摩诃婆罗多 · 章 9.54
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.54.1
प्रजापतेरुत्तरवेदिरुच्यते ।
सनातनं राम समन्तपञ्चकम्।
समीजिरे यत्र पुरा दिवौकसो ।
वरेण सत्रेण महावरप्रदाः ॥ ९.५४.१ ॥
此处被称为生主的北祭坛。罗摩啊,这是永恒的三摩多般遮迦,昔日天界居民,伟大的赐恩者,在此举行了殊胜的萨特拉祭。
9.54.2
पुरा च राजर्षिवरेण धीमता ।
बहूनि वर्षाण्यमितेन तेजसा।
प्रकृष्टमेतत्कुरुणा महात्मना ।
ततः कुरुक्षेत्रमितीह पप्रथे ॥ ९.५४.२ ॥
往昔,智慧卓越的王仙、大德的俱卢以无量的光辉在此耕耘多年,因此此地得名俱卢之野。
9.54.3
किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना ।
एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः ॥ ९.५४.३ ॥
伟大的俱卢为了何种目的耕耘这片田野?苦行富足的诸位仙人啊,我想听听所说的缘由。
9.54.4
पुरा किल कुरुं राम कर्षन्तं सततोत्थितम् ।
अभ्येत्य शक्रस्त्रिदिवात्पर्यपृच्छत कारणम् ॥ ९.५४.४ ॥
罗摩啊,往昔因陀罗从天界来到不停起身耕耘的俱卢面前,询问其缘由。
9.54.5
किमिदं वर्तते कर्म प्रयत्नेन परेण च ।
राजर्षे किमभिप्रेत्य येनेयं कृष्यते क्षितिः ॥ ९.५४.५ ॥
王仙啊,这项需要如此努力与巨大辛劳的工作是什么?你为了何种意图耕耘这片土地?
9.54.6
इह ये पुरुषाः क्षेत्रे जनिष्यन्ति शतक्रतो ।
ते गमिष्यन्ति सुकृतां लोकान्पापविवर्जितान् ॥ ९.५४.६ ॥
百祭啊,凡在此田野中出生于此的人,将前往无罪的善人之界。
9.54.7
अपहास्य तु तं शक्रो जगाम त्रिदिवं पुनः ।
राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुन्धराम् ॥ ९.५४.७ ॥
因陀罗嘲笑了他之后又回到天界;而王仙并不气馁,仍继续耕耘大地。
9.54.8
आगम्यागम्य चैवैनं भूयोभूयोऽपहास्य च ।
शत्रक्रतुरनिर्विण्णं पृष्ट्वापृष्ट्वा जगाम ह ॥ ९.५४.८ ॥
因陀罗(百祭者)一再前来嘲笑他,对这位不气馁的人反复询问,然后离去。
9.54.9
यदा तु तपसोग्रेण चकर्ष वसुधां नृपः ।
ततः शक्रोऽब्रवीद्देवान्राजर्षेर्यच्चिकीर्षितम् ॥ ९.५४.९ ॥
当国王以严酷的苦行耕耘大地时,因陀罗便把王仙的意图告诉了诸神。
9.54.10
एतच्छ्रुत्वाऽब्रुवन्देवाः सहस्राक्षमिदं वचः ।
वरेण च्छन्द्यतां शक्र राजर्षिर्यदि शक्यते ॥ ९.५४.१० ॥
诸神听了这话,对千眼的因陀罗说:“啊,帝释,如果可能,就以一个恩赐使王仙满意吧。”
9.54.11
यदि ह्यत्र प्रसूता वै स्वर्गं गच्छन्ति मानवाः ।
अस्माननिष्ट्वा क्रतुभिर्भागो नो न भविष्यति ॥ ९.५४.११ ॥
若生于此地的人不以祭祀供奉我们便升入天界,我们的份额便不复存在。
9.54.12
आगम्य च ततः शक्रस्तदा राजर्षिमब्रवीत् ।
अलं खेदेन भवतः क्रियतां वचनं मम ॥ ९.५४.१२ ॥
于是因陀罗前来对王仙说:“够了,停止你的苦恼;听从我的话吧。”
9.54.13
मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः ।
युधि वा निहताः सम्यगपि तिर्यग्गता नृप ॥ ९.५४.१३ ॥
凡人若绝食而不倦地舍弃身体,或在战场上被正当杀死,或堕入畜生之道,哦王!
9.54.14
ते स्वर्गभाजो राजेन्द्र भवन्त्विह हतास्तु ये ।
तथास्त्विति ततो राजा कुरुः शक्रमुवाच ह ॥ ९.५४.१४ ॥
哦,诸王之主,愿此处战死者皆得生天。”“就这样吧。”于是国王俱卢对因陀罗说道。
9.54.15
ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना ।
जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः ॥ ९.५४.१५ ॥
于是与他告别,内心欢喜,灭除力量的因陀罗迅速又回到天界。
9.54.16
एवमेतद्यदुश्रेष्ठ कृष्टं राजर्षिणा पुरा ।
शक्रेण चाभ्यनुज्ञातः पुण्ये प्राणान्मुमोच ह ॥ ९.५४.१६ ॥
正是如此,哦,雅度族中最优秀的人:这正是昔日王仙所耕之地。他得到因陀罗的允许,在圣地舍弃了生命。
9.54.17
शक्रेण चाभ्यनुज्ञातं ब्राह्मद्यैश्च सुरैस्तथा ।
नातः परतरं पुण्यं भूमेः स्थानं भविष्यति ॥ ९.५४.१७ ॥
经因陀罗、婆罗门与诸天如此认可,大地上将不会有比此更圣洁的处所。
9.54.18
इह तप्स्यन्ति ये केचित्तपः परमकं नराः ।
देहत्यागेन ते सर्वे यास्यन्ति ब्रह्मणः क्षयम् ॥ ९.५४.१८ ॥
凡在此修习最高苦行的人,都将因舍弃身体而往生梵天之处。
9.54.19
ये पुनः पुण्यभाजो वै दानं दास्यन्ति मानवाः ।
तेषां सहस्रगुणितं भविष्यत्यचिरेण वै ॥ ९.५४.१९ ॥
凡具福德之人施舍布施者,其果报不久便会增至千倍。
9.54.20
ये चेह नित्यं मनुजा निवत्स्यन्ति शुभैषिणः ।
यमस्य विषयं ते तु न द्रक्ष्यन्ति कदाचन ॥ ९.५४.२० ॥
凡常居此地、志求善行之人,永远不会见到阎摩的境界。
9.54.21
यक्ष्यन्ति ये च क्रतुभिर्महद्भिर्मनुजेश्वराः ।
तेषां त्रिविष्टपे वासो यावद्भूमिर्धरिष्यति ॥ ९.५४.२१ ॥
凡以大祭祀供奉之人主,其居所将在三界之天,直至大地长存。
9.54.22
अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः ।
कुरुक्षेत्रनिबद्धां वै तां शृणुष्व हलायुध ॥ ९.५४.२२ ॥
此处天神之主帝释天亲自吟唱了一首与俱卢之野相关的偈颂,请听,哈拉尤陀。
9.54.23
पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः ।
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ॥ ९.५४.२३ ॥
即使是风从俱卢之野吹起的尘土,也能引导作恶之人抵达至高之境。
9.54.24
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।
इत्येवं निश्चितो भूत्वा तेन स्वर्गं गमिष्यति ॥ ९.५४.२४ ॥
若人坚定决心说:‘我将前往俱卢之野,并住在俱卢之野’,他因此便会升入天界。
9.54.25
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।
तथा स्थानं च मौनं च वीरासनमुपास्महे ॥ ९.५४.२५ ॥
我将前往俱卢原野,在俱卢原野居住;在那里站立、沉默,以英雄坐姿修行。
9.54.26
एवं प्रलपमानोऽपि चिन्तयंश्च मुहुर्मुहुः ।
दूरस्थो यदि वा तिष्ठँल्लभेत्स्वर्गं सुनिश्चितम् ॥ ९.५४.२६ ॥
即使如此反复哀叹思索,即便身在远处,也必定能获得天界。
9.54.27
सुरर्षभा ब्राह्मणसत्तमाश्च ।
तथा नृगाद्या नरदेवमुख्याः।
इष्ट्वा महार्हैः क्रतुभिर्नृसिंह ।
सन्त्यज्य देहान्सुगतिं प्रपन्नाः ॥ ९.५४.२७ ॥
诸神中的雄牛、婆罗门中的最优者,以及如那伽等人间主要的国王,人中狮啊,他们以贵重的祭祀供奉之后,舍弃身体,获得了善趣。
9.54.28
तंरन्तुकारन्तुकयोर्यदन्तरं ।
रामहदानां च मचक्रुकस्य च।
एतत्कुरुक्षेत्रसमन्तपञ्चकं ।
प्रजापतेरुत्तरवेदिरुच्यते ॥ ९.५४.२८ ॥
在仁图卡与阿仁图卡之间,以及罗摩之湖与摩阇克鲁卡之间的区域,即俱卢原野的三摩多般遮迦,被称为生主的北方祭坛。
9.54.29
शिवं महापुण्यमिदं दिवौकसां ।
सुसम्मतं स्वर्गगुणैः समन्वितम्।
अतश्च सर्वे निहता नृपा रणे ।
यास्यन्ति पुण्यां गतिमक्षयां सदा ॥ ९.५४.२९ ॥
此地对天界居民而言吉祥且功德巨大,深受认可,具备天界的种种德性。因此,所有在战斗中被杀的国王,将永远获得有功德而不灭的善趣。
9.54.30
इत्युवाच स्वयं शक्रः सह ब्रह्मादिभिस्तदा ।
तच्चानुमोदितं सर्वं ब्रह्मविष्णुमहेष्वरैः ॥ ९.५४.३० ॥
于是因陀罗自己与梵天等诸神一同说道;梵天、毗湿奴和大自在天都认可了这一切。