摩诃婆罗多 · 章 9.57
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.57.1
ततो वाग्युद्धमभवत्तुमुलं जनमेजय ।
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ॥ ९.५७.१ ॥
于是,妙玩者阁下,一场激烈的唇枪舌剑爆发了,悲痛的国王持国在其中说出了这番话。
9.57.2
धिगस्तु खलु मानुष्यं यस्य निष्ठेयमीदृशी ।
एकादशचमूभर्ता यत्र पुत्रो ममानघ ॥ ९.५७.२ ॥
人生真是可悲,其终局竟是如此!统领十一军的我的儿子就在这里,哦,无罪者。
9.57.3
आज्ञाप्य सर्वान्नृपतीन्भुक्त्वा चेमां वसुन्धराम् ।
गदामादाय चैकाकी पदातिः प्रस्थितो रणम् ॥ ९.५७.३ ॥
他号令了所有国王,享受了这片大地,手持权杖,独自步行走向战场。
9.57.4
भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः ।
गदामुद्यम्य यो याति किमन्यद्भागधेयतः ॥ ९.५७.४ ॥
我的儿子本是世界的主宰,却如同无依无靠之人;他高举权杖前行——这不是命运又是什么呢?
9.57.5
अहो दुःखं महत्प्राप्तं पुत्रेण मम स़ञ्जय ।
एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः ॥ ९.५७.५ ॥
唉!因我的儿子,我遭受了巨大的痛苦,哦,桑遮耶。说完这些,因悲痛而煎熬的人主便沉默了。
9.57.6
स मेघनिनदो हर्षान्निनदन्निव गोवृषः ।
आजुहाव तदा पार्थं युद्धाय युधि वीर्यवान् ॥ ९.५७.६ ॥
他如乌云般轰鸣,因欢喜如公牛般吼叫,那勇猛者便向般度之子(阿周那)发出了战斗的挑战。
9.57.7
भीममाह्वयमाने तु कुरुराजे महात्मनि ।
प्रादुरासन्सुघोराणि रूपाणि विविधान्युत ॥ ९.५७.७ ॥
当大度的俱卢王挑战毗摩时,出现了种种极为可怖的征兆。
9.57.8
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च ।
बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः ॥ ९.५७.८ ॥
狂风伴着雷鸣般的轰响吹起,尘土如雨落下,所有方向都被黑暗笼罩。
9.57.9
महास्वनाः सुनिर्वातास्तुमुला रोमहर्षणाः ।
पेतुस्तथोल्काः शतशः स्फोटयन्त्यो नभस्तलात् ॥ ९.५७.९ ॥
数百颗火流星轰鸣而纷乱,令人毛发竖立,突然静止,从天空中纷纷坠落、迸裂。
9.57.10
राहुश्चाग्रसदादित्यमपर्वणि विशाम्पते ।
चकम्पे च महाकम्पं पृथिवी सवनद्रुमा ॥ ९.५७.१० ॥
人主啊,罗睺在不该的时候吞食了太阳,连同森林与树木,大地剧烈震动。
9.57.11
रूक्षाश्च वाताः प्रववुर्नीचैः शर्करकर्षिणः ।
गिरीणां शिखराण्येव न्यपतन्त महीतले ॥ ९.५७.११ ॥
猛烈的风低低吹过,卷起碎石,山峰的顶端竟纷纷坠落于地面。
9.57.12
मृगा बहुविधाकाराः सम्पतन्ति दीशो दश ।
दीप्ताः शिवाश्चाप्यनदन्घोररूपाः सुदारुणाः ॥ ९.५७.१२ ॥
各种形状的野兽奔走于十方,燃烧的豺狼面目可怖,极其凶恶,开始嚎叫。
9.57.13
निर्घाताश्च महाघोरा बभूवू रोमहर्षणाः ।
दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवादिनः ॥ ९.५७.१३ ॥
王中之王啊,在燃烧的方位,霹雳轰鸣,令人毛骨悚然;鹿发出不祥的叫声。
9.57.14
उदपानगताश्चापो व्यवर्धन्त समन्ततः ।
अशरीरा महानादाः श्रूयन्ते स्म भयानकाः ॥ ९.५७.१४ ॥
流入井中的水四面涨起,人们听到无形的、骇人的巨大声响。
9.57.15
एवमादीनि दृष्ट्वा स निमित्तानि वृकोदरः ।
उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्ठिरम् ॥ ९.५७.१५ ॥
看到这些及类似的征兆后,狼腹(毗摩)对他的长兄、法王坚战说道。
9.57.16
एष शक्यो मया जेतुं मन्दात्मा च सुयोधनः ॥ ९.५७.१६ ॥
这个愚钝的苏陀那,我能够战胜。
9.57.17
अद्य क्रोधं विमोक्ष्यामि निगूढं हृदयेशयम् ।
सुयोधने कौरवेन्द्रे खाण्डवेऽग्निमिवार्जुनः ॥ ९.५७.१७ ॥
今日我要将深藏心底的怒火倾泻在俱卢之主苏陀那身上,如阿周那在Khāṇḍava林中放出烈火一般。
9.57.18
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् ।
निहत्य गदया पापमिमं कुरुकुलान्तकम् ॥ ९.५७.१८ ॥
啊,般度之子,今日我要拔出你心中的刺,以铁棒击杀这个罪人,这个灭绝俱卢族的人。
9.57.19
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि ।
हत्वेमं पापकर्माणं गदया रणमूर्धनि ॥ ९.५७.१९ ॥
今日我将为你戴上荣耀的花环,以铁杵在战阵之前击杀此恶人。
9.57.20
अद्योरुगदया राजन्भेत्ताऽस्मि समरेऽनया ।
नायं प्रवेष्टा नगरं पुनर्वारणसाह्वयम् ॥ ९.५७.२० ॥
大王,今日我以此股间铁杵在战中击碎他;他将不再进入名为伐那婆多的城市。
9.57.21
सर्पोत्सर्गस्य शयने विषदानस्य भोजने ।
प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि ॥ ९.५७.२१ ॥
在床上放出毒蛇,在食物中下毒,将人推入深渊,以及在蜡房中焚烧。
9.57.22
सभायामवहासस्य सर्वस्वहरणस्य च ।
वर्षमज्ञातवासस्य वनवासस्य चानघ ॥ ९.५७.२२ ॥
为了在议会上的羞辱、夺去一切财产、一年的隐匿生活和林中流放,无罪者啊。
9.57.23
अद्यान्तमेषां दुःखानां गन्ताऽहं भरतर्षभ ।
एकाह्ना विनिहत्येमं भविष्याम्यात्मनोऽनृणः ॥ ९.५७.२३ ॥
婆罗多族的雄牛啊,今日我将走到这些苦难的尽头;一日之内将他杀死,我便可还清自己的债务。
9.57.24
अद्यायुर्धार्तराष्ट्रस्य दुर्मतेरकृतात्मनः ।
समाप्तं भरतश्रेष्ठ मातापित्रोश्च दर्शनम् ॥ ९.५७.२४ ॥
婆罗多族中最优秀的人啊,今日心术不正、未经修炼的持国之子寿命已尽,父母与他相见之日也就此终结。
9.57.25
अद्य सौख्यं तु राजेन्द्र कुरुराजस्य दुर्मतेः ।
समाप्तं च महाराज नारीणां दर्शनं पुनः ॥ ९.५७.२५ ॥
王中之王啊,今日恶念的库鲁王之乐已尽;大王啊,妇人的相见也再次终结了。
9.57.26
अद्यायं कुरुराजस्य शन्तनोः कुलपांसनः ।
प्राणाञ्श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले ॥ ९.५७.२६ ॥
今日这位玷污山耽奴家族的库鲁王,舍弃生命、荣耀与王国,将躺卧在大地上。
9.57.27
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं निपातितम् ।
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ॥ ९.५७.२७ ॥
今日,国王持国听闻其子被击倒,必将想起那由沙恭尼之谋而生的不祥之行。
9.57.28
इत्युक्त्वा राजशार्दूल गदामादाय वीर्यवान् ।
अभ्यतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ॥ ९.५७.२८ ॥
王中猛虎啊,他如此说罢,持起铁杵,勇猛地起身应战,如同因陀罗挑战弗栗多。
9.57.29
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् ।
भीमसेनः पुनः क्रुद्धो दुर्योधनमुवाच ह ॥ ९.५७.२९ ॥
看见他高举铁杵,如同有峰峦的凯拉萨山,怖军再次愤怒,对难敌说道。
9.57.30
राज्ञश्च धृतराष्ट्रस्य तथा त्वमपि चात्मनः ।
स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते ॥ ९.५७.३० ॥
你要记起在婆罗那伐多,国王持国和你自己所作的那恶行。
9.57.31
द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला ।
द्यूते च वञ्चितो राजा यत्त्वया सौबलेन च ॥ ९.५७.३१ ॥
在大会众中,月经中的德罗波蒂遭受折磨;国王在赌博中被欺骗——这是你和沙库尼所为。
9.57.32
वने दुःखं च यत्प्राप्तमस्माभिस्त्वत्कृतं महत् ।
विराटनगरे चैव योन्यन्तरगतैरिव।
तत्सर्वं पातयाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मते ॥ ९.५७.३२ ॥
我们在森林中所遭受的巨大苦难,皆由你所造成,在毗罗吒城也是如此,仿佛隐身于他种形态之中——今日我要将这一切一并摧毁。幸运的是,我看见了你,恶念之人。
9.57.33
त्वत्कृतेऽसौ हतः शेते शरतल्पे पितामहः ।
गाङ्गेयो रथिनां श्रेष्ठो रथिना याज्ञसेनिना ॥ ९.५७.३३ ॥
因你之故,他被击倒,躺卧在箭床之上——祖父,恒河之子,车战者中的最优者,被车战者、Yājñasenī之子所杀。
9.57.34
हतो द्रोणश्च कर्णश्च तथा शल्यः प्रतापवान् ।
वैराग्नेरादिकर्तासौ शकुनिः सौबलो हतः ॥ ९.५७.३४ ॥
德罗纳被杀,迦尔纳被杀,威猛的沙利耶也被杀;点燃仇恨之火的始作俑者——苏巴拉之子沙古尼也被杀。
9.57.35
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः ।
भ्रातरस्ते हताः सर्वे शूरा विक्रान्तयोधिनः ॥ ९.५७.३५ ॥
causing Draupadī pain的邪恶之人Prātikāmin被杀;你所有的兄弟,英雄与勇猛的武士,全都被杀。
9.57.36
एते चान्ये च बहवो निहतास्त्वत्कृते नृपाः ।
त्वामद्य निहनिष्यामि गदया नात्र संशयः ॥ ९.५७.३६ ॥
这些人以及许多其他国王,都因你而被杀;今日我将以铁锤击杀你——此事毫无疑问。
9.57.37
इत्येवमुच्चै राजानं भाषमाणं वृकोदरम् ।
उवाच गतभी राजन्पुत्रस्ते सत्यविक्रमः ॥ ९.५७.३७ ॥
当时大声说话的狼腹(Vṛkodara)听后,你那位勇武真实、无所畏惧的儿子对他说道:大王啊。
9.57.38
किं कत्थनेन बहुना युध्यस्वेह वृकोदर ।
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां कुलाधम ॥ ९.५७.३८ ॥
说这么多大话有什么用?狼腹啊,就在这里战斗吧。今天我要摧毁你的战斗之心,家族中最卑劣的人。
9.57.39
इति दुर्यार्धेनोऽक्षुद्रस्त्वया क्षुद्रबलेन वै ।
शक्यस्रासयितुं वाचा न चान्यः प्राकृतो यथा ॥ ९.५७.३९ ॥
像你这样力量弱小的人,无法单凭言语吓倒那位伟大之人,他与普通人不同。
9.57.40
चिरकालेप्सितं दिष्ट्या हृदयस्थमिदं मम ।
त्वया सह गदायुद्धं त्रिदशैरुपपादितम् ॥ ९.५७.४० ॥
我心中渴望已久的这件事,与你进行一场棍棒之战,幸得诸神安排。
9.57.41
किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते ।
वाणी सङ्कोच्यतामेषा कर्मणा मा चिरं कृथाः ॥ ९.५७.४१ ॥
说这么多、夸口有什么用,恶意之人?收住你的言语,以行动回应,不要久久拖延。
9.57.42
तस्य तद्वचनं श्रुत्वा सर्व एवाभ्यपूजयन् ।
राजानः सोमकाश्चैव ये तत्रासन्समागताः ॥ ९.५७.४२ ॥
众王和聚集在那里的索摩卡人听了他的话,都对他表示赞扬。
9.57.43
ततः सम्पूजितः सर्वैः सम्प्रहृष्टतनूरुहः ।
भूयो धीरां मतिं चक्रे युद्धाय कुरुनन्दनः ॥ ९.५७.४३ ॥
于是,受到众人敬重,喜悦得毛发竖立的库卢之喜,再次坚定了投入战斗的决心。
9.57.44
तं मत्तमिव मातङ्गं तलशब्दैर्नराधिपाः ।
भूयः संहर्षयांचक्रुर्दुर्योधनममर्षणम् ॥ ९.५७.४४ ॥
诸王以拍掌之声再次激励那如发狂大象般不能忍受侮辱的难敌。
9.57.45
तं महात्मा महात्मानं गदामुद्यम्य पाण्डवः ।
अभिदुद्राव वेगेन धार्तराष्ट्रं वृकोदरः ॥ ९.५७.४५ ॥
般度之子狼腹高举铁杵,疾速冲向那位大度的持国之子。
9.57.46
बृंहन्ति कुञ्चरास्तत्र हया हेषन्ति चासकृत् ।
शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जयैषिणां ॥ ९.५७.४६ ॥
那里象群嘶吼,马匹屡屡嘶鸣,渴求胜利的般度之子们的兵器也闪耀起来。