摩诃婆罗多 · 章 9.58
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.58.1
ततो दुर्योधनो दृष्ट्वा भीमसेनं तथाऽऽगतम् ।
प्रत्युद्ययावदीनात्मा वेगेन महता नदन् ॥ ९.५८.१ ॥
杜尔约达那见怖军如此而来,心无畏惧,怒吼着以极大的速度迎上前去。
9.58.2
समापेततुरन्योन्यं शृङ्गिणौ वृषभाविव ।
महानिर्घातघोषश्च प्रहाराणामजायत ॥ ९.५८.२ ॥
二人如两头有角的公牛相互撞击,击打之声如同巨大的霹雳轰鸣。
9.58.3
अभवच्च तयोर्युद्वं तुमुलं रोमहर्षणम् ।
जिघृक्षतोर्यथाऽन्योन्यमिन्द्रप्रह्लादयोरिव ॥ ९.५८.३ ॥
二人之间展开了一场喧嚣而令人毛骨悚然的战斗,如同因陀罗与钵罗诃罗陀彼此想要擒住对方时的争斗。
9.58.4
रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ ।
ददृशाते महात्मानौ पुष्पिताविव किंशुकौ ॥ ९.५८.४ ॥
二位心志高尚的大德,浑身沾满鲜血,手持金刚杵,看起来如同两棵盛开的紫荆树。
9.58.5
तथा तस्मिन्महायुद्धे वर्तमाने सुदारुणे ।
खद्योतसङ्खैरिव खं दर्शनीयं व्यरोचत ॥ ९.५८.५ ॥
这场极为可怖的大战进行之时,天空因萤火虫群而闪耀,美丽可观。
9.58.6
तथा तस्मिन्वर्तमाने सङ्कुले तुमुले भृशम् ।
उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ ॥ ९.५८.६ ॥
在这场喧嚣拥挤的激战中,两位降伏敌人的勇士都因苦战而精疲力竭。
9.58.7
तौ मुहूर्तं समाश्वस्य पुनरेव परन्तपौ ।
सम्प्रहारयतां चित्रे सम्प्रगृह्य गदे शुभे ॥ ९.५८.७ ॥
二人稍作喘息后,这两位焚敌者又紧握两根华美的铁棒,以种种花样彼此击打。
9.58.8
तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ ।
बलिनौ वारणौ यद्वद्वासितार्थे मदोत्कटौ ॥ ९.५८.८ ॥
见此二位大勇的人中雄牛已经歇息并重新振作,他们就像两头因追求母象而发狂的强大象。
9.58.9
समानवीर्यौ सम्प्रेक्ष्य प्रगृहीतगदावुभौ ।
प्रहर्षं परमं जग्मुर्देवगन्धर्वदानवाः ॥ ९.५८.९ ॥
见二人勇力相当,各执铁棒而立,诸天、乾闼婆与檀那婆皆生无上欢喜。
9.58.10
प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ ।
संशयः सर्वभूतानां विजये समपद्यत ॥ ९.५८.१० ॥
见持铁棒的难敌与狼腹,一切众生对胜负生起疑虑。
9.58.11
समागम्य ततो भूयो भ्रातरौ बलिनां वरौ ।
अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति ॥ ९.५८.११ ॥
此后,这两位勇士中的最优者重新相遇,彼此寻找破绽,朝着可乘之机移动。
9.58.12
यमदण्डोपमां गुर्वीमिन्द्राशनिमिवोद्यताम् ।
ददृशुः प्रेक्षका राजन्रौद्रीं विशसनीं गदाम् ॥ ९.५८.१२ ॥
大王啊!观者们看见那铁棒沉重如阎摩之杖,高举如因陀罗之雷霆,可怖而毁灭。
9.58.13
आविद्ध्यतो गतां तस्य भीमसेनस्य संयुगे ।
शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत ॥ ९.५८.१३ ॥
当毗摩森那在战斗中挥动并投出铁杵时,一阵可怕而喧嚣的声音在一瞬间响起。
9.58.14
आविद्ध्यन्तमरिं प्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम् ।
गदामतुलवेगां तां विस्मितः सम्बभूव ह ॥ ९.५८.१४ ॥
看见敌人般敦跋,挥舞着那无比迅疾的铁杵,持国之子感到惊异。
9.58.15
चरंश्च विविधान्मार्गान्मण्डलानि च भारत ।
अशोभत तदा वीरो भूय एव वृकोदरः ॥ ९.५८.१५ ॥
婆罗多啊,他在各种路径与圆圈中回旋,那时英雄狼腹又显得光彩夺目。
9.58.16
तौ परस्परमासाद्य यत्तावन्योन्यसूदने ।
मार्जाराविव भक्षार्थे ततक्षाते मुहुर्मुहुः ॥ ९.५८.१६ ॥
两人都急于杀死对方,靠近之后一次又一次地相互击打,就像两只为食物争斗的猫。
9.58.17
अचरद्भीमसेनस्तु मार्गान्बहुविधांस्तथा ।
मण्डलानि विचित्राणि गतप्रत्यागतानि च ॥ ९.५८.१७ ॥
毗摩森那也沿着多种路径行进,在奇妙的圆圈中往返回旋。
9.58.18
गोमूत्रिकाणि चित्राणि स्थानानि विविधानि च ।
परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ॥ ९.५८.१८ ॥
如牛尿般曲折的奇妙路径,各种奇妙的姿态,躲避打击、回避与四处奔跑。
9.58.19
अभिद्रवणमाक्षेपमवस्थानं सविग्रहम् ।
मत्स्योद्वृत्तं सोरुवृत्तमवप्लुतमुपप्लुतम् ॥ ९.५८.१९ ॥
冲击、挥舞、坚守不退、近身搏斗、如鱼般跳跃回旋、绕腿旋转、向下跃起、向上跃起。
9.58.20
उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ ।
एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम् ॥ ९.५८.२० ॥
前冲出击,收回攻击——二人都精通棍棒之战。如此旋转往来,二人互相击打。
9.58.21
वञ्चयानौ पुनश्चैव चेरतुः कुरुसत्तमौ ।
विक्रीडन्तौ सुबलिनौ मण्डलानि विचेरतुः ॥ ९.५८.२१ ॥
二位库鲁之最再次佯攻移动。两位大力者如游戏般绕圈而行。
9.58.22
तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः ।
गदाभ्यां सहसाऽन्योन्यमाजघ्नतुररिन्दमौ ॥ ९.५८.२२ ॥
二位降伏敌人者在战场上四面展示战争的技艺,忽然以铁棍相互击打。
9.58.23
परस्परं समासाद्य दंष्ट्राभ्यां द्विरदौ यथा ।
अशोभेतां महाराज शोणितेन परिप्लुतौ ॥ ९.५८.२३ ॥
如两头大象以象牙相遇而闪耀,大王啊,二人浑身沾满鲜血,同样闪耀。
9.58.24
एवं तदभवद्युद्धं घोररूपं परन्तप ।
परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव ॥ ९.५८.२४ ॥
敌人的烧灼者啊,如此,这场战斗呈现出可怖的形态,犹如日暮时分弗栗多与婆娑婆(因陀罗)之间的残酷之战。
9.58.25
गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली ।
दक्षिणं मण्डलं राजन्धार्तराष्ट्रोऽभ्यवर्तत।
सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत ॥ ९.५८.२५ ॥
那时两位勇士手持铁杵,立于环形之中。大王啊,持国之子向右环绕,而怖军在那里向左环绕。
9.58.26
तथा तु चरतस्तस्य भीमस्य रणमूर्धनि ।
दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत् ॥ ९.५८.२६ ॥
大王啊,当怖军这样在战场前列回旋时,难敌在他的侧面击打了他。
9.58.27
आहतस्तु ततो भीमः पुत्रेण तव भारत ।
आविध्यत गदां गुवीं प्रहारं तमचिन्तयन् ॥ ९.५८.२७ ॥
婆罗多的后裔啊,怖军被你的儿子击中,却不把那一击放在心上,挥动沉重的铁杵掷了出去。
9.58.28
इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम् ।
ददृशुस्ते महाराज भीमसेनस्य तां गदाम् ॥ ९.५८.२८ ॥
大王啊,他们看见了怖军的那根铁杵,它像因陀罗的金刚杵,又像高举的阎摩之杖,令人恐怖。
9.58.29
आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः ।
समुद्यम्य गदां घोरां प्रत्यविध्यत्परन्तपः ॥ ९.५८.२९ ॥
你的儿子,焚烧敌人的人,看见怖军掷出铁杵,便举起自己可怕的铁杵,还击掷去。
9.58.30
गदामारुतवेगेन तव पुत्रस्य भारत ।
शब्द आसीत्सुतुमुलस्तेजश्च समजायत ॥ ९.५८.३० ॥
婆罗多的后裔啊,因你儿子铁杵的风力,爆发出巨大的轰鸣,同时也迸发出光焰。
9.58.31
स चरन्विविधान्मार्गान्मण्डलानि च भागशः ।
समशोभत तेजस्वी भूयो भीमात्सुयोधनः ॥ ९.५८.३१ ॥
这位光辉的苏耶陀那在各种路径与圆圈中轮流奔走,在毗摩面前再次显得光彩照人。
9.58.32
आविद्धा सर्ववेगेन भीमेन महती गदा ।
सधूमं सार्चिषं चाग्निं मुमोचोग्रमहास्वना ॥ ९.५८.३२ ॥
毗摩以全力掷出的巨大钵罗,喷吐着烟雾与火焰之光,伴随着可怕的巨响飞出。
9.58.33
आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः ।
अद्रिसारमयीं गुर्वीमाविध्यन्बह्वशोभत ॥ ९.५८.३३ ॥
苏耶陀那看见毗摩森那挥舞的、以岩石精华所制的沉重钵罗,自己也挥舞起来,显得格外光彩。
9.58.34
गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः ।
भयं विवेश पाण्डूंस्तु सर्वानेव ससात्यकीन् ॥ ९.५८.३४ ॥
看见那位大灵者的钵罗如风般的迅猛,恐惧便侵入了所有般度子孙,连同萨谛奇也不例外。
9.58.35
तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः ।
गदाभ्यां सहसाऽन्योन्यमाजघ्नतुररिन्दमौ ॥ ९.५८.३५ ॥
那两位制敌者在战场上四面展示战斗的游戏,忽然用钵罗互相击打。
9.58.36
तौ परस्परमासाद्य दंष्ट्राभ्यां द्विरदौ यथा ।
अशोभेतां महाराज शोणितेन परिप्लुतौ ॥ ९.५८.३६ ॥
大王啊!如同两头象以牙相撞,浸满鲜血而闪耀,那二人相遇之后,也浸满鲜血而光彩夺目。
9.58.37
एवं तदभवद्युद्धं घोररूपमसंवृतम् ।
परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव ॥ ९.५८.३७ ॥
如此,那场战斗变得可怕而失去控制,像日暮时毗形与婆薮之间的残酷战斗一样。
9.58.38
दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः ।
चरंश्चित्रतरान्मा र्गान्कौन्तेयमभिदुद्रुवे ॥ ९.५८.३८ ॥
看见坚定矗立的毗摩,你那威力强大的儿子以种种奇特的路线奔驰,向贡蒂之子冲去。
9.58.39
तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम् ।
अतिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम् ॥ ९.५८.३९ ॥
毗摩愤怒地击打那柄速度极快、饰以金饰的铁杵,那是极为愤怒者的武器。
9.58.40
सविस्फुलिङ्गो निर्हादस्तयोस्तत्राभिघातजः ।
प्रादुरासीन्महाराज घृष्टयोर्वज्रयोरिव ॥ ९.५८.४० ॥
大王啊,二人的撞击在那里发出夹杂火花的可怕巨响,仿佛两道雷电互相摩擦。
9.58.41
वेगवत्या तया तत्र भीमसेनप्रमुक्तया ।
निपतन्त्या महाराज पृथिवी समकम्पत ॥ ९.५८.४१ ॥
大王啊,毗摩寻那所投掷的那柄迅猛铁杵落下时,整个大地都为之震动。
9.58.42
तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे ।
मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात् ॥ ९.५८.४२ ॥
在战斗中见那铁杵被击回,考罗婆(难敌)不能忍受;如同狂象见到敌象而愤怒。
9.58.43
स सव्यं मण्डलं राजा उद्धाम्य कृतनिश्चयः ।
आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया ॥ ९.५८.४३ ॥
国王下定决心,将铁棍向左挥起,以可怕的速度击中了贡蒂之子的头部。
9.58.44
तया त्वभिहतो भीमः पुत्रेण तव पाण्डवः ।
नाकम्पत महाराज तदद्भुतमिवाभवत् ॥ ९.५८.४४ ॥
大王啊,尽管被你儿子的那一击击中,般度之子婆罗多(Bhīma)却丝毫未动,这真如同奇迹一般。
9.58.45
आश्चर्यं चापि तद्राजन्सर्वसैन्यान्यपूजयन् ।
यद्गदाभिहतो भीमो नाकम्पत पदात्पदम् ॥ ९.५८.४५ ॥
大王啊,所有军队都对那奇迹赞叹不已:婆罗多被铁棍击中,却连一步也未从原地移动。
9.58.46
ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम् ।
दुर्योधनाय व्यसृजद्भीमो भीमपराक्रमः ॥ ९.५८.४६ ॥
于是,勇猛无比的婆罗多向难敌投出了他那沉重、光芒闪耀、镶嵌黄金的铁棍。
9.58.47
तं प्रहारमसम्भ्रान्तो लाघवेन महाबलः ।
मोघं दुर्योधनश्चक्रे तत्राभूद्विस्मयो महान् ॥ ९.५८.४७ ॥
难敌毫不慌乱,凭借敏捷的身手使那一击落空,众人无不大为惊叹。
9.58.48
सा तु मोघा गदा राजन्पतन्ती भीमचोदिता ।
चालयामास पृथिवीं महानिर्घातनिःस्वनाः ॥ ९.५८.४८ ॥
大王啊,婆罗多投出的那根落空的铁棍,在落下时以巨大的轰鸣撼动了大地。
9.58.49
आस्थाय कौशिकान्मार्गानुत्पतन्स पुनः पुनः ।
गदानिपातं प्रज्ञाय भीमसेनं च वञ्चितम् ॥ ९.५८.४९ ॥
他循着回旋之路,一次次跃起,察觉到铁杵的打击,欺骗了比摩娑那。
9.58.50
वञ्चयित्वा तदा भीमं गदया कुरुसत्तमः ।
ताडयामास सङ्क्रुद्धो वक्षोदेशे महाबलः ॥ ९.५८.५० ॥
于是,欺骗了比摩之后,俱卢最优秀的大力者愤怒地用铁杵击打他的胸膛。
9.58.51
गदया निहतो भीमो मुह्यमानो महारणे ।
नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस्तव ॥ ९.५८.५१ ॥
比摩被铁杵击倒,在大战中昏乱;受你儿子的打击,他不知所措,想不出该做什么。
9.58.52
तस्मिंस्तथा वर्तमाने राजन्सोमकपाण्डवाः ।
भृशोपहतसङ्कल्पा नहृष्टमनसोऽभवन् ॥ ९.५८.५२ ॥
王啊,当此事发生时,索摩迦人与般度之子们,决心受到重创,心中已不再欢喜。
9.58.53
स तु तेन प्रहारेण मातङ्ग इव रोषितः ।
हस्तिवद्वस्तिसंकाशमभिदुद्राव ते सुतम् ॥ ९.५८.५३ ॥
然而他被那一击激怒,如象一般,向你的儿子冲去,如象扑向皮球。
9.58.54
ततस्तु तरसा भीमो गदया तनयं तव ।
अभिदुद्राव वेगेन सिंहो वनगजं यथा ॥ ९.५८.५४ ॥
于是比摩手持铁杵,迅猛地向你的儿子冲去,如狮子扑向林中的象。
9.58.55
उपसृत्य तु राजानं गदामोक्षविशारदः ।
आविध्यत गदां राजन्समुद्दिश्य सुतं तव ॥ ९.५८.५५ ॥
擅长投掷钵的他走近国王,哦,国王,他瞄准你的儿子,挥舞起了他的钵。
9.58.56
अताडयद्भीमसेनः पार्श्वे दुर्योधनं तदा ।
स विह्वलः प्रहारेण जानुभ्यामगमन्महीम् ॥ ९.५८.५६ ॥
那时,毗摩仙那击中了难敌的侧身;他被这一击打得眩晕,双膝跪倒在地。
9.58.57
तस्मिन्कुरुकुलश्रेष्ठे जानुभ्यामवनीं गते ।
उदतिष्ठत्ततो नादः सृञ्जयानां जगत्पते ॥ ९.५८.५७ ॥
当那位库鲁族之最跪倒在地时,哦,世界之主,斯林伽耶人中爆发出了喧嚣。
9.58.58
तेषां तु निनदं श्रुत्वा शृञ्जयानां नरर्षभः ।
अमर्षाद्भरतश्रेष्ठ पुत्रस्ते समकुप्यत ॥ ९.५८.५८ ॥
听到斯林伽耶人的喧嚣,哦,婆罗多之最,你的儿子——人中之牛——因愤怒而怒不可遏。
9.58.59
उत्थाय तु महाबाहुर्महानाग इव श्वसन् ।
दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत ॥ ९.५८.५९ ॥
那位大臂者站起身来,像大蛇一样嘶嘶作响,仿佛要用双目焚烧一般,望向毗摩仙那。
9.58.60
ततः स भरतश्रेष्ठो गदापाणिरभिद्रवन् ।
प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे ॥ ९.५८.६० ॥
那时,婆罗多之最手持钵杵冲了上去,仿佛要在战斗中粉碎毗摩仙那的头颅。
9.58.61
स महात्मा महात्मानं भीमं भीमपराक्रमः ।
अताडयच्छङ्खदेशे न चचालाचलोपमः ॥ ९.५८.६१ ॥
那位具有可怕勇力的大德者击中了大德的毗摩于太阳穴,然而毗摩如山岳般不动。
9.58.62
स भूयः शुशुभे पार्थस्ताडितो गदया रणे ।
उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्चरः ॥ ९.५८.६२ ॥
大王啊,在战斗中被铁棒击中的普利塔之子更加光彩照人,鲜血涌出,如同发情的大象。
9.58.63
ततो गदां वीरहणीमयोमयीं ।
प्रगृह्य वज्राशनितुल्यनिःस्वनाम्।
अताडयच्छत्रुममित्रकर्शनो ।
बलेन विक्रम्य धनञ्जयाग्रजः ॥ ९.५८.६३ ॥
于是,毗摩——敌人的摧毁者,持明的长兄——手持能杀伤英雄、声如雷电的铁制铁棒,奋力向前,击打了敌人。
9.58.64
स भीमसेनाभिहतस्तवात्मजः ।
पपात सङ्कम्पितदेहबन्धनः।
सुपुष्पितो मारुतवेगताडितो ।
वने महासाल इवावघूर्णितः ॥ ९.५८.६४ ॥
被毗摩塞那击中的您的儿子倒下了,身体的筋骨颤抖,如同森林中盛开的大娑罗树被狂风吹倒。
9.58.65
ततः प्रणेदुर्जहृषुश्च पाण्डवाः ।
समीक्ष्य पुत्रं पतितं क्षितौ तव।
ततः सुतस्ते प्रतिलभ्य चेतनां ।
समुत्पपात द्विरदो यथा हदात् ॥ ९.५८.६५ ॥
那时,般度之子们欢呼雀跃,看到您的儿子倒在地上。随后您的儿子恢复知觉,站起身来,如同大象从湖中升起。
9.58.66
स पार्थिवो नित्यममर्षितस्तदा ।
महारथः शिक्षितवत्परिभ्रमन्।
अताडयत्पाण्डवमग्रतः स्थितं ।
स विह्वलाङ्गो जगतीमुपास्पृशत् ॥ ९.५८.६६ ॥
那位国王始终无法忍耐,此时如受过训练的战士一般盘旋,这位大车战士击打了站在面前的般度之子。随后他肢体虚弱,手触大地。
9.58.67
स सिंहनादं विननाद कौरवो ।
निपात्य भूमौ युधि भीममोजसा।
बिभेद चैवाशनितुल्यमोजसा ।
गदानिपातेन शरीररक्षणम् ॥ ९.५८.६७ ॥
那位俱卢人发出如狮的吼声;在战斗中,他用力将毗摩击倒在地,以如雷霆般的力量刺向他,并以铁杵的打击保护自己的身体。
9.58.68
ततोऽन्तरिक्षे निनदो महानभू… ।
द्दिवौकसामप्सरसां च नेदुषाम्।
पपात चोच्चैरमरप्रवेरितं ।
विचित्रपुष्पोत्करवर्षमुत्तमम् ॥ ९.५८.६८ ॥
于是天空中响起巨大的声音……天上的居民与阿普萨拉斯齐声喊叫;由不死者降下的、色彩斑斓的上好花雨纷纷高声坠落。
9.58.69
ततः परानाविशदुत्तमं भयं ।
समीक्ष्य भूमौ पतितं नरोत्तमम्।
अहीयमानं च बलेन कौरवं ।
निशाम्य भेदं सुदृढस्य वर्मणः ॥ ९.५८.६९ ॥
于是敌人内心生起极大的恐惧:他们看到最优秀的人倒在地上,俱卢人力量减弱,又看到那坚固无比的铠甲已被击破。
9.58.70
ततो मुहूर्तादुपलभ्य चेतनां ।
प्रमृज्य वक्त्रं रुधिराक्तमात्मनः।
धृतिं समालम्ब्य विवृत्य लोचने ।
बलेन संस्तभ्य वृकोदरः स्थितः ॥ ९.५८.७० ॥
片刻之后,他恢复了意识,擦去满脸的血迹,振作勇气,睁大双眼,以力量稳住自己,狼腹(毗摩)便站了起来。
9.58.71
ततो यमौ यमसदृशौ पराक्रमे ।
सपार्षतः शिनितनयश्च वीर्यवान्।
समाह्वयन्नहमहमित्यभित्वरं… ।
स्तवात्मजं समभिययुर्वधैषिणः ॥ ९.५८.७१ ॥
于是与阎摩同样勇猛的双生子,连同般遮罗之子与希尼之子那位勇武的英雄,争先恐后地大喊“我先上!我先上!”,急速冲向你的儿子,欲置其于死地。
9.58.72
निवर्त्य तान्पुनरपि पाण्डवो बली ।
तवात्मजं स्वयमभिगम्य कालवत्।
चचार चाप्यपगतखेदवेपथुः ।
सुरेश्वरो नमुचिमिवोत्तमं रणे ॥ ९.५८.७२ ॥
强大的般度之子再次将他们击退,自己走向你的儿子,如死神般游走,没有疲惫,也没有颤抖,就像众神之王在战场上面对最强的那摩质。