Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.44

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.44.1

स शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता ।
तस्मिंस्तीर्थवरे शुभ्रं शोणितं समुपावहत् ॥ ९.४४.१ ॥

他被智慧而愤怒的毗首弥多罗诅咒,在那殊胜的圣渡口流出了明亮的血。

9.44.2

अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत ।
तत्र ते शोणितं सर्वे पिबन्तः सुखमासते ॥ ९.४४.२ ॥

于是,大王啊,婆罗多子孙啊,罗刹们来到那里。他们都在那里饮着血,欢快地坐着。

9.44.3

तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः ।
नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा ॥ ९.४४.३ ॥

他们被此大大满足,欢喜且不再发热,跳舞大笑,仿佛已征服天界。

9.44.4

कस्यचित्त्वथ कालस्य ऋषयः सुतपोधनाः ।
तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते ॥ ९.४४.४ ॥

过了一段时间,大地之主啊,富有大苦行的仙人们在萨拉斯瓦蒂河上聚集,前往诸圣渡口朝圣。

9.44.5

तेषु सर्वेषु तीर्थेषु स्वाप्लुत्य मुनिपुङ्गवाः ।
प्राप्य प्रीतिं परां चापि तपोलुप्धा विशारदाः ॥ ९.४४.५ ॥

在所有这些圣渡口沐浴之后,诸位最杰出的仙人,热衷苦行而且精通,获得了无上的喜悦。

9.44.6

प्रययुर्हि ततो राजन्येन तीर्थमसृग्वहम् ।
अथागम्य महाभागास्तत्तीर्थं दारुणं तदा ॥ ९.४४.६ ॥

于是,大王啊,他们前往那流着血的渡口。那些大福之仙人抵达那可怖的渡口时……

9.44.7

दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम् ।
पीयमानं च रक्षोभिर्बहुभिर्नृपसत्तम ॥ ९.४४.७ ॥

见萨拉斯瓦蒂河水被鲜血浸染,又被众多罗刹饮用,诸王中的最优者啊。

9.44.8

तान्दृष्ट्वा राक्षसान्राजन्मुनयः संशितव्रताः ।
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे ॥ ९.४४.८ ॥

诸王啊,见到那些罗刹,坚守誓愿的诸仙人为保护萨拉斯瓦蒂河作了巨大的努力。

9.44.9

ते तु सर्वे महाभागाः समागम्य महाव्रताः ।
आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन् ॥ ९.४४.९ ॥

那些大福德、持大誓的诸仙人聚集在一起,呼唤河流中最优者,说了这些话。

9.44.10

कारणं ब्रूहि कल्याणि किमर्थं ते हृदो ह्ययम् ।
एवमग्राह्यतां यातः श्रुत्वाऽध्यास्यामहे वयम् ॥ ९.४४.१० ॥

吉祥的女神啊,请说出原因,你的这水为何变得如此不可饮用;听后我们将加以思量。

9.44.11

ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती ।
दुःखितामथ तां दृष्ट्वा ऊचुस्ते वै तपोधनाः ॥ ९.४४.११ ॥

于是她颤抖着把事情的经过一一说明;诸修苦行的仙人看到她悲伤,便开口说道。

9.44.12

कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे ।
करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः ॥ ९.४४.१२ ॥

无罪的女神啊,我们已听闻了原因,也听闻了诅咒;然而我们这些修苦行的诸仙人,都将做应当做的事。

9.44.13

एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम् ।
विमोचयामहे सर्वे शापादेतां सरस्वतीम् ॥ ९.४४.१३ ॥

他们如此说后,彼此说道:“我们都应使河流中最殊胜的这条萨罗室伐底河脱离诅咒。”

9.44.14

ते सर्वे ब्राह्मणा राजंस्तपोभिर्नियमैस्तथा ।
उपवासैश्च विविधैर्यमैः कष्टव्रतैस्तथा ॥ ९.४४.१४ ॥

大王啊,所有这些婆罗门以苦行、戒律、种种斋戒、节制和严苛的誓愿(着手此事)。

9.44.15

आराध्य पशुभर्तारं महादेवं जगत्पतिम् ।
मोक्षयामासुस्तां देवीं सरिच्छ्रेष्ठां सरस्वतीम् ॥ ९.४४.१५ ॥

他们供奉了牲畜之主、世界之主大天神之后,使那位女神、河流中最殊胜的萨罗室伐底得以解脱。

9.44.16

तेषां तु सा प्रभावेण प्रकृतिस्था सरस्वती ।
प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि।
निर्मुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा ॥ ९.४४.१६ ॥

由于他们的威力,萨罗室伐底恢复了原有的状态,河水如往昔一样清澈。获得解脱的这条河流中最殊胜者,又如从前一般闪耀。

9.44.17

दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम् ।
तानेव शरणं जग्मू राक्षसाः क्षुधितास्तथा ॥ ९.४४.१७ ॥

看见众仙人如此使萨罗室伐底的水恢复清净,饥饿的罗刹也去向这些仙人寻求庇护。

9.44.18

कृत्वाञ्जलिं ततो राजन्राक्षसाः क्षुधयाऽर्दिताः ।
ऊचुस्तान्वै मुनीन्सर्वान्कृपायुक्तान्पुनःपुनः ॥ ९.४४.१८ ॥

大王啊,于是饥饿所苦的罗刹合掌,一再向那些充满悲悯的仙人们说道。

9.44.19

वयं च क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात् ।
न च नः कामकारोऽयं यद्वयं पापकारिणा ॥ ९.४४.१९ ॥

我们饥饿,且失去了永恒的法;这并非我们自愿,而是因作恶者之故。

9.44.20

युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा ।
पक्षोऽयं वर्धतेऽस्माकं यतः स्मो ब्रह्मराक्षसाः।
योषितां चैव पापेन योनिदोषकृतेन च ॥ ९.४४.२० ॥

我们的一方因你们的不悦和恶行而壮大,因为我们是梵罗刹;也因女人的罪过以及出生缺陷所造成的过失而壮大。

9.44.21

एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च ।
ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः ॥ ९.४४.२१ ॥

同样,吠舍、首陀罗和刹帝利中,凡憎恨婆罗门者,在此都会成为罗刹。

9.44.22

शक्तिमन्तोऽपि ये केचिदाश्रितानां च रक्षणम् ।
न कुर्वन्ति मनुष्यास्ते सम्भवन्तीह राक्षसाः ॥ ९.४४.२२ ॥

有能力却不保护依附自己之人的人,在此便会成为罗刹。

9.44.23

आचार्यमृत्विजं चैव गुरुं वृद्वजनं तथा ।
प्रणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः ॥ ९.४४.२३ ॥

轻慢师长、祭司、尊者、长辈和众生的人,在此便会成为罗刹。

9.44.24

तत्कुरुध्वमिहास्माकं तारणं द्विजसत्तमाः ।
शक्ता भवन्तः सर्वेषां लोकानामपि तारणे ॥ ९.४४.२४ ॥

因此,诸位再生者中的最优者,请在此救度我们;你们也有能力救度一切世界。

9.44.25

तेषां तु वचनं श्रुत्वा तुष्टुवुस्तां महानदीम् ।
मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः ॥ ९.४४.२५ ॥

他们听了这话,便赞颂那条大河;为了让这些罗刹得到解脱,他们心意专一地说道。

9.44.26

क्षुतं कीटावपन्नं च यच्चोच्छिष्टाचितं भवेत् ।
सकेशमवधूतं च रुदितोपहतं च यत् ॥ ९.४४.२६ ॥

被打喷嚏喷过的食物、掉进虫子的、被残羹碰过的、有头发的、抖落过的,或因哭泣而被污染的食物。

9.44.27

श्वभिः संसृष्टमन्नं च भागोऽसौ रक्षसामिह ।
तस्माज्ज्ञात्वा सदा विद्वानेतान्यत्नाद्विवर्जयेत्।
राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम् ॥ ९.४४.२७ ॥

被狗触碰的食物,在此是罗刹的份额。因此智者应时常知晓此理,小心地避开它们。吃这样食物的人,便是吃了罗刹的食物。

9.44.28

शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः ।
मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन् ॥ ९.४४.२८ ॥

于是那些苦行富足的仙人净化了圣渡口,为了罗刹的解脱而催促那条河流。

9.44.29

महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा ।
अरुणामानयामास स्वां तनुं पुरुषर्षभ ॥ ९.४४.२९ ॥

她知悉大仙人之意,于是这最好的河流从自身化出阿鲁那,人中之牛啊。

9.44.30

तस्यान्तेराक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः ।
अरुणायां महाराज ब्रह्मवध्यापहा हि सा ॥ ९.४४.३० ॥

罗刹在其中沐浴后,舍弃身躯,升往天界。大王啊,阿鲁那河能消除杀害婆罗门的罪过。

9.44.31

एतमर्थमभिज्ञाय देवराजः शतक्रतुः ।
तस्मिंस्तीर्थे वरे स्नात्वा विमुक्तः पाप्मना किल ॥ ९.४४.३१ ॥

天神之王百祭因陀罗知晓此事,便在那殊胜的圣渡口沐浴,据说因此脱离了罪垢。

9.44.32

किमर्थं भगवाञ्शक्रो ब्रह्मवध्यामवाप्तवान् ।
कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत् ॥ ९.४४.३२ ॥

尊贵的释迦(因陀罗)因何缘故犯下杀婆罗门之罪?他在这圣渡口沐浴后,又如何变得无垢?

9.44.33

शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर ।
यथा बिभेद समयं नमुचेर्वासवः पुरा ॥ ९.४४.३३ ॥

人主啊,请听这段故事的原委:从前因陀罗(婆娑婆)如何违背了与罗睺(那牟支)的约定。

9.44.34

जमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत् ।
तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत् ॥ ९.४४.३४ ॥

罗睺畏惧因陀罗,便进入太阳的光线之中。因陀罗与他结为友好,并说出了这项约定。

9.44.35

न चार्द्रेण न शुष्केण न रात्रौ नापि चाहनि ।
वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे ॥ ९.४४.३५ ॥

不以湿物,也不以干物;不在夜里,也不在白天,我都不会杀你。阿修罗中的最杰出者啊,朋友,我以真实向你发誓。

9.44.36

एवं स कृत्वा समयं दृष्ट्वा नीहास्मीश्वरः ।
चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः ॥ ९.४४.३६ ॥

如此订立约定、伺机而动之后,国王啊,主宰者婆娑婆用水沫斩断了他的头颅。

9.44.37

तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वियात् ।
भोभो मित्रह पापेति ब्रुवाणं शक्रमन्तिकात् ॥ ९.४४.३७ ॥

那被砍下的那母支之头从后面跟随因陀罗,在近处呼喊道:“喂,喂,杀害朋友的罪人!”

9.44.38

एवं स शिरसा तेन चोद्यमानः पुनः पुनः ।
पितामहाय सन्तप्त एतमर्थं न्यवेदयत् ॥ ९.४४.३८ ॥

他就这样被那头颅一再逼迫,心中悲恸,将此事禀告了祖父。

9.44.39

तमब्रवील्लोकगुरुररुणायां यथाविधि ।
इष्ट्वोपस्पृश देवेन्द्र तीर्थे पापभयापहे ॥ ९.४४.३९ ॥

世界之师对他说:“天神之主啊,你依礼在阿茹那河畔行祭之后,就在那能消除罪恶恐惧的圣渡口沐浴吧。”

9.44.40

एषा पुण्यजला शक्र कृता मुनिभिरेव तु ।
निगूढमस्यागमनमिहासीत्पूर्वमेव तु ॥ ९.४४.४० ॥

帝释啊,这圣水之渡口确是仙人们所造;只是它来到此地之前一直隐秘不现。

9.44.41

ततोऽभ्येत्यारुणां देवीं प्लावयामास वारिणा ।
सरस्वत्यारुणायाश्च पुण्योऽयं सङ्गमो महान् ॥ ९.४४.४१ ॥

随后,他走近阿茹那女神,以水浇灌她;萨拉斯瓦蒂与阿茹那的这一交汇处神圣而伟大。

9.44.42

इह त्वं यज देवेन्द्र दद दानान्यनेकशः ।
अत्राप्लुत्य सुघोरात्त्वं पातकाद्विप्रमोक्ष्यसे ॥ ९.४४.४२ ॥

天神之主啊,你在此行祭,多多布施;在此沐浴之后,你将从极可怕的罪恶中解脱。

9.44.43

इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय ।
इष्ट्वा यथावद्बलभिदरुणायामुपास्पृशत् ॥ ९.४४.४३ ॥

霹janmejaya啊,在萨拉斯瓦蒂的林中如此被告知后,他依法举行祭祀,杀伐波罗者(因陀罗)在阿伦那河中沐浴。

9.44.44

स मुक्तः पाप्मना तेन ब्रह्मवध्याकृतेन च ।
जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः ॥ ९.४४.४४ ॥

他从那罪过以及杀害婆罗门所生的罪孽中解脱,心中欢喜,三十神之主前往天界。

9.44.45

शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत ।
लोकान्कामदुधात्प्राप्तमक्षयान्राजसत्तम ॥ ९.४४.४५ ॥

婆罗多啊,他也在那里洗了那摩琛的头;王中之最,他在那里沐浴后,获得了如如意牛般的不灭世界。

9.44.46

तत्राप्युपस्पृश्य बलो महात्मा ।
दत्त्वा च दानानि पृथग्विधानि।
अवाप्य धर्मं परमार्यकर्मा ।
जगाम सोमस्य महत्सुतीर्थम् ॥ ९.४४.४६ ॥

他在那里也沐浴之后,这位宏大心灵的波罗布施了各式各样的礼物,获得了功德,以至高的高贵行为,前往苏摩的大圣渡口。

9.44.47

यत्रायजद्राजसूयेन सोमः ।
साक्षात्पुरा विधिवत्पार्थिवेन्द्र।
अत्रिर्धीमान्ब्रह्मपुत्रो बभूव ।
होता यस्मिन्क्रतुमुख्ये महात्मा ॥ ९.४४.४७ ॥

从前苏摩亲自依法举行了罗阇苏耶祭的地方,王中之主啊;在这主要的祭祀中,梵天的智慧之子、宏大心灵的阿特里担任了迎请者。

9.44.48

यस्यान्तेऽभूत्सुमहद्दानवानां ।
दैतेयानां राक्षसानां च देवैः।
सङ्ग्रामो वै तारकाख्यः सुतीव्रो ।
यत्र स्कन्दस्तारकाख्यं जघान ॥ ९.४४.४८ ॥

在其末尾,达那婆、提迭耶与罗刹与诸神之间发生了极为宏大而猛烈的、名为塔拉迦的大战;在那里,斯堪达杀死了名叫塔拉迦的那一位。

9.44.49

सैनापत्यं लब्धवान्दैवतानां ।
महासेनो यत्र दैत्यान्तकर्ता।
साक्षाच्चैवं न्यवसत्कार्तिकेयः ।
सदा कुमारो यत्र स प्लुक्षराजः ॥ ९.४४.४९ ॥

摩诃塞那在此获得了诸天之军的统帅之职;灭除提陀众的迦尔提盖耶亲自居住于此;那位童子,即榕树之王,常住于此。