摩诃婆罗多 · 章 9.24
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.24.1
युध्यतां यतमानानां शूराणामनिवर्तनाम् ।
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः ॥ ९.२४.१ ॥
德难阳耶以甘提婆弓使那些奋战、努力而不退缩的勇士的决心落空。
9.24.2
इन्द्राशनिसमस्पर्शानविषह्यान्महौजसः ।
विसृजन्दृश्यते बाणान्धारा मुञ्चन्निवाम्बुदः ॥ ९.२४.२ ॥
人们看见他放出的箭,其触感如因陀罗的霹雳,难以承受,威力巨大,如乌云倾泻雨流。
9.24.3
तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना ।
सम्प्रदुद्राव सङ्ग्रामात्तव पुत्रस्य पश्यतः ॥ ९.२४.३ ॥
婆罗多族最优秀者啊!那支被戴冠者所击的军队,在你的儿子眼前从战场上溃散而逃。
9.24.4
पितॄन्भ्रातॄन्परित्यज्य वयस्यानपि चापरे ॥ ९.२४.४ ॥
抛弃父亲、兄弟乃至朋友,其他人也逃走了。
9.24.5
हतधुर्या रथाः केचिद्धतसूतास्तथा परे ।
भग्नाक्षयुगचक्रेषाः केचिदासन्विशाम्पते ॥ ९.२४.५ ॥
有些战车的轭已断,有些的御者已死,其他的车轴、轭、轮与辕都已折断,人主啊。
9.24.6
अन्येषां सायकाः क्षीणास्तथाऽन्ये बाणपीडिताः ।
अक्षता युगपत्केचित्प्राद्रवन्भयपीडिताः ॥ ९.२४.६ ॥
有些人的箭已耗尽,有些人被箭所伤,有些未受伤者也因恐惧所苦,一齐逃走了。
9.24.7
केचित्पुत्रानुपादाय हतभूयिष्ठबान्धवाः ।
विचुक्रुशुः पितॄंस्त्वन्ये सहायानपरे पुनः ॥ ९.२४.७ ॥
有些人抱起儿子,他们的亲族大多已被杀死,便哀号起来;另一些人呼唤父亲,还有一些人呼唤同伴。
9.24.8
बान्धवांश्च नरव्याघ्र भ्रातॄन्सम्बन्धिनस्तथा ।
दुद्रुवुः केचिदुत्सृज्य तत्रतत्र विशाम्पते ॥ ९.२४.८ ॥
人中之虎啊,民之主啊!有些人抛下亲族、兄弟和姻亲,四处逃散。
9.24.9
बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः ।
निःश्वसन्ति स्म दृश्यन्ते पार्थबाणहता नराः ॥ ९.२४.९ ॥
这里可以看到许多大车战士,被重重射穿,昏迷不醒,深深叹息;他们是被阿周那的箭射倒的人。
9.24.10
तानन्ये रथमारोप्य ह्याश्वास्य च मुहूर्तकम् ।
विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे ॥ ९.२४.१० ॥
其他人把他们放上战车,安慰片刻,休息后解渴,然后又去参战。
9.24.11
तानपास्य गताः केचित्पुनरेव युयुत्सवः ।
कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः ॥ ९.२४.११ ॥
丢下他们,有些人又去了,渴望战斗,奉行您儿子的命令,被战斗的狂热所陶醉。
9.24.12
पानीयमपरे पीत्वा पर्याश्वास्य च वाहनम् ।
वर्माणि च समारोप्य केचिद्भरतसत्तम ॥ ९.२४.१२ ॥
其他人饮了水,好好安抚了坐骑,还有些人披上了铠甲,哦,婆罗多中最优秀者。
9.24.13
समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिबिरेऽपि च ।
पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन् ॥ ९.२४.१३ ॥
有人安慰了兄弟并留在营中,有人留下了儿子和父亲,他们都愿再次作战。
9.24.14
सज्जयित्वा रथान्केचिद्यथामुख्यं विशाम्पते ।
आवृत्य पाण्डवानीकं पुनर्युद्धमरोचयन् ॥ ९.२४.१४ ॥
人主啊,有人按等级布置战车,包围了般度之军,并愿再次作战。
9.24.15
ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे ।
त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः ॥ ९.२४.१५ ॥
那些英雄被铃铛网覆盖,闪耀如为征服三界而奋战的提迭耶与檀那婆。
9.24.16
आगम्य सहसा केचिद्रथैः स्वर्णविभूषितैः ।
पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन् ॥ ९.२४.१६ ॥
有人突然驾着饰金的战车赶来,在般度诸军之中攻击德里史塔尤姆那。
9.24.17
धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः ।
नाकुलिस्तु शतानीको रथानीकमयोधयन् ॥ ९.२४.१७ ॥
般遮罗的德里史塔尤姆那、大车士始迦坦迪,以及无种之子舍塔尼迦,与战车之军交战。
9.24.18
पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः ।
अभ्यद्रवत्सुसङ्क्रुद्धस्तावकान्हन्तुमुद्यतः ॥ ९.२४.१८ ॥
于是般遮罗王子在大军环绕下怒火中烧,冲向你方战士,决意将其杀死。
9.24.19
ततस्त्वापततस्तस्य तव पुत्रो जनाधिप ।
बाणसङ्घाननेकान्वै प्रेषयामास भारत ॥ ९.२४.१९ ॥
此时,当他冲向对方时,你的儿子,人主啊,射出了许多箭群,婆罗多的后裔啊。
9.24.20
धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना ।
नाराचैरर्धनाराचैर्बहुभिः क्षिप्रकारिभिः ॥ ९.२४.२० ॥
此时,大王啊,你那善射的儿子用许多迅速致敌的那罗遮箭和半那罗遮箭射击德里斯塔笃姆那。
9.24.21
वत्सदन्तैश्च बाणैश्च कर्मारपरिमार्जितैः ।
अश्वांश्च चतुरो हत्वा बाह्वोरुरसि चार्पितः ॥ ९.२४.२१ ॥
以小牛齿箭和铁匠磨光的箭杀死他的四匹马,他的双臂和胸膛也被射中。
9.24.22
सोऽतिविद्धो महेष्वासस्तोत्रार्दित इव द्विपः ।
तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे।
सारथेश्चास्य भल्लेन शिरः कायादपाहरत् ॥ ९.२४.२२ ॥
那位大弓箭手被射得重伤,犹如被驱象钩折磨的大象,他以箭将其四匹马送向死亡,并以一支钹箭从身上斩下了御者的头颅。
9.24.23
ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः ।
अपाक्रामद्वतरथो नातिदूरमरिन्दमः ॥ ९.२४.२३ ॥
此时,制敌的国王难敌跃上马背,离开战车,退到不远之处。
9.24.24
दृष्टा तु हतविक्रान्तं स्वमनीकं महाबलः ।
तव पुत्रो महाराज प्रययौ यत्र सौबलः ॥ ९.२४.२४ ॥
大王啊,你那勇猛的儿子见自己军队的勇气已被摧毁,便前往苏跋罗之子沙恭尼所在之处。
9.24.25
ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः ।
पाण्डवान्रथिनः सर्वान्समन्तात्पर्यवारयन् ॥ ९.२४.२५ ॥
当战车被摧毁后,三千头大象从四面八方包围了般度五子的所有车兵。
9.24.26
ते वृताः समरे पञ्च गजानीकेन भारत ।
अशोभन्त महाराज ग्रहास्तारागणैरिव ॥ ९.२४.२६ ॥
婆罗多之后,大王啊,这五人在战场上被象军包围,闪耀如同被星群环绕的行星。
9.24.27
ततोऽर्जुनो महाराज लब्धलक्षौ महाभुजः ।
विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः ॥ ९.२४.२७ ॥
大王啊,那时,臂力强大的阿周那瞄准目标,乘着自己的战车出发了;他的马是白色的,克里希那为他驾车。
9.24.28
तैः समन्तात्परिवृतः कुञ्जरैः पर्वतोपमैः ।
नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमयोधयत् ॥ ९.२४.२८ ॥
他被那些如山的大象从四面包围,用明亮锋利的铁箭与象军作战。
9.24.29
तत्रैकबाणनिहतानपश्याम महागजान् ।
पतितान्पात्यमानांश्च निर्भिन्नान्सव्यसाचिना ॥ ९.२४.२९ ॥
在那里,我们看到大象被一箭一箭射死——有的倒下,有的正在被击倒,全部被惯用双弓的阿周那射穿。
9.24.30
भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः ।
करेणादाय महतीं गदामभ्यपतद्बली।
अथाप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः ॥ ९.२४.३० ॥
然而,比恩那见到那些大象,他如同发狂的大象,强壮有力,手持巨大的铁锤扑了上去;他迅速从战车跃下,便如手持权杖的死神。
9.24.31
तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम् ।
वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं च सुस्रुवुः ॥ ९.२४.३१ ॥
看见持举起大棒的般度大车将,你的军队惊恐万分,竟大小便失禁。
9.24.32
आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे ॥ ९.२४.३२ ॥
见狼腹(Bhīma)手持大棒,全军惶惶不安。
9.24.33
गदया भीमसेनेन भिन्नकुम्भान्निपातितान् ।
धावमानानपश्याम कुञ्जरान्पर्वतोपमान् ॥ ९.२४.३३ ॥
我们看见被怖军大棒击碎额头而倒下的、如山般的象群在奔逃。
9.24.34
प्राद्रवन्कुञ्जरास्ते तु भीमसेनगदाहताः ।
पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः ॥ ९.२४.३४ ॥
那些被怖军大棒击中的象群逃奔而去;如同断翼之山,它们发出痛苦的嘶鸣而倒下。
9.24.35
प्रभिन्नकुम्भांस्तु बहून्द्रवमाणानितस्ततः ।
पतमानांश्च सम्प्रेक्ष्य वित्रेसुस्तव सैनिकाः ॥ ९.२४.३५ ॥
看见许多额头破裂的象群四处奔逃、倒下,你的士兵们惊恐万分。
9.24.36
युधिष्ठिरोऽपि सङ्क्रुद्धो माद्रीपुत्रौ च पाण्डवौ ।
गार्ध्रपत्रैः शितैर्बाणैर्जघ्नुर्वै गजयोधिनः ॥ ९.२४.३६ ॥
坚战也大为愤怒,玛德利的两个儿子般度族人以装有秃鹫羽的锐利箭射击象兵。
9.24.37
धृष्टद्युम्नस्तु समरे पारजित्य नराधिपम् ।
अपक्रान्ते तव सुते हयपृष्ठे समाश्रिते ॥ ९.२४.३७ ॥
然而在战斗中,持斧光(Dhṛṣṭadyumna)战胜了国王,而你的儿子已逃走,骑上了马背,
9.24.38
दृष्ट्वा च पाण्डवान्सर्वान्कुञ्चरैः परिवारितान् ।
धृष्टद्युम्नो महाराज सहसा समुपाद्रवत् ॥ ९.२४.३८ ॥
大王啊,持斧光见到所有般度子孙被象群包围,便突然冲向他们。
9.24.39
पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान्ययौ ।
अदृष्ट्वा तु रथानीके दुर्योधनमरिन्दमम् ॥ ९.२४.३९ ॥
般遮罗王之子想要杀死象群,便上前去;但在战车阵中,他没有看见制服敌人的难敌。
9.24.40
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।
अपृच्छन्क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः ॥ ९.२४.४० ॥
阿湿婆陀摩、克利巴和萨特凡塔的克利塔瓦尔曼便问那里的刹帝利:“难敌究竟去了哪里?”
9.24.41
तेऽपश्यमाना राजानं वर्तमाने जनक्षये ।
मन्वाना निहतं तत्र तव पुत्रं महारथाः।
विवर्णवदना भूत्वा पर्यपृच्छन्त ते सुतम् ॥ ९.२४.४१ ॥
屠杀仍在进行,他们看不到国王,以为你的儿子已被杀死,个个面色苍白,便开始打听那儿子的下落。
9.24.42
आहुः केचिद्वते सूते प्रयातो यत्र सौबलः ।
हित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम् ॥ ९.२४.४२ ॥
有人说:“他已离开般遮罗王那难以抵挡的军队,去了萨巴拉之子(沙恭尼)所去的地方。”
9.24.43
अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः ।
दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति।
युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति ॥ ९.२४.४३ ॥
其他人在那里说,身受重伤的刹帝利们:与难敌何干?若他still活着,你们便会看到。你们全体合力作战;国王又能为你们做什么?
9.24.44
ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः ।
शरैः सम्पीड्यमानास्तु नातिव्यक्तमथाब्रुवन् ॥ ९.२४.४४ ॥
那些刹帝利身体布满创伤,坐骑大多被杀,被箭所逼,说话并不清楚。
9.24.45
इदं सर्वं बलं हन्मो येन स्म परिवारिताः ।
एते सर्वे गजान्हत्वा उपयान्ति स्म पाण्डवाः ॥ ९.२४.४५ ॥
让我们杀尽包围我们的整支军队吧;这些般度之子已杀尽所有象群,正在逼近。
9.24.46
श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः ।
भित्त्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम् ॥ ९.२४.४६ ॥
大力的马嘶之子(阿practic斯瓦特摩)听了他们的话,冲破了般遮罗王那支难以抵挡的军队。
9.24.47
कृपश्च कृतवर्मा च प्रययौ यत्र सौबलः ।
रथानीकं परित्यज्य शूराः सुदृढधन्विनः ॥ ९.२४.४७ ॥
克里帕与克里塔瓦尔曼也前往沙恭尼所在之处,舍弃了战车大军,那些弓箭坚定的勇士。
9.24.48
ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरस्कृताः ।
आययुः पाण्डवा राजन्विनिघ्नन्तः स्म तावकान् ॥ ९.२४.४८ ॥
此后他们离去,般度之子在德里斯塔笃姆那的带领下,王啊,一边击杀你的部下,一边赶来。
9.24.49
दृष्ट्वा तु तानापततः सम्प्रहृष्टान्महारथान् ।
पराक्रान्तास्ततो वीरा निराशा जीविते तदा ॥ ९.२४.४९ ॥
那些大车士欢欣地逼近,见此情景,那些英雄便舍弃了生命的希望,以勇力向前冲去。
9.24.50
विवर्णमुखभूयिष्ठमभवत्तावकं बलम् ।
परिक्षीणायुधान्दृष्ट्वा तानहं परिवारितान् ॥ ९.२४.५० ॥
您的军队大多面色苍白。我看见他们武器耗尽、被包围。
9.24.51
राजन्बलेन त्र्यङ्गेन त्यक्त्वा जीवितमात्मनः ।
आत्मना पञ्चमोऽयुध्यं पाञ्चालस्य बलेन ह ॥ ९.२४.५१ ॥
大王,我舍弃性命,与三支军队一同,我自己作为第五人,与般遮罗的军队交战。
9.24.52
तस्मिन्देशे व्यवस्थाय यत्र शारद्वतः स्थितः ।
सम्प्रद्रुता वयं पञ्च किरीटिशरपीडिताः ॥ ९.२४.५२ ॥
我们五人在山罗陀之子所立之处据守,却为戴冠者(阿周那)的箭所伤,仓皇逃散。
9.24.53
धृष्टद्युम्नं महारौद्रं तत्र नाभूद्रणो महान् ।
जितास्तेन वयं सर्वे व्यपयाम रणात्ततः ॥ ९.२४.५३ ॥
在那里,与极其凶猛的猌尼之战并未展开大战;他击败了我们所有人,于是我们退出了战斗。
9.24.54
अथापश्यं सात्यकिं तमुपायातं महारथम् ।
रथैश्चतुः शतैर्वीरो मामभ्यद्रवदाहवे ॥ ९.२४.५४ ॥
这时我看见大车士萨提亚基走来,这位英雄在战斗中以四百辆战车向我发起进攻。
9.24.55
धृष्टद्युम्नादहं मुक्तः कञ्छिछ्रान्तवाहनात् ।
पतितो माधवानीकं दुष्कृती नरकं यथा ॥ ९.२४.५५ ॥
我好不容易才从豆瑟德尤摩那手中脱身,马匹已被斩杀,我坠入摩陀婆的军中,如罪人坠入地狱。
9.24.56
तत्र युद्धमभूद्धोरं मुहूर्तमतिदारुणम् ॥ ९.२४.५६ ॥
那里发生了一场可怕、极为残酷的战斗,持续了片刻。
9.24.57
सात्यकिस्तु महाबाहुर्मम हत्वा परिच्छदम् ।
जीवग्राहमगृह्णान्मां मूर्च्छितं पतितं भुवि ॥ ९.२४.५७ ॥
而大臂的萨谛奇杀死了我的随从,把昏倒在地的我活捉了。
9.24.58
ततो मुहूर्तादिव तद्गजानीकमविध्यत ।
गदया भीमसेनेन नाराचैरर्जुनेन च ॥ ९.२४.५८ ॥
接着,仿佛转瞬之间,毗摩森以铁棒、阿周那以铁箭穿透了那支象军。
9.24.59
अभिपिष्टैर्महानागैः समन्तात्पर्वतोपमैः ।
नातिप्रसिद्धैव गतिः पाण्डवानामजायत ॥ ९.२४.५९ ॥
四面被如山般的巨象碾压,般度之子的行动已不太清晰。
9.24.60
रथमार्गं ततश्चक्रे भीमसेनो महाबलः ।
पाण्डवानां महाराज व्यपाकर्षन्महागजान् ॥ ९.२४.६० ॥
于是大力的毗摩森为战车开辟道路,大王啊,他为般度之子把巨象拖开。
9.24.61
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।
अपश्यन्तो रथानीके दुर्योधनसमरिन्दमम्।
राजानं मृगयामासुस्तव पुत्रं महारथम् ॥ ९.२४.६१ ॥
阿濕婆摩、克里帕、克里塔瓦尔曼和薩特瓦塔不见车阵中制服敌人的難敵,便去寻找国王——您的儿子,大车战士。
9.24.62
परित्यज्य च पाञ्चाल्यं प्रयाता यत्र सौबलः ।
राज्ञोऽदर्शनसंविग्ना वर्तमानो जनक्षये ॥ ९.२४.६२ ॥
他们离开般遮罗军,前往苏跋罗之子(沙恭尼)所在之处;因国王失踪而忧惧,便留在那里,身处人众的杀戮之中。