Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.20

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.20.1

तस्मिंस्तु निहते शूरे साल्वे समितिशोभने ।
तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः ॥ ९.२०.१ ॥

当那位在战场上光彩夺目的英雄沙尔瓦被杀之后,您的军队如同大树被狂风折断一般,迅速溃散。

9.20.2

तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः ।
दधार समरे शूरः शत्रुसैन्यं महाबलः ॥ ९.२०.२ ॥

见己军溃散,大车将军、大力英雄求塔瓦尔曼在战场上阻挡了敌军。

9.20.3

सन्निवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे ।
शैलोपमं स्थिरं राजन्कीर्यमाणं शरैर्युधि ॥ ९.२०.३ ॥

大王啊,那些勇士看到萨蒂亚基在战场上如山岳般屹立,却被箭雨覆盖,便退了回去。

9.20.4

ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह ।
निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम् ॥ ९.२०.४ ॥

大王啊,于是库鲁族与般度族之间爆发了战斗;转身的战士们以死亡作为他们的回归。

9.20.5

तत्राश्चर्यमभूद्युद्वं सात्वतस्य परैः सह ।
यदेको वारयामास पाण्डुसेनां दुरासदाम् ॥ ९.२०.५ ॥

萨蒂亚基与敌人的战斗在那里令人惊叹,因为他一人便挡住了难以逼近的般度军。

9.20.6

तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे ।
सिंहनादः प्रहृष्टानां दिविस्पृक्सुमहानभूत् ॥ ९.२०.६ ॥

为这些相互友爱的人所做的艰难之事,欢喜的勇士们发出如狮吼般的呼声,震天动地,直达天际。

9.20.7

तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभ ।
शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः ॥ ९.२०.७ ॥

婆罗多之牛啊,被那声音惊吓的般遮罗人,希尼之孙、大臂的萨谛奇向前迎去。

9.20.8

स समासाद्य राजानं क्षेमधूर्तिं महाबलम् ।
सप्तभिर्निशितैर्बाणैरनयद्यमसादनम् ॥ ९.२०.८ ॥

他接近大力王刹摩德陀尔提,以七支利箭将其送往阎摩之居所。

9.20.9

तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान् ।
जवेनाभ्यपतद्वीमान्हार्दिक्यः शिनिपुङ्गवम् ॥ ९.२०.९ ॥

那位大臂的希尼之最,正挥洒利箭而来,勇猛的哈尔迪基亚便疾速扑上。

9.20.10

तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ ।
अन्योन्यमभिधावन्तौ शस्त्रप्रवरधारिणौ ॥ ९.२०.१० ॥

二人如狮子般咆哮,皆为善射者、车战之最,手持上好兵器,彼此猛扑而去。

9.20.11

पाण्डवाः सहपाञ्चाला योधाश्चान्ये नृपोत्तमाः ।
प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः ॥ ९.२०.११ ॥

般度之子与般遮罗人,以及其他勇士和诸王之最,都成了这二位人中之狮的观者。

9.20.12

नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ ।
अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्चरौ ॥ ९.२०.१२ ॥

两位来自毗湿尼与安陀迦的大车战士,以铁箭与牛犊齿箭互相攻击,如同两头欢欣的大象。

9.20.13

चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुङ्गवौ ।
मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम् ॥ ९.२०.१३ ॥

两位希尼族与希尔迪基雅族的雄牛在各条路线上奔驰,在箭雨之中屡次彼此消失于视野。

9.20.14

चापवेगबलोद्वूतान्मार्गणान्वृष्णिसिंहयोः ।
आकाशे समपश्याम पतङ्गानिव शीघ्रगान् ॥ ९.२०.१४ ॥

我们看到二位维利须尼雄狮的箭矢,借弓的力量与速度冲上天空,如同疾飞的飞鸟。

9.20.15

तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः ।
अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान् ॥ ९.२०.१५ ॥

希尔迪卡之子走近那位独自而行的真行者,以四支利箭射穿了他的四匹马。

9.20.16

स दीर्घबाहुः सङ्क्रुद्धस्तोत्रार्दित इव द्विपः ।
अष्टभिः कृतवर्माणमविध्यत्परमेषुभिः ॥ ९.२०.१६ ॥

那位长臂勇士怒火中烧,如同被刺棒折磨的象,以八支最上等的箭射穿了迦利特婆摩。

9.20.17

ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः ।
सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे ॥ ९.२०.१७ ॥

于是迦利特婆摩以三支在石上磨利、满弓射出的箭射中萨谛奇,又以一支箭斩断了他的弓。

9.20.18

निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुङ्गवः ।
अन्यदादत्त वेगेन शैनेयः सशरं धनुः ॥ ९.२०.१८ ॥

希尼族雄牛萨谛奇扔掉那张已被斩断的良弓,迅速拿起另一张带箭的弓。

9.20.19

तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम् ।
आरोप्य च धनुः शीघ्रं महावीर्यो महाबलः ॥ ९.२०.१९ ॥

他取起那把最好的弓,他是所有射手中的第一人,勇力与力量都极为强大,迅速地将弦拉上。

9.20.20

अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा ।
कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात् ॥ ९.२०.२० ॥

他无法忍受Kṛtavarman斩断了他的弓,愤怒的大车将迅速冲向Kṛtavarman。

9.20.21

ततः सुनिशितैर्बाणैर्दशभिः शिनिपुङ्गवः ।
जघान सूतं चाश्वांश्च ध्वजं च कृतवर्मणः ॥ ९.२०.२१ ॥

于是Śini族的雄牛以十支极利的箭射倒了Kṛtavarman的御者、马匹和旗帜。

9.20.22

ततो राजन्महेष्वासः कृतवर्मा महारथः ।
हताश्वसूतं सम्प्रेक्ष्य रथं हेमपरिष्कृतम् ॥ ९.२०.२२ ॥

于是,大王啊,大弓手、大车将Kṛtavarman看到他那镶饰黄金的战车,马匹和御者都已被杀,

9.20.23

रोषेण महताऽऽविष्टः शूलमुद्यम्य मारिष ।
चिक्षेप भुजवेगेन जिघांसुः शिनि पुङ्गवम् ॥ ९.२०.२३ ॥

他被巨大的愤怒所控制,啊,尊者!想要杀死Śini族的雄牛,举起长矛,以手臂之力掷出。

9.20.24

तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः ।
चूर्णितं पातयामास मोहयन्निव माधवम्।
ततोऽपरेण भल्लेन हृद्येनं समताडयत् ॥ ९.२०.२४ ॥

在战斗中,Sātvata以锐利的箭射穿那支长矛并将其粉碎坠地,仿佛要使Mādhava困惑。随后他以另一支阔头箭击中了对方的胸膛。

9.20.25

सुयुद्वे युयुधानेन हताश्वो हतसारथिः ।
कृतवर्मा कृतास्त्रेण धरमीमन्वपद्यत ॥ ९.२०.२५ ॥

在那场精彩的战斗中,尤尤丹那(萨提亚基)杀死了他的马匹和御者,精通武器的正法者克里塔瓦尔曼因此陷入此境。

9.20.26

तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते ।
समपद्यत सर्वेषां सैन्यानां सुमहद्भयम् ॥ ९.२०.२६ ॥

当那位英雄在单车决斗中被萨提亚基夺去战车时,所有军队中都生起了巨大的恐惧。

9.20.27

पुत्राणां तव चात्यर्थं विषादः समजायत ।
हतसूते हताश्वे तु विरथे कृतवर्मणि ॥ ९.२०.२७ ॥

当克里塔瓦尔曼的御者和马匹被杀、他失去战车时,你的儿子们极度沮丧。

9.20.28

हताश्वं च समालक्ष्य हतसूतमरिन्दम ।
अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुङ्गवम् ॥ ९.२०.२८ ॥

征服敌人者啊!见萨提亚基的马匹和御者已被杀,大王,克里巴欲杀死这位希尼族的俊杰,便向他冲去。

9.20.29

तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम् ।
अपोवाह महाबाहुं तूर्णमायोधनादपि ॥ ९.२०.२९ ॥

在所有弓箭手的注视下,他们把这位大臂者放在车底,迅速将他带离战场。

9.20.30

शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि ।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥ ९.२०.३० ॥

大王,当萨提亚基站稳阵脚、克里塔瓦尔曼失去战车之时,难敌的全军再次转身败逃。

9.20.31

तत्परे नान्वबुध्यन्त सैन्येन रजसा वृताः ।
तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम् ॥ ९.२०.३१ ॥

敌人没有注意到那支被尘土覆盖的军队。大王,你的士兵四散逃跑,只剩下国王难敌。

9.20.32

दुर्योधनस्तु सम्प्रेक्ष्य भग्नं स्वबलमन्तिकात् ।
जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारयत् ॥ ९.२०.३२ ॥

然而难敌看见自己的军队在近旁溃散,便独自迅速冲上前去,把所有人都拦了下来。

9.20.33

पाण्डूंश्च सर्वान्सङ्क्रुद्धो धृष्टद्युम्नं च पार्षतम् ।
शिखण्डिनं द्रौपदेयान्पाञ्चालानां च ये गणाः ॥ ९.२०.३३ ॥

他怒火中烧,迎战所有般度子,迎战持国之子的……德里斯塔尤姆纳与普利沙塔之子、希坎丁、德罗波迪之子,以及般遮罗的各支军队。

9.20.34

केकयान्सोमकांश्चैव सृञ्जयांश्चैव मारिष ।
असम्भ्रमं दुराधर्षः शितैर्बाणैरवाकिरत् ॥ ९.२०.३४ ॥

尊者啊,那位难以抵挡的英雄从容不迫,用利箭覆盖了克伽耶人、索摩迦人和斯若耶人。

9.20.35

अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः ।
यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशते।
तथा दुर्योधनो राजा सङ्ग्रामे सर्वतोऽभवत् ॥ ९.२०.३५ ॥

你那位大力的儿子在战场上警惕地屹立。犹如祭祀中经咒净化的大火熊熊燃烧,国王难敌在战场上四面八方都显现出来。

9.20.36

तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवे ।
अथान्यं रथमास्थाय हार्दिक्यः समपद्यत ॥ ९.२०.३६ ॥

敌人不敢靠近他,就像凡人在战场上不敢靠近死亡一样。这时,希尔迪基亚登上另一辆战车来到那里。