Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.30

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.30.1

मुहूर्तादिव राजेन्द्र सर्वं शून्यमदृश्यत ।
मत्तवारणसंघुष्टं शिबिरं विद्रुते बले ॥ ९.३०.१ ॥

哀哉众王之主,顷刻之间一切都显得空无。营地本因疯象的吼声而喧嚣,大军溃逃后便变得荒凉。

9.30.2

यत्र शब्देन महता नान्वबुध्यन्महारथाः ।
तत्र शब्दं न शृणुमो मनुष्यस्यापि कस्यचित् ॥ ९.३०.२ ॥

昔日在大声喧哗之中,连大车将也不能察觉彼此,如今此地却听不到任何人的声音。

9.30.3

हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे ।
मामकाश्चावशिष्टास्ते किमकुर्वत सञ्जय ॥ ९.३०.३ ॥

Sañjaya,当般度之子在战场上杀尽所有军队之后,我方剩下的人们做了什么?

9.30.4

कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान् ।
दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा ॥ ९.३०.४ ॥

那时,Kṛtavarman、Kṛpa、勇猛的德罗纳之子,以及心智愚钝的国王难敌,究竟做了什么?

9.30.5

सम्प्राद्रुवत्सु दारेषु क्षत्रियाणां महात्मनाम् ।
विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः ॥ ९.३०.५ ॥

当诸位大德刹帝利的妻子四散奔逃,营地空无一人时,三位极度不安的车将……

9.30.6

निशम्य पाण्डुपुत्राणां तदा वैजयिनां स्वनम् ।
विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्विनः।
स्थानं नारोचयंस्तत्र ततस्ते हदमभ्ययुः ॥ ९.३०.६ ॥

他们听到般度之子胜利旗帜的声响,又见营地已逃空,傍晚时分,这些贪求王国之人不愿留在那里,于是便前往湖边。

9.30.7

युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे ।
हृष्टः पर्यपतद्राजन्दुर्योधनवधेप्सया ॥ ९.३०.७ ॥

法魂的坚战与兄弟们一同在战场上欣喜地奔走,国王啊,他渴望杀死难敌。

9.30.8

मार्गमाणास्तु सङ्क्रुद्धास्तव पुत्रं जयैषिणः ।
यत्नतोऽन्वेषमाणास्ते नैवापश्यञ्जनाधिपम् ॥ ९.३०.८ ॥

他们怀着愤怒与求胜之心,小心地寻找你的儿子,却根本没有看见人主。

9.30.9

यदा दुर्योधनो युद्धं त्यक्त्वा पद्भ्यां पराक्रममत् ।
तं हदं प्राविशच्चापि विष्टभ्यापः स्वमायया ॥ ९.३०.९ ॥

当难敌舍弃战斗,徒步抛弃勇力,进入那湖中,以自己的幻术阻住了湖水时。

9.30.10

यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः ।
ततः स्वशिबिरं प्राप्य व्यतिष्ठन्त ससैनिकाः ॥ ९.३०.१० ॥

当所有般度子,坐骑极度疲惫,于是回到自己的营地,与士兵们一同停驻。

9.30.11

ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः ।
सन्निविष्टेषु पार्थेषु प्रययुस्तं हदं शनैः ॥ ९.३०.११ ॥

于是克利巴、德罗纳之子、克里达瓦尔曼与萨特瓦特,在般度之子驻扎之后,缓缓前往那湖。

9.30.12

ते तं हदं समासाद्य यत्र शेते जनाधिपः ।
अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि ॥ ९.३०.१२ ॥

他们到达那湖,人主正躺在水中,于是他们对这位难以战胜的国王说话。

9.30.13

राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम् ।
जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि ॥ ९.३०.१३ ॥

大王,起来,与我们一起与坚战作战。或者征服并享有大地,或者战死并获得天界。

9.30.14

तेषामपि बलं सर्वं हतं दुर्योधन त्वया ।
प्रतिविद्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः ॥ ९.३०.१४ ॥

杜尤陀那,他们的全部力量都被你摧毁了,其余留在那里的士兵大多也被击倒。

9.30.15

न ते वेगं विषहितुं शक्तास्तव विशाम्पते ।
अस्माभिरपि गुप्तस्य तस्मादुत्तिष्ठ भारत ॥ ९.३०.१५ ॥

人主啊,他们无法抵挡你的威势。因此,婆罗多,起来吧,我们也在护卫着你。

9.30.16

दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात् ।
पाण्डुकौरवसम्मर्दाज्जीवमानान्नरर्षभान् ॥ ९.३०.१६ ॥

幸运的是,我看到你们这些人中之雄,从这样的人员毁灭、般度与俱卢的惨烈冲突中幸存并得以活着。

9.30.17

विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः ।
भवन्तश्च परिश्रान्ता वयं च भृशविक्षताः।
उदीर्णं च बलं तेषां तेन युद्धं न रोचये ॥ ९.३०.१७ ॥

我们都将休息,消除疲惫,然后取胜。你们已经疲惫,我们也身受重伤。他们的军队强盛,所以我现在不想作战。

9.30.18

न त्वेतदद्भुतं वीरा यद्वो महदिदं मनः ।
अस्मासु च परा शक्तिर्न तु कालः पराक्रमे ॥ ९.३०.१८ ॥

诸位英雄,你们这样的宏大心志并不奇怪。我们之中有至上的力量,英勇的时机并未过去。

9.30.19

विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे ।
प्रतियोत्स्याम्यहं शत्रूञ्श्वो न स्याच्च श्रमो मम ॥ ९.३०.१९ ॥

与你们一同休息这一夜后,明日我将在战场上迎击敌人,我也不会感到疲劳。

9.30.20

एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम् ।
उत्तिष्ठ राजन्भद्रं ते विजेष्यामो वयं परान् ॥ ९.३०.२० ॥

被如此劝说后,德罗纳之子对沉醉于战斗狂热的国王说:"起来吧,国王,愿你吉祥;我们将战胜敌人。"

9.30.21

इष्टापूर्तेन दानेन सत्येन च जपेन च ।
शपे राजन्यथा ह्यद्य निहनिष्यामि सोमकान् ॥ ९.३०.२१ ॥

我以祭祀与功德、布施、真实和诵咒起誓,国王:今日我必定杀死索摩迦人。

9.30.22

मा स्म यज्ञकृतां प्रीतिमाप्नुयां सज्जनोचिताम् ।
यदीमां रजनीं व्युष्टां न हि हन्मि परान्रणे ॥ ९.३०.२२ ॥

若此夜过后,我在战场上不杀死敌人,愿我不得那适合行祭者与善人的喜悦。

9.30.23

नाहत्वा सर्वपाञ्चालान्विमोक्ष्ये कवचं विभो ।
उत्तिष्ठ त्वं ब्रवीम्येतत्तन्मे शृणु जनाधिप ॥ ९.३०.२३ ॥

若不杀尽所有般遮罗人,我不会卸下铠甲,尊者。起来吧;我说的这些,人主啊,请听我说。

9.30.24

तेषु सम्बाषमाणेषु व्याधास्तं देशमाययुः ।
मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया ॥ ९.३०.२४ ॥

他们正交谈之际,因载肉而疲惫的猎人偶然来到那里寻找水源。

9.30.25

ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः ।
मांसभारानुपाजह्नुर्भक्त्या परमया विभो ॥ ९.३०.२५ ॥

大王啊,那些猎人总是怀着至高的敬意为怖军运来成堆的肉,啊,强大者。

9.30.26

ते तत्र धिष्ठितास्तेषां सर्वं तद्वचनं रहः ।
दुर्योधनवचश्चैव शुश्रुवुः सङ्गता मिथः ॥ ९.३०.२६ ॥

留在那里的他们聚在一起,听到了他们之间的全部秘密谈话以及难敌的话语。

9.30.27

तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे ।
निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः ॥ ९.३०.२७ ॥

那些大弓箭手,都渴望战斗,便向不愿作战的俱卢人极力坚持。

9.30.28

तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान् ।
अयुद्धमनसं चैव राजानं स्थितमम्भसि ॥ ९.३०.२८ ॥

看到俱卢族那些大车战士如此,又看到不想作战的国王站在水中。

9.30.29

तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः ।
व्याधा ह्यजानन्राजेन्द्र सलिलस्थं सुयोधनम् ॥ ९.३०.२९ ॥

众王之主啊,猎人们虽听到了他们的谈话和国王的话语,却没有认出站在水中的苏优陀那。

9.30.30

ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन्सुतं तव ।
यदृच्छोपगतास्तत्र राजानं परिमार्गता ॥ ९.३०.३० ॥

他们先前曾被般度之子询问;他们在寻找你的儿子时,偶然来到了那里。

9.30.31

ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा ।
अन्योन्यमब्रुवन्राजन्मृगव्याधाः शनैरिव ॥ ९.३०.३१ ॥

于是,他们想起了般度之子的话,王啊,猎人们轻声彼此说道。

9.30.32

दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः ।
सुव्यक्तमिह नः ख्यातो हदे दुर्योधनोनृपः ॥ ९.३०.३२ ॥

我们告诉难敌吧:般度族会给予财富。这里湖中的国王难敌已清楚地被我们认出。

9.30.33

तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः ।
आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम् ॥ ९.३०.३३ ॥

因此,我们都去国王坚战那里,告诉他躺在水中的愤怒的难敌。

9.30.34

धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते ।
शयानं सलिले सर्वे कथयामो धनुर्भृते ॥ ९.३०.३४ ॥

我们都去告诉智慧的、持弓的婆罗多之子怖军,说德拉什特拉之子躺在水中。

9.30.35

स नो दास्यति सुप्रीतो धनानि बहुलान्युत ।
किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा ॥ ९.३०.३५ ॥

他十分高兴,会给我们大量财富。干瘪、疲惫、枯瘦的肉对我们有什么用呢?

9.30.36

एवमुक्त्वा तु ते व्याधाः सम्प्रहृष्टा धनार्थिनः ।
मांसभारानुपादाय प्रययुः शिबिरं प्रति ॥ ९.३०.३६ ॥

说完这些,渴求财富的猎人们十分欢喜,扛起肉担,朝营地走去。

9.30.37

पाण्डवाश्च महाराज लब्धलक्षाः प्रहारिणः ।
अपश्यमानाः समरे दुर्योधनमवस्थितम् ॥ ९.३०.३७ ॥

大王啊,已达成目标的般度之子在战场上看不见仍然站立的难敌。

9.30.38

निकृतिज्ञस्य पापस्य तस्याभिगमनेप्सया ।
चारान्सम्प्रेषयामासुः समन्तात्तद्रणाजिरे ॥ ९.३०.३८ ॥

他们想找到那个精通欺诈的恶人,便向战场四面八方派出了探子。

9.30.39

आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम् ।
न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः ॥ ९.३०.३९ ॥

随后所有士兵聚集起来,向法王报告:国王难敌已经不见了。

9.30.40

तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ ।
चिन्तामभ्यगमत्तीव्रां निशश्वास च पार्थिवः ॥ ९.३०.४० ॥

婆罗多族中的雄牛啊,国王听了那些探子的话,陷入深深的忧虑,叹了一口气。

9.30.41

अरिशेषे जीवति तु सन्दिग्धो विजयो भवेत् ।
राज्यं लभे कथं तद्वि पूजितं विजयादिभिः ॥ ९.३०.४१ ॥

若敌人残留并且活着,胜利就仍有疑问。那么我如何能得到这王国——那为胜利者等所尊崇的王国呢?

9.30.42

अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ ।
तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो ॥ ९.३०.४२ ॥

婆罗多族中的雄牛啊,随后,猎人们离开了站在那里的可怜的般度之子,迅速地从那地方离去,啊,强大者。

9.30.43

आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम् ।
वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः ॥ ९.३०.४३ ॥

他们欢喜地来到营地,见到了国王难敌。虽被阻拦,他们仍在怖军眼前闯入。

9.30.44

ते तु पाण्डवमासाद्य भीमसेनं महाबलम् ।
तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम् ॥ ९.३०.४४ ॥

他们来到大力的般度之子怖军面前,把所发生的一切和所听到的一切都告诉了他。

9.30.45

ततो वृकोदरो राजन्दत्त्वा तेषां धनं बहु ।
धर्मराजाय तत्सर्वमाचचक्षे परन्तपः ॥ ९.३०.४५ ॥

于是,大王啊,克敌的狼腹(怖军)给了他们许多财物,并把这一切告诉了法王(坚战)。

9.30.46

असौ दुर्योधनो राजन्विज्ञातो मम लुब्धकैः ।
संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे ॥ ९.३०.४६ ॥

大王啊,那难敌已被我的猎人找到。他截住了水,躺在那里——你所为之悲痛的人正是他。

9.30.47

तद्वचो भीमसेनस्य प्रियं श्रुत्वा विशाम्पते ।
अजातशत्रुः कौन्तेयो हृष्टोऽभूत्सह सोदरैः ॥ ९.३०.४७ ॥

大王啊,听到怖军那令人欣慰的话,不敌之人、贡提之子(坚战)与他的兄弟们一同欢喜起来。

9.30.48

तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलहदे ।
क्षिप्रमेव ततोऽगच्छन्पुरस्कृत्य जनार्दनम् ॥ ९.३०.४८ ॥

听说那位大弓箭手已进入湖中,他们立即出发,将遮那陀那(黑天)置于前面。

9.30.49

ततः किलकिलाशब्दः प्रादुरासीद्विशाम्पते ।
पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः ॥ ९.३०.४९ ॥

于是,欢欣的般度之子与般遮罗人四面八方发出欢呼的喧声,民之主啊。

9.30.50

सिंहनादांस्ततश्चक्रुः क्ष्वेडाश्च भरतर्षभ ।
त्वरिताः क्षत्रिया राजन्नुदक्रोशन्परस्परम् ॥ ९.३०.५० ॥

于是,急行的刹帝利发出狮吼与挑战的呼喊,婆罗多中的雄牛啊;他们高声彼此呼喊,国王啊。

9.30.51

ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे ।
प्राक्रोशन्सोमकास्तत्र हृष्टरूपाः समन्ततः ॥ ९.३०.५१ ॥

“邪恶的持国之子已被认出,在战场上一再被看见!”——脸上带着喜色的索摩迦人于是从四面八方呼喊起来。

9.30.52

तेषामाशु प्रयातानां रथानां तत्र वेगिनाम् ।
वभूव तुमुलः शब्दो दिवस्पृक् पृथिवीपते ॥ ९.३०.५२ ॥

他们那些迅速前进的战车发出震天的喧嚣,直达天空,大地之主啊。

9.30.53

दुर्योधनं परीप्सन्तस्तत्रतत्र युधिष्ठिरम् ।
अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः ॥ ९.३०.५३ ॥

他们想要保护难敌,乘着疲惫的坐骑,急忙四处追赶国王坚战。

9.30.54

अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ ।
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी चापराजितः ॥ ९.३०.५४ ॥

阿周那与毗摩森那,摩德利的两个儿子般度兄弟,般遮罗王子持国之子,以及不败的湿俱衍那。

9.30.55

उत्तमौजा युधामन्युः सात्यकिश्च महारथः ।
पाञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत।
हयाश्च सर्वे नागाश्च शतशश्च पदातयः ॥ ९.३०.५५ ॥

优多摩奥阇、优陀摩尼由、大车将萨谛奇,以及般遮罗余下的人与德罗波蒂之子,婆罗多啊;所有的马、象,以及数百名步兵。

9.30.56

ततः प्राप्तो महाराज धर्मराजः प्रतापवान् ।
द्वैपायनहदं घोरं यत्र दुर्योधनोऽभवत् ॥ ९.३०.५६ ॥

大王啊,威力无比的法王随即抵达那可怕的二岛仙湖,难敌就在那里。

9.30.57

शीतामलजलं हृद्यं द्वितीयमिव सागरम् ।
मायया सलिलं स्तभ्य यत्राभूत्ते स्थितः सुतः ॥ ९.३०.५७ ॥

水清冷澄净,令人喜悦,犹如第二片大海——你的儿子在那里,以幻术使水停滞而驻留。

9.30.58

अत्यद्भुतेन विधिना दैवयोगेन भारत ।
सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित्प्रभो। ॥ ९.३०.५८ ॥

以极为奇妙的方法,因命运的际遇,婆罗多啊——他隐身水中而卧,常人难以看见,主啊。

9.30.59

मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः ।
ततो दुर्योधनो राजा सलिलान्तर्गतो वसन्।
शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम् ॥ ९.३०.५९ ॥

人中之主啊,手持铁锤的人民之主——那时在水中栖身的国王难敌,听到了如云雷般的喧嚣巨响。

9.30.60

युधिष्ठिरश्च राजेन्द्र तं हदं सह सोदरैः ।
आजगाम महाराज तव पुत्रवधाय वै ॥ ९.३०.६० ॥

王中之主啊,坚战也与兄弟们一同来到那湖边,大王啊——实为杀害你的儿子而来。

9.30.61

महता शङ्खनादेन रथनेमिस्वनेन च ।
ऊर्ध्वं धुन्वन्महारेणुं कम्पयंश्चापि मेदिनीम् ॥ ९.३०.६१ ॥

在大螺号的吼声和战车轮辋的轰鸣中,抖动升腾的巨大尘雾,使大地震颤。

9.30.62

यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः ।
कृतवर्मा कृपो द्रौणी राजानमिदमब्रुवन् ॥ ९.३०.६२ ॥

大车将克里塔瓦尔曼、克里帕和德罗纳之子听到了坚战军队的喧声,便对国王说了这些话。

9.30.63

इमे ह्यायान्ति संहृष्टाः पाण्डवा जितकाशिनः ।
अपयास्यामहे तावदनुजानातु नो भवान् ॥ ९.३०.६३ ॥

那些自以为获胜、欢欣鼓舞的般度之子正在赶来。我们暂且撤退吧;愿您允许我们离去。

9.30.64

दुर्योधनस्तु तच्छ्रुत्वा तेषां तत्र तरस्विनाम् ।
तथेत्युक्त्वा हदं तं वै माययाऽस्तम्भयत्प्रभो ॥ ९.३०.६४ ॥

然而难敌听了他们的话,说“就这样吧”,主啊,他便用幻术使那湖泊凝固不动了。

9.30.65

ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः ।
जग्मुर्दूरे महाराज कृपप्रभृतयो रथाः ॥ ९.३०.६५ ॥

他们向国王告辞,深陷悲伤之中,克里帕等车兵远远地离去了,大王啊。

9.30.66

ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष ।
न्यविशन्त भृशं श्रान्ताश्चिन्तयन्तो नृपं प्रति ॥ ९.३०.६६ ॥

他们走了很远的路,看到一棵榕树,高贵的人啊,他们疲惫不堪地坐下,思念着国王。

9.30.67

विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः ।
पाण्डवाश्चापि सम्प्राप्तास्तं देशं युद्धमीप्सवः ॥ ९.३०.६७ ॥

般度之子们渴望战斗,也来到了那个地方;而强大的持国之子则拦住了水源,躺下睡去。

9.30.68

कथं नु युद्धं भविता कथं राजा भविष्यति ।
कथं नु पाण्डवा राजन्प्रतिपत्स्यन्ति कौरवम् ॥ ९.३०.६८ ॥

那么战斗将如何进行?谁将成为国王?哦,国王,般度之子将如何面对俱卢之子?

9.30.69

इत्येवं चिन्तयानास्तु रथेभ्योऽश्वान्विमुच्य ते ।
तत्रासाञ्चक्रिरे राजन्कृपप्रभृतयो रथाः ॥ ९.३०.६९ ॥

他们这样思虑着,从战车上解下马匹;哦,国王,在那里,克里帕等车战士为它们做了安排。