摩诃婆罗多 · 章 9.37
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.37.1
तस्मान्नदीगतं चापि ह्युदपानं यशस्विनः ।
त्रितस्य च महाराज जगामाथ हलायुधः ॥ ९.३७.१ ॥
因此,大王啊,持犁者(大力罗摩)前往位于河边的光荣的特利多之井。
9.37.2
तत्र दत्त्वा बहुद्रव्यं पूजयित्वा तथा द्विजान् ।
उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः ॥ ९.३७.२ ॥
在那里,他布施了许多财物,供养了婆罗门,并在当地漱洗净身,持杵者(大力罗摩)欢喜地(继续前行)。
9.37.3
तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः ।
कूपे च वसता तेन सोमः पीतो महात्मना ॥ ९.३७.३ ॥
特利多住在那里,他专心于法,苦行极深;他居住在那口井中时,这位大心者饮下了苏摩。
9.37.4
तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान् ।
ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः ॥ ९.३७.४ ॥
他们把他留在那里,两兄弟便回家去了。于是婆罗门中最优秀的特利多诅咒了他们二人。
9.37.5
उदपानं कथं ब्रह्मन्कथं च सुमहातपाः ।
पतितः किं च सन्त्यक्तो भ्रातृभ्यां द्विजसत्तम ॥ ९.३७.५ ॥
婆罗门啊,那口井是怎样形成的?这位大苦行者又是怎样坠入其中的?两位兄弟为何抛弃了他?二生者中的最优秀者啊!
9.37.6
कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान् ।
कथं च याजयामास पपौ सोमं च वै कथम्।
एतदाचक्ष्व मे ब्रह्मन्श्रोतव्यं यदि मन्यसे ॥ ९.३७.६ ॥
两兄弟是如何把他留在井中而回家去的?他是如何主持祭祀,又是如何饮下苏摩的?婆罗门啊,如果您认为值得听闻,请为我讲述这些。
9.37.7
आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः ।
एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः ॥ ९.३७.७ ॥
君王啊,在往昔之世,有三位兄弟圣人,名为一多、二多与三多,光辉如太阳。
9.37.8
सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च ।
ब्रह्मलोकजिताः सर्वे तपसा ब्रह्मवादिनः ॥ ९.३७.८ ॥
他们都如同生主,有子嗣,以苦行获得梵界,且皆是说梵者。
9.37.9
तेषां तु तपसा प्रीतो नियमेन दमेन च ।
अभवद्गौतमो नित्यं पिता धर्मरतः सदा ॥ ९.३७.९ ॥
高陀摩以其苦行、节制与克制而欢喜,他常年乐于法,成了他们的父亲。
9.37.10
स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च ।
जगाम भगवान्स्थानमनुरूपमिवात्मनः ॥ ९.३७.१० ॥
过了很久,他得到他们的爱戴,那位尊者便前往与自身相称的处所。
9.37.11
राजानस्तस्य ये ह्यासन्याज्या राजन्महात्मनः ।
ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन् ॥ ९.३७.११ ॥
君王啊,凡是曾受其主持祭祀的国王,在他升天之后,都尊敬他的儿子们。
9.37.12
तेषां तु कर्मणा राजंस्तथा चाध्ययनेन च ।
त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा ॥ ९.३७.१२ ॥
君王啊,凭借他们的行为与学习,三多获得了卓越,正如他的父亲一样。
9.37.13
तथा सर्वे महाभागा मुनयः पुण्यलक्षणाः ।
अपूजयन्महाभागं यथास्य पितरं तथा ॥ ९.३७.१३ ॥
同样,所有具有大福德、带有善相的仙人,都像尊敬他的父亲一样尊敬了这位大福者。
9.37.14
कदाचिद्वि ततो राजन्भ्रातरावेकतद्वितौ ।
यज्ञार्थं चक्रतुश्चिन्तां तथा वित्तार्थमेव च ॥ ९.३७.१४ ॥
然后,国王啊,那同一族系的两位兄弟曾为祭祀和财富而思虑。
9.37.15
तयोर्बुद्धिः समभवत्त्रितं गृह्य परन्तप ।
याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः।
सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम् ॥ ९.३७.१५ ॥
两人心中生出一个念头:啊,降伏敌人者,携带特利多,带上所有祭司,并得到牲畜,让我们欢喜地饮用苏摩,获得大果报的祭祀。
9.37.16
चक्रुश्चैवं तथा राजन्भ्रातरस्त्रय एव च ।
यथा ते तु परिक्रम्य याज्यान्सर्वान्पशून्प्रति।
याजयित्वा ततो याज्याँल्लब्ध्वा तु सुबहून्पशून् ॥ ९.३७.१६ ॥
国王啊,三位兄长也同样如此:走遍诸祭司,使他们主持祭祀,然后获得了大量牲畜。
9.37.17
याज्येन कर्मणा तेन प्रतिगृह्य विधानतः ।
प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः ॥ ९.३७.१७ ॥
那些大德的大仙依照规则,以那祭祀之事领受了报酬,便向东方而去。
9.37.18
त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत् ।
एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून् ॥ ९.३७.१८ ॥
大王啊,特利多在他们前面欢喜地走着,从一边、另一边,又从后面驱赶着牲畜。
9.37.19
तयोश्चिन्ता समभवदेकतस्य द्वितस्य च ।
कथं च स्युरिमा गाव आवाभ्यां हि विना त्रितम् ॥ ९.३७.१९ ॥
一多与二多心中生起忧虑:没有我们两人,特利多的这些牛将会如何?
9.37.20
तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह ।
यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर ॥ ९.३७.२० ॥
那两个罪人,一多与二多,彼此商议后所说的话,请听,人主啊。
9.37.21
त्रितो यज्ञेषु कुशलस्तथा वेदेषु निष्ठितः ।
ततस्त्रितो बहुतरं गावः समुपलप्स्यते ॥ ९.३७.२१ ॥
特利多精通祭祀,坚守吠陀;因此特利多将获得更多的牛。
9.37.22
तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे ।
त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृताः ॥ ९.३७.२२ ॥
因此我们二人共同赶走这些牛,然后前行;让特利多也随意去吧,我们二人已将他弃置。
9.37.23
तेषामागच्छतां रात्रौ पथिस्थानां वृकोऽभवत् ।
तत्र कूपो विदूरेऽभूत्सरस्वत्यास्तटे महान् ॥ ९.३७.२३ ॥
当他们夜间行走在路上时,一只狼出现在他们面前;而在远处的萨拉斯瓦蒂河岸边,有一口大井。
9.37.24
अथं त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः ।
तद्भ्यादपसर्पन्वै तस्मिन्कूपे पपात ह।
अगाधे सुमहाघोरे सर्वभूतभयङ्करे ॥ ९.३७.२४ ॥
特利多看见路上前方站着的狼,因恐惧而后退,跌入了那口井中——那井深不见底,极其可怖,令一切众生恐惧。
9.37.25
त्रितस्ततो महाराज कूपस्थो मुनिसत्तमः ।
आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी ॥ ९.३७.२५ ॥
大王啊,那时井中的圣者中之最,特利多,发出了痛苦的呼喊,那两位仙人听见了。
9.37.26
त ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ ।
वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः ॥ ९.३७.२६ ॥
二人知道他已坠入井中,这两个有着同一目的的兄弟,因畏惧狼和贪心,丢下他走了。
9.37.27
भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः ।
उदपाने तदा राजन्निर्जले पांसुपंवृते ॥ ९.३७.२७ ॥
大王啊,那位大苦行者被两个贪求牲畜的兄弟抛弃,此时躺在没有水、被尘土覆盖的井中。
9.37.28
त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते ।
निमग्नं भरतश्रेष्ठ नरके दुष्कृती यथा ॥ ९.३७.२८ ॥
薄罗多之最啊,特利多看见自己沉没在被藤蔓和草覆盖的井中,如同恶人沉没于地狱。
9.37.29
ततो ह्यचिन्तयत्प्राज्ञो मृतभूतो ह्यसोमपः ।
सोमः कथं तु पातव्य इहस्थेन मया भवेत् ॥ ९.३७.२९ ॥
那位智者,如同死者,且不能饮用苏摩,于是思索:我身处此地,怎样才能饮用苏摩呢?
9.37.30
स एवमभिसञ्चिन्त्य तस्मिन्कूपे महातपाः ।
ददर्श वीरुधं तत्र लम्बमानां यदृच्छया ॥ ९.३७.३० ॥
这位大苦行者如此思索之后,偶然看见井中垂挂着一根藤蔓。
9.37.31
पांसुग्रस्ते ततः कूपे न्यखनत्सलिलं मुनिः ।
अग्नीन्सङ्कल्पयामास होतॄनात्मानमेव च ॥ ९.३७.३१ ॥
于是,在那布满尘土的井中,仙人挖出了水。他以意念创造了火、祭司(和者)以及他自己。
9.37.32
ततस्तां वीरुधं सोमं सङ्कल्प सुमहातपाः ।
ऋचो जयूंषि सामानि मनसा चिन्तयन्मुनिः ॥ ९.३७.३२ ॥
于是,那位大苦行的仙人以该藤蔓为苏摩,在心中思念《梨俱》的诗句、《夜柔》的祭文与《娑摩》的歌咏。
9.37.33
ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप ।
आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम् ॥ ९.३७.३३ ॥
大王啊,他以石块和碎石为压石,进行了苏摩的压榨。他准备了酥油与水,并分配了天界居民的份额。
9.37.34
सोमस्याभिषवस्याग्रे प्रवृत्तस्तुमुलो ध्वनिः ।
स चाविशद्दिवं राजन्स्वरश्चैव त्रितस्त वै ॥ ९.३७.३४ ॥
苏摩压榨之初,便响起一阵喧嚣之声。大王啊,那声音直达天界,三多的声音亦是如此。
9.37.35
समवाप च तं यज्ञां यथोक्तं ब्रह्मवादिभिः ॥ ९.३७.३५ ॥
他便依照梵论者所说,完成了那场祭祀。
9.37.36
वर्तमाने महायज्ञे त्रितस्य सुमहात्मनः ।
आविग्नं त्रिदिवं सर्वं कारमं च न बुध्यते ॥ ९.३७.३६ ॥
大祭正在进行之时,因高尚的三多之祭,整个天界都动荡不安,但没有人知道其原因。
9.37.37
ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः ।
श्रुत्वा चैवाब्रवीत्सर्वान्देवान्देवपुरोहितः ॥ ९.३७.३७ ॥
于是诸神的祭司布利哈斯帕蒂听到了一阵极大的喧嚣,听罢便对所有诸神说道。
9.37.38
त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः ।
स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः ॥ ९.३७.३८ ॥
特利多的祭祀正在那里举行;诸神啊,让我们前去。那位大苦行者若愤怒,甚至可能创造其他神明。
9.37.39
तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः ।
प्रययुस्तत्र यत्रास्ते त्रितयज्ञश्च वर्तते ॥ ९.३७.३९ ॥
诸神听了他的话,一同前往特利多祭祀正在举行的地方。
9.37.40
ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः ।
ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु ॥ ९.३७.४० ॥
诸神到达那里,看见那位在祭祀仪式中受戒的大德,他就在特利多所在的井边。
9.37.41
दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम् ।
ऊचुश्चैनं महाभागं प्राप्ता भागार्थिनो वयम् ॥ ९.३७.४१ ॥
看见那位具有至高光辉的大德,他们对这位大幸者说:“我们是来求取份额的。”
9.37.42
अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः ।
अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम् ॥ ९.३७.४२ ॥
于是仙人对诸神说:“天上的居民啊,请看我——沉没在这可怖的井中,神智已失。”
9.37.43
ततस्त्रितो महाराज भागांस्तेषां यथाविधि ।
मन्त्रयुक्तान्समददात्तेन प्रीतास्तदाऽभवन् ॥ ९.३७.४३ ॥
大王啊,于是特利多依法连同咒语献上了他们的份额,他们因此而欢喜。
9.37.44
ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः ।
प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति ॥ ९.३७.४४ ॥
于是诸神依法获得了自己的份额,心中欢喜,便将他心中所愿的恩惠赐给了他。
9.37.45
स तु वव्रे लवरं देवांस्त्रातुमर्हथ मामितः ।
यश्चाम्भोपस्पृशेत्कूपे स सोमपगतिं लभेत् ॥ ९.३७.४५ ॥
他选择了一个小小的恩惠:“诸神啊,你们应当把我从这里救出;凡在此井中触水之人,应得到饮苏摩者的归宿。”
9.37.46
तत्र चोर्मिमती राजन्नुत्पपात सरस्वती ।
तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः ॥ ९.३७.४६ ॥
大王啊,那里波涛汹涌的萨罗室伐底水涌而起;特利多被她托起而站立,敬拜三界的诸神。
9.37.47
तथेति चोक्त्वा विबुधा जग्मू राजन्यथाऽऽगताः ।
त्रितश्चाभ्यागमत्प्रीतः स्वमेव निलयं तदा ॥ ९.३७.४७ ॥
诸神说“就这样吧”,大王啊,便如来时一样离去;特利多心中欢喜,随即回到了自己的住处。
9.37.48
क्रुद्धस्तु स समासाद्य तावृषी भ्रातरौ तदा ।
उवाच परुषं वाक्यं शशाप च महातपाः ॥ ९.३७.४८ ॥
于是,那位大苦行者愤怒地走到那两位仙人兄弟面前,说了严厉的话,并诅咒了他们。
9.37.49
पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ ।
तस्माद्वृकाकृती रौद्रौ दंष्ट्रिणावभितश्चरौ ॥ ९.३७.४९ ॥
因贪恋野兽,你们二人抛弃我而逃走;因此你们将以狼的形态,凶猛而有獠牙,四处游荡。
9.37.50
भवितारौ मया शप्तौ पापेनानेन कर्मणा ।
प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः ॥ ९.३७.५० ॥
你们二人被我诅咒,因这罪恶之行而将变成那样;你们的后代将是牛尾类、熊与猴。
9.37.51
इत्युक्तेन तदा तेन क्षणादेव विशाम्पते ।
तथाभूतावदृश्येतां वचनात्सत्यवादिनः ॥ ९.३७.५१ ॥
他这样说完,就在那一刻,民之主啊,二人因这位诚实者的话语而显现为那样的形体。
9.37.52
तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः ।
दत्त्वाच विविधान्देयान्पूजयित्वा च वै द्विजान् ॥ ९.३७.५२ ॥
在那里,这位勇力无量、持犁为武器的人也触水,施予种种布施,并礼敬婆罗门。
9.37.53
उदपानं च तं वीक्ष्य प्रशस्य च पुनःपुनः ।
नदीगतमदीनात्मा प्राप्तो विनशनं तदा ॥ ९.३७.५३ ॥
他看见那口井,一再赞叹,心志坚定的他在前往河边时,便到达了毗那舍那。