摩诃婆罗多 · 章 9.5
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.5.1
एवमुक्तस्ततो राजा गौतमेन तपस्विना ।
निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशाम्पते ॥ ९.५.१ ॥
苦行者乔达摩如此说道后,国王长叹一声,热气逼人,默然不语。众民之主啊!
9.5.2
ततो मुहूर्तं स ध्यात्वा तव पुत्रो महामनाः ।
कृपं शारद्वतं वाक्यमित्युवाच परन्तपः ॥ ९.५.२ ॥
此后,你那心胸宽广的儿子沉思片刻,对沙罗陀婆之子克里巴说了这番话,哦,焚烧敌人者!
9.5.3
यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् ।
कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता ॥ ९.५.३ ॥
朋友应当说的话,你都让我听到了;你为此舍命作战,已经尽了一切。
9.5.4
गाहमानमनीकानि युध्यमानं महारथैः ।
पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान् ॥ ९.५.४ ॥
你冲入军阵,与大车战士及光辉无比的般度之子作战,世人都看见了你。
9.5.5
सुहृदा यदिदं वाक्यं भवता श्रावितो ह्यहम् ।
न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम् ॥ ९.५.५ ॥
你以朋友身份让我听到的这番话,并不使我高兴,正如药物不能使将死之人欢喜。
9.5.6
हेतुकारणसंयुक्तं हितं वचनमुत्तमम् ।
उच्यमानं महाबाहो न मे विप्राग्र्य रोचने ॥ ९.५.६ ॥
哦,臂力强大者,婆罗门中之首!即使有人说出了附有理由与缘由、有益而优秀的言辞,我也不以为然。
9.5.7
राज्याद्विनिकृतोऽस्माभिः कथं सोस्मासु विश्वसेत् ॥ ९.५.७ ॥
被我们剥夺王国的人,怎会信任我们?
9.5.8
अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः ।
स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु ॥ ९.५.८ ॥
在掷骰之戏中我们击败了那位大富之王;他怎会再信我的话语?
9.5.9
तथा दूत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः ।
प्रलब्धश्च हृषीकेशस्तच्च कर्माविचारितम्।
स च मे वचनं ब्रह्मन्कथमेवाभिमन्यते ॥ ९.५.९ ॥
同样,作为使者而来、一心为般度之子谋福的黑天,被欺骗了,而那一行为也未经深思。婆罗门啊,他怎会重视我的话语?
9.5.10
विललाप च यत्कृष्णा सभामध्ये समेयुषी ।
न तन्मर्षयते कृष्णो न राज्यहरणं तथा ॥ ९.५.१० ॥
克利须那(德劳帕蒂)在会堂中间哀哭之事,黑天不能容忍;夺取王国之事,他也不能容忍。
9.5.11
एकप्राणावुभौ कृष्णावन्योन्यमभिसंश्रितौ ।
पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो ॥ ९.५.११ ॥
二位黑天,同一生命,彼此相依。主啊,昔日所闻之事,今日我得亲见。
9.5.12
स्वस्रीयं निहतं दृष्ट्वा दुःखं स्वपिति केशवः ।
कृतागसो वयं तस्य हितं मे स कथं चरेत् ॥ ९.५.१२ ॥
看见姐妹之子被杀,罗毗陀(黑天)在悲痛中入睡。我们是有罪的;他怎会为我谋福?
9.5.13
अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः ।
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः ॥ ९.५.१३ ॥
阿周那因阿毗摩偶的死亡而无法获得安宁。即便受到请求,他又怎会为我的利益而努力?
9.5.14
मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः ।
प्रतिज्ञातं च तेनोग्रं भज्येतापि न सन्नमेत् ॥ ९.५.१४ ॥
中间的般度之子、猛烈而大力的毗摩森那所立的可怖誓言,或许会破碎,却不会弯曲。
9.5.15
उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ ।
कृतवैरावुभौ वीरौ यमावपि यमोपमौ ॥ ९.५.१५ ॥
二人都佩戴着剑,却都没有穿铠甲。这两位结下仇怨的英雄,如同阎摩本人。
9.5.16
धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह ।
तौ कथं मद्धिते यत्नं कुर्यातां द्विजसत्तम ॥ ९.५.१६ ॥
与我结下仇怨的猛光与施甘迪,婆罗门中最优秀的人啊,他们怎会为我的利益而努力?
9.5.17
दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला ।
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः ॥ ९.५.१७ ॥
难敌之弟难降所做之事:克利须那在经期中仅着一件衣服,在大会堂中央,被众人注视下遭受折磨。
9.5.18
कथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः ।
न निवारयितुं शक्याः सङ्ग्रामत्ते परन्तपाः ॥ ९.५.१८ ॥
般度之子至今仍记得她被剥去衣服、备受屈辱的遭遇。摧毁敌人者啊,他们在战场上是无法被阻挡的。
9.5.19
यदा च द्रौपदी क्लिष्टा मद्विनाशाय दुःखिता ।
उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये।
स्थण्डिले नित्यदा शेते यावद्वैरस्य यातनम् ॥ ९.५.१९ ॥
当德罗波蒂因我的毁灭而痛苦悲伤时,她为丈夫们的成功而行苦行,黑天女始终睡在裸露的地上,直到仇怨得到报复。
9.5.20
निक्षिप्य मानं दर्पं च वासुदेवसहोदरा ।
कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा ॥ ९.५.२० ॥
放下荣誉与傲慢,婆薮提婆之妹总是像仆人一样侍奉黑天女。
9.5.21
इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन ।
अभिमन्योर्विनाशेन स सन्धेयः कथं मया ॥ ९.५.२१ ॥
如此一切都因骄傲而膨胀,无论如何也平息不下来。在阿毗曼尤被毁之后,我又怎能与他讲和?
9.5.22
कथं च राजा भुक्त्वेमां पृथिवीं सागराम्बराम् ।
पाण्डवानां प्रसादेन भोक्ष्ये राज्यमहं कथम् ॥ ९.५.२२ ॥
作为国王,我怎能享有这被大海环绕的大地?凭着般度五子的恩惠,我怎能享用王国?
9.5.23
उपर्युपरि राज्ञां वै ज्वलित्वा भास्करो यथा ।
युधिष्ठिरं कथं पञ्चादनुयास्यामि दासवत् ॥ ९.५.२३ ॥
如同太阳高照于诸王之上,我怎能像奴仆一样跟在坚战身后?
9.5.24
कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान् ।
कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् ॥ ९.५.२४ ॥
我自己享受了欢乐,又分出丰厚的份额,如今沦为困苦,我将如何与困苦之人一同谋生?
9.5.25
नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया ॥ ९.५.२५ ॥
你所说的温和而有益的话语,我并不怨恨。
9.5.26
न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन ।
सुनीतमनुपश्यामि सुयुद्धेन परन्तप ॥ ९.५.२६ ॥
征服敌人的人啊!我绝不认为此刻和约是适时的;只有通过光荣的战斗,我才看到正确的道路。
9.5.27
नायं क्लीबायितुं कालः संयोद्धुं काल एव नः ॥ ९.५.२७ ॥
这不是怯懦的时候;对我们而言,这正是战斗的时候。
9.5.28
इष्टं मे बहुभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः ।
प्राप्ताः कामाः श्रुता वेदाः शत्रूणां मूर्ध्निं च स्थितम् ॥ ९.५.२८ ॥
我以众多祭祀行祭,向婆罗门施予酬金;我的愿望得以实现,我闻诵了吠陀,敌人的头颅都在我脚下。
9.5.29
भृत्या मे सुभृतास्तात दीनश्चाभ्यृद्भृतो जनः ।
नोत्सहेऽद्य द्विजश्रेष्ठ पाण्डवान्वक्तुमीदृशम् ॥ ९.५.२९ ॥
亲爱的,我的仆从得到很好的供养,贫穷的人也得到照顾;二生者中最优秀的人啊,今天我没有勇气对般度之子说出这样的话。
9.5.30
जितानि परराष्ट्राणि स्वराष्ट्रमनुपालितम् ।
भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया ॥ ९.५.३० ॥
我征服了外国的王国,妥善守护了自己的国土,享受了种种欢乐,并实践了人生的三重目标。