Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.50

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.50.1

इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली ।
विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि ॥ ९.५०.१ ॥

随后,到达因陀罗渡口,身强力壮的尊贵的耶度族人依规矩沐浴后,把财富和珠宝布施给婆罗门。

9.50.2

तत्र ह्यमरराजो वै ईजे क्रतुशतेन ह ।
बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम् ॥ ९.५०.२ ॥

那里,众神之王举行了一百次祭祀,诸神之主把丰厚的财富赠予了布里哈帕蒂。

9.50.3

अनर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान् ।
आजहर क्रतूंस्तत्र यथोक्तं वेदपारगैः ॥ ९.५०.३ ॥

在那里,他依照精通吠陀者的规定,无障碍地举行了所有祭祀,并伴有助祭祭司和各种达克希那。

9.50.4

तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः ।
पूरयामास विधिवत्ततः ख्यातः शतक्रतुः ॥ ९.५०.४ ॥

婆罗多族的最优秀者啊!那位大光辉者依规矩完成了这些祭祀一百次;此后他便以“百祭者”(Śatakratu)之名闻名于世。

9.50.5

तस्य नाम्ना तु तत्तीर्थं शिवं पुण्यं सनातनम् ।
इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम् ॥ ९.५०.५ ॥

以他的名字命名,那处神圣的渡口——吉祥、圣洁而永恒——被称为因陀罗渡口,能使人解脱一切罪孽。

9.50.6

उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः ।
ब्राह्मणान्पूजयित्वा च पानाच्छादुनभोजनैः ॥ ९.५०.६ ॥

在那里,手持杵为武器者依规矩漱水净口后,以饮食、衣物款待婆罗门。

9.50.7

शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह ।
यत्र रामो महाभागो भार्गवः सुमहातपाः ॥ ९.५०.७ ॥

他从那里前往吉祥殊胜的渡口——罗摩渡口。那里住着极有福分、苦行极深的婆利古之子罗摩。

9.50.8

असकृत्पृथिवीं कृत्वा हतक्षत्रियपुङ्गवाम् ।
उपाध्यायं पुरस्कृत्य काश्यपं मुनिसत्तमम् ॥ ९.५०.८ ॥

他多次使大地失去最优秀的刹帝利之后,尊奉最杰出的仙人、他的老师迦叶波。

9.50.9

अयजद्वाजपेयेन सोऽश्वमेधशतेन च ।
प्रददौ दक्षिणार्थं च पृथिवीं सागराम्बराम् ॥ ९.५०.९ ॥

他举行了伐阇帕耶祭和一百次马祠祭,并以海洋为衣的大地作为祭礼酬金布施出去。

9.50.10

रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय ।
उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान् ॥ ९.५०.१० ॥

罗摩在那里把财物布施给婆罗门,嗟,嘉奢耶!然后依规矩漱水净身,同样尊敬婆罗门。

9.50.11

पुण्यतीर्थे शुभे देशे वसु दत्त्वा हलायुधः ।
मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत्।
यत्रानयामास तदा राजसूयमपाम्पतिः ॥ ९.५०.११ ॥

在圣渡口与吉祥之地布施财物后,持犁者(大力罗摩)向诸仙人致敬,随后来到亚穆纳渡口,那里水主(伐楼那)曾举行过王祭。

9.50.12

दितेः सुतान्महाभागो वरुणो वै सितप्रभः ।
यत्र निर्जित्य सङ्ग्रामे मानुषान्दानवांस्तथा।
गन्धर्वान्राक्षसांश्चैव वरुणः परवीरहा ॥ ९.५०.१२ ॥

在那里,白光闪耀、极有福分的伐楼那曾在战斗中征服了提迪之子、人类、檀那婆、乾闼婆和罗刹;那位伐楼那,乃敌方英雄的杀者。

9.50.13

तस्मिन्क्रतुवरे वृत्ते सङ्ग्रामः समजायत ।
देवानां दानवानां च त्रैलोक्यस्य भयावहः ॥ ९.५०.१३ ॥

当那最殊胜的祭祀结束时,诸神与达那婆之间爆发了一场使三界恐惧的战斗。

9.50.14

राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय ।
जायते सुमहाघोरः संक्षयः क्षत्रियान्प्रति ॥ ९.५०.१४ ॥

嗟乎,俱卢王,待最殊胜的王祭结束后,一场极为可怕的毁灭降临于刹帝利。

9.50.15

हलायुधस्तदा रामस्तस्मिंस्तीर्थवरे शुभे ।
तत्रस्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः ॥ ९.५०.१५ ॥

于是持犁的罗摩在那吉祥殊胜的圣渡口沐浴,并把财物布施给婆罗门;摩陀婆也是如此。

9.50.16

वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः ।
तस्मादादित्यतीर्थं च जगाम कमलेक्षणः ॥ ९.५०.१६ ॥

于是佩戴野花花环的莲花眼者欢喜地在再生族的赞颂中,从那里前往日天之渡口。

9.50.17

यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम ।
ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत ॥ ९.५०.१७ ॥

诸王之最,在那里,光明的薄伽梵婆伽罗(日神)行祭后,获得了诸光明的主宰之位与威力。

9.50.18

तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः ।
विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह ॥ ९.५०.१८ ॥

在那条河的岸边,所有天神与因陀罗(婆娑婆)同在,诸维首提婆与摩录多同在,乾闼婆与阿普萨罗斯也在那里。

9.50.19

द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः ।
यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशाम्पते ॥ ९.५०.१९ ॥

毗耶娑、Śuka、克里希那、摩图苏陀那,夜叉、罗刹,以及毕舍遮,啊人民之主。

9.50.20

एते चान्ये च बहवो योगसिद्धाः सहस्रशः ।
तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परन्तप ॥ ९.५०.२० ॥

这些人和其他许多人,成千上万的瑜伽成就者,在萨拉斯瓦蒂那吉祥而神圣的渡口,啊灼敌者。

9.50.21

तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ ।
आप्लुत्य भरतश्रेष्ठ तीर्थप्रवर उत्तमे ॥ ९.५०.२१ ॥

往昔毗湿奴在那里杀死了两个阿修罗摩图与凯陀婆,啊婆罗多之最,在那至上的圣渡中沐浴。

9.50.22

द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत ।
सम्प्राप्तः परमं योगं सिद्धिं च परमां गतः ॥ ९.५०.२२ ॥

正法之心的毗耶娑也在那里沐浴,啊婆罗多,他获得了至上的瑜伽,达到了至上的成就。

9.50.23

असितो देवलश्चैव तस्मिन्नेव महातपाः ।
परमं योगमास्थाय ऋषिर्योगमवाप्तवान् ॥ ९.५०.२३ ॥

阿悉多与提婆罗也在同一地方,那位大苦行者依止至上瑜伽,那位仙人获得了瑜伽。