Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.22

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.22.1

वर्तमाने तदा युद्धे घोररूपे भयानके ।
अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः ॥ ९.२२.१ ॥

当那场可怕骇人的战斗正在进行时,你儿子的军队在那里被般度之子们击溃了。

9.22.2

तांस्तु सर्वानयन्तेन सन्निवार्य महारथाः ।
पुत्रास्ते योधयामासुः पाण्डवानामनीकिनीम् ॥ ९.२२.२ ॥

然而,你那些大战车武士之子拦住了他们所有人,与般度之子的军队交战。

9.22.3

निवृत्ताः सहसा योधास्तव पुत्रजयैपिणः ।
सन्निवृत्तेषु तेष्वेवं युद्धमासीत्सुदारुणम्।
तावकानां परेषां च देवासुररणोपभम् ॥ ९.२२.३ ॥

为你的儿子们谋求胜利的战士们突然掉头。他们这样回身之后,爆发了极为惨烈的战斗,犹如天神与阿修罗之战,无论你方还是敌方皆然。

9.22.4

परेषां तावकानां च नासीत्कश्चित्पराङ्मुखः ॥ ९.२२.४ ॥

无论敌方还是你方,都没有一人从战斗中退缩逃避。

9.22.5

अनुमानेन युध्यन्ते सञ्ज्ञाभिश्च परस्परम् ।
तेषां क्षयो महानासीद्युध्यतामितरेतरम् ॥ ९.२२.५ ॥

他们凭推测和信号彼此交战,彼此相争者之中发生了大规模的杀戮。

9.22.6

ततो युधिष्ठिरो राजा क्रोधेन महता युतः ।
जिगीषमाणः सङ्ग्रामे धार्तराष्ट्रान्सराजकान् ॥ ९.२२.६ ॥

于是国王坚战怀着极大的愤怒,想在战斗中征服持国之子及其国王们,向前推进。

9.22.7

त्रिभिः शारद्वतं विद्व्वा रुक्मपुङ्खैः शिलाशितैः ।
चतुर्भिर्निजघानाश्वान्कल्याणान्कृतवर्मणः ॥ ९.२२.७ ॥

他以三支箭射中沙罗陀婆之子,又以四支金羽、石上磨利的箭杀死了旃婆的良马。

9.22.8

अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम् ।
अथ शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् ॥ ९.२२.८ ॥

马嘶摩之子带走了名声显赫的希尔迪基亚;随后沙罗陀婆之子以八支箭还击,射中了坚战。

9.22.9

ततो दुर्योधनो राजा रथान्सप्तशतान्रणे ।
प्रैषयद्यत्र राजाऽसौ धर्मपुत्रो युधिष्ठिरः ॥ ९.२२.९ ॥

于是国王难敌在战场上派出七百辆战车,前往法之子国王坚战所在之处。

9.22.10

ते रथा रथिभिर्युक्ता मनोमारुतरंहसः ।
अभ्यद्रवन्त सङ्ग्रामे कौन्तेयस्य रथं प्रति ॥ ९.२२.१० ॥

那些战车配备车夫,快如意念与风,在战斗中冲向贡蒂之子的战车。

9.22.11

ते समन्तान्महाराज परिवार्य युधिष्ठिरम् ।
अदृश्यं सायकैश्चक्रुर्मेघा इव दिवाकरम् ॥ ९.२२.११ ॥

大王啊,他们从四面包围坚战,以箭矢使他不可见,正如乌云遮蔽太阳。

9.22.12

तं दृष्ट्वा धर्मराजानं कौरवेयैस्तथावृतम् ।
नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः ॥ ९.२२.१२ ॥

见法王(坚战)如此被俱卢族人包围,以湿婆丁为首的战车武士们怒不可遏,无法忍受。

9.22.13

रथैरश्ववरैर्युक्तैः किङ्किणीजालसंवृतैः ।
आजग्मुरथ रक्षन्तः कुन्तीपुत्रं युधिष्ठिरम् ॥ ९.२२.१३ ॥

他们乘坐以良马驾驭、覆盖着铃网的战车前来,保护贡蒂之子坚战。

9.22.14

ततः प्रववृते रौद्रः सङ्ग्रामः शोणितोदकः ।
पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः ॥ ९.२२.१४ ॥

于是,般度五子与俱卢人之间爆发了可怕的战斗,以血为水,使阎摩的国土增长。

9.22.15

रथान्सप्तशतान्हत्वा कुरूणामाततायिनाम् ।
पाण्डवाः सह पाञ्चालैः पुनरेवाभ्यवारयन् ॥ ९.२२.१५ ॥

般度五子与般遮罗人一起杀死了俱卢人中七百名持械侵犯的战车武士,再次将他们击退。

9.22.16

तत्र युद्धं महच्चासीत्तव पुत्रस्य पाण्डवैः ।
न च तत्तादृशं दृष्टं नैव चापि परिश्रुतम् ॥ ९.२२.१६ ॥

在那里,你的儿子与般度五子之间发生了大战,这样的战斗从未有人见过,也从未有人听说。

9.22.17

वर्तमाने तदा युद्धे निर्मर्यादे समन्ततः ।
वध्यमानेषु योधेषु तावकेष्वितरेषु च ॥ ९.२२.१७ ॥

当那场毫无节制、四面八方展开的战斗进行时,你方和对方的战士都在被杀害。

9.22.18

विनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः ।
उत्क्रुष्टैः सिंहनादैश्च गर्जितैश्चैव धन्विनाम् ॥ ९.२२.१८ ॥

当战士们怒吼、上好的海螺被吹响时,弓箭手的呼喊、狮吼与雷鸣般的声音响彻四方。

9.22.19

अतिप्रवृत्ते युद्धे च छिद्यमानेषु मर्मसु ।
धावमानेषु योधेषु जयगृद्धिषु मारिष ॥ ९.२२.१९ ॥

当战斗激烈到极点,要害被斩断,渴望胜利的战士奔走之时,啊,尊者!

9.22.20

संहारे सर्वतो जाते पृथिव्यां शोकसम्भवे ।
वह्नीनामुत्तमस्त्रीणां सीमन्तोद्धरणे कृते ॥ ९.२२.२० ॥

毁灭遍及四方,悲痛降临大地,最优秀女子的发缝被拆散之时,

9.22.21

निर्मर्यादे महायुद्धे वर्तमाने सुदारुणे ।
प्रादुरासन्विनाशाय तदोत्पाताः सुदारुणाः ॥ ९.२२.२१ ॥

当这场无限度的、极其可怕的大战进行之际,可怕的凶兆出现,预示着毁灭。

9.22.22

चचाल शब्दं कुर्वाणा सपर्वतवना मही ।
सदण्डाः सोल्मुका राजन्कीर्यमाणाः समन्ततः ॥ ९.२२.२२ ॥

大地连同山岳森林震动作响,王啊,棍棒与燃烧的火把四处散落。

9.22.23

उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम् ।
विष्वग्वाताः प्रादुरासन्नीचैः शर्करवर्षिणः ॥ ९.२२.२३ ॥

流星从天而降,撞击日轮后坠落大地;四面八方狂风大作,低低的暴风出现,降下沙石之雨。

9.22.24

अश्रूणि मुमुचुर्नागा वेपथुं चास्पृशन्भृशम् ।
एतान्धोराननादृत्य समुत्पातान्सुदारुणान् ॥ ९.२२.२४ ॥

大象落泪,剧烈颤抖,对这些可怕的、极其恐怖的凶兆置若罔闻。

9.22.25

पुनर्युद्धाय संयत्ताः क्षत्रियास्तस्थुरव्यथाः ।
रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः ॥ ९.२२.२५ ॥

战士们再次准备好战斗,无所畏惧地站在美丽而神圣的俱卢之野上,渴望升天。

9.22.26

ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् ।
युध्यध्वमग्रतो यावत्पृष्ठतो हन्मि पाण्डवान् ॥ ९.२२.२६ ॥

于是乾陀罗王之子沙恭尼说道:“你们从前面作战,直到我从后面击杀般度之子。”

9.22.27

ततो नः सम्प्रायातानां मद्रयोधास्तरस्विनः ।
हृष्टाः किलाकिलाशब्दमकुर्वत परे तथा ॥ ९.२२.२७ ॥

于是我方前进的迅捷摩德罗战士欢欣地发出“基拉-基拉”的呼声,其他人也同样如此。

9.22.28

अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः ।
शरासनानि धुन्वन्तः शरवर्षैरवाकिरन् ॥ ९.२२.२८ ॥

然而他们再次扑向我们,找准了目标,难以抵挡,挥动弓弦,以箭雨覆盖了我们。

9.22.29

ततो हतं परैस्तत्र मद्रराजबलं तदा ।
दुर्योधनबलं दृष्ट्वा पुनरासीत्पराङ्मुखम् ॥ ९.२२.२९ ॥

于是,看到摩德罗王的军队被敌人击杀在那里,难敌的军队再次背转身去。

9.22.30

गान्धारराजस्तु पुनर्वाक्यमाह ततो बली ।
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥ ९.२२.३० ॥

于是强大的乾陀罗王又说道:“回来吧,你们这些不知法的人!战斗!逃跑对你们有什么好处?”

9.22.31

अनीकं दशसाहस्रमश्वानां भरतर्षभ ।
आसीद्गान्धारराजस्य विशालप्रासयोधिनाम् ॥ ९.२२.३१ ॥

婆罗多族的雄牛啊,犍陀罗王拥有一支一万匹马的军队,其中有持宽矛的战士。

9.22.32

बलेन तेन विक्रम्य वर्तमाने जनक्षये ।
पृष्ठतः पाण्डवानीकमभ्यघ्नन्निशितैः शरैः ॥ ९.२२.३२ ॥

他们凭借那股力量勇猛前进,人命屠戮仍在继续,他们用利箭从背后攻击般度的军队。

9.22.33

तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः ।
अभज्यत महाराज पाण्डूनां सुमहद्बलम् ॥ ९.२२.३३ ॥

大王啊,如同被风从四面吹散的云,般度之子的庞大军队被打垮了。

9.22.34

ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलमन्तिकात् ।
अभ्यनोदयदव्यग्रः सहदेवं महाबलम् ॥ ९.२२.३४ ॥

于是坚战看到自己的军队就在近处溃散,他不慌不忙地催促大力的偕天前进。

9.22.35

असौ सुबलपुत्रो नो जघनं पीड्य दंशितः ।
सैन्यानि सूदयत्येष पश्य पाण्डव दुर्मतिः ॥ ९.२२.३५ ॥

这个苏巴拉之子压迫我军后翼,披着甲胄,正在屠杀军队。般度之子啊,看这个恶意之人。

9.22.36

गच्छ त्वं द्रौपदेयैश्च शकुनिं सौबलं जहि ।
रथानीकमहं धक्ष्ये पाञ्चालसहितोऽनघ ॥ ९.२२.३६ ॥

你同德罗波蒂之子们前去,击杀苏巴拉之子沙恭尼。无瑕者啊,我将与般遮罗人一起焚烧战车军团。

9.22.37

गच्छन्तु कुञ्जराः सर्वे वाजिनश्च सह त्वया ।
पादाताश्च त्रिसाहस्राः शकुनिं तैर्वृतो जहि ॥ ९.२२.३७ ॥

愿所有的象与马与你同行,三千步兵由它们护卫,去杀死沙仇尼。

9.22.38

ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः ।
पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान् ॥ ९.२२.३८ ॥

接着,七百头象载着手持弓箭的战士,五千匹马,以及勇猛的萨哈德瓦(前进)。

9.22.39

पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः ।
रणे ह्यभ्यद्रवंस्ते तु शकुनिं युद्धदुर्मदम् ॥ ९.२२.३९ ॥

三千步兵和德罗波蒂所有的儿子在战场上冲向陷于战斗狂热的沙仇尼。

9.22.40

ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान् ।
जघान पृष्ठतः सेनां जयगृद्वः प्रतापवान् ॥ ९.२२.४० ॥

大王啊,于是苏波罗之子(沙仇尼)越过般度诸子,渴望胜利,威力强大,从后方击杀了军队。

9.22.41

अश्वारोहास्तु संरब्धाः पाण्डवानां तरस्विनाम् ।
प्राविशन्सौबलानीकमभ्यतिक्रम्य तान्रथान् ॥ ९.२२.४१ ॥

然而,般度诸子的迅捷骑兵满怀愤怒,越过那些战车,冲入了沙仇尼的军队。

9.22.42

ते तत्र सादिनः शूराः सौबलस्य महद्बलम् ।
रणमध्ये व्यतिष्ठन्त शरवर्षैरवाकिरन् ॥ ९.२२.४२ ॥

那些英勇的骑兵在战斗中屹立于沙仇尼的大军之中,以箭雨覆盖了它。

9.22.43

तदुद्यतगदाप्रासमकापुरुषसेवितम् ।
प्रावर्तत महद्युद्धं राजन्दुर्मन्त्रिते तव ॥ ९.२२.४३ ॥

高举着棍棒与长矛,勇士们所参与的那场大战开始了,国王啊,因您的恶谋。

9.22.44

उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन् ।
न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत ॥ ९.२२.४४ ॥

弓弦之声止息,车战者成了旁观者,因为己方与敌方已无法分辨。

9.22.45

शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ ।
ज्योतिषामिव सम्पातमपश्यन्कुरुपाण्डवाः ॥ ९.२२.४५ ॥

婆罗多的雄牛啊,英雄臂膀所掷的长矛之坠落,俱卢与般度之人视之如光明的坠落。

9.22.46

ऋष्टिभिर्विमलाभिश्च तत्रतत्र विशाम्पते ।
सम्पतन्तीभिराकाशमावृतं बह्वशोभत ॥ ९.२२.४६ ॥

人主啊,天空被处处坠落的明亮的利剑所覆盖,光辉极为耀眼。

9.22.47

प्रासानां पततां राजन्रूपमासीत्समन्ततः ।
शलभानामिवाकाशे तदा भरतसत्तम ॥ ९.२२.४७ ॥

国王啊,天空四方坠落的长矛之形如蝗虫,婆罗多中最优秀者啊。

9.22.48

रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः ।
हयाः परिपतन्तिस्म शतशोऽथ सहस्रशः ॥ ९.२२.४८ ॥

浑身沾满鲜血的战马,因御者被摔落,成百上千地倒下。

9.22.49

अन्योन्यं परिपिष्टाश्च समासाद्य परस्परम् ।
सुविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः ॥ ९.२२.४९ ॥

彼此相撞而被碾压,互相冲击中重伤,可见他们从口中呕出鲜血。

9.22.50

ततोऽभवत्तमो घोरं सैन्येन रजसा वृतम् ।
तानपाक्रमतोऽद्राक्षं तस्माद्देशादरिन्दम ॥ ९.२२.५० ॥

随后,大军扬起的尘土笼罩成可怕的黑暗。敌人的征服者啊,我看见他们从那个地方退去。

9.22.51

अश्वान्राजन्मनुष्यांश्च रजसा संवृते सति ।
भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु ॥ ९.२२.५१ ॥

国王啊,当一切被尘土覆盖时,马匹、人和其他人都倒在地上,大量呕血。

9.22.52

केशाकेशि समालग्ना न शेकुश्चेष्टितुं नराः ।
अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः ॥ ९.२२.५२ ॥

发缠着发,人们无法动弹;那些大力者彼此从马背上拖拽下来。

9.22.53

मल्ला इव समासाद्य निजघ्नुरितरेतरम् ।
अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः ॥ ९.२२.५३ ॥

他们像摔跤者一样相遇并彼此击打;被马拖拽,此处许多人丧命。

9.22.54

भूमौ निपतिताश्चान्ये बहवो विजयैषिणः ।
तत्रतत्र व्यदृश्यन्त पुरुषाः शूरमानिनः ॥ ९.२२.५४ ॥

地上还躺着许多倒下的人,他们渴望胜利,自认为英雄,四处可见。

9.22.55

रक्तोक्षितैश्छिन्नभुजैरवकृष्टशिरोरुहैः ।
व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः ॥ ९.२२.५५ ॥

大地上满是染血的尸体,断臂残躯,头发被拽散,成百上千地散落着。

9.22.56

दूरं न शक्यं तत्रासीद्गन्तुमश्वेन केनचित् ।
साश्वारोहैर्हतैरश्वैरावृते वसुधातले ॥ ९.२२.५६ ॥

那里没有任何马能够走远,因为大地表面被死去的马匹及其骑手所覆盖。

9.22.57

रुधिरोक्षितसन्नाहैरात्तशस्त्रैरुदायुधैः ।
नानाप्रहरणैर्घोरैः परस्परवधैषिभिः।
सुसन्निकृष्टे सङ्ग्रामे हतभूयिष्ठसैनिके ॥ ९.२२.५७ ॥

在那场近距离的激战中,大多数士兵已经阵亡,战士们的铠甲染满鲜血,手持高举的兵器,各种可怕的武器,彼此都渴望对方的死亡。

9.22.58

स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशाम्पते ।
षट्साहस्रैर्हयैः शिष्टेरपायाच्छकुनिस्ततः ॥ ९.२२.५८ ॥

然后,人民之主啊,苏跋罗之子沙恭尼战斗片刻之后,带着剩下的六千匹马逃走了。

9.22.59

तथैव पाण्डवानीकं रुधिरेण समुक्षितम् ।
षट्साहस्रैर्हयैः शिष्टेरपायाच्छ्रान्तवाहनम् ॥ ९.२२.५९ ॥

同样,般度之子的军队满身血污,带着疲惫的车辆和剩下的六千匹马逃走了。

9.22.60

अश्वारोहाश्च पाण्डूनामब्रुवन्रुधिरोक्षिताः ।
सुसन्निकृष्टे सङ्ग्रामे भूयिष्ठे त्यक्तजीविताः ॥ ९.२२.६० ॥

般度之子的骑兵满身鲜血,已舍弃性命,在那场近距离的大战中如此说道。

9.22.61

न हि शक्यं रथैर्योद्धुं कुत एव महागजैः ।
रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि ॥ ९.२२.६१ ॥

以战车作战尚且不可能,何况以大象作战?愿战车去攻战车,象也去攻象。

9.22.62

प्रतियातो हि शकुनिः स्वमनीकमवस्थितः ।
न पुनः सौबलो राजा योद्धुमभ्यागमिष्यति ॥ ९.२२.६२ ॥

沙古尼已退回,驻守在自己的军中;苏巴拉之子那位国王不会再来交战了。

9.22.63

ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः ।
प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः ॥ ९.२२.६३ ॥

于是德劳帕迪之子与那些狂怒的大象,前往潘查拉王子、大车战士德里什塔德尤姆纳所在之处。

9.22.64

सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते ।
एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः ॥ ९.२२.६४ ॥

俱卢后裔啊,尘云升起时,萨哈德瓦也独自前往国王坚战所在之处。

9.22.65

ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः ।
पार्श्वतोऽभ्यहनत्क्रुद्धो धृष्टद्युम्नस्य वाहिनीम् ॥ ९.२२.६५ ॥

他们离去后,苏巴拉之子沙古尼愤怒地从侧翼再次攻击德里什塔德尤姆纳的军队。

9.22.66

तत्पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाऽभ्यवर्तत ।
तावकानां परेषां च परस्परवधैषिणाम् ॥ ९.२२.६६ ॥

那场喧嚣的战斗又继续进行,你方与敌方的人都舍弃了性命,彼此都想置对方于死地。

9.22.67

ते चान्योन्यमवैक्षन्त तस्मिन्वीरसमागमे ।
योधाः पर्यपतन्राजञ्शतशोऽथ सहस्रशः ॥ ९.२२.६७ ॥

在那群英相遇之际,他们彼此相望。大王啊,战士们成百上千地倒下。

9.22.68

असिभिश्छिद्यमानानां शिरसां लोकसंक्षये ।
प्रादुरासीन्महाञ्शब्दस्तालानां पततामिव ॥ ९.२२.६८ ॥

在世界的毁灭中,被刀剑斩断的头颅发出巨大的声响,如同倒下的棕榈树之声。

9.22.69

विमुक्तानां शरीराणां छिन्नानां पततां भुवि ।
सायुधानां च बाहूनामूरूणां च विशाम्पते।
आसीत्कटकटाशब्दः सुमहान्रोमहर्षणः ॥ ९.२२.६९ ॥

人主啊,断裂的身躯落于地上,持械的手臂与大腿发出巨大而令人毛骨悚然的咔嚓之声。

9.22.70

निघ्नन्तो निशितैः शस्त्रैर्भ्रातॄन्पुत्रान्सखीनपि ।
योधाः परिपतन्ति स्म यथाऽऽमिषकृते खगाः ॥ ९.२२.७० ॥

以利刃击杀兄弟、儿子乃至朋友,战士们纷纷倒下,如同群鸟为食肉而扑下。

9.22.71

अन्योन्यं प्रतिसंरब्धाः समासाद्य परस्परम् ।
अहम्पूर्वमहम्पूर्वमिति निघ्नन्सहस्रशः ॥ ९.२२.७१ ॥

彼此愤怒相向,迎面相遇,高呼“我先!我先!”,成千上万地击杀。

9.22.72

संयातेनासनभ्रष्टैरश्वारोहैर्गतासुभिः ।
हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः ॥ ९.२२.७२ ॥

奔突的战马,连同被甩离马鞍、失去生命的骑士,成百上千地倒下。

9.22.73

स्फुरतां प्रतिपिष्टानामश्वानां शीघ्रगामिनाम् ।
स्तनतां च मनुष्याणां सन्नद्धानां विशाम्पते ॥ ९.२२.७३ ॥

在那些挣扎的、被踩碎的疾驰战马与呻吟的披甲士兵之间,人民之主啊。

9.22.74

शक्त्यृष्टिप्रासशब्दश्च तुमुलः समपद्यत ।
भिन्दतां परमर्माणि राजन्दुर्मन्त्रिते तव ॥ ९.२२.७४ ॥

国王啊,因你的恶谋,刺穿要害的长矛、投枪与标枪发出震天的喧声。

9.22.75

श्रमाभिभूताः संरब्धा श्रान्तवाहाः पिपासवः ।
विक्षताश्च शितैः शस्त्रैरभ्यवर्न्तत तावकाः ॥ ९.२२.७५ ॥

你的部下们被疲惫所压倒,怒气冲冲,坐骑已疲惫不堪,口渴难耐,又被锐利兵器所伤,仍然向前冲去。

9.22.76

मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः ।
जघ्नुः परान्स्वकांश्चैव प्राप्तान्प्राप्ताननन्तरान् ॥ ९.२२.७६ ॥

此处许多人被血腥气冲昏,神志迷乱,击杀敌人,也击杀自己人,击杀走近的人,也击杀身旁的人。

9.22.77

बहवश्च गतप्राणाः क्षत्रिया जयगृद्विनः ।
भूमावभ्यपतन्राजञ्शरवृष्टिभिरावृताः ॥ ९.२२.७७ ॥

国王啊,许多贪求胜利的刹帝利失去生命,被箭雨所覆盖,倒在地上。

9.22.78

वृकगृध्रशृगालानां तुमुले मोदनेऽहनि ।
आसीद्बलक्षयो घोरस्तव पुत्रस्य पश्यतः ॥ ९.२२.७८ ॥

在那狂欢般喧闹的一日,成为狼、秃鹫与豺狗的盛宴,你的儿子眼看着大军遭受可怕的毁灭。

9.22.79

नराश्वकायैः सञ्छन्ना भूमिरासीद्विशाम्पते ।
रुधिरोदकचित्रा च भीरूणां भयवर्धिनी ॥ ९.२२.७९ ॥

人主啊,大地被人与马的尸体所覆盖,被血水染得斑驳,增加了怯懦者的恐惧。

9.22.80

असिभिः पट्टसैः शूलैस्तक्षमाणाः पुनःपुनः ।
तावकाः पाण्वेयाश्च न न्यवर्तन्त भारत ॥ ९.२२.८० ॥

以剑、铁棒与长矛反复砍杀,你的将士与般度之子都不退缩,婆罗多啊。

9.22.81

प्रहरन्तो यथाशक्ति यावत्प्राणस्य धारणम् ।
योधाः परिपतन्ति स्म वमन्तो रुधिरं मुखैः ॥ ९.२२.८१ ॥

只要尚存性命,便竭尽力量击打,口中吐血的战士纷纷倒下。

9.22.82

शिरो गृहीत्वा केशेषु कबन्धः स प्रदृश्यते ।
उद्यम्य च शितं खङ्गं रुधिरेण परिप्लुतम् ॥ ९.२२.८२ ॥

那无头之躯被人看见,手提一颗头颅,高举着浸满鲜血的利剑。

9.22.83

तथोत्थितेषु बहुषु कबन्धेषु नराधिप ।
तथा रुधिरगन्धेन योधाः कश्मलमाविशन् ॥ ९.२२.८३ ॥

如此,人主啊,许多无头之躯站立起来,воины因血腥之气而昏厥惊惧。

9.22.84

मन्दीभूते ततः शब्दे पाण्डवानां महद्बलम् ।
अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः ॥ ९.२२.८४ ॥

此时,般度大军的喧声渐渐减弱,苏跋罗以剩余的少数马匹向前进攻。

9.22.85

ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्विनः ।
पदातयश्च नागाश्च सादिनश्चोद्यतायुधाः ॥ ९.२२.८५ ॥

于是渴望胜利的般度之子急速冲上前去:步兵、象兵与骑兵都高举兵器。

9.22.86

कोष्ठकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः ।
शस्त्रैर्नानाविधैर्जघ्नुर्युद्वपारं तितीर्षवः ॥ ९.२२.८६ ॥

他们将他围成一圈,四面环绕,用各式兵器攻击他,渴望渡过战斗的彼岸。

9.22.87

त्वदीयास्तांस्तु सम्प्रेक्ष्य सर्वतः समभिद्रुतान् ।
रथाश्वपत्तिद्विरदाः पाण्डवानभिदुद्रुवुः ॥ ९.२२.८७ ॥

你的部下看到他们从四面八方猛烈冲来,战车、战马、步兵与象兵便向般度之子冲去。

9.22.88

केचित्पदातयः पद्भिर्मुष्टिभिश्च परस्परम् ।
निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन् ॥ ९.२२.८८ ॥

一些步兵在战斗中以脚和拳相互击打;英雄们武器耗尽,随后纷纷倒下。

9.22.89

रथेभ्यो रथिनः पेतुर्द्विपेभ्यो हस्तिसादिनः ।
विमानेभ्यो दिवो भ्रष्टाः सिद्वाः पुण्यक्षयादिव ॥ ९.२२.८९ ॥

车上的战士从战车坠落,象上的骑手从象背坠落,恰如悉陀因功德耗尽而从天界车辇坠下。

9.22.90

एवमन्योन्यमायत्ता योधा जघ्नुर्महाहवे ।
पितॄन्भ्रातॄन्वयस्यांश्च पुत्रानपि तथा परे ॥ ९.२२.९० ॥

于是,互相攻击的战士们在那场大战中杀死了父亲、兄弟、朋友、儿子,也杀死了其他人。

9.22.91

एवमासीदमर्यादं युद्वं भरतसत्तम ।
प्रासासिबाणकलिलं वर्तमाने सुदारुणे ॥ ९.२२.९१ ॥

婆罗多之最啊,如此这般,一场毫无节制的战斗爆发了,长矛、刀剑与箭矢密布,极其惨烈。