Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.47

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.47.1

शृणु मातृगणान्राजन्कुमारानुचरानिमान् ।
कीर्त्यमानान्मया वीर सपत्नगणसूदनान्
एतत्ते कथितं राजन्कार्तिकेयाभिषेचनम् ।
शृणु चैव सरस्वत्यास्तीर्थवंशस्य पुण्यताम् ॥ ९.४७.१ ॥

国王啊,请听这些母神群,她们是童子的随从,我正在叙述她们,英雄啊,她们是摧毁敌军的。国王啊,这已经告诉你了:室建的灌顶。也请听萨拉斯瓦蒂圣渡家族的神圣性。

9.47.2

यशस्विनीनां मातॄणां शृणु नामानि भारत ।
याभिर्वायप्तास्त्रयोलोकाः कल्याणीभिश्च भागशः
बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु ।
कुमारेण महाराज त्रिविष्टपमिवापरम् ॥ ९.४७.२ ॥

婆罗多啊,请听那些名声显赫的母神之名,三界由她们遍布,吉祥者们也分担其中。众天神的敌人被童子杀死后,大王啊,这最殊胜的圣渡便形成了,仿佛另一座天堂。

9.47.3

प्रभावती विशालाक्षी पालिता गोस्तानी तथा ।
श्रीमती बहुला चैव तथैव बहुपुत्रिका
ऐश्वर्याणि च तत्रस्थो ददावीशः पृथक्पृथक् ।
ददौ नैर्ऋतमुख्येभ्यस्त्रैलोक्यं पावकात्मजः ॥ ९.४७.३ ॥

普拉巴瓦蒂、毗舍罗刹、波利塔、戈斯塔尼,还有室利玛蒂、巴呼拉,同样还有巴呼普特里卡。站在那里的主宰分别赐予她们各自的权柄。火神之子把三界赐予了涅利提的首领们。

9.47.4

अप्सुजाता च गोपाली बृहदम्बालिका तथा ।
जयावती मालतिका ध्रुवरत्ना भयङ्करी
एवं स भगवांस्तस्मिंस्तीर्थे दैत्यकुलान्तकः ।
अभिषिक्तो महाराज देवसेनापतिः सुरैः ॥ ९.४७.४ ॥

阿普苏迦塔、牧女、大阿姆巴利迦,以及胜光、蔓花、坚宝与可怖者。如是,于彼圣渡口,大王啊,灭除阿修罗族的世尊被诸天神灌顶,立为天军统帅。

9.47.5

वसुदामा च दामा च विशोका नन्दिनी तथा ।
एकचूडा महाचूडा चक्रनेमिश्च भारत
औशनं नाम तत्तीर्थं यत्र पूर्वमपाम्पतिः ।
अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ ॥ ९.४७.५ ॥

婆苏陀摩与陀摩,无忧与喜悦,单髻、大髻,以及轮辋,也啊,婆罗多。那圣渡口名为奥尚那,昔日水主伐楼那在那里被诸天神群灌顶,婆罗多中的雄牛啊。

9.47.6

उत्तेजनी जयत्सेना कमलाक्ष्यथ शोभना ।
शत्रुञ्जया तथा चैव क्रोधना शलभी खरी
अस्मिंस्तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लाङ्गली ।
ब्राह्मणेभ्योददौ रुक्मं वासांस्याभरणानि च ॥ ९.४७.६ ॥

优特耶贾尼、胜军、莲目、妙饰、胜敌,以及忿怒、蝗虫与驴。于此殊胜圣渡口沐浴,礼拜塞建陀之后,持犁者(大力罗摩)将黄金、衣服与饰物施予婆罗门。

9.47.7

माधवी शुभवक्त्रा च तीर्थसेनिश्च भारत ।
गीतप्रिया च कल्याणी रुद्ररोमाऽमिताशना
उषित्वा रजनीं तत्र माधवः परवीरहा ।
पूज्यतीर्थवरं तच्च स्पृष्ट्वा तोयं च लाङ्गली ॥ ९.४७.७ ॥

婆罗多啊,摩陀毗、吉祥面、圣渡之军、喜歌者、吉祥女、楼陀罗毛与无量食者,在那里度过一夜之后,摧毁敌方英雄的摩陀婆(大力罗摩)触碰了那最尊贵的圣渡之水。

9.47.8

मेघस्वना भोगवती सुभ्रूश्च कनकावती ।
अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत
हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः ।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥ ९.४७.८ ॥

婆罗多啊,雷声者、享乐者、美眉、金光者、赤眼者、大力者,以及闪电舌者,那位最优秀的摩陀婆(大力罗摩)欢喜满心。你所问我的,我已全部告诉了你。

9.47.9

पुन्नावती सुनक्षत्रा कन्दरा बहुयोजना ।
सन्तानिका च कौरव्य कमला च महाबला
यथाऽभिषिक्तो भगवान्स्कन्दो देवैः समागतैः ।
सेनानीश्च कृतो राजन्बाल एव महाबलः ॥ ९.४७.९ ॥

普纳瓦蒂、善星、洞窟、多由旬、圣域、俱卢后裔啊,还有迦摩罗与大力者;正如众天神聚集,为吉祥的斯坎达举行灌顶,而大王啊,他虽是孩童,却被立为大力的统帅。

9.47.10

सुदामा बहुदामा च सुप्रभा च यशस्विनी ।
नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला ॥ ९.४७.१० ॥

苏达玛、巴呼达玛、苏普拉跋、耀名者、爱舞者,以及王中之王啊,身佩百杵之带者。

9.47.11

शतघण्टा शतानन्दा भगनन्दा च भाविनी ।
वपुष्मती चन्द्रशीता भद्रकाली च भारत ॥ ९.४७.११ ॥

百铃、百喜、运喜、有成者、美身、月凉,以及吉祥迦梨,哦,婆罗多之子。

9.47.12

ऋक्षाम्बिका निष्कुटिका वामा चत्वरवासिनी ।
सुमङ्गला स्वस्तिमती बुद्धिकामा जयप्रिया ॥ ९.४७.१२ ॥

熊母、门庭居者、妙女、十字路居者、吉祥、祝福者、慧欲者,以及喜胜者。

9.47.13

धनदा सुप्रसादा च भवदा च जलेश्वरी ।
एडी भेडी समेडी च वेतालजननी तथा ॥ ९.४७.१३ ॥

施财者、大善者、生有者、水主,以及埃迪、贝迪、萨迪,和吠陀罗之母。

9.47.14

कण्डूतिः कालिका चैव देवमित्रा च भारत ।
वसुश्रीः कोटरा चैव चित्रसेना तथाऽचला ॥ ९.४७.१४ ॥

痒、迦梨迦,以及天友,哦,婆罗多之子;财富吉祥、空穴、彩军,以及不动。

9.47.15

कुक्कुटिका शङ्खलिका तथा शकुनिका नृप ।
कुण्डारिका कौकुलिका कुम्भिकाऽथ शतोदरी ॥ ९.४७.१५ ॥

鸡母、螺环者,以及鸟母,哦,王;瓮钵、伽库利迦、瓶口,以及百腹。

9.47.16

उत्क्राथिनी जलेला च महावेगा च कङ्कणा ।
मनोजवा कण्टकिनी प्रघसा पूतना तथा ॥ ९.४७.१६ ॥

喧嚷者、水游者、大速者、铃环者;意速、刺者、吞噬者,以及富那。

9.47.17

केशयन्त्री त्रुटिर्वामा क्रोशनाऽथ तडित्प्रभा ।
मन्दोदरी च मुण्डी च कोटरा मेघवाहिनी ॥ ९.४७.१७ ॥

羯舍演特利、特鲁提、瓦玛、克罗沙那、闪光、曼多达利、蒙迪、科塔拉、云乘者。

9.47.18

सुभगा लम्बिनी लम्बा ताम्रचूडा विकाशिनी ।
ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला ॥ ९.४७.१८ ॥

苏婆伽、伦比尼、伦婆、铜冠、开展者、上束发者、黄眼者、铁腰带者。

9.47.19

पृथुवस्त्रा मधुलिका मधुकुम्भा तथैव च ।
पक्षालिका मत्कुलिका जरायुर्जर्जरानना ॥ ९.४७.१९ ॥

广衣、蜜利迦、蜜瓮,亦复如是;翼利迦、玛特库利迦、胎盘者、枯槁面者。

9.47.20

ख्याता दहदहा चैव तथा धमधमा नृप ।
खण्डखण्डा च राजेन्द्र पूषणा मणिकुट्टिका ॥ ९.४७.२० ॥

著名的燃烧者、燃烧者,亦复如是焚烧者;哦,国王,裂片者,哦,王中之王;养育者与宝珠捣者。

9.47.21

अमोघा चैव कौरव्य तथा लम्बपयोधरा ।
वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला ॥ ९.४७.२१ ॥

不空者,哦,俱卢后裔;长乳者、持笛琴者、黄眼者、铁腰带者。

9.47.22

शशोकूलमुखी कृष्णा खरजङ्घा महाजवा ।
शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा ॥ ९.४७.२२ ॥

兔面者、黑者、驴腿者、大速者、海豚面者、白者、红眼者、可怖者。

9.47.23

जटालिका कामचरी दीर्घजिह्वा बलोत्कटा ।
कालेहिका वामनिका मुकुटा चैव भारत ॥ ९.४७.२३ ॥

遍行随意的遮陀利迦,长舌,力量极大,迦利黑迦、婆摩尼迦,以及穆库塔,啊,婆罗多之后。

9.47.24

लोहिताक्षी महाकाया हरिपिण्डा च भूमिप ।
एकत्वचा सुकुसुमा कृष्णकर्णी च भारत ॥ ९.४७.२४ ॥

红眼、身躯巨大的,还有哈利饼陀,啊,大地之主,单皮、花朵美丽、黑耳的,啊,婆罗多之后。

9.47.25

क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा ।
चतुष्पथनिकेता च गोकर्णी महिषानना ॥ ९.४७.२५ ॥

耳如刀刃、四耳的,遮耳的,以及居于十字路口的,牛耳与水牛面的。

9.47.26

खरकर्णी महाकर्णी भेरीस्वनमहास्वना ।
शङ्खकुम्भश्रवाश्चैव भगदा च महाबला ॥ ९.४७.२६ ॥

驴耳、大耳的,声如战鼓般巨大,能听见海螺与瓮之声,还有婆伽陀,且力量极大。

9.47.27

गणा च सुगणा चैव तथा भीत्यथ कामदा ।
चतुष्पथरता चैव भूतितीर्थान्यगोचरी ॥ ९.४७.२७ ॥

迦纳与苏迦纳,恐怖者,能满足愿望者,喜于十字路口,游于吉祥圣地及其他之处。

9.47.28

पशुदा वित्तदा चैव सुखदा च महायशाः ।
पयोदा गोमहिषदा सविशाला च भारत ॥ ९.४७.२८ ॥

施予牲畜、施予财富、施予安乐、大名声者,施予乳汁、施予牛与水牛者,且广大,啊,婆罗多之后。

9.47.29

प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना ।
नौकर्णी मुखकर्णी च विशिरा मन्थिनी तथा ॥ ९.४७.२९ ॥

普罗提什塔、苏普拉提什塔、罗遮摩那、苏罗遮那、船耳、口耳、无头和曼提尼。

9.47.30

एकचन्द्रा मेघकर्णा मेघमाला विरोचना ।
एताश्चान्याश्च बहवो मातरो भरतर्षभ ॥ ९.४७.३० ॥

单月、云耳、云鬘、光明,这些以及其他众多母神,婆罗多之牛啊。

9.47.31

कार्तिकेयानुयायिन्यो नानारूपाः सहस्रशः ।
दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्श्च भारत ॥ ९.४७.३१ ॥

跟随室建的众女,形态各异,成千上万;长指甲、长牙、长嘴,婆罗多啊。

9.47.32

सबला मधुराश्चैव यौवनस्थाः स्वलङ्कृताः ।
माहात्म्येन च संयुक्ताः कामरूपधरास्तथा ॥ ९.४७.३२ ॥

力量强大、温柔可爱、正值青春、装饰华美、具有威严,并能随意变换形态。

9.47.33

निर्मासगात्र्यः श्वेताश्च तथा काञ्चनसन्निभाः ।
कृष्णमेघनिभाश्चान्या धूम्नाश्च भरतर्षभ ॥ ९.४७.३३ ॥

肢体无肉,白色如金,另一些如乌云,烟色,婆罗多之牛啊。

9.47.34

अरुणाभा महाभोगा दीर्घकेश्यः सिताम्बराः ।
ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः ॥ ९.४७.३४ ॥

身带赤光,身姿华美,长发,着白衣,头顶束起发辫,褐色眼睛,腰带下垂。

9.47.35

लम्बोदर्यो लम्बकर्णास्तथा लम्बपयोधराः ।
ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्ष्यश्च तथाऽपराः ॥ ९.४७.३५ ॥

腹部修长、耳朵修长、同样胸部修长者,铜色眼睛、铜色肤色者,以及其他黄褐色眼睛者。

9.47.36

वरदाः कामचारिण्यो नित्यं प्रमुदितास्तथा ।
याम्या रौद्रास्तथा सौम्याः कौबेर्योऽथ महाबलाः ॥ ९.४७.३६ ॥

赐予恩惠者,随意游走,常常极其欢喜;同样是阎摩一类的,有凶猛者与温和者;以及俱毗罗一类、大力的女子。

9.47.37

वारुण्योऽथ च माहेन्द्यस्तथाऽऽग्नेय्यः परन्तप ।
वायव्यश्चाथ कौमार्यो ब्राह्मश्च भरतर्षभ ॥ ९.४७.३७ ॥

属于伐楼那一类的、因陀罗一类的,同样属于阿耆尼一类的,哦,焚烧敌人者;属于伐由一类的,然后是童子神一类的,也有梵天一类的,哦,婆罗多族的雄牛。

9.47.38

वैष्णव्यश्च तथा सौर्यो वाराह्यश्च महाबलाः ।
रूपेणाप्सरसां तुल्या मनोहार्यो मनोरमाः ॥ ९.४७.३८ ॥

属于毗湿奴一类的,同样属于太阳一类和野猪(婆罗诃)一类的,大力者;容貌与天女相等,令人心醉,美妙动人。

9.47.39

परपुष्टोपमा वाक्ये तथर्द्ध्या धनदोपमाः ।
शक्रवीर्योपमा युद्धे दीप्ता वह्निसमास्तथा ॥ ९.४७.३९ ॥

言语如杜鹃,同样富足如财神俱毗罗,战斗中勇猛如因陀罗,光彩焕发,如同火焰。

9.47.40

शत्रुणां विग्रहे नित्यं भयदास्ता भवन्त्युत ।
कामरूपधराश्चैव जवे वायुसमास्तथा ॥ ९.४७.४० ॥

在与敌人的冲突中,她们总是令人恐惧;能随意变化形体,速度如风,同样如此。

9.47.41

अचिन्त्यबलवीर्याश्च तथाऽचिन्त्यपराक्रमाः ।
वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः ॥ ९.४७.४१ ॥

他们具有不可思议的力量与勇武,拥有不可思议的威力;居于树下与十字路口,以十字路口为住所。

9.47.42

गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः ।
नानाभरणधारिण्यो नानामाल्याम्बरास्तथा ॥ ९.४७.४२ ॥

居于洞穴与墓地,以山间泉源为住处;佩戴各式饰物,身披各色花环与衣裳。

9.47.43

नानाविचित्रवेषाश्च नानाभाषास्तथैव च ।
एते चान्ये च मातॄणां गणाः शत्रुभयङ्कराः ॥ ९.४७.४३ ॥

形貌服饰千奇百怪,言语各异;她们与其余诸母众,都令敌人胆寒。

9.47.44

अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य सम्मते ।
ततः शक्त्यस्त्रमददद्भगवान्पाकशासनः ॥ ९.४७.४४ ॥

在天神之主的许可下,她们随这位大德者而行。于是尊贵的帕卡沙萨那(因陀罗)赐予他名为“能”的矛器。

9.47.45

गुहाय राजशार्दूल विनाशाय सुरद्विषाम् ।
महास्वनां महाघण्टां द्योतमानां सितप्रभाम् ॥ ९.४७.४५ ॥

王中虎啊!为了毁灭诸天的敌人,给予了具巨响的大铃于古诃(室建),其白光闪耀。

9.47.46

अरुणादित्यवर्णां च पताकां भरतर्षभ ।
ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम् ॥ ९.४७.४६ ॥

婆罗多族的雄牛啊!那面如朝阳般赤红的旗帜,以及一切众生的大军,兽主(湿婆)赐予了他。

9.47.47

उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम् ।
अजेयां स्वगणैर्युक्तां नाम्ना सेनां धनञ्जयाम् ॥ ९.४७.४७ ॥

那支军队凶猛,持有各种兵器,具备苦行、勇力与力量,不可战胜,与自身的群众相连;其名为达那阇耶。

9.47.48

रुद्रतुल्यबलैर्युक्तां योधानामयुतैस्त्रिभिः ।
न सा विजानाति रणात्कदाचिद्विनिवर्तितुम् ॥ ९.४७.४८ ॥

她具备与楼陀罗相等的力量,拥有三万战士;她从不知道从战斗中退却。

9.47.49

विष्णुर्ददौ वैजयन्तीं मालां बलविवर्धिनीम् ।
उमा ददौ विरजसी वाससी रविसप्रभे ॥ ९.४७.४९ ॥

毗湿奴赠予能增益力量的胜利花环;优摩赠予两件洁净、如太阳般光辉的衣裳。

9.47.50

गङ्गा कमण्डलुं दिव्यममृतोद्भवमुत्तमम् ।
ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः ॥ ९.४७.५० ॥

恒河女神满怀喜爱地将一只由甘露所生的上好神圣水瓶赠予童子,布利哈斯帕提也赠予一根杖。

9.47.51

गरुडो दयितं पुत्रं मयरं चित्रबर्हिणम् ।
अरुणस्ताम्रचूडं च प्रददौ चरणायुधम् ॥ ९.४७.५१ ॥

迦楼罗赠予其所爱之子、有彩色冠羽的孔雀摩耶罗;阿卢那赠予红冠的公鸡,以其爪为武器。

9.47.52

छागं तु वरुणो राजा बलवीर्यसमन्वितम् ।
कृष्णाजिनं ततो ब्रह्मा ब्रह्मण्याय ददौ प्रभुः।
समरेषु जयं चैव प्रददौ लोकभावनः ॥ ९.४७.५२ ॥

国王伐楼那赠予一只具备力量与勇气的山羊;随后主神梵天将黑羚羊皮赠予敬重婆罗门者;而世界的护持者还赐予战斗中的胜利。

9.47.53

सैनापत्यमनुप्राप्य स्कन्दो देवगणस्य ह ।
शुशुभे ज्वलितोर्चिष्मान्द्वितीय इव पावकः ॥ ९.४७.५३ ॥

斯kanda获得诸天神众统帅之职,光辉耀眼,宛如第二团熊熊燃烧的火焰。

9.47.54

ततः पारिषदैश्चैव मातृभिश्च समन्वितः ।
ययौ देत्यविनाशाय ह्लादयन्सुरपुङ्गवान् ॥ ९.४७.५४ ॥

随后,他与侍从和诸母偕行,为消灭阿修罗而出发,令诸天中的最优者欢喜。

9.47.55

सा सेना नैर्ऋती भीमा सघण्टोच्छ्रितकेतना ।
सभेरीशङ्खमुरजा सायुधा सपताकिनी ॥ ९.४७.५५ ॥

那支涅哩底族的军队极为可怖,饰有铃铛与高举的旗帜,伴有鼓、螺和大鼓,全副武装,并有旌旗。

9.47.56

शारदी द्यौरिवाभाति ज्योतिर्भिरिव शोभिता ॥ ९.४७.५६ ॥

它如秋日晴空一般显现,仿佛缀满了星辰之光。

9.47.57

ततो देवनिकायास्ते नानाभूतगणास्तथा ।
वादयामासुरव्याग्रा भेरीः शङ्खांश्च पुष्कलान् ॥ ९.४७.५७ ॥

于是那些诸天众和众多的鬼神群,毫不慌乱,吹响了鼓与众多的螺。

9.47.58

पटहान्झर्झरांश्चैव क्रकचान्गोविषाणिकान् ।
आडम्बरान्गोमुखांश्च डिण्डिमांश्च महास्वनान् ॥ ९.४७.५८ ॥

还有鼓 paṭaha、jharjhara、krakaca、牛角号、ādambara、go-mukha 以及大声作响的 ḍiṇḍima 同时鸣响。

9.47.59

तुष्टुवुस्ते कुमारं तु सर्वे देवाः सवासवाः ।
जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः ॥ ९.४७.५९ ॥

众天神与因陀罗一同赞颂童子。天界乾闼婆歌唱,阿普萨拉斯的群体翩翩起舞。

9.47.60

ततः प्रीतो महासेनस्त्रिदशेभ्यो वरं ददौ ।
रिपून्दन्ताऽस्मि समरे ये वो वधचिकीर्षवः ॥ ९.४७.६० ॥

于是欢喜的摩诃塞那赐予诸天神一个恩赐:“凡欲杀害你们的敌人,我将在战场上制服他们。”

9.47.61

प्रतिगृह्य वरं देवास्तस्माद्विबुधसत्तमात् ।
प्रीतात्मानो महात्मानो मेनिरे निहतान्रिपून् ॥ ९.४७.६१ ॥

从那位诸神中最优秀者处接受恩赐后,心怀欢喜的伟大诸神以为敌人已被杀死。

9.47.62

सर्वेषां भूतसङ्घानां हर्षान्नादः समुत्थितः ।
अपूरयत लोकांस्त्रीन्वरे दत्ते महात्मना ॥ ९.४७.६२ ॥

当大德者赐予恩赐时,所有众生群体因欢喜而发出的声响升起,充满了三界。

9.47.63

स निर्ययौ महासेनो महत्या सेनया वृतः ।
वधाय युधि दैत्यानां रक्षार्थं च दिवोकसाम् ॥ ९.४७.६३ ॥

摩诃塞那被庞大的军队包围,出发去战场上杀死达提亚,保护天界的居民。

9.47.64

व्यवसायो जयो धर्मः सिद्धिर्लक्ष्मीर्धृतिः स्मृतिः ।
महासेनस्य सैन्यानामग्रे जग्मुर्नराधिप ॥ ९.४७.६४ ॥

人主啊:决心、胜利、法、成就、吉祥、坚定与记忆走在摩诃塞那的军队之前。

9.47.65

स तया भीमया देवः शुलमुद्गरहस्तया ।
ज्वलितालातधारिण्या चित्राभरणवर्मया ॥ ९.४७.६५ ॥

天神与那可怖的女子同行,她手持三叉戟与木棒,举着燃烧的火把,身披斑斓的饰物与铠甲。

9.47.66

गदामुसलनाराचशक्तितोमरहरतया ।
दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः ॥ ९.४७.६६ ॥

瓜哈怒吼着与她同行,她手持棍棒、杵、箭、矛与标枪,吼声如傲慢的雄狮。

9.47.67

तं दष्ट्वा सर्वदैतेया राक्षसा दानवास्तथा ।
व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः ॥ ९.४७.६७ ॥

众大阿修罗、罗刹与檀那婆见到他,心惊恐惧,四散奔逃,向各方溃散。

9.47.68

अभ्यद्रवन्त देवास्तान्विविधायुधपाणयः ।
दृष्ट्वा च स ततः क्रुद्धः स्कन्दस्तेजोबलान्वितः ॥ ९.४७.६८ ॥

诸天手持各种兵器冲向他们。斯kanda见此,已具足光辉与力量,遂勃然大怒。

9.47.69

शक्त्यस्त्रं भगवान्भीमं पुनःपुनरवाकिरत् ।
आदधच्चात्मनस्तेजो हविषेद्ध इवानलः ॥ ९.४७.६९ ॥

尊者不断向可怖者倾泻枪矛之武器,并激发自身的光辉,如同以祭品助燃的火焰般熊熊燃烧。

9.47.70

अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा ।
उल्काज्वाला महाराज पपात वसुधातले ॥ ९.४७.७० ॥

大王啊,当无量光辉的斯kanda反复运用枪矛之武器时,一道流星的火焰坠落在大地上。

9.47.71

संहादयन्तश्च तथा निर्घाताश्चापतन्क्षिपौ ।
यथान्तकालसमये सुघोराः स्युस्तथा नृप ॥ ९.४७.७१ ॥

雷鸣之声轰然响起,纷纷坠落,王啊,如末劫之时那般可怖。

9.47.72

क्षिप्ता ह्येका यदा शक्तिः सुघोराऽनलसूनुना ।
ततः कोट्यो विनिष्पेतुः शक्तीनां भरतर्षभ ॥ ९.४७.७२ ॥

火之子投出一支可怖的长矛时,从中迸出了千万支长矛,婆罗多之雄牛啊。

9.47.73

ततः प्रीतो महासेनो जघान भगवान्प्रभुः ।
दैत्येन्द्रं तारकं नाम महाबलपराक्रमम् ॥ ९.४७.७३ ॥

于是,欢喜的世尊主摩诃塞那击杀了名为塔拉卡的阿修罗之王,他力量与勇武都极为强大。

9.47.74

वृतं दैत्यायुतैर्वीरैर्बलिभिर्दशभिर्नृप ।
महिषं चाष्टभिः पद्मैर्वृतं सङ्ख्ये निजघ्निवान् ॥ ९.४७.७४ ॥

王啊,他在战场上杀死了被一万名阿修罗和强大勇士环绕的那位,也杀死了被八个钵昙大军环绕的摩醯沙。

9.47.75

त्रिपादं चायुतशतैर्जघान दशभिर्वृतम् ।
हदोदरं निखर्वैश्च वृतं दशभिरीश्वरः ॥ ९.४७.७५ ॥

他杀死了被数十万众环绕的三足,那位主宰也杀死了被十个尼迦尔瓦大军环绕的哈多陀罗。

9.47.76

जघानानुचरैः सार्धं विविधायुधपाणिभिः ।
तथाऽकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु ॥ ९.४७.७६ ॥

他与手持各种兵器的随从一同击杀敌人;在被杀的敌人之间,他们发出巨大的吼声。

9.47.77

कुमारानुचरा राजन्पूरयन्तो दिशो दश ।
ननृतुश्च ववल्गुश्च जहसुश्च मुदान्विताः ॥ ९.४७.७७ ॥

国王啊,童子的随从们充满十方,欢欣地舞蹈、跳跃、欢笑。

9.47.78

शक्त्यस्त्रस्य तु राजेन्द्र ततोऽर्चिर्भिः समन्ततः ।
त्रैलोक्यं त्रासितं सर्वं जृम्भमाणाभिरेव च ॥ ९.४७.७८ ॥

诸王之主啊,于是矛器之火焰四面蔓延,三界全都惊恐。

9.47.79

दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे ।
पताकयावधूताश्च हताः केचित्सुरद्विषः ॥ ९.४७.७९ ॥

千万的达提耶被斯坎达的吼声焚烧;其他人被他的旗帜震落而被杀,一些仇视天神者也被杀死。

9.47.80

केचिद्धण्टारवत्रस्ता निषेदुर्वसुधातले ।
केचित्प्रहरणैश्छिन्ना विनिष्पेतुर्गतायुषः ॥ ९.४७.८० ॥

有些人被铃声惊吓,坐倒在大地上;有些人被兵器砍断,失去生命而倒下。

9.47.81

एवं सुरद्विषोऽनेकान्बलवानाततायिनः ।
जघान समरे वीरः कार्तिकेयो महाबलः ॥ ९.४७.८१ ॥

如此,英勇而大力的室建陀在战场上杀死了许多作恶的天神之敌。

9.47.82

बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः ।
क्रौञ्चं पर्वतमाश्रित्य देवसङ्घानबाधत ॥ ९.४७.८२ ॥

那时,名叫婆那的达提耶,即强大的钵利之子,依托于鹤山,开始侵扰天神的众军。

9.47.83

तमभ्ययान्महासेनः सुरशत्रुमुदारधीः ।
स कार्तिकेयस्य भयात्क्रौञ्चं शरणमीयिवान् ॥ ९.४७.८३ ॥

大军攻击了那位诸神之敌;这位心志高尚者因惧怕迦尔底盖耶,投奔了鹤山作为庇护。

9.47.84

ततः क्रौञ्चं महामन्युः क्रौञ्चनादनिनादितम् ।
शक्त्या बिभेद भगवान्कार्तिकेयोऽग्निदत्तया ॥ ९.४७.८४ ॥

于是怒火中烧的世尊迦尔底盖耶,用阿耆尼所赐之枪刺穿了回响着鹤鸣的鹤山。

9.47.85

ससालस्कन्धशबलं त्रस्तवानरवारणम् ।
प्रोङ्कीनोद्धान्तविहगं विनिष्पतितपन्नगम् ॥ ९.४७.८५ ॥

那座山上点缀着娑罗树的树干,猴子和大象惊恐万分,飞鸟四散,蛇纷纷坠落。

9.47.86

गोलाङ्गूलर्क्षसङ्घैश्च द्रवद्भिरनुनादितम् ।
कुरङ्गमविनिर्घोषनिनादितवनान्तरम् ॥ ९.४७.८६ ॥

回荡着奔逃的长尾猴和熊群的声音,林中深处被鹿和野兽的鸣叫所回响。

9.47.87

विनिष्पतद्भिः शरभैः सिंहैश्च सहसा द्रुतैः ।
शोच्यामपि दशां प्राप्तो रराजेव सपर्वतः ॥ ९.४७.८७ ॥

虽然因沙拉跋和狮子突然跃出奔逃而陷入可悲境地,那座山仍然光彩熠熠,仿佛依旧是它自己。

9.47.88

विद्याधराः समुत्पेतुस्तस्य शृङ्गनिवासिनः ।
किन्नराश्च समुद्विग्नाः शक्तिपातरवोद्धताः ॥ ९.४७.८८ ॥

住在山峰上的持明者们腾空而起,紧那罗们也惊惶不安,被枪矛落下的声响惊得跳起。

9.47.89

ततो दैत्या विनिष्पेतुः शतशोऽथ सहस्रशः ।
प्रदीप्तात्पर्वतश्रेष्ठाद्विचित्राभरणस्रजः ॥ ९.४७.८९ ॥

于是成百上千的达itya从那座燃烧的最高山中涌出,佩戴着各色饰物与花环。

9.47.90

तान्निजघ्नुरतिक्रम्य कुमाराजुचरा मृधे ।
स चैव भगवान्क्रुद्धो दैत्येन्द्रस्य सुतं तदा ॥ ९.४७.९० ॥

鸠摩罗的随从在战中前进并杀死了他们;那时世尊震怒,[击中]了魔王之子……

9.47.91

सहानुजं जघानाशु वृत्रं देवपतिर्यथा ।
बिभेद क्रौञ्चं शक्त्या च पावकिः परवीरहा ॥ ९.४७.९१ ॥

犹如天神之主杀死弗栗多,他迅速与其弟一同将其杀死;而阿耆尼之子、敌方英雄的杀手,以长矛刺穿了鹤。

9.47.92

बहुधा चैकधा चैव कृत्वाऽऽत्मानं महाबलः ।
शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनः पुनः ॥ ९.४७.९२ ॥

这位大力者使自身化为多个或一个,他在战中掷出的长矛一次又一次回到他的手中。

9.47.93

एवम्प्रभावो भगवांस्ते भूयश्च पावकिः ।
शौर्याद्द्विगुणयोगेन तेजसा यशसा श्रिया ॥ ९.४७.९३ ॥

如此威力的世尊;而阿耆尼之子又以勇武、双重结合、光辉、荣誉与吉祥……

9.47.94

क्रौञ्चस्ते विनिर्भिन्नो दैत्याश्च शतशो हताः ॥ ९.४७.९४ ॥

鹤被你刺穿,成百的达itya被杀。

9.47.95

ततः स भगवान्देवो निहत्य विबुधद्विषः ।
सभाज्यमानो विबुधैः परं हर्षमवाप ह ॥ ९.४७.९५ ॥

于是那位世尊之神杀死了诸天的敌人,受到诸天的尊敬,获得了无上的喜悦。

9.47.96

ततो दुन्दुभयो राजन्नेदुः शङ्खाश्च भारत ।
मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम्।
योगिनामीश्वरं देवं शतशोऽथ सहस्रशः ॥ ९.४७.९६ ॥

于是,大王啊,婆罗多啊,鼓声响起,海螺也吹响了。天界的女子向瑜伽行者之主的神祇撒下无与伦比的花雨,数以百计、数以千计。

9.47.97

दिव्यगन्धमुपादाय ववौ पुण्यश्च मारुतः ।
गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः ॥ ९.४७.९७ ॥

携带着神圣的香气,清风徐徐吹来。乾闼婆们赞颂他,行祭的大仙也赞颂他。

9.47.98

केचिदनं व्यवस्यान्ति पितामहसुतं प्रभुम् ।
सनत्कुमारं सर्वेषां ब्रह्मयोनिं तमग्रजम् ॥ ९.४७.९८ ॥

有人认为他是萨那特昆摩罗,主神,祖父之子,众生梵的起源,长子。

9.47.99

केचिन्महेश्वरसुतं केचित्पुत्रं विभावसोः ।
उमायाः कृत्तिकानां च गङ्गायाश्च वदन्त्युत ॥ ९.४७.९९ ॥

有人说他是大自在天之子,有人说他是毗婆娑(火神)之子;人们还说他是乌玛、昴宿女和恒河之子。

9.47.100

एकधा च द्विधा चैव चतुर्धा च महाबलम् ।
योगिनामीश्वरं देवं शतशोऽथ सहस्रशः ॥ ९.४७.१०० ॥

这位大力者以一、二、四种形态显现,瑜伽行者之主的神祇,被数以百计、数以千计地礼敬。