油之流。
9.16.47
सा तस्य वर्माभिविदार्य शुभ्र… ।
मुरो विशालं च तथैव भित्त्वा।
विवेश गां तोयमिवाप्रसक्ता ।
यशो विशालं नृपतेर्हरन्ती ॥ ९.१६.४७ ॥
那支长矛撕开他闪亮的甲胄,也刺穿了他宽阔的胸膛,如水一般毫无阻碍地没入大地,夺走了国王巨大的荣耀。
9.16.48
नासाक्षिकर्णास्यविनिः सृतेन ।
प्रस्यन्दता च व्रणसम्भवेन।
संसिक्तगात्रो रुधिरेण सोऽभू… ।
त्क्रौञ्चो यथा स्कन्दहतो महाद्रिः ॥ ९.१६.४८ ॥
他的身体被从伤口涌出、从鼻、眼、耳、口流出的血浸透,成了被塞建陀击中的大山——克劳𑁰遮山一般。
9.16.49
प्रसार्य बाहू च रथाद्गतो गां ।
सञ्छिन्नवर्मा कुरुनन्दनेन।
महेन्द्रवाहप्रतिमो महात्मा ।
वज्राहतं शृङ्गमिवाचलस्य ॥ ९.१६.४९ ॥
他伸开双臂从战车上跌落在地,甲胄被俱卢族的欢喜者(坚战)斩断;这位伟大心灵者如因陀罗的大象,如被霹雳击中的山峰。
9.16.50
ततो निपतितः सोऽभूदिन्द्रध्वज इवोच्छ्रितः ।
बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट्।
स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः ॥ ९.१६.५० ॥
那时倒下的他,看起来像因陀罗的旗帜般高高耸立;摩德罗王伸开双臂,面向法王(坚战)。他就这样躺着,全身骨骼俱碎,浸透鲜血。
9.16.51
प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः ।
प्रियया कान्तया कान्तः पतमान इवोरसि ॥ ९.१६.५१ ॥
仿佛大地满怀爱意前来迎接,那人中之牛倒下了,如情人扑倒在爱人身上,倒在她的胸前。
9.16.52
चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः ।
सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव चाभवत् ॥ ९.१६.५२ ॥
如君主久享大地,仿佛心爱的美妻,以全身拥抱她,然后沉睡,他便成了这样。
9.16.53
धर्म्ये धर्मात्मना युद्वे निहतो धर्मसूनुना ।
सम्यक्स्फीत इवोत्सृष्टः प्रशान्तोऽग्निरिवाध्वरे ॥ ९.१६.५३ ॥
在正义之战中被法之子所杀,这位心地正直者如火焰在祭祀中充分燃起后熄灭。
9.16.54
शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम् ।
संशान्तमपि मद्रेशं लक्ष्मीर्नैव विमुञ्चति ॥ ९.१६.५४ ॥
他的心被长矛刺穿,兵器与旗帜散落,那已归于寂静的摩德罗王,吉祥天女仍不离弃他。
9.16.55
ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम् ।
व्यधमद्द्विषतः सङ्ख्ये खगराडिव पन्नगान्।
देहान्सुनिशितैर्भल्लै रिपूणां नाशयन्क्षणात् ॥ ९.१६.५५ ॥
于是坚战持起如因陀罗弓般光耀的弓,在战场上击倒敌人,如金翅鸟之王击杀诸蛇;以极锐利的阔头箭,转瞬间毁灭了敌人的身躯。
9.16.56
ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव ।
निमीलिताक्षाः क्षिण्वन्ति भृशमन्योन्यकर्शिताः।
क्षरन्तो रुधिरं देहैर्विशस्त्रायुधजीविताः ॥ ९.१६.५६ ॥
于是,被阿周那箭雨所围的你的士兵,闭着眼睛,彼此极度受挫,身体流血,失去兵器与性命,开始倒下。
9.16.57
ततः शल्ये निपतिते मद्रराजानुजो युवा ।
भ्रातुस्तुल्यो गुणैः सर्वै रथी पाण्डवमभ्ययात् ॥ ९.१६.५७ ॥
于是沙利耶倒下后,摩德罗王的年幼之弟,在各方面都与其兄相当,作为车战勇士,向般度之子冲去。
9.16.58
विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन् ।
हतस्यापचितिं भ्रातुश्चिकीषुर्युद्धदुर्मदः ॥ ९.१६.५८ ॥
人中之雄急速以众多铁箭射击,欲为兄长被杀复仇,因战斗之狂而昏狂。
9.16.59
तं विव्याधाशुगैः ष़ड्भिर्धर्मराजस्त्वरन्निव ।
कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च ॥ ९.१६.५९ ॥
法王仿佛急速,以六箭射之,又以两支刀锋箭斩断了他的弓与旗帜。
9.16.60
ततोऽस्य दीप्यमानेन सुदृढेन शितेन च ।
प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः ॥ ९.१६.६० ॥
于是他站在前面的头颅被一支闪耀、极为坚固锋利的钩箭斩下。
9.16.61
सकुण्डलं तद्ददृशे पतमानं शिरो रथात् ।
पुण्यक्षयमनुप्राप्य पतन्स्वर्गादिव च्युतः ॥ ९.१६.६१ ॥
那颗戴着耳环的头颅从战车上坠落,仿佛功德耗尽而从天上堕落的人。
9.16.62
तस्यापकृत्तशीर्षं तु शरीरं पतितं रथात् ।
रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत ॥ ९.१६.६२ ॥
见其身首分离,坠于车下,肢体浸满鲜血,军队便溃散了。
9.16.63
विचित्रकवचे तस्मिन्हते मद्रनृपानुजे ।
हाहाकारं प्रकुर्वाणाः कुरवोऽभिप्रदुद्रुवुः ॥ ९.१६.६३ ॥
当身披华丽甲胄的摩德罗王之弟被杀,俱卢人哀号着向四方逃散。
9.16.64
शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः ।
वित्रेसुः पाण्डवभयात्प्रविध्वस्तास्तदा भृशम् ॥ ९.१६.६४ ॥
见沙利耶之弟被杀,你方将士皆已舍命,因畏惧般度五子而极度惊恐,溃散而逃。
9.16.65
तांस्तथा भज्यमानांस्तु कौरवान्भरतर्षभ ।
शिनेर्नप्ताऽकिरन्बाणैरभ्यवर्तत सात्यकिः ॥ ९.१६.६५ ॥
婆罗多之雄牛啊,俱卢人如此溃散之时,希尼之孙萨提亚奇以箭如雨,向他们逼近。
9.16.66
तमायान्तं महेष्वासं दुष्प्रसह्यं दुरासदम् ।
हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत् ॥ ९.१६.६६ ॥
大王啊,见那伟大的弓手逼近,难以抵挡、难以接近,希尔迪基亚迅速迎战,仿佛毫无惧色。
9.16.67
तौ समेतौ महात्मानौ वार्ष्णेयौ वरवाजिनौ ।
हार्दिक्यः सात्यकिश्चैव सिंहाविव बलोत्कटौ ॥ ९.१६.६७ ॥
那两位高贵的伐尔什涅亚,希尔迪基亚与萨提亚奇,骑着良马,如两头力大凶猛的狮子般面对面相遇。
9.16.68
इषुभिर्विमलाभासैश्छादयन्तौ परस्परम् ।
अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ ॥ ९.१६.६८ ॥
二人以明亮如洗的箭矢彼此遮蔽,如同太阳的光芒,光辉与太阳相等。
9.16.69
चापमार्गबलोद्वूतान्मार्गणान्वृष्णिसिंहयोः ।
आकाशगानपश्याम पतङ्गानिव शीघ्रगान् ॥ ९.१६.६९ ॥
我们看见维里sni二狮所发的箭矢,借弓势强劲射出,在天空中飞行,如同疾飞的鸟。
9.16.70
सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः ।
चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा ॥ ९.१६.७० ॥
希尔迪基亚以十箭射中萨提亚基,以三箭射其马,再以一支弯头箭斩断他的弓。
9.16.71
तन्निकृत्तं धनुःश्रेष्ठमपास्य शिनिपुङ्गवः ।
अन्यदादत्त वेगेन धनुर्जलदनिःस्वनम् ॥ ९.१६.७१ ॥
希尼族的雄牛抛开那张被斩断的良弓,迅速拿起另一张弓,其声如雨云轰鸣。
9.16.72
तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम् ।
हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥ ९.१६.७२ ॥
他拿起那张良弓,作为所有射手中最优秀者,以十箭反击,射中希尔迪基亚的胸膛正中。
9.16.73
ततो युगं रथेषां च च्छित्त्वा भल्लैः सुसंयतैः ।
अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी ॥ ९.१६.७३ ॥
随后,他以精准射出的阔头箭斩断战车的轭和缰绳,迅速射杀了他的马,还有后方的两名御者。
9.16.74
हार्दिक्यं विरथं दृष्ट्वा कृपः शारद्वतः प्रभो ।
अपोवाह ततः क्षिप्रं रथमारोप्य वीर्यवान् ॥ ९.१६.७४ ॥
主啊,沙罗陀婆之子、勇力之人慈悲見希利迪基耶无车,立刻将他扶上自己的战车,迅速载离。
9.16.75
मद्रराजे हते राजन्विरथे कृतवर्मणि ।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥ ९.१६.७५ ॥
大王,摩德罗王被杀,迦特婆尔曼无车,于是难敌的全军再次转身败逃。
9.16.76
स्व परे नान्वबुध्यन्त सैन्येन रजसा वृते ।
बलं तु हतभूयिष्ठं त्रस्तमासीत्पराङ्मुखम् ॥ ९.१६.७६ ॥
被大军的尘土所遮蔽,他们分不清自己人和敌人;大部分兵卒被杀,军队惊恐地转身败逃。
9.16.77
ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम् ।
विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ ॥ ९.१६.७७ ॥
片刻之后,人中雄牛啊,他们看到地上扬起的尘土已被种种血流压住平息。
9.16.78
ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात् ।
जवेनापततः पार्थानेकः सर्वानवारयत् ॥ ९.१६.७८ ॥
于是难敌见自己的军队就在近处溃散,便独自阻挡了所有疾速冲来的普利塔之子。
9.16.79
पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम् ।
आनर्त्तं च दुराधर्षं शितैर्बाणैरवारयत् ॥ ९.१६.७९ ॥
他看见车马齐备的般度诸子,以及普利沙塔之子猛光,还有难以战胜的阿那尔多,便以利箭将他们阻住。
9.16.80
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम् ।
अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत ॥ ९.१६.८० ॥
敌人无法抵挡他,他如死神降临。随后,希尔迪基亚(Kṛtavarman)也登上另一辆战车,调转回去。
9.16.81
ततो युधिष्ठिरो राजा त्वरमाणो महारथः ।
चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः।
विव्याध गौतमं चापि ष़ड्भिर्भल्लैः सुतेजनैः ॥ ९.१६.८१ ॥
于是大车战士国王坚战急速出击,以每箭三支射倒了Kṛtavarman的四匹马,又以六支锐利的宽头箭射穿了Gautama(Kṛpa)。
9.16.82
अश्वत्थामाः ततो राज्ञा हताश्वं विरथीकृतम् ।
तमपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात् ॥ ९.१६.८२ ॥
于是,马匹被国王杀死、他自己也失去战车的(Kṛtavarman),被阿施瓦塔曼用自己的战车带离了坚战。
9.16.83
ततः शारद्वतः षड्भिः प्रत्यविध्यद्युधिष्ठिरम् ।
विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः ॥ ९.१६.८३ ॥
于是Śāradvata(Kṛpa)以六支箭反击坚战,又以八支锐箭射穿了他的马匹。
9.16.84
एवमेतन्महाराज युद्धशेषमवर्तत ।
तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत ॥ ९.१६.८४ ॥
大王啊,战斗的余下部分就这样发生了。国王啊,婆罗多后裔啊,这是由于你和你儿子的恶劣谋略所致。
9.16.85
तस्मिन्महेष्वासधरे विशस्ते ।
सङ्ग्राममध्ये कुरुपुङ्गवेन।
पार्थाः समेताः परमप्रहृष्टाः ।
शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम् ॥ ९.१६.८५ ॥
当那位执弓的大弓手在战场中央被这位俱卢族的英杰杀死后,普利塔之子们聚集在一起,欢喜无比,见沙利亚被杀,便吹响了海螺。
9.16.86
युधिष्ठिरं च प्रशशंसुराजौ ।
पुरा सुरा वृत्रवधे यथेन्द्रम्।
चक्रुश्च नानाविधवाद्यशब्दा… ।
न्निनादयन्तो वसुधां समन्तात् ॥ ९.१६.८६ ॥
在战场上,诸王赞美坚战,正如往昔诸神在杀死弗栗多之后赞美因陀罗。他们奏响各种乐器的声音……,使大地四面回响。